भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.99

12.99.1

विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून् मिमीते
यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।
योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां
तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥

12.99.2

आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेर्-
भक्तात्मा विष्णवे यः प्रादिशति हविरादीनि यज्ञार्चनादौ ।
कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत् सोऽयमेव
प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमन्ते पदं तत् ॥

12.99.3

हे स्तोतारः! कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव
व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः ।
जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं
हे विष्णो! कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥

12.99.4

विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद्
यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत् क्षेमकारी ।
वीक्षन्ते योगसिद्धाः परपदमनिशं पस्य सम्यक्प्रकाशं
विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥

12.99.5

नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं
देव! श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो! ।
तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या-
प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥

12.99.6

आपः सृष्ट्यादिजन्याः प्रथममयि विभो! गर्भदेशे दधुस्त्वां
यत्र त्वय्येव जीवा जलशयन! हरे! सङ्गता एक्यमापन् ।
तस्याजस्य प्रभो! ते विनिहितमभवत् पद्ममेकं हि नाभौ
दिक्पत्रं यत् किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥

12.99.7

हे लोका विष्णुरेतद् भवनमजनयत् तन्न जानीथ यूयं
युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् ।
नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः
प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥

12.99.8

मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं
तत् प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽपि ।
भूतं भव्यं च सर्वं परपुरुष! भवान् किञ्च देहेन्द्रियादि-
ष्वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥

12.99.9

यत् तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध-
ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् ।
स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं
भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥

12.99.10

अव्यक्तं ते स्वरूपं दुरधिगमतमं तत् तु शुद्धैकसत्त्वं
व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् ।
सर्वोत्कृष्टामभीष्टां तदिह गुणरमेनैव चित्तं हरन्तीं
मूर्तिं ते संश्रयेऽहं पवनपुरपते! पाहि मां कृष्ण! रोगात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc