भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 11.97

11.97.1

त्रैगुण्याद् भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य-
ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।
त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं
प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥

11.97.2

त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं
त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुंण्यदेशान् ।
दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान-
स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥

11.97.3

त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् ।
त्वद्धर्मस्यास्य तावत् किमपि न भगवन्! प्रस्तुतस्य प्रणाश-
स्तस्मात् सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्गं मनोझम् ॥

11.97.4

तं चैनं भक्तियोगं द्रढयितुमयि! मे साध्यमारोग्यमायुर्-
दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् ।
मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः
सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc