भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.74

10.74.1

सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस-
न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।
प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-
स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥

10.74.2

त्वत्पादद्दुतिवत् सरागसुभगास्त्वन्मूर्तिवद् योषितः
सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् ।
हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव-
न्नैर्मल्योल्लसिताः कचौघरुचिवद् राजत्कलापाश्रिताः ॥

10.74.3

तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत-
व्यालोलेषु जनेषु तत्र रजकं कञ्चित् पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥

10.74.4

भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् ।
मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो
भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते! ॥

10.74.5

कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया
दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि ।
चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं
गृह्णन् मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥

10.74.6

तावन्निश्चितवैभवास्तव विभो! नात्यन्तपापा जना
यत्किञ्चिद् ददते स्म शक्त्यनुगुणं ताम्बुलमाल्यादिकम् ।
गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिर्-
नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो! ॥

10.74.7

एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया
दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।
आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी-
वक्षोजप्रगलत्पयोरसमिषात् त्वत्कीर्तिरन्तर्गता ॥

10.74.8

आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्
माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात् पुरः
प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥

10.74.9

श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम-
श्चापध्वंसमहाध्वनिस्तव विभो! देवानरोमाञ्चयत् ।
कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी-
चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत् त्वया ॥

10.74.10

शिष्टैर्दुष्टजनैश्च दृष्टमिहिमा प्रीत्या च भीत्या ततः
संपश्यन् पुरसम्पदं प्रविवरन् सायं गतो वाटिकाम् ।
श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वप-
न्नानन्दन्नवतारकार्यघटनाद् वातेश! संरक्ष माम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc