भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.73

10.73.1

मिशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।
किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥

10.73.2

करुणानिधिरेषु नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।
बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥

10.73.3

चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥

10.73.4

अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।
अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥

10.73.5

सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥

10.73.6

अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् ।
वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥

10.73.7

मियमाय निमज्ज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः ।
विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥

10.73.8

पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुमङ्गभोगे ।
अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ॥

10.73.9

स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन् प्रकारभेदैः ।
अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥

10.73.10

किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन ।
अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश! पाहि मां त्वम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc