नारायणीय · अध्याय 10.57
रामसखः क्वापि दिने कामद! भगवन्! गतो भवान् विपिनम् ।
सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषु ॥
सन्दर्शयन् बलाय स्वैरं बृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥
तावत् तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥
जानन्नप्यविजानन्निव तेन समं निषद्धसौहार्दः ।
वटनिकटे पटुपशुपव्यानद्धं द्वन्द्वयुद्धमारब्धाः ॥
गोपान् विभज्य तन्वन् सङ्घं बलभद्रकं भवत्कमपि ।
त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन्! ॥
कल्पितविजेतृवहने समरे परौऊथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥
एवं बहुषु विभूमन्! बालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥
त्वद् दूरं गमयन्तं तं दृऋष्ट्वा हलिनि विहितगरिमभरे ।
दैत्यः स्वरूपमागाद् यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥
उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥
हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
तावन्मिलतोर्य्वयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥
आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् ।
कालं विहाय सद्यो लोलम्बरुचे! हरे! हरेः क्लेशान् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0