नारायणीय · अध्याय 10.56
रचिरकम्पितकुण्डलमण्डलः सुचिरमीश! ननर्तिथ पन्नगे ।
अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥
नमति यद्यदमुष्य शिरो हरे! परिविहाय तदुन्नतमुन्नतम् ।
परिमथन् पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥
त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।
फणिपताववसीदति सन्नतास्तदबलास्तव माधव! पादयोः ॥
अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः ।
मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश! भवन्तमयन्त्रितम् ॥
फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
फणिपतिर्भवताच्युत! जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥
रमणकं व्रजे चारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥
फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः ।
तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥
निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥
प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् ।
अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥
शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाप्यसौ ।
इति नुतः पशुपैर्मुदितैर्विभो! हर हरे! दुरितैः सह मे गदान् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0