नारायणीय · अध्याय 10.55
अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन्! ।
द्रुतमारिथ तीरगनीपतरुं विषमीरुतशोषितपर्णचयम् ॥
अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा ।
हदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥
भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला ।
परिमज्जयति स्म धनुःशतं तटिनी झटिति स्फुटघोषवती ॥
अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥
फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥
ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महान्भुजगः ।
परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥
अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥
अखिलेषु विभो! भवदीयदशामवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥
अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा ।
कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥
जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते! परिपाहि स मां त्वमदान्तगदात् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0