भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 21

21.1

अनुसर्गश् च सर्गश् च त्वया चित्रा कथेरिता
वंशमन्वन्तरे ब्रूहि वंशानुचरितं च मे ॥

21.2

राज्ञां वंशः पुराणेषु विस्तरेण प्रकीर्तितः
संक्षेपात् कथयिष्यामि वंशमन्वन्तराणि ते ॥

21.3

वंशानुचरितं चैव शृणु विप्र महामते
शृण्वन्तु मुनयश् चेमे श्रोतुम् आगत्य ये स्थिताः ॥

21.5

ःआदित्यान् मनुः ।
ःमनोर् इक्ष्वाकुः इक्ष्वाकोर् विकुक्षिः ।
ःविकुक्षेर् द्योतः द्योताद् वेनो वेनात् पृथुः पृथोः पृथाश्वः ॥

21.15

ःवस्त्रपाणेः शुद्धोदनः ।
ःशुद्धोदनाद् बुधः ।
ःबुधाद् आदित्यवंशो निवर्तते ॥

21.17

सूर्यस्य वंशः कथितो मया मुने समुद्गता यत्र नरेश्वराः पुरा
मयोच्यमानाञ् छशिनः समाहितः शृणुष्व वंशे ऽथ नृपान् अनुत्तमान् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc