नारदस्मृति · अध्याय v7
निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते ऽसमक्षं यद् विज्ञेयो ऽस्वामिविक्रयः ॥
द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् ।
प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् ॥
अस्वाम्यनुमताद् दासाद् असतश् च जनाद् रहः ।
हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥
न गूहेतागमं क्रेता शुद्धिस् तस्य तदागमात् ।
विपर्यये तुल्यदोषः स्तेयदण्डं च सो ऽर्हति ॥
विक्रेता स्वामिने ऽर्थं च क्रेतुर् मूल्यं च तत्कृतम् ।
दद्याद् दण्डं तथा राज्ञे विधिर् अस्वामिविक्रये ॥
परेण निहितं लब्ध्वा राजन्य् उपहरेन् निधिम् ।
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाद् ऋते ॥
ब्राह्मणो ऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् ।
तेन दत्तं च भूञ्जीत स्तेनः स्याद् अनिवेदयन् ॥
स्वम् अप्य् अर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् ।
गृह्णीयात् तत्र तं शुद्धम् अशुद्धं स्यात् ततो ऽन्यथा ॥
मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0