भाषा

ENहिગુ
ग्रंथ पाठ

नारदस्मृति · अध्याय v5

v5.01

अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥

v5.02

शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरस् तेषां दासास् त्रिपञ्चकाः ॥

v5.03

शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकराः प्रोक्ता दासास् तु गृहजादयः ॥

v5.04

सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः ।
जातिकर्मकृतस् तूक्तो विशेषो वृत्तिर् एव च ॥

v5.05

कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥

v5.06

गृहद्वाराशुचिस्थान रथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्ट विण्मूत्रग्रहणोज्झनम् ॥

v5.07

इष्टतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥

v5.08

आ विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् ।
तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥

v5.09

ब्रह्मचारी चरेद् भैक्षम् अधःशाय्य् अनलङ्कृतः ।
जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर् गृहे ॥

v5.10

नासंदिष्टः प्रतिष्ठेत तिष्ठेद् वापि गुरुं क्वचित् ।
संदिष्टः कर्म कुर्वीत शक्तश् चेद् अविचारयन् ॥

v5.11

यथाकालम् अधीयीत यावन् न विमना गुरुः ।
आसीनो ऽधो गुरोः कूर्चे फलके वा समाहितः ॥

v5.12

अनुशास्यश् च गुरुणा न चेद् अनुविधीयते ।
अवधेनाथवा हन्यात् रज्ज्वा वेणुदलेन वा ॥

v5.13

भृशं न ताडयेद् एनं नोत्तमाङ्गे न वक्षसि ।
अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः ॥

v5.14

समावृत्तश् च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात् स्वगृहान् एषा शिष्यवृत्तिर् उदाहृता ॥

v5.15

स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥

v5.16

आचार्यः शिक्षयेद् एनं स्वगृहाद् दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥

v5.17

शिक्षयन्तम् अदुष्टं च यस् त्व् आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽर्हति ॥

v5.18

शिक्षितो ऽपि कृतं कालम् अन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥

v5.19

गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तयेत् ॥

v5.20

भृतकस् त्रिविधो ज्ञेय उत्तमो मध्यमो ऽधमः ।
शक्तिभक्त्यनुरूपा स्याद् एषां कर्माश्रया भृतिः ॥

v5.21

उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाहः स्याद् इत्य् एवं त्रिविधो भृतः ॥

v5.22

अर्थेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि ।
सो ऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥

v5.23

शुभकर्मकरास् त्व् एते चत्वारः समुदाहृताः ।
जघन्यकर्मभाजस् तु शेषा दासास् त्रिपञ्चकाः ॥

v5.24

गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आधत्तः स्वामिना च यः ॥

v5.25

मोक्षितो महतश् चर्णात् प्राप्तो युद्धात् पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥

v5.26

भक्तदासश् च विज्ञेयस् तथैव वडवाभृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशा स्मृताः ॥

v5.27

तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।
प्रसादाद् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥

v5.28

यश् चैषां स्वामिनं कश्चिन् मोक्षयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥

v5.29

अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ।
संभक्षितं यद् दुर्भिक्षे न तच् छुध्येत कर्मणा ॥

v5.30

आधत्तो ऽपि धनं दत्त्वा स्वामी यद्य् एनम् उद्धरेत् ।
अथोपगमयेद् एनं स विक्रीताद् अनन्तरः ॥

v5.31

दत्त्वा तु सोदयम् ऋणं ऋणी दास्यात् प्रमुच्यते ।
कृतकालाभ्युपगमात् कृतको ऽपि विमुच्यते ॥

v5.32

तवाहम् इत्य् उपगतो युद्धप्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा ॥

v5.33

राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षो ऽस्ति न विशुद्धिः कथंचन ॥

v5.34

भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते ।
निग्रहाद् वडवायाश् च मुच्यते वडवाभृतः ॥

v5.35

विक्रीणीते य आत्मानं स्वतन्त्रः सन् नराधमः ।
स जघन्यतरस् तेषां नैव दास्यात् प्रमुच्यते ॥

v5.36

चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोक्षयितव्यास् ते दासत्वं तेषु नेष्यते ॥

v5.37

वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥

v5.38

तवाहम् इति चात्मानं यो ऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥

v5.39

अधनास् त्रय एवोक्ता भार्या दासस् तथा सुतः ।
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥

v5.40

स्वदासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।
स्कन्धाद् आदाय तस्यापि भिन्द्यात् कुम्भं सहाम्भसा ॥

v5.41

अक्षताभिः सपुष्पाभिर् मूर्धन्य् एनम् अवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तम् अथोत्सृजेत् ॥

v5.42

ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नः प्रतिगृह्यश् च भवत्य् अभिमतश् च सः ॥

मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc