भाषा

ENहिગુ
ग्रंथ पाठ

नामलिङ्गानुशासन · अध्याय 1.1

1.1.11

स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः

1.1.12

सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्
##देइतिएस् 26##

1.1.13

अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः

1.1.14

सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः

1.1.15

आदितेया दिविषदो लेखा अदितिनन्दनाः

1.1.16

आदित्या ऋभवो ऽस्वप्ना अमर्त्या अमृतान्धसः

1.1.17

बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः

1.1.18

वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्
##सोमे च्लन्स् ओf देइतिएस् ##

1.1.19

आदित्यविश्ववसवस्तुषिताभास्वरानिलाः

1.1.20

महाराजिकसाध्याश्च रुद्राश्च गणदेवताः
##सोमे देमिगोद्स् ##

1.1.21

विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः

1.1.22

पिशाचो गुह्यकः सिद्धो भूतो ऽमी देवयोनयः
##अन्तिगोद्स् ओर् तितन्स् 10##

1.1.23

असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः

1.1.24

शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः
##जिन ओर् बुद्ध 18##

1.1.25

सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः

1.1.26

समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः

1.1.27

षडभिज्ञो दशबलो ऽद्वयवादी विनायकः

1.1.28

मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः
##गौतम बुद्ध 7##

1.1.29

स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः

1.1.30

गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः
## ब्रह्म 29 ##

1.1.31

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः

1.1.32

हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः

1.1.33

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः

1.1.34

स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः

1.1.35

नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः

1.1.36

सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः
## विस्ह्नु 46 ##

1.1.37

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः

1.1.38

दामोदरो हृषीकेशः केशवो माधवः स्वभूः

1.1.39

दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः

1.1.40

पीताम्बरो ऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः

1.1.41

उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः

1.1.42

पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः

1.1.43

देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः

1.1.44

वनमाली बलिध्वंसी कंसारातिरधोक्षजः

1.1.45

विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः

1.1.46

पुराणपुरुषो यज्ञपुरुषो नरकान्तकः

1.1.47

जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः
## वसुदेव: क्रिस्ह्नऽस् fअथेर् 2 ##

1.1.48

वसुदेवो ऽस्य जनकः स एवानकदुन्दुभिः
## बलरम 17 ##

1.1.49

बलभद्रः प्रलम्बघ्नो बलदेवो ऽच्युताग्रजः

1.1.50

रेवतीरमणो रामः कामपालो हलायुधः

1.1.51

नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली

1.1.52

संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः
## कमदेव: एरोस् 19 ##

1.1.53

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः

1.1.54

कन्दर्पो दर्पको ऽनङ्गः कामः पञ्चशरः स्मरः

1.1.55

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः

1.1.56

पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः
## fइवे fलोरल् अर्रोwस् ओf कमदेव ##

1.1.57

अरविन्दमशोकं च चूतं च नवमल्लिका

1.1.58

नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः
## fइवे फ्य्सिचल् अर्रोwस् ओf कमदेव ##

1.1.59

उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा

1.1.60

संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः
## सोन् ओf कमदेव 4 ##

1.1.61

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः
## लxमि 14 ##

1.1.62

लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया

1.1.63

इन्दिरा लोकमाता मा क्षीरोदतनया रमा

1.1.64

भार्गवी लोकजननी क्षीरसागरकन्यका
## क्रिस्ह्नऽस् एqउइप्मेन्त्: चोन्छ्, दिस्चुस्, मचे, स्wओर्द्,जेwएल् ##

1.1.65

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः

1.1.66

कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः
## क्रिस्ह्नऽस् बोw, मर्क्, होर्सेस्(4) ##

1.1.67

चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्

1.1.68

अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः
## क्रिस्ह्नऽस् छरिओतेएर्, मिनिस्तेर्, योउन्गेर् ब्रोथेर् ##

1.1.69

सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः
## गरुद: क्रिस्ह्नऽस् वेहिच्ले 9 ##

1.1.70

गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः

1.1.71

नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः
## स्हिव 52 ##

1.1.72

शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः

1.1.73

ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः

1.1.74

भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः

1.1.75

मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः

1.1.76

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्

1.1.77

वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः

1.1.78

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः

1.1.79

हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः

1.1.80

गङ्गाधरो ऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः

1.1.81

व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः

1.1.82

अहिर्बुध्न्यो ऽष्टमूर्तिश्च गजारिश्च महानटः
## स्हिवऽस् ब्रैदेद् हैर्, बोw, अत्तेन्दन्त्स्, दिविने मोथेर्स् ##

1.1.83

कपर्दो ऽस्य जटाजूटः पिनाको ऽजगवं धनुः

1.1.84

प्रमथा: स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः
## स्हिवऽस् पोwएर्स्।ग्लोर्य् 3 ##

1.1.85

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा
## एइघ्त् योगिच् अछिएवेमेन्त्स् ग्रन्तेद् ब्य् स्हिव ##

1.1.86

अणिमा महिमा चैव गरिमा लघिमा तथा

1.1.87

प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः
## स्हिवऽस् wइfए पर्वति 23 ##

1.1.88

उमा कात्यायनी गौरी काली हैमवतीश्वरी

1.1.89

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला

1.1.90

अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका

1.1.91

आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा

1.1.92

कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका
## स्हिवऽस् सोन् गनपति 8 ##

1.1.93

विनायको विघ्नराजद्वैमातुरगणाधिपाः

1.1.94

अप्येकदन्तहेरम्बलम्बोदरगजाननाः
## स्हिवऽस् सोन् कर्तिकेय 17 ##

1.1.95

कार्तिकेयो महासेनः शरजन्मा षडाननः

1.1.96

पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः

1.1.97

बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः

1.1.98

षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः
## स्हिवऽस् वेहिच्ले: नन्दि बुल्ल् 6 ##

1.1.99

शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः
## इन्द्र 35 ##

1.1.100

इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः

1.1.101

व्र्^ईद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः

1.1.102

जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः

1.1.103

सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा

1.1.104

बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः

1.1.105

जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः

1.1.106

संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः

1.1.107

आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया
## इन्द्रऽस् wइfए स्हछि 3, चित्य् 1 ##

1.1.108

पुलोमजा शचीन्द्राणी नगरी त्वमरावती
## इन्द्रऽस् होर्से, छरिओतेएर्, सोन्, गर्देन्, पलचे, सोन्(2)##

1.1.109

हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम्

1.1.110

स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः
## इन्द्रऽस् वेहिच्ले: एलेफन्त् (4), थुन्देर्बोल्त् (10) ##

1.1.111

ऐरावतो ऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः

1.1.112

ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः

1.1.113

शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः
## ऐर्प्लने (2), दिविने सगेस्, चोउन्चिल् (2), नेच्तर् (3) ##

1.1.114

व्योमयानं विमानो ऽस्त्री नारदाद्याः सुरर्षयः

1.1.115

स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा
## दिविने रिवेर्: मिल्क्य् wअय् (4), गोल्देन् मोउन्तैन् मेरु (5) ##

1.1.116

मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका

1.1.117

मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः
## fइवे दिविने त्रेएस् ##

1.1.118

पञ्चैते देवतरवो मन्दारः पारिजातकः

1.1.119

सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्
## सनत्कुमर (2), दिविने दोच्तोर्स्: अस्ह्विन्स् (6), न्य्म्फ्स् (2) ##

1.1.120

सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ

1.1.121

नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ

1.1.122

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः
## दिविने मुसिचिअन्स् (2), fइरे (34), मरिने fइरे (3) ##

1.1.123

हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्

1.1.124

अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः

1.1.125

कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्

1.1.126

बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः

1.1.127

आश्रयाशो बृहद्भानुः कृशानुः पावको ऽनलः

1.1.128

रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः

1.1.129

हिरण्यरेता हुतभुग् दहनो हव्यवाहनः

1.1.130

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः

1.1.131

शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः
## fलमे (5), स्पर्क् (2), बुर्न् (2) ##

1.1.132

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम्

1.1.133

त्रिषु स्फुलिङ्गो ऽग्निकणः संतापः संज्वरः समौ
## मेतेओर् (1), अस्ह् (5), fओरेस्त् fइरे (3) ##

1.1.134

उल्का स्यात् निर्गतज्वाला भूतिर्भसितभस्मनी

1.1.135

क्षारो रक्षा च दावस्तु दवो वनहुताशनः
## यम: गोद् ओf देअथ् (14) ##

1.1.136

धर्मराजः पितृपतिः समवर्ती परेतराट्

1.1.137

कृतान्तो यमुनाभ्राता शमनो यमराड् यमः

1.1.138

कालो दण्डधरः श्राद्धदेवो वैवस्वतो ऽन्तकः

1.1.139

राक्षसः कोणपः क्रव्यात् क्र्व्यादो ऽस्रप आशरः
## गिअन्त्, देमोन् (15) ##

1.1.140

रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः

1.1.141

यातुधानः पुण्यजनो नैरृतो यातुरक्षसी
## वरुन: गोद् ओf थे सेअ (5) ##

1.1.142

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः
## वयु: (गोद् ओf थे) wइन्द् (20) ##

1.1.143

श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः

1.1.144

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः

1.1.145

समीरमारुतमरुत् जगत्प्राणसमीरणाः

1.1.146

नभस्वद्वातपवनपवमानप्रभञ्जनाः
## wहिर्ल्wइन्द्, स्तोर्म् ##

1.1.147

प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः
## fइवे बोदिल्य् wइन्द्स् इन् अयुर्वेदिच् च्लस्सिfइचतिओन्, स्पेएद् (5) ##

1.1.148

प्राणो ऽपानः समानश्चोदानव्यानौ च वायवः

1.1.149

शरीरस्था इमे रंहस्तरसी तु रयः स्यदः

1.1.150

जवो ऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
## qउइच्क्ल्य् (11) ##

1.1.151

सत्वरं चपलं तूर्णमविलम्बितमाशु च
## एतेर्नल् (9), एxचेस्सिवे (14) ##

1.1.152

सतते ऽनारताश्रान्तसंतताविरतानिशम्

1.1.153

नित्यानवरताजस्रमप्यथातिशयो भरः

1.1.154

अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्

1.1.155

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च

1.1.156

क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत्
## कुबेर: गोद् ओf wएअल्थ् (17) ##

1.1.157

कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः

1.1.158

मनुष्यधर्मा धनदो राजराजो धनाधिपः

1.1.159

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः

1.1.160

यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः
## कुबेरऽस् गर्देन्, सोन्, प्लचे, चित्य्, अत्तेन्दन्त्स् (4) ##

1.1.161

अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः

1.1.162

कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्

1.1.163

स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः
## त्रेअसुरे (2), थे लिस्त् ओf निने त्रेअसुरेस् इस् बेलोw:##

1.1.164

निधिर्नाशेवधिर्भेदाः पद्मशङ्खादयो निधेः

1.1.165

महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ

1.1.166

मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव
व्योमवर्गः
## स्क्य् ओर् अत्मोस्फेरे (26) ##

मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc