भाषा

ENहिગુ
ग्रंथ पाठ

नामलिङ्गानुशासन · अध्याय 1.0

1.0.1

यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः

1.0.2

सेव्यतामक्षयो धीराः स श्रिये चामृताय च
प्रस्तावना

1.0.3

समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः

1.0.4

संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्
परिभाषा

1.0.5

प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित्

1.0.6

स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित्

1.0.7

भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः

1.0.8

कृतो ऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते

1.0.9

त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति

1.0.10

निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्
स्वर्गवर्गः
##हेअवेन् 9##

मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc