भाषा

ENहिગુ
ग्रंथ पाठ

नैषधीयचरितम्‌ · अध्याय p13

p13.2.1

अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः ।
वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः

p13.2.2

अधुनीत खगः स नैकधा तनुमुत्फुल्लतनूरुहीकृताम् ।
करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षती

p13.2.3

अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमङ्घ्रिणा ।
स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम्

p13.2.4

स गरुद्वनदुर्गदुर्ग्रहान्कटु कीटान्दशतः सतः क्वचित् ।
नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः

p13.2.5

अयमेत्य तडाकनीडजैर्लघु पर्यव्रियताथ शाङ्कितैः ।
उदडीयत वैकृतात्करग्रहजादस्य विकस्वरस्वरैः

p13.2.6

वहतो बहुशैवलक्ष्मता धृतरुद्राक्षमधुव्रतं खगः ।
स नलस्य ययौ करं पुनः सरसः कोकनदभ्रमादिव

p13.2.7

पतगश्चिरकाललालनादतिविश्रम्भमवापितो नु सः ।
अतुलं विदधे कुतूहलं भुजमेतस्य भजन्महीभुजः

p13.2.8

नृपमानसमिष्टमानसः स निमज्जत्कुतुकामृतोर्मिषु ।
अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत

p13.2.9

मृगया न विगीयते नृपैरपि धर्मागममर्मपारगैः ।
स्मरसुन्दर मां यदत्यजस्तव धर्मः सदयोदयोज्ज्वलः

p13.2.1

अबलस्वकुलाशिनो झषान्निजनीडद्रुमपीडिनः खगान् ।
अनवद्यतृणार्दिनो मृगान्मृगयाघाय न भूभुजां घ्नताम्

p13.2.11

यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत् ।
कृतमातपसंज्वरं तरोरभिवृष्यामृतमंशुमानिव

p13.2.12

उपनम्रमयाचितं हितं प्रतिहर्तुं न तवापि सांप्रतम् ।
करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः

p13.2.13

पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ।
इति वेद्मि न तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः

p13.2.14

अचिरादुपकर्तुराचरेदथवात्मौपयिकीमुपक्रियाम् ।
पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः

p13.2.15

भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदीरितम् ।
खगवागियमित्यतोऽपि किं न मुदं धास्यति कीरगीरिव

p13.2.16

स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः ।
यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्रभर्तृकाम्

p13.2.17

दमनादमनाक्प्रसेदुषास्तनयां तथ्यगिरस्तपोधनात् ।
वरमाप स दिष्टविष्टपत्रितयानन्यसदृग्गुणोदयाम्

p13.2.18

भुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् ।
उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽभिधां दधौ

p13.2.19

श्रियमेव परं धराधिपाद्गुणसिन्धोरुदितामवेहि ताम् ।
व्यवधावपि वा विधोः कलां मृडचूडानिलयां न वेद कः

p13.2.2

चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि सा बिभर्ति यान् ।
पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः

p13.2.21

स्वदृशोर्जनयन्ति सान्त्वनां खुरकण्डूयनकैतवान्मृगाः ।
जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भया

p13.2.22

अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि ।
शृउतिगामितया दमस्वसुर्व्यतिभाते सुतरां धरापते

p13.2.23

नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमज्ञनाञ्चिते विदधाते रुचिगर्वदुर्विधम्

p13.2.24

अधरं किल बिम्बनामकं फलमस्मादिति भव्यमन्वयम् ।
लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत्

p13.2.25

हतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम

p13.2.26

धृतलाञ्छनगोमयाञ्चनं विधुमालेपनपाण्डुरं विधिः ।
भ्रमयत्युचितं विदर्भजानननीराजनवर्धमानकम्

p13.2.27

सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् ।
अधुनापि न भङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम्

p13.2.28

धनुषी रतिपञ्चबाणयोरुदिते विश्वजयाय तद्भ्रुवौ ।
नैलिकेन तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः

p13.2.29

सदृशी तव शूर सा परं जलदुर्गस्थमृणालजिद्भुजा ।
अपि मित्त्रजुषां सरोरुहां गृहयालुः करलीलया श्रियः

p13.2.3

वयसी शिशुतातदुत्तरे सुदृशि स्वाभिविधिं विधित्सुनी ।
विधिनापि न रोमरेखया कृतसीम्नी प्रविभज्य रज्यतः

p13.2.31

अयि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ

p13.2.32

कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ।
स तदुञ्चकुचौ भवन्प्रभाझरचक्रभ्रममातनोति यत्

p13.2.33

भजते खलु षण्मुखं शिखी चिकुरैर्निर्मितबर्हगर्हणः ।
अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट्

p13.2.34

उदरं नतमध्यपृष्टतास्फुटदङ्गुष्ठपदेन मुष्टिना ।
चतुरङ्गुलमध्यनिर्गतत्रिवलिभ्राजि कृतं दमस्वसुः

p13.2.35

उदरं परिमाति मुष्ट्षिना कुतुकी कोऽपि दमस्वसुः किमु ।
धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः

p13.2.36

पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया ।
विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम्

p13.2.37

तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् ।
तरुणीमपि जुष्णुरेव तां धनदापत्यतपः फलस्तनीम्

p13.2.38

जलजे रविसेवयेव ये पदमेतत्पदतामवापतुः ।
ध्रुवमेत्य रुतः सहंसकीकुरुतस्ते विधिपत्त्रदंपती

p13.2.39

श्रितपुण्यसरः सरित्कथं न समाधिक्षपिताखिलक्षपम् ।
जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि

p13.2.4

सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता ।
अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी

p13.2.41

अवधृत्य दिवोऽपि यौवतैर्न सहाधीतवतीमिमामहम् ।
कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम्

p13.2.42

अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् ।
युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम्

p13.2.43

अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे ।
चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता

p13.2.44

त्वयि वीर विराजते परं दमयन्तीकिलकिञ्चितं किल ।
तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम्

p13.2.45

तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः ।
इयमृद्धधना वृथावनी स्ववनी संप्रवदत्पिकापि

p13.2.46

अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया ।
घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा

p13.2.47

तदहं विदधे तथातथा दमयन्त्याः सविधे तव स्तवम् ।
हृदये निहितस्तया भवानपि नेन्द्रेण यथापनीयते

p13.2.48

तव संमितिमेव केवलामिधगन्तुं धिगिदं निवेदितम् ।
ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम्

p13.2.49

तदिदं विशदं वचोमृतं परिपीयाभ्युदितं द्विजाधिपात् ।
अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मितं सितम्

p13.2.5

परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः ।
मृदु तस्य मुदेऽकिरद्गिरः प्रियवादामृतकूपकण्ठजाः

p13.2.51

न तुलाविषये तवाकृतिर्न वचोवर्त्मनि ते सुशीलता ।
त्वदुदाहरणाकृतौ गुणा इति सामुद्रकसारमुद्रणा

p13.2.52

न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा ।
न परं पथि पक्षपातितानवलम्बे किमु मादृशेऽपि सा

p13.2.53

भृशतापभृता मया भवान्मरुदासादि तुषारसारवान् ।
धनिनामितरः सतां पुनर्गुणवत्संनिधिरेव सन्निधिः

p13.2.54

शतशः शृउतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम ।
अमुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम्

p13.2.55

अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् ।
सविधेऽपि नसूक्ष्मसाक्षिणीवदनालंकृतिमात्रमक्षिणी

p13.2.56

अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः ।
मदनानलबोधने भवेत्खग धाय्या धिगधैर्यधारिणः

p13.2.57

विषमो मलयाहिमण्डलीविषफूत्कारमयो मयोहितः ।
खग कालकलत्रदिग्भवः पवनस्तद्विरहानलैधसा

p13.2.58

प्रतिमासमसौ निशापतिः खग संगच्छति यद्दिनाधिपम् ।
किमु तीव्रतरैस्ततः करैर्मम दाहाय स धैर्यतस्करैः

p13.2.59

कुसुमानि यदि स्मरेषवो न तु वज्रं विषवल्लिजानि तत् ।
हृदयं यदमूमुहन्नमूर्मम यच्चातितरामतीतपन्

p13.2.6

तदिहानवधौ निमज्जतो मम कंदर्पशराधिनीरधौ ।
भव पोत इवावलम्बनं विधिनाकस्मिकसृष्टसंनिधिः

p13.2.61

अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ।
स्वत एव सतां परार्थता ग्रहणानां हि यथा यथाऋथता

p13.2.62

तव वर्त्मनि वर्ततां शिवं पुनरस्तु त्वरितं समागमः ।
अयि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः

p13.2.63

इति तं स विसृज्य धैर्यवान्नृपतिः सूनृतवाग्बृहस्पतिः ।
अविशद्वनवेश्म विस्मितः स्मृतिलग्नैः कलहंसशंसितैः

p13.2.64

अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः ।
क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ

p13.2.65

प्रथमं पथि लोचनातिर्थि पथिकाप्रार्थितसिद्धिशंसिनम् ।
कलसं जलसंभृतं पुरः कलहंसः कलयांबभूव सः

p13.2.66

अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् ।
स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसंगतम्

p13.2.67

नभसः कलभैरुपासितं जलदैर्भूरितरक्षुपं नगम् ।
स ददर्श पतङ्गपुंगवो विटपच्छन्नतरक्षुपन्नगम्

p13.2.68

स ययौ धुतपक्षतिः क्षणं क्षणमूर्ध्वायनदुर्विभावनः ।
विततीकृतनिश्चलच्छदः क्षणमालोककदत्तकौतुकः

p13.2.69

तदूदीधितिधारया रयाद्गतया लोकविलोकनामसौ ।
छदहेम कषन्निवालसत्कषपाषाणनिभे नभस्तले

p13.2.7

विनमद्भिरधः स्थितैः खगैर्झटिति श्येननिपातशङ्किभिः ।
स निरैक्षि दृशैकयोपरि स्यदझांकारितपत्रपद्धतिः

p13.2.71

ददृशे न जनेन यन्नसौ भुवि तच्छायमवेक्ष्य तत्क्षणात् ।
दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः

p13.2.72

न वनं पथि शिश्रियेऽमुना क्वचिदप्युच्चतरद्रुचा रुतम् ॥
न सगोत्रजमन्ववादि वा गतिवेगप्रसरद्रुचा रुतम्

p13.2.73

अथ भीमभुजेन पालिता नगरी मञ्चुरसौ धराजिता ।
पतगस्य जगाम दृक्पथं हरशैलोपमसौधराजिता

p13.2.74

दयितं प्रति यत्र संतता रतिहासा इव रेजिरे भुवः ।
स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभित्तयः

p13.2.75

नृपनीलमणीगृहत्विषामुपधेर्यत्र भयेन भास्वतः ।
शरणार्थमुवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः

p13.2.76

सितदीप्रमणिप्रकल्पिते यद्गारे हसदङ्करोदसि ।
निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथिः

p13.2.77

सुदतीजनमज्जनार्पितैर्घुसृणैर्यत्र कषायिताशया ।
न निशाखिलयापि वापिका प्रससाद ग्रहिलेव मानिनी

p13.2.78

क्षणनीरवया यया निशि श्रितवप्रावलियोगपट्टया ।
मणिवेश्ममयं स्म निर्मलं किमपि ज्योतिरबाह्यमिज्यते

p13.2.79

विललास जलाशयोदरे क्वचन द्यौरनुविम्बितेव या ।
परिखाकपटस्फुटस्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि

p13.2.8

व्रजते दिवि यद्गृहावलीचलचेलाञ्चलदण्डताडनाः ।
व्यतरन्नरुणाय विश्रमं सृजते हेलिहयालिकालनाम्

p13.2.81

क्षितिगर्भधराम्बरालयैस्तलमध्योपरिपूरिणां पृथक् ।
जगतां किल याखिलाद्भुताजनि सारैर्निजचिह्नधारिभिः

p13.2.82

दधदम्बुदनीलकण्ठतां वहदत्यच्छसुधोज्ज्वलं वपुः ।
कथमृच्छतु यत्र नाम न क्षितिभृन्मन्दिरमिन्दुमौलिताम्

p13.2.83

बहुरूपकशालभञ्जिकामुखचन्द्रेषु कलङ्करङ्कवः ।
यदनेककसौधकंधराहरिभिः कुक्षिगतीकृता इव

p13.2.84

बलिसद्मदिवं स तथ्यवागुपरि स्माह दिवोऽपि नारदः ।
अधराथ कृता ययेव सा विपरीताजनि भूविभूषया

p13.2.85

प्रतिहट्टपथे घरट्टजात्पथिकाह्वानदसक्तुसौरभैः ।
कलहान्न घनान्यदुत्थितादधुनाप्युज्झति घर्घरस्वरः

p13.2.86

वरणः कनकस्य मानिनीं दिवमङ्कादमराद्रिरागताम् ।
घनरत्नकपाटपक्षतिः परिरभ्यानुनयन्नुवास याम्

p13.2.87

अनलैः परिवेषमेत्य या ज्वलदर्कोपलवप्रजन्मभिः ।
उदयं लयमन्तरा रवेरवहद्बाणपुरीपरार्ध्यताम्

p13.2.88

बहुकम्बुमणिर्वराटिकागणनाटत्करकर्कटोत्करः ।
हिमवालुकयाच्छवालुकः पटु दध्वान यदापणार्णवः

p13.2.89

यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया ।
मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया

p13.2.9

रुचयोस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः किल ।
अनुसायमभुर्विलेपना पणकश्मीरजपण्यवीथयः

p13.2.91

विततं वणिजापणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते ।
मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः

p13.2.92

सममेणमदैर्यदापणे तुलयन्सौरभलोभनिश्चलम् ।
पणिता न जनारवैरवैदपि गुञ्जन्तमलिं मलीमसम्

p13.2.93

रविकान्तमयेन सेतुना सकलाहं ज्वलनाहितोष्मणा ।
शिशिरे निशिगच्छतां पुरा चरणौ यत्र दुनोति नो हिमं

p13.2.94

विधुदीधितिजेन यत्पथं पयसा नैषधशीलशीतलम् ।
शशिकान्तमयं तपागमे कलितीव्रस्तपति स्म नातपः

p13.2.95

परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः ।
फणिभाषितभाष्यफक्किकाविषमा कुण्डलनामवापिता

p13.2.96

मुखपाणिपदाक्ष्णी पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः ।
स्वयमादित यत्र भीमजा स्मरपूजाकुसुमस्रजः श्रियम्

p13.2.97

जघनस्तनभारगौरवाद्वियदालम्ब्य विहर्तुमक्षमाः ।
ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः

p13.2.98

स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी बिभर्तु या ।
स्वरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा

p13.2.99

स्वरुचारुणया पताकया दिनमर्केण समीयुषोत्तृषः ।
लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदालयाः

p13.2.1

लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् ।
श्रितमर्ककरैः पितासु यन्नृपसद्मामलपद्मरागजम्

p13.2.101

अमृतद्युतिलक्ष्म पीतया मिलितं यद्वलभीपताकया ।
वलयायितशेषशायिनः सखितामादित पीतवाससः

p13.2.102

अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवाजिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।
पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि

p13.2.103

यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिसौधवस्त्रवल्लिः ।
अलभत शमन्स्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ति

p13.2.104

स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकं पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी ।
साक्षादप्सरसो विमानकलितव्योमान एवाभवद्यन्न प्राप निमेषमभ्रतरसा यान्ती रसादध्वनि

p13.2.105

वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भैर्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः ।
कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रैर्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म

p13.2.106

विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैः शशिदृषदुपकॢप्तैरालवालैस्तरूणाम् ।
विफलितजलसेकप्रक्रियागौरवेण व्यरचि स हृतचित्तस्तत्र भैमीवनेन

p13.2.107

अथ कनकपतत्त्रस्तत्र तां राजपुत्रीं सदसि सदृशभासां विस्फुरन्तीं सखीनाम् ।
उडुपरिषादि मध्यस्थायिशीतांशुलेखानुकरणपटुलक्ष्मीमक्षिलक्षीचकार

p13.2.108

भ्रमणरयविकीर्णस्वर्णभासा खगेन क्वचन पतनयोग्यं देशमन्विष्यताधः ।
मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोर्ध्वं मण्डलस्तेन तेने

p13.2.109

अनुभवति शचीत्थं सा घृताचीमुखाभिर्न सह सहचरीभिर्नन्दनानन्दमुच्चैः ।
इति मतिरुदयासीत्पक्षिणः प्रेक्ष्य भैमीं विपिनभुवि सखीभिः सार्धमाबद्धकेलिम्

p13.2.11

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः

मूल पाठ: naiṣadhīyacaritam‌ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc