भाषा

ENहिગુ
ग्रंथ पाठ

नादबिन्दूपनिषद् · श्लोक 1-20

1

नादबिन्दूपनिषत्
ओं
अकारो दक्षिणः पक्ष उकारस् तूत्तरः स्मृतः ।
मकारस् तस्य पुच्छं वा अर्धमात्रा शिरस् तथा

2

पादौ रजस् तमस् तस्य शरीरं सत्त्वम् उच्यते ।
धर्मश् च दक्षिणं चक्षुर् अधर्मश् चोत्तरं स्मृतम्

3

भूर् लोकः पादयोस् तस्य भुवर् लोकस् तु जानुनोः ।
स्वर् लोकः कटिदेशे तु नाभिदेशे महर् जगत्

4

जनलोकस् तु हृदये कण्ठदेशे तपस् ततः ।
भ्रुवोर् ललाटमध्ये तु सत्यलोको व्यवस्थितः

5

सहस्रम् इति चात्र मन्त्र एव प्रदर्शितः ।
एवम् एनं समारूढो हंसं योगविचक्षणः

6

न बध्यते कर्मचारी पापकोटिशतैर् अपि ।
आग्नेयी प्रथमा मात्रा वायव्यैषा वशानुगा

7

भानुमण्डलसंकाशा भवेन् मात्रा तथोत्तरा ।
परमा चार्धमात्रा च वारुणीं तां विदुर् बुधाः

8

कलात्रयानना वापि तासां मात्राप्रतिष्ठिता ।
एष ओंकार आख्यातो धारणाभिर् निबोधत

9

योषिणी प्रथमा मात्रा विद्युन्माला तथापरा ।
पतंगी च तृतीया स्याच् चतुर्थी वायुवेगिनी

10

पञ्चमीनाम् अधेया च षष्ठी चैन्द्री विधीयते ।
सप्तमी वैष्णवी नाम शंकरी च तथाष्टमी

11

नवमी महती नाम ध्रुवेति दशमी मता ।
एकादशी भवेन् मौनी ब्राह्मीति द्वादशी मता

12

प्रथमायां तु मात्रायां यदि प्राणैर् वियुज्यते ।
स राजा भारते वर्षे सार्वभौमः प्रजायते

13

द्वितीयायां समुत्क्रान्तो भवेद् यक्षो महात्मवान् ।
विद्याधरस् तृतीयायां गन्धर्वस् तु चतुर्थिकाम्

14

पञ्चम्याम् अथ मात्रायां यदि प्राणैर् वियुज्यते ।
उषितः सहदेवत्वं सोमलोके महीयते

15

षष्ठ्याम् इन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् ।
अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा

16

नवम्यां च महर्लोकं दशम्यां च ध्रुवं व्रजेत् ।
एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम्

17

ततः परं शुद्धं व्यापकं निष्कलं शिवम् ।
सदोदितं परं ब्रह्म ज्योतिषाम् उदयो यतः

18

अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् ।
अनौपम्यम् अभावं च योगयुक्तं तदादिशेत्

19

तद्भक्तस् तत्समासक्तः शनैर् मुञ्चेत् कलेवरम् ।
सुस्थितो योगचारेण सर्वसङ्गविवर्जितः

20

ततो विलीनपाशो ऽसौ विमलः केवलः प्रभुः ।
तेनैव ब्रह्मभावेन परमानन्दम् अश्नुते

मूल पाठ: Nādabindūpaniṣad · Edition: Ramamaya Tarkaratna In: The Atharvana-Upanishads. - Calcutta : Ganesha Press, 1872 (Bibliotheca Indica ; 76) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc