मुकुन्दमाला · श्लोक 21-34
इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसंधि जर्जरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब
श्रीमन्नाम प्रोच्य नारायणाख्यं येन प्राप्ता वाञ्छितं पापिनो ऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम्
मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे मा श्रौषं श्रव्यबद्धं तव चरितमपास्यान्यदाख्यानजातम् ।
मा स्प्राक्षं माधव त्वामपि भुवनपते चेतसापह्नुवानं मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरे ऽपि
मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशो ऽसि स्मरसि न चक्रपराक्रमं मुरारेः
दारा वाराकरवरसुता ते ऽङ्गजो ऽयं विरिञ्चः स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्मध्ये जगदविकलं तावके देवकी ते माता मित्त्रं बलरिपुसुतस्तत्त्वतो ऽन्यन्न जाने
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथां श्रोत्रद्वय त्वं श्रुणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मुर्धन्नमाधोक्षजम्
यत्कृष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते ।
सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी सा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम्
भक्तद्वेषिभुजंगगारुडमणिस्त्रैलोक्यरक्षामणिर्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
श्रीकान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो ध्येयशिखाम्णिर्दिशतु नो गोपालचूडामणिः
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं संसारोत्तारमन्त्रं समुदितमनसां सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम्
व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्यानर्थकरौषधं त्रिजगतां संजीवनैकौषधम् ।
भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौषधम्
आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति ।
नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति
लाटीनेत्रपुटीपयोधरघटीरेवातटीदुष्कुटीपाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते ।
गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च व्याहारैः समयस्तदेकमनसां पुंसामतिक्रामति
अयाच्यमक्रेयमयातयाममपाच्यमक्षय्यमदुर्भरं मे ।
अस्त्येव पाथेयमितः प्रयाणे श्रीकृष्णनाममृतभागधेयम्
यस्य प्रियौ श्रुतधरौ कविलोकगीतौ मित्त्रे द्विजन्मपरिवारशिवावभूताम् ।
तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता स्तुतिरियं कुलशेखरेण
मूल पाठ: Mukundamālā · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 11-16. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0