मुकुन्दमाला · श्लोक 1-20
श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला
वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् ।
इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनालयमहं वसुदेवसूनुम्
जयतु जयतु देवो देवकीनन्दनो ऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः
मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मे ऽस्ति भवत्प्रसादात्
श्रीमुकुन्दपदाम्भोजमधुनः परमाद्भुतम् ।
यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः
नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावये ऽहं भवन्तम्
नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरे ऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु
दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तके प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणे ऽपि चिन्तयामि
सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमेह चित्त रन्तुम् ।
सुखकरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम्
मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः
भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम्
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते सहजतनयग्राहसंघाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्पादाम्भोजे वरद भवतो भक्तिनावे प्रसीद
पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुस्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते भूमावधूतावधिः
आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पदद्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः
आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति ।
वक्तुं समर्थो ऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे
क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणादौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् ।
सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः
नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति ।
यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पादर्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम्
भो लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां यत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम्
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन सवरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनामस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम्
तत्त्वं ब्रुवाणानि परं परस्मादहो क्षरन्तीव सुधां पदानि ।
आवर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि
मूल पाठ: Mukundamālā · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 11-16. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0