भाषा

ENहिગુ
ग्रंथ पाठ

मुकुन्दमाला · श्लोक 21-40

21

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना

22

भक्तापायभुजाङ्गगारुडमणिस् त्रैलोक्यरक्षामणिर् गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो देवशिखामणिर् दिशतु नो गोपालचूडामणिः

23

शत्रुच्छेदैकमन्त्रं सकलम् उपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुपचिततमसः सङ्घनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम्

24

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम्

25

आम्नायाभ्यसनान्य् अरण्यरुदितं वेदव्रतान्य् अन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानाम् अवगाहनानि च गजस्नानं विना यत्पद-द्वन्द्वाम्भोरुहसंस्मृतीर् विजयते देवः स नारायणः

26

श्रीमन्नाम प्रोच्य नारायणाख्यं के न प्रापुर् वाञ्छितं पापिनो ऽपि ।
हा नः पूर्वं वाक् प्रवृत्ता न तस्मिंस् तेन प्राप्तं गर्भवासादिदुःखम्

27

मज्जन्मनः फलम् इदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-भृत्यस्य भृत्य इति मां स्मर लोकनाथ

28

नाथे नः पुरुषोत्तमे त्रिजगतां एकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कञ्चित् पुरुषाधमं कतिपयग्रामेशम् अल्पार्थदं सेवायै मृगयामहे नरम् अहो मूका वराका वयम्

29

मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशो ऽसि स्मरसि न चक्रपराक्रमं मुरारेः

30

तत्त्वं ब्रुवाणानि परं परस्तान् मधु क्षरन्तीव सतां फलानि ।
प्रावर्तय प्राञ्जलिर् अस्मि जिह्वे नामानि नारायणगोचराणि

31

इदं शरीरं परिणामपेशलं पतत्य् अवश्यं श्लथसन्धिजर्जरम् ।
किम् औषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब

32

दारा वाराकरवरसुता ते तनूजो विरिञ्चः स्तोता वेदस् तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर् माया जगद् अविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस् त्वय्य् अतो ऽन्यन् न जाने

33

कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्य् अहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णाद् एव समुत्थितं जगद् इदं कृष्णस्य दासो ऽस्म्य् अहं कृष्णे तिष्ठति सर्वम् एतद् अखिलं हे कृष्ण संरक्ष माम्

34

स त्वं प्रसीद भगवन् कुरु मय्य् अनाथे विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नम् अनन्त दीनम् उद्धर्तुम् अर्हसि हरे पुरुषोत्तमो ऽसि

35

नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वम् अव्ययम्

36

श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे ।
श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे

37

अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति ।
वक्तुं समर्थो ऽपि न वक्ति कश्चिद् अहो जनानां व्यसनाभिमुख्यम्

38

ध्यायन्ति ये विष्णुम् अनन्तम् अव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् ।
समाहितानां सतताभय-प्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम्

39

क्षीरसागरतरङ्गशीकरा-सारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः

40

यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशराव् अभूताम् ।
तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिर् इयं कुलशेखरेण

मूल पाठ: Mukundamālā · Edition: Stotramālā, ed. P.B. Anangaracarya, Kanchipuram : Granthamala Office 1949, pp. 1-4. · Data entry Aleksandar Uskokov · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc