मुकुन्दमाला · श्लोक 1-20
घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने ।
तम् अहं शिरसा वन्दे राजानं कुलशेखरम् ॥
श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासेत्य् आलापिनं प्रतिदिनं कुरु मां मुकुन्द
जयतु जयतु देवो देवकीनन्दनो ऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः
मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तम् एकान्तम् इयन्तम् अर्थम् ।
अविस्मृतिस् त्वच्चरणारविन्दे भवे भवे मे ऽस्तु भवत्प्रसादात्
नाहं वन्दे तव चरणयोर् द्वन्द्वम् अद्वन्द्वहेतोः कुम्भीपाकं गुरुम् अपि हरे नारकं नापनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम्
नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन् पूर्वकर्मानुरूपम् ।
एतत् प्रार्थ्यं मम बहु-मतं जन्मजन्मान्तरे ऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिर् अस्तु
दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणे ऽपि चिन्तयामि
कृष्ण त्वदीयपदपङ्कजपञ्जरान्तर् अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस् ते
चिन्तयामि हरिम् एव सन्ततं मन्दमन्दहासिताननाम्बुजम् ।
नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम्
करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुले ऽगाधमार्गे ।
हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदम् अद्य त्यजामि
सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् ।
सुखतरम् अपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम्
माभीर् मन्दमनो विचिन्त्य बहुधा यामीश् चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः
भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जताम् अप्लवानां भवतु शरणम् एको विष्णुपोतो नराणाम्
भवजलधिम् अगाधं दुस्तरं निस्तरेयं कथम् अहम् इति चेतो मा स्म गाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिर् एका नरकभिदि निषण्णा तारयिष्यत्य् अवश्यम्
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस् त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ
मा द्राक्षं क्षीणपुण्यान् क्षणम् अपि भवतो भक्तिहीनान् पदाब्जे मा श्रौषं श्राव्यबन्धं तव चरितम् अपास्यान्यद् आख्यानजातम् ।
मा स्मार्षं माधव त्वाम् अपि भुवनपते चेतसापह्नुवानान् मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरे ऽपि
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर् गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम्
हे लोकाः शृणुत प्रसूतिमरणव्याधेश् चिकित्साम् इमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्ज्योतिर् अमेयम् एकम् अमृतं कृष्णाख्यम् आपीयतां तत् पीतं परमौषधं वितनुते निर्वाणम् आत्यन्तिकम्
हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवम् आपदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः ।
नानाज्ञानम् अपास्य चेतसि नमो नारायणायेत्य् अमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः
पृथ्वी रेणुर् अणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुः तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुराः दृष्टे यत्र स तावको विजयते भूमावधूतावधिः
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम् अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम्
मूल पाठ: Mukundamālā · Edition: Stotramālā, ed. P.B. Anangaracarya, Kanchipuram : Granthamala Office 1949, pp. 1-4. · Data entry Aleksandar Uskokov · GRETIL (Göttingen) · CC BY-NC-SA 4.0