मृत्युवञ्चनतारासाधन · भाग 11
मृत्युवञ्चनतारासाधन
॥ नमः सिततारायै ॥
पूर्ववच् छून्यतापर्यन्तं विभाव्य
सितारविन्दमध्यस्थां तांभूतां चन्द्रविष्टराम् ।
आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम्
शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् ।
सर्वालङ्कारसंपूर्णां षोडशाब्दवपुःक्रमाम्
ध्यात्वार्यतारां हृदये तस्याश् चक्रं सितद्युति ।
अष्टकोष्ठकम् अष्टाभिर् अक्षरैः परिपूरितम्
ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम् ।
ध्यायाद् एकाग्रचित्तः सन् षण् मासान् दृढनिश्चयः
जपेद् अखिन्नचित्तः सन् मन्त्रम् एनं दशाक्षरम् ॥
तत्राइष मन्त्रः ओं तारे तुत्तारे तुरे स्वाहा
मृत्युदोषैर् न लिप्तः स्यात् ताराहृच्चक्रभावकः ।
लाभी च सर्वसिद्धीनां षण्मासावधि तत्परः
॥ मृत्युवञ्चनतारासाधनम् ॥
मूल पाठ: Mṛtyuvañcanatārāsādhana · Edition: Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8, p. 225 · Data entry Johannes Schneider · GRETIL (Göttingen) · CC BY-NC-SA 4.0