भाषा

ENहिગુ
ग्रंथ पाठ

मृत्युवञ्चनसिततारासाधन · श्लोक 1-15

1

मृत्युवञ्चनसिततारासाधन
मृत्युदोषैर् अलिप्तः स्यात् ताराहृच्चक्रभावकः ।
लाभी च सर्वसिद्धीनां षण्मासावधि तत्परः

2

वागीश्वरकृतादेशान् मृत्युवञ्चनसंग्रहात् ।
उद्धृता सितताराया भावना भयनाशिनी

3

तुर्यवर्गाद्यसाकारत्विषा विस्फुरिताम्बरे ।
सिताब्जेन्द्वासनां दृष्ट्वा पुरस् त्रिशरणं पठेत्

4

मुहूर्तं शून्यतां पश्येत् प्राकृतारोपहानये ।
ततः प्रणिधिसामर्थ्याद् बोधिचित्ताक्षरं भवेत्

5

सितारविन्दमध्यस्थचन्द्रबिम्बासनोपरि ।
आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम्

6

शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् ।
सर्वालङ्कारसंपूर्णां षोडशाब्दवपुष्मतीम्

7

सर्वसंबुद्धतत्पुत्रमातरं कामरूपधाम् ।
ध्यात्वार्यतारां हृदये तस्याश् चक्रं सितद्युति

8

अष्टकोष्ठकम् अष्टाभिर् अक्षरैः परिपूरितम् ।
ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम्

9

ध्यायाद् एकाग्रचित्तः सन् षण् मासान् दृढनिश्चयः ।
जपेद् अखिन्नचित्तः सन् मन्त्रम् एनं दशाक्षरम्

10

ओङ्कारम् आदितो दत्त्वा पश्चात् तारे प्रयोजयेत् ।
तुत्तारे स्यात् तुरे पश्चात् स्वाहान्तः सार्वकर्मिकः

11

ब्रह्मेन्द्रविष्णुचन्द्रार्करुद्रदिक्पालमन्मथैः ।
अप्य् अखण्डितरोमाग्रो मृत्युं जयति मुक्तवत्

12

वलीपलितदौर्भाग्यव्याधिदारिद्र्यसंक्षयः ।
सिंहाद्यष्टमहाभीतिदुःखसंदोहनाशनम्

13

अयाचिताम्बरपानहर्म्यरत्नादिसंगमः ।
खड्गाञ्जनपादलेपभद्रकुम्भादिसिद्धयः

14

कविता वक्तृता मेधा प्रज्ञा चैकान्तनिर्मला ।
अन्या च वाञ्छिता सिद्धिश् चक्राद् अस्मात् प्रजायते

15

साधनं सितताराया मृत्युव्याधिविनाशनम् ।
उद्धृत्य यच् छुभं तेन जगत् तारा स्वयं भवेत्

मूल पाठ: Mṛtyuvañcanasitatārāsādhana · Edition: Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8, p. 228 · Data entry Johannes Schneider · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc