भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 4

4.1

अथात्मवतां मत्वा [वा] स्वाधिकारं सुदुष्करम्
यतेरन्नत्मवत्तायै देशिकाद्या जिगीषवः ॥

4.2

तदात्मवत्त्वं योगित्वं जिताक्षस्योपपद्यते
प्राणायामाद्यनुष्ठानाज् जिताक्षत्वं शनैः शनैः ॥

4.3

प्राणायामः प्रत्याहारो धारणा ध्यानवीक्षणे
जपः समाधिरित्यङ्गान्य् अङ्गी योगो ऽष्टमः स्वयम् ॥

4.4

प्राणः प्रागुदितो वायुर् आयामो ऽस्य प्रखेदनम्
प्रेरणाकृष्टिसंरोध लक्षणं क्रतुदोषनुत् ॥

4.5

ततः सुखलवास्वादे तेषां वृत्तस्य चेतसः
प्रत्याहारो विधातव्यः सर्वतो विनिवर्तनम् ॥

4.6

तेनेन्द्रियार्थसंसर्ग विनिवृत्तेश्चितो मतिः
धारणायोग्यतामेति पदे स्वेच्छाप्रकल्पिते ॥

4.7

चिन्ता तद्विषया ध्यानं तच्चादिष्टं मुहुर्मुहुः
तदेकतानतामेति स समाधिर्विधीयते ॥

4.8

जपस्तद्भाषणं ध्येय संमुखीकरणं मुने
ऊहो ऽभिवीक्षणं वस्तु विकल्पानन्तरोदितः ॥

4.9

यदा वेत्ति पदं हेयम् उपादेयं च तत्स्थितेः
तत्पोषकं विपक्षं च यच्च तत्पोषकं परम् ॥

4.10

एषु व्यस्तसमस्तेषु कृतयत्नस्य योगिनः
विभान्ति शक्तयो विश्वं व्याप्य भानोरिव त्विषः ॥

4.11

न तमीष्टे नरः कश्चित् रक्षोदानवमानवाः
रोरुचानमतीत्यैतान् दृक्क्रियाप्राणरोचिषा ॥

4.12

निवृत्तेर्मनसो हेतुः संसर्गात्प्राणखेदनम्
निवृत्तिर्धारणादीनां मूलं सर्वस्य तत्ततः ॥

4.13

विस्तरेण सुरश्रेष्ठ विप्रकृष्टं च यत्स्थितम्
यदन्यत्साधनं किंचिद् योगसिद्धेश्च कथ्यताम् ॥

4.14

न शक्यं विस्तराद्वक्तुं तत्प्रसङ्गभयाद्विधेः
प्रश्नस्यावश्यवाच्यत्वात् तथाप्युद्देश उच्यते ॥

4.15

मूत्राद्युत्सृज्य विधिवद् एकार्धदशसप्तभिः
मृद्भिर्लिङ्गगुदासव्य हस्तयुग्मानि शौचयेत् ॥

4.16

द्विर्व्रती त्रिरपः पीत्वा द्विर्विमृज्याननं स्पृशेत्
स्वबाहुनाभिहृत्कानि द्विस्त्रिर्वा शौचिताधरः ॥

4.17

हितजीर्णाशनस्वस्थस् त्रिकुड्यावेष्टिते गृहे
बाधाशून्ये वनादौ वा स्वासनस्थ उदङ्मुखः ॥

4.18

नमस्कृत्य महेशानम् उमास्कन्दगणाधिपान्
ऋजुग्रीवाशिरोवक्षा नासाग्राहितदृग्द्वयः ॥

4.19

पार्ष्णिभ्यां वृषणौ रक्षन् दन्तैर्दन्तानसंस्पृशन्
विष्टभदेहो दन्ताग्रे जिह्वामादाय सुस्थितः ॥

4.20

रेचयेच्छक्तिपर्यन्तं पुटेनैकेन मारुतम्
स रेचकस्तदभ्यासाद् वेधविक्षिप्तकर्मसु ॥

4.21

क्रमशः शक्ततामेति विकृष्टविषयेष्वपि
बाह्येन वायुना मूर्तेः शक्तिसीमप्रपूरणम् ॥

4.22

पूरकः स तदभ्यासात् सुगुर्वपि विकर्षयेत्
त्यागसंग्रहणे हित्वा निरोधः कुम्भकः स्मृतः ॥

4.23

रोधशक्तिस्तदभ्यासाद् व्यक्तिमेत्यनिवारिता
तथास्य चरतो विद्वान् सोमसूर्येशवर्त्मसु ॥

4.24

तद्धर्मयोग्यतां बुद्ध्वा योगी संसाधयेन्मतम्
पूरकं कुम्भकं वापि भजेच्चन्द्रपथि स्थिते ॥

4.25

पुष्टिमृत्युजयाद्यर्थं स्वात्मनो ऽन्यस्य रेचकम्
अनग्निज्वलने वृक्ष शोषणे बीजनाशने ॥

4.26

स्तोभोन्मादविषोद्दीप्ति प्रमुखेषु तु रेचकम्
ध्यानार्चनजपाद्येषु देहत्यागे च शाङ्करे ॥

4.27

कुम्भको रेचकश्चेष्टो दीक्षासंस्थापनेषु च
यवीयान् मध्यमो ज्येष्ठः स तालैर्द्वादशादिभिः ॥

4.28

तालो द्वादशभिर्जानु परिणाहपरिभ्रमैः
सो ऽपि ध्यानजपोपेतः सगर्भो ऽन्यस्तदुज्झितः ॥

4.29

यथा सगर्भः स्थैर्याय मनसो न तथेतरः
प्रातर्निशाकृतं पापं दिनान्ते च दिवाकृतम् ॥

4.30

हन्त्यगर्भो ऽपि देवानां प्रचलत्वं प्रधावताम्
स्नातो भवति तीर्थेषु सर्वक्रतुषु दीक्षितः ॥

4.31

पोतः पितॄणां यः शश्वत् सगर्भमिममाचरेत्
ध्यायेदध्वान्तगं देवं जपेत्तद्वाचकं सदा ॥

4.32

क्षित्यादीन्यथ तत्त्वानि तद्रूपाधिकृतानि वा
यस्मान्नाचेतनं तत्त्वं सिद्धमप्युपकारकम् ॥

4.33

शैवं वपुरिति ध्यायेद् अतो यद्यत्समीहितम्
सिद्धये धारणादीनां वृत्तीनामनिलस्य च ॥

4.34

सगर्भं कुम्भकं विद्वान् आतिष्ठेदविखिन्नधीः
अयमर्कगुणं कालं कृतचित्तव्यवस्थितिः ॥

4.35

प्राप्नोति धारणाशब्दं धारणासिद्धिदानतः
स्थित्यर्थो धारणाशब्दः स्थानार्थो ऽप्युपचारतः ॥

4.36

स्थानं प्राथमिकस्येमान् यवन्यादीनि नेतरत्
तानि हेमहिमज्योतिः कृष्णस्वच्छानि रूपतः ॥

4.37

वेद्यर्धमण्डलत्र्यस्त्र वृत्तपद्माकृतीनि तु
स्थैर्याप्यायनविप्लोष प्रेरणाशून्यताप्तये ॥

4.38

भवन्ति वज्रकज्वाला बिन्दुशून्यान्वितानि तु
बाधकान्यनुवर्तीनि मध्यस्थान्यवगत्य च ॥

4.39

योगी व्यस्तसमस्तानि बिभृयादिष्टसिद्धये
क्व देशे धारणारूपं चिन्तनीयं विपश्चिता ॥

4.40

किं च व्यस्तसमस्तानां फलं ब्रूहि सुरेश्वर
हृदि चेतसि विक्षिप्ते धारयेत्क्षितिमर्थवित् ॥

4.41

जलं पिपासितः कण्ठे मन्दे ऽग्नौ जठरे ऽनलम्
प्राणादिवृत्तिसिद्ध्यर्थं हृत्कण्ठादिषु मारुतम् ॥

4.42

विषाद्यभिभवे व्योम तेषु यत्रोपयोगवत्
खं समस्तेषु भूतेषु वारिवायू शिखिक्षिती ॥

4.43

वार्यग्नी भूमिपवनौ वारिक्ष्मे अनलानिलौ
मध्यस्थारातिमित्राणि चतुष्के युग्मयुग्मशः ॥

4.44

परिज्ञायेति मतिमान् योजयेदिष्टसिद्धये
कानि प्राणादिवृत्तीनां स्थानान्यस्मिन् शरीरके ॥

4.45

जितासु तासु किं च स्याद् इति ब्रूहि सुरोत्तम
तस्य हृन्नाभ्युरःकण्ठ पृष्ठदेशेषु धारणात् ॥

4.46

जयः प्रणयनादीनां वृत्तीनां योगिनो भवेत्
जितप्रणयनो धत्ते स्वेच्छया देहमात्मनः ॥

4.47

जितापनयनो ऽश्नाति शकृदादि जहाति न
विजितोन्नयनो ऽभ्येति वाग्वशित्वादिकान् गुणान् ॥

4.48

समानवृतीविजयाद् भवेत्त्यक्तजरो वशी
वपुर्विहारवशिता भवेद्विनमने जिते ॥

4.49

पङ्काम्बुकण्टकासङ्गो वीर्यमक्षयमद्भुतम्
धारणा द्वादश ध्यानं दिव्यालोकप्रवृत्तिदम् ॥

4.50

समाधिरणिमादीनां द्वादशैतानि कारणम्
प्राणायामं विनाप्येवं वश्यात्मा चेतसि स्थितः ॥

4.51

समभ्यस्यन्नवाप्नोति गुणानुक्ताननन्तरम्
यद्यद्वस्तु यथोद्दिष्ट क्रमयोगात् प्रपद्यते ॥

4.52

तत्र तत्राअस्य चिद्व्यक्तिस् तद्व्याप्तिविषया भवेत्
इति बाह्ये स्थिते सर्वम् आकलय्य स्वचक्षुषा ॥

4.53

सर्वान् पदर्थान् संत्यज्य शिवतत्त्वं समभ्यसेत्
शिवगर्भान् समातिष्ठन् प्राणायामादिकानपि ॥

4.54

जहाति जन्तुर्यः प्राणान् स शिवत्वं प्रपद्यते
रूपं परं महेशस्य ध्यातुं शक्यं न जातुचित् ॥

4.55

वैचित्र्यात्कल्पितं भ्रान्त्यै तत्रास्था चेतसः कथम्
पार्थिवाप्ये विचित्राङ्के न ध्येये धारणे तदा ॥

4.56

तथाप्यभ्यासतः सिद्धाः श्रूयन्ते योगिनस्तयोः
भोगविप्लुतचित्तस्य कथं स्याच्चित्तसंस्थितिः ॥

4.57

नाधिकृत्याविरक्ताणून् प्राहेदं साधनं हरः
शक्यते विषयीकर्तुं जगदप्यखिलं शनैः ॥

4.58

किमु चित्रं वपुर्दान्तैर् वैराग्याभ्यासशालिभिः
केयं वा रूपकेयत्ता सर्वाधिष्ठानयोगिनः ॥

4.59

सर्वदा सर्वभूतानां सर्वाकारोपकारिणः
स्थानरूपप्रमाणानि परिकल्प्य स्वचेतसा ॥

4.60

यत्रोपरमते चित्तं तत्तद्ध्येयं पुनः पुनः
तेनास्य चेतसः स्थैर्यं सविशेषगुणः शनैः ॥

4.61

उन्मील्य योगसंस्कारं हतविघ्नस्य जायते
एवमातिष्ठतः सम्यग् विनैवाकारकल्पनाम् ॥

4.62

अकिञ्चिच्चिन्तकस्यास्य रूपमुन्मीलति स्वकम्
सर्वार्थदृक्क्रियारूपम् आनन्दमव्ययम् [..] ॥

4.63

यत्प्राप्य न पुनर्दुःख योगमेत्यशिवावहम्
एतत्समस्तगुह्यानां गुह्यं सिद्धामरस्तुतम् ॥

4.64

साक्षादालोचनं शम्भोर् अत्युत्पावनमुत्तमम्
नाल्पकालोषितायैतद् देयं नातिप्रमादिने
नामेधिने नातपसे यश्च नाभ्यर्चयेच्छिवम् ॥

4.65

अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालैर् इष्टान् लोकान् रोरुचानो विहृत्य
काले हित्वापास्रवं देहमास्ते स्वात्मन्येवाश्चर्यचर्याधिवासः ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc