भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 3

3.1

अथातो देशिकादीनां सामान्याचारसंग्रहः
परश्चावसरप्राप्तः समासेनोपदिश्यते ॥

3.2

देशिको मन्त्रवृत्तिश्च पुत्रकः समयी च यः
चत्वार एते शैवाः स्युर् व्रतिनो ऽव्रतिनो ऽपि वा ॥

3.3

व्रतिनो जटिला मुण्डास् तेष्वग्र्या भस्मपाण्डराः
तिलकैः पुण्ड्रकैः पट्टैर् भूषिता भूमिपादयः ॥

3.4

जटा न शूद्रो विभृयान् नाज्ञो नापि प्रमादवान्
न योषिन्न वयोन्तस्था न रोगी विकलो ऽपि वा ॥

3.5

कलातत्त्वपवित्राणु शक्तिमन्त्रेशसंख्यया
विभज्य केशान्सम्पात्य प्रत्यंशं संहिताणुभिः ॥

3.6

व्रतेश्वरस्य पुरतो बध्नीयाच्छिवतेजसा
मन्त्रिणः साध्यमन्त्रेण हृदा पुत्रकयोग्ययोः ॥

3.7

कृमिघ्नद्रव्यमिश्रेण भस्मना त्रैफलेन च
सायचूर्णेन वा पुष्टिं नयेत्ता भौतिकव्रती ॥

3.8

भौतिकव्रतिनस्ते स्युर् येषां सावधिकं व्रतम्
देहपातान्तकं येषां ते निष्ठाव्रतिनः स्मृताः ॥

3.9ab

गुरवः पुत्रका ये च न प्राथमिकसाधकाः

3.9cd

पूर्णव्रतावधिः सम्यग् व्रतेशायार्पितव्रतः ॥

3.10

न्यस्तव्रताङ्गः सत्पत्नी परिग्रहविभूतिमान्
भौतिकः काम्य इत्युक्तः सत्सान्तानिक एव वा ॥

3.11

साधको लोकधर्मी यः पुत्रकः स्नातको गृही
समयी प्राग्गृहस्थश्च शैवाः स्युर्व्रतवर्जिताः ॥

3.12

तेषां साधारणं कर्म सन्ध्योपासनमर्चनम्
स्नानादीनि तदङ्गानि पर्वसु द्विगुणक्रिया ॥

3.13

न्यग्रोधाश्वत्थपत्रेषु वातघ्नाक्षदलेषु च
कांस्ये वाभोजनं भैक्षं चातुर्वर्ण्यमकुत्सितम् ॥

3.14

सर्वामरप्रतिष्ठासु सेत्वादीनां निवेशने
सीमन्तोन्नयनाद्येषु संस्कारेष्वन्नवर्जनम् ॥

3.15

चरुणा फलमूलैर्वा हविष्येणापरेण वा
चतुर्दश्यामथाष्टम्यां पञ्चदश्यां च वर्तनम् ॥

3.16

व्यतीपातदिनध्वंस मासवृद्ध्ययनादिषु
विशेषसंयमः कार्यः शैवानां च प्रतर्पणम् ॥

3.17

मार्गक्षीणे रिपुग्रस्ते रोगार्ते क्षुत्प्रपीडिते
सर्वात्मना समुद्धारः कर्तव्यः शिवयोगिनः ॥

3.18

मांसयोषिन्मधुत्यागो व्रतिनः क्षितिशायिता
मात्रारक्षणमेकस्य कमण्डलुसहायता ॥

3.19

स्त्रीगीतनर्तितालाप विलासानामुपेक्षणम्
स्त्रिया रहो ऽव्यवस्थानं स्रगभ्यङ्गादिवर्जनम् ॥

3.20

कृष्णपक्षे चतुर्दश्याम् अष्टम्यां सिद्धदर्शने
श्राद्धं पर्वसु सर्वेषु विषुवे चाष्टकादिषु ॥

3.21a-c

गुरुतत्तुल्यबन्धूनां भ्रातॄणां ज्यायसामपि
पूजनं मधुपर्काद्यैः %

3.21d

स्वकाले स्त्रीनिषेवणम् ॥

3.22ab

मङ्गलाचारयोगित्वं गन्धमाल्यादिधारणम्

3.22cd

पृथक्पृथक्तथैतेषाम् आचारो ऽपि विधीयते ॥

3.23

महेशशक्तिनुन्नानां गुरुः कुर्यादनुग्रहम्
परीक्षाभिः परिज्ञाय वृद्धोक्ताभिः प्रयत्नवान् ॥

3.24

अकृत्वा शिवभक्तानां कृत्वा च व्यभिचारिणाम्
प्रायश्चित्ती भवेद्यस्मात् कुर्याद्यत्नमतः परम् ॥

3.25

कर्म संजीवनं कुर्याद् व्यभिचारिणि दीक्षिते
सृष्टितः संहिताहोमाद् अधः पूर्णासमन्वितम् ॥

3.26

संजीवनं न दग्धस्य कर्मणो ऽस्ति मृषा चितः
खेदनापायशमनं प्रायश्चित्तं हि तद्गुरोः ॥

3.27

दर्शनान्तरसंस्थाभ्यश् च्युतानामनुवर्तिनाम्
विधायैवं स्वजात्यन्तं दीक्षां कुर्याद्विलोमतः ॥

3.28

न ते मन्त्रप्रयोक्तारः पुनर्भवतया मताः
मन्त्रसाधनसंसिद्धेः कुर्यात्तानीतराण्यतः ॥

3.29

व्याकुर्याच्छिवभक्तेभ्यस् तन्त्रार्थं गतमत्सरः
न्यायतो न्यायवर्तिभ्यः पालयन् गुरुसन्ततिम् ॥

3.30

नाजीर्णाम्लरसोद्गारे न च विण्मूत्रबाधने
न छर्द्यां नातिसारे वा नास्नातः कृतमैथुनः ॥

3.31

पूते महीतले स्थित्वा पशुश्रवणवर्जिते
परिध्यन्तःस्थितं चेष्ट्वा शिवं प्रणवविग्रहम् ॥

3.32

गणाध्यक्षं गुरुं चैव कारकं च क्रियाश्रयम्
पुस्तकं गुप्तसत्सूत्रं विधायोपरि कस्यचित् ॥

3.33

ब्रूयादङ्ग पठस्वेति कृतार्थं प्रागुदङ्मुखः
प्रारभेत गुरुर्व्याख्यां सम्बन्धार्थोक्तिपूर्विकाम् ॥

3.34

स्रोतो ब्रूयादनुस्रोतो भेदान् संख्यानमेव च
प्रवृत्तये गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥

3.35

स्रोतांसि कामिकाद्यूर्ध्वम् असिताङ्गादि दक्षिणम्
सम्मोहाद्युत्तरं प्राच्यं त्रोतलादि सुविस्तरम् ॥

3.36ab

आप्यं चण्डासिधारादि चण्डनाथपरिग्रहम्

3.36cd

शैवं मान्त्रेश्वरं गाणं दिव्यमार्षं च गौह्यकम् ॥

3.37

योगिनीसिद्धकौलं च स्रोतांस्यष्टौ विदुर्बुधः
प्रतिस्रोतो ऽनुयायीनि तानि ब्रूयाद्विभागशः ॥

3.38ab

शैवं प्राक्तन्त्रनिर्माणम् आज्ञासिद्धमसंशयम्

3.38cd

तदीशानैर्गणैर्देवैर् मुनिभिश्च तदिच्छया ॥

3.39ab

विज्ञाय सम्भृतं स्वोक्त्या तादाख्यं समुपागतम्

3.39cd

गुह्यका भुजगा यक्षा दानवाश्च शिवेरिताः ॥

3.40ab

यदूचुरुपसंहृत्य तत्स्रोतो गौह्यकं स्मृतम्

3.40cd

योगिन्यो लेभिरे ज्ञानं सद्यो योगावभासकम् ॥

3.41ab

येनतद्योगिनीकौलं नोत्तीर्णं ताभ्य एव तत्

3.41cd

तथान्यदपि संहारो यो मिश्रो मिश्र एव सः ॥

3.42cd

वादिभेदप्रभिन्नत्वात् तेषां संख्या न विद्यते

3.42cd

शैवा रौद्रा महाभेदा दशाष्टादश चोर्ध्वके ॥

3.43ab

रौद्रा रुद्रैः शिवाविष्टैर् उद्गीर्णा न स्वबुद्धितः

3.43cd

शैवानां कामिकं पूर्वं योगोद्भवमचिन्त्यकम् ॥

3.44

कारणं ज्ञानमजितं दीप्ताख्यं सूक्ष्मकं परम्
साहस्रमंशुमत्संज्ञं सुप्रभिद्दशमं विदुः ॥

3.45

रौद्राणां विजयं पूर्वं निःश्वासं पारमेश्वरम्
स्वायम्भुवं तथाग्नेयं वीरभद्रं च रौरवम् ॥

3.46

मकुटं विमलाख्यं च चन्द्रज्ञानाख्यमेव च
मुखबिम्बकमुद्गीतं ललितं सिद्धसंज्ञकम् ॥

3.47ab

सन्तानं चैव शर्वोक्तं किरणं वातुलं परम्

3.47cd

तदारभ्य चिरं नाति व्याकुर्यात्प्रथमे ऽहनि ॥

3.48

प्रारम्भे ऽपि न सम्प्रश्न प्रतिप्रश्नातिमात्रकम्
त्रीणि मूलानि सूत्राणि द्वे तथैकमथापि वा ॥

3.49ab

विधायोपरमेदूर्ध्वं वदन्विघ्नैर्विरुद्ध्यते

3.49cd

यत्र बीज इवारूढो महातन्त्रार्थपादपः ॥

3.50ab

आभाति मूलसूत्रं तद् अथशब्दाद्यलंकृतम्

3.50cd

तस्योद्देशकमन्यत्स्यात् संख्यासंज्ञादिवाचकम् ॥

3.51ab

तल्लक्षणं स्वरूपोक्तिस् तदन्यो भाष्यसंग्रहः

3.51cd

ब्रूते य एवं यो ऽधीते तावुभौ हतकल्मषौ ॥

3.52ab

लोके प्राप्य यशो दीप्तं विशेतां धाम शांकरम्

3.52cd

अनध्याये स्वतन्त्रोक्त विधिना शृण्वते मृषा ॥

3.53ab

शैवं वदन्निहाल्पायुर् मृतः प्रेतत्वमश्नुते

3.53cd

नाध्यापयेच्चतुर्दश्याम् अष्टम्यां पक्षयोर्द्वयोः ॥

3.54ab

प्रतिपत्पञ्चदश्योश्च चतुर्थ्यामर्कसंक्रमे

3.54cd

निर्घातोल्कामहीकम्प पश्चाच्चापेषु वासरः ॥

3.55ab

संध्यास्तनितदिग्दाह परिवेषोपलेषु च

3.55cd

नीहारप्राग्धनुर्व्योम पुरेष्वेतेषु दर्शनात् ॥

3.56ab

कीलके च रवीन्दुस्थे त्र्यहं स्वर्भानुदर्शने

3.56cd

पञ्चरात्रं हरिमखे पवित्रे च मखद्विषः ॥

3.57ab

बिडालव्यालभेकेषु गतेष्वन्तरतो दिनम्

3.57cd

त्र्यहं त्रिफणिनि व्याले दृष्टे द्विफणिनि द्व्यहम् ॥

3.58

अन्तः शवश्रुतौ दाहे शवगन्धे खरानिले
तद्विरामं विना ख्यात जन्तुमृत्यौ च वासरम् ॥

3.59

गुरौ मासं शिवीभूते भ्रातृशिष्यादिके त्र्यहम्
शैवे राजनि सप्ताहं त्रिरात्रं पशुधर्मिणि ॥

3.60ab

स्वकल्पान्वयसिद्धेषु तथान्येष्वपि देशिकः

3.60cd

प्राग्व्याख्यानपरामर्श समाधानेष्टिकृद्भवेत् ॥

3.61

समयी पुत्रको वापि ज्ञात्वा किंचिदपूर्वकम्
निवेदयेदनुज्ञातो गुरवे पीठवर्तिने ॥

3.62

शृणुयात्स्वाभिषिक्ताद्वा योगपीठेष्टशंकरः
बहिः स्थितो बहिःसंस्थात् परसिक्तादपीठगात् ॥

3.63

न यायादनुपानत्कः क्वचिन्नाप्यसहायवान्
नातिप्राङ्नातिवेलायां न रात्रौ न खारातपे ॥

3.64

न नीचैः संवसेन्न्नापि वृथा यायाद्गृहाद्गृहम्
तथा नोपहसेत्कंचिन् नानुकुर्यान्न पीडयेत् ॥

3.65

नासदाचरितं किंचिद् आचरेत्स गुरुर्यतः
तदापन्नममान्यत्वं मन्त्र्यादिषु न वार्यते ॥

3.66

पुत्रकः प्रातरुत्थाय समयी च कृताह्निकः
कृतप्रणामो ऽनुज्ञातो गुरुणा कृत्यमाचरेत् ॥

3.67

अधीत्य शृणुयाच्छास्त्रं गुरुतन्त्रो गुरौ वसन्
त्यक्त्वाभिमानमात्सर्य डम्भव्यसनसन्ततिम् ॥

3.68

कण्ठप्रावृतिनिष्ठीव कासहासादि सन्निधौ
गुरोर्न कुर्यान्नो वादं कैश्चिन्नोत्कृष्टवेषवान् ॥

3.69

उद्वर्तनाङ्गसंस्कार जृम्भणासनसंस्थितीः
समानालापपर्यङ्ग बन्धध्यानार्चनादिकम् ॥

3.70

न भुञ्जानं समाधिस्थं चङ्क्रमन्तं क्रियोद्यतम्
स्थितं गुरुसमीपे वा मतिमान्नाभिवादयेत् ॥

3.71

गच्छन्तं पृष्ठतो यायाद् विशन्तमनुसंविशेत्
तद्वचो नानुयुञ्जीत शयानं न प्रबोधयेत् ॥

3.72

अनुज्ञातश्चरेद्भैक्षं प्राप्तमद्यान्निवेदितम्
शयीत सुप्त इत्यादि कुर्याद्विध्युदितं च यत् ॥

3.73

कामं चरेदनुज्ञातः पुत्रको धाम्नि वा वसेत्
समयी प्राग्गृहस्थश्च यत्नेनोपचरेद्गुरुम् ॥

3.74

साध्यकोटेरलब्धत्वात् तल्लाभो ऽपि तदाश्रयः
न चान्यवृत्तिनिष्ठस्य तस्मात्तत्साधको भवेत् ॥

3.75

साधको गुर्वनुज्ञातः पुण्यक्षेत्रं समाश्रितः
साध्यवेषधरो मौनी हविष्यचरुशाकभुक् ॥

3.76

सहायवानप्रमत्तः फलमूलभुगेव वा
इष्ट्वा शिवं यजेत् साध्यं जपं कुर्यात्त्रिधोदितम् ॥

3.77

हुत्वा दशांशं तद्याग कुम्भस्नातः शुभे दिने
क्षेत्रस्थः प्रारभेत्कर्म चरन्वा सिद्धिसंश्रयम् ॥

3.78

न कंचिदनुगृह्णीयान् न निषेवेत भर्त्सयेत्
नासीत चिरमन्यत्र विना क्षेत्रपरिग्रहात् ॥

3.79

माधूकरीं चरेद्भिक्षां दिनार्थे सवने गते
सर्वमन्त्रमुखे पुण्ये परमेशाधिदैवते ॥

3.80

तदनिर्वर्त्य यो ऽश्नाति सवनं सूरपूजितम्
मन्त्रास्तं नाधितिष्ठन्ति योगपीठव्यवस्थिताः ॥

3.81

भीक्षां तु चरतो भिक्षां नादद्यान्न विगर्हितात्
शैवात्स्वायम्भुवादेश्च कुतश्चिल्लिङ्गिनो ऽपि वा ॥

3.82

मिष्टान्नप्रचुरां भीक्षां नादद्यान्नातिसंस्कृताम्
परिहासादिचतुरा यत्र नार्यस्ततो ऽपि वा ॥

3.83

कृतरक्षः स्मरन्नस्त्रं पर्यटेन्मौनमास्थितः
भिक्षामलब्ध्वा नो कोपं कुर्यान्नो विधृतश्चिरम् ॥

3.84ab

न चाध्वसु प्रधावत्सु नोक्तः केनचिदप्रियम्

3.84cd

गुर्वग्निशिवविद्याभ्यः क्षेत्रपालाय चांशकम् ॥

3.85ab

समुद्धृत्य सहायेन विभज्याद्यात्क्षितौ शुचिः

3.85cd

समाचान्तो जपेन्मन्त्रं वैष्णवे समये ततः ॥

3.86

व्यतीते क्षेत्रपालाय स्वाहेत्योंकारपूर्वकम्
बलिं च नैरृते दद्याद् गन्धधूपपुरःसरम् ॥

3.87

ततः प्रसार्य सच्चर्म बद्ध्वासनमतन्द्रितः
ध्यायन्मन्त्रं जपेद्विद्वान् खिन्नस्तस्मिंल्लघु स्वपेत् ॥

3.88ab

समुत्थायार्धरात्रे तु कुर्यात्पूजाजपादिकम्

3.88cd

ततश्च सवने ब्राह्मे समिदाद्याहरेत्ततः ॥

3.89

शैवानावसथप्राप्तान् परया श्रद्धयार्चयेत्
सम्पन्नैः कारकैस्तांश्च ज्ञात्वा लिङ्गैर्यथार्हतः ॥

3.90

न कंचित्प्रणमेद् ब्रूयात् साध्यमन्त्रं न कस्यचित्
नाक्षिपेदोषधीर्मन्त्र गोब्राह्मणतपस्विनः ॥

3.91ab

व्यक्तिस्थानं शिवस्यैते शिवनिन्दैव सा यतः

3.91cd

विशिष्टेनोपहारेण यजेत्पर्वसु शंकरम् ॥

3.92

क्षेत्रपालं च साध्याणुं चरुं दद्यान्न कस्यचित्
लब्धानुज्ञो मृषा जातु तिष्ठेन्नैकमपि क्षणम् ॥

3.93

गुप्ताक्षसूत्रपूजाङ्गः क्रियाकालविभागवित्
क्रमशः सिद्धिमाप्नोति सिद्धिक्षेत्राणि संचरन् ॥

3.94ab

परिगृह्याथवा क्षेत्रं सल्लिङ्गाधिकृतं वसेत्

3.94ab

गणेशवृषभस्कन्द मातृलोकेशकीलितम् ॥

3.95

दक्षिणोत्तरदिग्द्वारं शिवधामान्यरक्षितम्
महाजनाकुलं दूर समित्पुष्पकुशोदकम् ॥

3.96ab

सोपद्रवं च संत्यज्य परिग्रहणमाचरेत्

3.96cd

बाणे लिङ्गे स्वयंव्यक्ते मुनिसिद्धनिषेविते ॥

3.97

स्वकल्पोक्तेन विधिना स्वयं वा परिकल्पिते
शुक्लपक्षे चतुर्दश्यां विशेषेणोत्तरायणे ॥

3.98ab

कुर्यात्परिग्रहं विद्वान् अष्टम्यां वा समाहितः

3.98cd

यागधाम विधायादा वस्त्रं माहेश्वरं यजेत् ॥

3.99ab

जप्त्वा दशसहस्राणि दशांशमनुहोमयेत्

3.99cd

भूरिस्रग्बलिधूपाद्यैर् इष्टलिङ्गस्थशंकरः ॥

3.100

न्यसेद्दिगीश्वरान्दिक्षु शक्रादीन् शङ्कुविग्रहान्
नाडीभूतेन सूत्रेण सन्धाय बहिरालिखेत् ॥

3.101

प्राकारं भस्मना दीप्तम् अस्त्रं माहेश्वरं जपन्
तदन्तरखिलैर्बीजैर् वर्मालब्धैस्तदुच्चरन् ॥

3.102ab

प्राकारं कवचं कुर्यात् स्वधाम्नो ऽप्येवमेव हि

3.102cd

धामशङ्कुषु लोकेशान् प्रदोषे प्रतिवासरम् ॥

3.103

बाह्यावृतौ तदस्त्राणि यजेदन्तर्घनच्छदम्
क्षेत्रपालं स्वदिग्भागे पर्वसु क्षेत्रनेमिगान् ॥

3.104ab

क्षेत्रे यन्नस्ति तद्दूरात् सहायोपहृतं भजेत्

3.104cd

न सिद्धिक्षेत्रमुत्सृज्य पदमप्यन्यतो व्रजेत् ॥

3.105

वर्णलक्षजपान्मन्त्रो होमाच दशमांशतः
स्वशास्त्रविहितां वृत्तिम् आस्थितस्य प्रसिद्ध्यति ॥

3.106

संजातव्युत्क्रमः कुर्यात् प्रायश्चित्तं विधिस्थितम्
अकामात्कामतः कुर्यात् तदेव त्रिगुणं सुधीः ॥

3.107

साधकाह्निकविच्छेदे सद्योजातायुतं जपेत्
शतं वा संयतप्राणो वासरं मारुताशनः ॥

3.108

वामस्यान्नव्यतिकरे हिंसायां बहुरूपिणः
वक्त्रस्य स्यन्दने रात्रौ दिवा तद्द्विगुणं जपेत् ॥

3.109

द्विजाद्युच्छिष्टसंसर्गे वक्त्राद्यन्यतमं गुणम्
चतुर्दलाब्जमध्येष्ट्या तत्स्थाने पञ्चमं यजेत् ॥

3.110

षडहोपोषितो लक्षं जपेद्वन्याशनो ऽपि वा
जुहुयादयुतं ज्ञाते द्विगुणं शुद्धिकारणात् ॥

3.111

जपेन्निर्माल्यसम्पर्के सर्वब्रह्माणि लक्षशः
समग्रसंहितालक्षं जपेन्निर्माल्यभोजने ॥

3.112

वामाद्याः पतयः शाक्य पादार्थिककपालिनाम्
अजातो ऽधिपतिः प्रोक्तस् त्रयीनैष्ठिकलिङ्गिनाम् ॥

3.113

तदन्नभोजने शुद्धिर् जातिसम्पर्कशुद्धिवत्
किंत्वैन्दवव्रतप्रान्ते कापाल्यन्नाशने मतम् ॥

3.114

ईशानस्य जपेल्लक्षं तत्सङ्करविशुद्धये
कापालिसङ्करे त्रीणि लक्षाणि कृतसंयमः ॥

3.115

प्रमादाद्धारिते लिङ्गे भ्रष्टे वा साक्षसूत्रके
लक्षं जपेन्महेशस्य पुनः कुर्यात्परिग्रहम् ॥

3.116

भ्रंशे वा जनिते भङ्गे दशांशो विहितो मुने
तदन्यत्रार्धमूलं वा सहस्रं सुलघीयसि ॥

3.117

तद्वच्च पशुना दृष्टे स्पृष्टे दशगुणं जपेत्
हारितार्धं गुणच्छेदे संख्यासूत्रस्य दोषनुत् ॥

3.118ab

त्यागश्च कफविण्मूत्र स्पृष्टस्यान्यत्र तैजसात्

3.118cd

प्रमादाद्योषितं गत्वा प्राणायामायुतं भजेत् ॥

3.119ab

द्विपञ्चगुणितं शुद्ध्यै प्रणवोच्चारसंश्रितम्

3.119cd

महापातकसंयोगे शिवैकादशिकायुतम् ॥

3.120

जपेद्दशगुणं प्राण संयमी फलमूलभुक्
तत्समेष्वेवमेव स्यात् किं तु प्राणायतिं विना ॥

3.121

पातकेषु तदन्येषु क्रियाव्यतिकरेषु च
जपेदेकादशाजातम् एकं वा ब्रह्ममध्यगम् ॥

3.122

न ग्राह्यं कारकं किंचित् सख्या जातांहसाहृतम्
आददानो ऽपरिज्ञानात् पूर्वोक्तादर्धमाचरेत् ॥

3.123

बहुदैवसिके योगे तुल्यं साधर्म्ययोगतः
ज्ञात्वैवं साधको विद्वान् सहायं सद्गुणं भजेत् ॥

3.124

सजात्यभिजनोपेतं यवीयांसं गुणाधिकम्
पुत्रकं समयस्थं वा सुस्निग्धमपरं ततः ॥

3.125

साधकोक्तं व्रतं कुर्याद् गुरुरस्ववशो व्रती
द्विगुणं स्ववशस्ताव च्चरेदस्ववशो व्रती ॥

3.126

स्ववशस्त्रिगुणं त्र्यंशं विना तत्पुत्रकश्चरेत्
पुत्रकार्धं तु समयी पूर्वोक्तानुक्तपाप्मनाम् ॥

3.127

कृच्छ्रं वा प्रतिषण्मासं प्रत्यब्दमथवैन्दवम्
पराकं तप्तकृच्छ्रं वा मन्त्री सानुचरश्चरेत् ॥

3.128ab

निर्विघ्नसिद्धिमन्विच्छन् मुक्त्यर्थमितरे त्रयः

3.128cd

सर्वच्छिद्रहरश्चान्यो विधिरेषां निगद्यते ॥

3.129ab

यः प्राप्तस्तपसा देवैर् हरात्स्वविधिपुष्टये

3.129cd

श्रावणे तदुपान्ते वा नभस्ये वोच्यमानवत् ॥

3.130

शम्भोः पवित्रमापाद्य पूरयेद्वार्षिकं विधिम् ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc