मोक्षोपायटीका · अध्याय 3.8
कयैतज् ज्ञायते युक्त्या कथम् एतत् प्रसिध्यति ।
न्याये ऽनुभूत एतस्मिन् न ज्ञेयम् अवशिष्यते ॥
बहुकालम् इयं रूढा मिथ्याज्ञानविषूचिका ।
जगन्नाम्नी विचाराख्याद् ऋते मन्त्रान् न शाम्यति ॥
वदाम्य् आख्यायिका राम या इमा बोधसिद्धये ।
ताश् चेच् छृणोषि तत् साधो मुक्त एवासि बुद्धिमान् ॥
नो चेद् उद्वेगशीलत्वाद् अर्धाद् अर्⟨थ्⟩[ध्]आद् उत्थाय गच्छसि ।
तत् तिर्यग्धर्मिणस् ते ऽद्य [ऽ]द्य⟨ः⟩ किञ्चिन् नापि तु सेत्स्यति ॥
यो यम् अर्थं प्रार्थयते तदर्थं यतते तथा ।
सो ऽवश्यं तद् अवाप्नोति न चेच् छ्रान्तो निवर्तते ॥
साधुसङ्गमसच्छास्त्रपरो भवसि राम चेत् ।
तद् दिनैर् एव वा मासैः प्राप्नोषि परमं पदम् ॥
आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर ।
किंनाम तत्प्रधानं स्याद् यस्मिञ् ज्ञाते °⟨न्⟩[त्]ए न शोच्यते ॥
आत्मज्ञानप्रधानानाम् इदम् एव महामते ।
शास्त्राणां परमं शास्त्रं महारामायणाभिधम् ॥
इतिहासोत्तमाद् अस्मात् परो बोधः प्रवर्तते ।
सर्वेषाम् इतिहासानाम् अयं सार उदाहृतः ॥
श्रुते ऽस्मिन् वाङ्मये यस्माज् जीवन्मुक्तत्वम् अक्षतम् ।
उदेति स्वयम् एवात इदम् एवातिपावनम् ॥
स्थितम् एवास्तम् आयाति जगद्दृश्यं विचारणात् ।
यथा स्वप्ने परिज्ञाते स्वप्नार्थाद् एव भावना ॥
यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्वचित् ।
इदं समस्तविज्ञानशास्त्रकोशं विदुर् बुधाः ॥
य इदं शृणुयाद् नित्यं तस्योदारचमत्कृतेः ।
बालस्यापि परं बोधं बुद्धिर् एति न संशयः ॥
यस्मै नेदं त्व् अभव्याय रोचते दुष्कृतोदयात् ।
विचारयतु यत्किञ्चित् स शास्त्रं ज्ञानवाङ्मयम् ॥
जीवन्मुक्तत्वम् °क्त्(इ)अ° अस्मिंस् तु श्रुते समनुभूयते ।
स्वयम् एव यथा पीते ⟨म्⟩[प्]ई⟨न्⟩[त्]ए नीरोगत्वं वरौषधे ॥
श्रूयमाणे हि शास्त्रे ऽस्मिञ् श्रोता वेत्त्य् एतद् आत्मना ।
यथावद् इदम् अस्माभिर् न तूक्तं वरशापवत् ॥
शाम्यति संसृतिदुःखम् इदं ते स्वात्मविचारमहाकथयैव ।
नो धनदानतपःश्रुतवेदैस् °श्रुत्(ए)अ° तत्कथनोज्झितयत्नशतेन ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0