भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 2.18

2.18.1

अस्यां वाचितमात्रायां परो बोधः प्रवर्तते ।
बीजाद् इव यतो व्युप्ताद् अवश्यंभावि सत्फलम् ॥

2.18.2

अपि पौरुषम् आदेयं शास्त्रं चेद् चे⟨त्⟩[द्] युक्तिबोधकम् ।
अन्यत् त्व् आर्षम् अपि त्याज्यं भाव्यं न्यायैकसेविना ॥

2.18.3

युक्तियुक्तम् उपादेयं वचनं बालकाद् अपि ।
अन्यत् तृणम् इव त्याज्यम् अप्य् उक्तं पद्मजन्मना ॥

2.18.4

यो ऽम्भस् तातस्य कूपो ऽयम् इति कौपं पिबेत् कटु ।
त्यक्त्वा गाङ्गं पुरःस्थं तं को ऽनुशासति रागिणम् ॥

2.18.5

यथोषसि प्रवृत्तायाम् आलोको ऽवश्यम् एष्यति ।
अस्यां वाचितमात्रायां स्वविवेकस् तथैष्यति ॥

2.18.6

श्रुतायां प्राज्ञवदनाद् बुद्धायां स्वयम् एव वा ।
शनैः शनैर् विचारेण बुद्धौ संस्कार आगते ॥

2.18.7

पूर्वं तावद् उदेत्य् अन्तर् भृशं संस्कृतवाक्यता ।
शुद्धा मुक्ता लतेवोच्चैर् या सभास्थानभूषणम् ॥

2.18.8

परा विरागतोदेति महत्त्वगुणशालिनी ।
सा यया स्नेहम् आयान्ति राजानो ऽजगरा अपि ॥

2.18.9

पूर्वापरज्ञः सर्वत्र नरो भवति बुद्धिमान् ।
पदार्थानां यथा दीपहस्तो निशि सुलोचनः ॥

2.18.10

लोभमोहादयो दोषास् तानवं यान्त्य् अलं शनैः ।
धियो दिशः समासन्नशरदो मिहिका यथा ॥

2.18.11

केवलं समपेक्षन्ते विवेकाभ्यसनं धियः ।
न काचन फलं धत्ते स्वभ्यासेन विना क्रिया ॥

2.18.12

मनः प्रसादम् आयाति शरदीव महत् सरः ।
परं साम्यम् उपाधत्ते निर्मन्दर इवार्णवः ॥

2.18.13

निरस्तकालिमा वज्रशिखेवास्ततमःपटा ।
परिज्वलत्य् अलं प्रज्ञा पदार्थप्रविभागिनी ॥

2.18.14

दैन्यदारिद्र्यदोषाद्या दृष्टयो दर्शितान्तराः ।
न निकृन्तन्ति मर्माणि ससंनाहम् इवेषवः ॥

2.18.15

हृदयं नावलुम्पन्ति भीमाः संसृतिभीतयः ।
पुरःस्थितम् अपि प्राज्ञं महोपलम् इवाखवः ॥

2.18.16

कथं स्याद् आदिता जन्मकर्मणोर् दैवपुंस्त्वयोः ।
इत्यादिसंशयगणः शाम्यत्य् अह्नि यथा तमः ॥

2.18.17

सर्वथा सर्वभावेषु संगतिर् उपशाम्यति ।
यामिन्याम् इव यातायां प्रज्ञालोक उपागते ॥

2.18.18

समुद्रस्येव गाम्भीर्यं स्थैर्यं मेरोर् इव स्थितम् ।
अन्तःशीतलता चेन्दोर् इवोदेति विचारिणः ॥

2.18.19

सा जीवन्मुक्तता तस्य शनैः परिणतिं गता ।
शान्ताशेषविकल्पस्य भवत्य् आविश्य योगिनः °⟨त्⟩[न्]अः ॥

2.18.20

सर्वार्थशीतला शुद्धा परमालोकदा सुधीः ।
परं प्रकाशम् आयाति ज्योत्स्नेव सकलैन्दवी ॥

2.18.21

हृद्याकाशे विवेकार्के शमालोकिनि निर्मले ।
अनर्थसार्थकर्तारो नोद्यन्ति कलिकेतवः ॥

2.18.22

शाम्यन्ति शुद्धिम् आयान्ति सौम्यास् तिष्ठन्ति सून्नते ।
अचञ्चलजडास् तृष्णाः शरदीवाभ्रमालिकाः ॥

2.18.23

यत्किंचनकरी क्रूरा ग्राम्यता विनिवर्तते ।
दीनानना पिशाचानां लीलेव दिवसागमे ॥

2.18.24

धर्मभित्तौ भृशं लग्नां धियं धैर्यधुरं गताम् ।
आधयो न विलुम्पन्ति वाताश् चित्रलताम् इव ॥

2.18.25

न पतत्य् अवटे जन्तुर् विषयासङ्गरूपिणि ।
कः किल ज्ञातसरणिः श्वभ्रे समनुधावति ॥

2.18.26

सच्छास्त्रसाधुवृत्तानाम् अविरोधिनि कर्मणि ।
रमते धीर् यथाप्राप्ते साध्वीवान्तःपुराजिरे ॥

2.18.27

जगतां कोटिलक्ष्येषु यावन्तः परमाणवः ।
तेषाम् एकैकशो ऽन्तःस्थान् सर्गान् पश्यत्य् असर्गधीः ॥

2.18.28

मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम् ।
न खेदयति भोगौघो न चानन्दयति क्वचित् ॥

2.18.29

परमाणौ परमाणौ सर्गवर्गा निरर्गलम् ।
ये पतन्त्य् उत्पतन्त्य् अम्बुवीचिवत् तान् स पश्यति ॥

2.18.30

न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ।
कार्याण्य् एष प्रबुद्धो ऽपि निष्प्रबुद्ध इव द्रुमः ॥

2.18.31

दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् ।
इष्टानिष्टफलप्राप्तौ हृदये न पराजितः ॥

2.18.32

बुद्ध्वेदम् अखिलं शास्त्रं वाचयित्वा विवेच्य वा ।
अनुभूयत एवैतन् न तूक्तं वरशापवत् ॥

2.18.33

शास्त्रं सुबोधम् एवेदं नानालंकारभूषितम् ।
काव्यं रसघनं चारु दृष्टान्तैः प्रतिपादकम् ॥

2.18.34

बुध्यते स्वयम् एवेदं किंचित्पदपदार्थवित् °व्*इ*त् ।
स्वयं यस् तु न वेत्तीदं श्रोतव्यं तेन पण्डितात् ॥

2.18.35

अस्मिञ् श्रुते मते ज्ञाते तपोध्यानजपादिकम् ।
मोक्षप्राप्तौ तु तस्येह न किंचिद् उपयुज्यते ॥

2.18.36

एतच्छास्त्रघनाभ्यासात् पौनःपुन्येन वीक्षितात् ।
जन्तोः पाण्डित्यपूर्वं हि चित्तसंस्कारपूर्वकम् ॥

2.18.37

अहं जगद् इति प्रौढो द्रष्टृदृश्यपिशाचकः ⟨दृष्ट⟩[द्रष्टृ]° ।
पिशाचो ऽर्कोदयेनेव स्वयं शाम्यत्य् अविघ्नतः ॥

2.18.38

भ्रमो जगद् अहं चेति स्थित एवोपशाम्यति ।
स्वप्नमोहः परिज्ञात इव नो रमयत्य् अलम् ॥

2.18.39

यथा संकल्पनगरे पुंसो हर्षविषादिता ।
न बाधते तथैवान्तः परिज्ञाते जगद्भ्रमे ॥

2.18.40

चित्रसर्पः परिज्ञातो न सर्पभयदो यथा ।
दृश्यसर्पः परिज्ञातस् तथा न सुखदुःखदः ॥

2.18.41

परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति ।
यथा तथैव संसारः स्थित एवोपशाम्यति ॥

2.18.42

सुमनःपल्लवामर्शे °आ⟨स्⟩[म्]अर्⟨ष्⟩[श्]ए किंचिद्व्यतिकरो भवेत् ।
परमार्थपदप्राप्तौ न तु व्यतिकरो ऽस्ति नः ॥

2.18.43

गच्छत्य् अवयवस्पन्दः सुमनःपत्रमर्दने ।
इह धीमात्रबोधस् तु नाङ्गावयवबोधनम् ॥

2.18.44

सुखासनोपविष्टेन यथासम्भवम् अश्नता ।
भोगजालं सदाचारविरुद्धेषु न तिष्ठता ॥

2.18.45

यथाक्षणं यथादेशं प्रविचारयता सुखम् ।
यथासम्भवसत्सङ्गम् इदं शास्त्रम् अथेतरत् ॥

2.18.46

आसाद्यते महाज्ञानबोधः संसारशान्तिदः ।
स भूयो येन नायाति योनियन्त्रप्रपीडनम् ॥

2.18.47

एतावत्य् एव ये भूता भोगान् प्राप्य रसे स्थिताः ।
स्वमातृविष्ठाक्रिमयः कीर्तनीया न ते ऽधमाः ॥

2.18.48

शृणु तावद् इदानीं त्वं कथ्यमानम् इदं मया ।
राघव ज्ञानविस्तारं बुद्धिसारतरान्तरम् ॥

2.18.49

ययेदं श्रूयते शास्त्रं तां तु विस्तरतः शृणु ।
विचार्यते तथार्थो ऽयं यया च परिभाषया ॥

2.18.50

येनेहाननुभूते ऽर्थे दृष्टेनार्थावबोधनम् °⟨र्⟩[ब्]ओध° ।
बोधोपकारफलदं तं दृष्टान्तं विदुर् बुधाः ॥

2.18.51

दृष्टान्तेन विना राम नापूर्वो ऽर्थो ऽवबुध्यते ।
यथा दीपं विना रात्रौ भाण्डोपकरणं गृहे ॥

2.18.52

यैर् यैः काकुत्स्थ दृष्टान्तैस् त्वं मयेहावबुध्यसे ।
सर्वे सकारणास् ते हि प्राप्यं तु सद् अकारणम् ॥

2.18.53

उपमानोपमेयानां कार्यकारणतोदिता ।
वर्जयित्वा परं ब्रह्म सर्वेषाम् एव विद्यते ॥

2.18.54

ब्रह्मोपदेशदृष्टान्तो यस्य वेह हि कथ्यते ।
एकदेशसधर्मत्वं तत्रातः परिगृह्यते ॥

2.18.55

यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने ।
दीयते स स ⟨म्⟩[स्]अ बोद्धव्यः स्वप्नदृष्टजगद्गतः ॥

2.18.56

एवं सति निराकारे ब्रह्मण्य् आकारवान् कथम् ।
दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ॥

2.18.57

अन्या सिद्धविरुद्धादिदृक् दृष्टान्तप्रदूषणे ।
स्वप्नोपमत्वाज् जगतः समुदेति न काचन ॥

2.18.58

अवस्तु पूर्वापरयोर् वर्तमानविचारितं ।
यथा जाग्रत् तथा स्वप्नः सिद्धम् °द्ध[म्] आबालम् अक्षतम् ॥

2.18.59

स्वप्नसंकल्पनध्यानवरशापौषधादिभिः ।
ये ऽर्थास् त इह दृष्टान्तास् तद्रूपत्वाज् जगत्स्थितेः ॥

2.18.60

मोक्षोपायकृता ग्रन्थकारेणान्ये ऽपि ये कृताः ।
ग्रन्थास् तेष्व् इयम् एवैका व्यवस्था बोध्यबोधने °⟨द्⟩[ध्]यबो° ॥

2.18.61

स्वप्नाभत्वं च जगतः श्रुते शास्त्रे ऽवभोत्स्यते ऽव⟨ब्⟩[भ्]ओ° ।
शीघ्रं न पार्यते वक्तुं वाक् किल क्रमवर्तिनी ॥

2.18.62

स्वप्नसंकल्पसुध्याननगराद्युपमं जगत् ।
यतस् त एव दृष्टान्तास् °न्ता⟨त्⟩[स्] तस्माद् भान्तीह नेतरे ॥

2.18.63

अकारणं कारणिना यद् बोधायोपमीयते ।
न तत्र सर्वसाधर्म्यं सम्भवत्य् उपमाभ्रमैः ॥

2.18.64

उपमेयस्योपमानाद् एकांशेन सधर्मता ।
अङ्गीकार्यावबोधाय धीमता निर्विवादिना ॥

2.18.65

अर्थावलोकने दीपाद् आभामात्राद् ऋते किल ।
न स्थालतैलवर्त्यादि °व⟨न्⟩[र्]त्या° किंचिद् अप्य् उपजायते ॥

2.18.66

एकदेशसधर्मत्वाद् उपमेयावबोधनम् ।
उपमानं करोत्य् अङ्ग दीपो ऽर्थं प्रभया यथा ॥

2.18.67

दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति ।
उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः ॥

2.18.68

न कुतार्किकताम् एत्य नाशनीया प्रबुद्धता ।
अनुभूत्यपलापात्तैर् °भूत्य्⟨आ⟩[अ]प° अपवित्रैर् विकल्पितैः ॥

2.18.69

विचारणाद् अनुभवकारि वाङ्मय- प्रसङ्गताम् उपगतम् अस्मदादिषु ।
स्त्रियोक्तम् अप्य् अपरम् अथापि वैदिकं वचो वचःप्रलपनम् एव नागमः ॥

2.18.70

अस्माकम् अस्ति मतिर् अङ्ग तयेति सर्व- शास्त्रैकवाक्यकरणं फलितं यतो ऽतः ।
प्रातीतिकार्थमयशास्त्रनिजाङ्गपुष्टात् संवेदनाद् इतरद् अस्ति न नः प्रमाणम् ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc