मोक्षोपायटीका · अध्याय 2.11
एतत् ते कथितं सर्वं ज्ञानावतरणं भुवि ।
मया स्वम् ईहितं चैव कमलोद्भवकल्पितम् ॥
तद् इदं परमं ज्ञानं श्रोतुम् अद्य तवानघ ।
भृशम् उत्कण्ठितं चेतो महतः सुकृतोदयात् ॥
कथं ब्रह्मन् भगवतो °त्*ओ* लोके ज्ञानावतारणे ।
सर्गाद् अनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ॥
परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् ।
जातः स्पन्दमयो नित्यम् ऊर्मिर् अम्बुनिधाव् इव ॥
सृष्ट्वैवम् आततं सर्गं सर्गस्य सकला गतीः ।
भूतभव्यभविष्यत्स्था ददर्श परमेश्वरः ॥
सत्क्रियाक्रमकालस्य कृतादेः क्षय आगते ।
मोहम् आलोक्य लोकानां कारुण्यम् अगमत् प्रभुः ॥
ततो माम् ईश्वरः सृष्ट्वा ज्ञानेनायोज्य चासकृत् ।
विससर्ज महीपीठे लोकस्याज्ञानशान्तये ॥
यथाहं प्रहितस् तेन तथान्ये ऽपि महर्षयः ।
सनत्कुमारप्रमुखा नारदाद्याश् च भूरिशः ॥
क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च ।
मनोमहामयोत्तब्धम् उद्धर्तुं लोकम् ईरिताः ॥
महर्षिभिस् ततस् तैस् तु क्षीणे कृतयुगे पुरा ।
क्रमात् क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते ॥
क्रियाक्रमविधानार्थं मर्यादानियमाय च ।
पृथग्देशविभागेन भूपालाः परिकल्पिताः ॥
बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ ।
धर्मकामार्थे सिद्ध्यर्थं कल्पितान्य् उदितान्य् अथ ॥
कालचक्रे वहत्य् अस्मिंस् ततो विगलिते क्रमे ।
प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे ॥
द्वन्द्वानि संप्रवृत्तानि विषयार्थं महीभुजाम् ।
दण्ड्यतां संप्रयातानि भूतानि भुवि भूरिशः ॥
ततो युद्धं विना भूपा °पा⟨ः⟩ महीं पालयितुं क्रमात् ।
असमर्थास् तद् आयाताः प्रजाभिः सह दीनताम् ॥
तेषां दैन्यापनोदार्थं सम्यक्सृष्टिक्रमाय च ।
ततो ऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः ॥
अध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता ।
तद् अनु प्रसृता लोके राजविद्येत्य् उदाहृता ॥
राजविद्या °द्या⟨ं⟩ राजगुह्यम् अध्यात्मग्रन्थम् उत्तमम् ।
ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः ॥
अथ राजस्व् अतीतेषु बहुष्व् अमलकीर्तिषु ।
अस्माद् दशरथाद् राम जातो ऽद्य त्वम् इहावनौ ॥
तव चातिप्रसन्ने ऽस्मिञ् जातं मनसि पावनम् ।
निर्निमित्तम् इदं चारु वैराग्यम् अरिमर्दन ॥
सर्वस्यैव हि भव्यस्य साधोर् अपि विवेकिनः ।
निमित्तपूर्वं वैराग्यं जायते राम राजसम् ॥
इदं त्व् अपूर्वम् उत्पन्नं चमत्कारकरं सताम् ।
तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् ॥
बीभत्सं विषमं दृष्ट्वा को नाम न विरज्यते ।
सतां तूत्तमवैराग्यं विवेकाद् एव जायते ॥
ते महान्तो महाप्रज्ञा निमित्तेन विनैव हि ।
वैराग्यं जायते येषां त एवामलमानसाः ॥
स्वविवेकचमत्कारपरामर्शविरक्तया ।
राजते हि धिया जन्तुर् युवेव वनमालया ॥
परामृश्य विवेकेन संसाररचनाम् इमाम् ।
विरागं ये ऽधिगच्छन्ति त एव पुरुषोत्तमाः ॥
स्वविवेकवशाद् एव विचार्येदं पुनः पुनः ।
इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् ॥
श्मशानम् आपदं दैन्यं दृष्ट्वा को न विरज्यते ।
तद् वैराग्यं परं श्रेयः स्वतो यद् अभिजायते ॥
अकृत्रिमविरागस् त्वं महत्ताम् अलम् आगतः ।
योग्यो ऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम् बीजस्य्⟨ऐ⟩[ए]व मृ⟨ड्⟩[द्]उ° ॥
प्रसादात् परमेशस्य नाथस्य परमात्मनः ।
त्वादृशस्य शुभा बुद्धिर् विवेकम् अनुधावति ॥
क्रियाक्रमेण महता तपसा नियमेन च ।
दानेन तीर्थयात्राभिश् चिरकालविवेकतः °त्(आ)अः ॥
दुष्कृते क्षयम् आपन्ने परमार्थविचारणे ।
काकतालीययोगेन बुद्धिर् जन्तोः °तो*ः* प्रवर्तते ॥
क्रियापरास् तावद् अलं चक्रावृत्तिभिर् आदृताः ।
भ्रमन्तीह जना यावन् न पश्यन्ति °य[न्]ति परं पदम् ॥
यथाभूतम् इमं दृष्ट्वा संसारं तन्मयीं धियम् ।
परित्यज्य परं यान्ति निरालाना गजा इव ॥
विषमेयम् अनन्तेहा राम संसारसंसृतिः ।
देहमुक्ता महातन्तुर् विना ज्ञानं न नश्यति ॥
ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् °र्(आ)अम् ।
महाधियः समुत्तीर्णा नेतरेण रघूद्वह ॥
ताम् इमां ज्ञानयुक्तिं त्वं संसारांभोधितारिणीम् °आं⟨ब्⟩[भ्]ओधि° ।
शृणुष्वावहितो बुद्ध्या नित्यावहितयानया ॥
यस्माद् अनन्तसंरम्भा जगतो दुःखरीतयः ।
चिरायान्तर् दहन्त्य् एता विना युक्तिम् अनिन्दित ॥
शीतवातातपादीनि °वा(त्)[त्]आत° द्वन्द्वदुःखानि राघव ।
ज्ञानयुक्तिं विना केन सह्यतां यान्ति साधुषु ॥
आपतन्ति प्रतिपदं यथाकालं दहन्ति च ।
दुःखचिन्ता नरं मूढं तृणम् अग्निशिखा इव ॥
प्राज्ञं विज्ञातविज्ञानं सम्यग्दर्शिनम् आधयः ।
न दहन्ति वनं वर्षदब्दम् °षद⟨ग्ध्⟩[ब्द्]अम् अग्निशिखा इव ॥
आधिव्याधिपरावर्ते संसारमरुमारुते °रा⟨र्⟩व[र्]ते स्⟨आ⟩[अं]सा° ।
क्षुभिते ऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ॥
तत्त्वं ज्ञातुम् अतो यत्नाद् धीमान् एव हि धीमता ।
प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितं ॥
प्रामाणिकस्य पृष्टस्य वक्तुर् उत्तमचेतसा ।
यत्नेन वचनं ग्राह्यम् अंशुकेनेव कुङ्कुमम् ॥
अतत्त्वज्ञम् अनादेयवचनं वाग्विदां वर ।
यः पृच्छति नरं तस्मान् नास्ति मूढतरो ऽपरः ॥
प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः ।
नानुतिष्ठति यो वाक्यं नान्यस् तस्मान् नराधमः ॥
तज्ज्ञतातज्ज्ञते पूर्वं वक्तुर् निर्णीय कार्यतः ।
यः करोति नरः प्रश्नं पृच्छकः स महामतिः ॥
अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः ।
अधमः पृच्छकः स स्यान् न महार्थस्य भाजनम् ॥
पूर्वापरसमाधानक्षमबुद्धाव् अनिन्दिते ।
पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ॥
प्रामाणिकार्थयोग्यत्वं पृच्छकस्याविचार्य वा ।
यो वक्ति तम् इह प्राज्ञाः प्राहुर् मूढतमं नरम् ॥
त्वम् अतीव गुणाधारः पृच्छको रघुनन्दन ।
अहं च वक्तुं जानामि स च योगो ऽयम् आवयोः ॥
यद् अहं वच्मि तद् यत्नात् °ना[त्] त्वया शब्दार्थकोविद ।
एतद् वस्त्व् इति निर्णीय हृदि कार्यम् अखण्डितं ॥
महान् असि विरक्तो ऽसि तज्ज्ञो ऽसि जनतास्थितौ ।
त्वयि वस्तु लगत्य् अन्तः कुङ्कुमाम्बु यथांशुके ॥
उक्तावधानपरमा उक्त्⟨व्⟩आ° परमार्थविवेचिनी ।
विशत्य् अर्थं तव प्रज्ञा जलमध्यम् इवार्कभा ॥
यद् यद् वच्मि तवादेयं हृदि कार्यं प्रयत्नतः ।
न चेत् प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ॥
मनो हि चपलं राम संसारवनमर्कटम् ।
संरोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः ॥
अविवेकिनम् अज्ञानम् असज्जनरतिं जनम् ।
चिरं दूरतरं कृत्वा पूजनीया हि साधवः ॥
नित्यं सज्जनसंपर्काद् विवेक उपजायते ।
विवेकपादपस्यैते भोगमोक्षौ फले स्मृते ॥
मोक्षद्वारे द्वारपालाश् चत्वारः परिकीर्तिताः ।
शमो विचारः संतोषश् चतुर्थः साधुसंगमः ॥
एते सेव्याः स्(ओ)एव्° प्रयत्नेन चत्वारो द्वौ त्रयो ऽथवा ।
द्वारम् उद्घाटयन्त्य् एते मोक्षराजगृहे बलात् ॥
एकं वा सर्वयत्नेन प्राणांस् त्यक्त्वा समाश्रयेत् ।
एतस्मिन् वशगे यान्ति चत्वारो ऽपि वशं यतः ॥
सविवेको हि शास्त्रस्य ज्ञानस्य तपसो द्युतेः ।
भाजनं भूषणाकारो भास्करस् तेजसाम् इव ॥
घनताम् उपयातं हि प्रज्ञामान्द्यम् अचेतसां ।
याति स्थावरताम् अम्बु जाड्यात् पाषाणताम् इव ॥
त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः ।
विकासितान्तःकरणः स्थितः पद्म इवोदये ॥
इमां ज्ञानदृशं श्रोतुम् अवबोद्धुं च सन्मते स⟨त्⟩[न्]° ।
अर्हस्य् उद्धृतकर्णस्थजन्तुर् वीणाध्वनिं यथा ॥
वैराग्याभ्यासयोगेन समसौजन्यसंपदा ।
तत् पदं प्राप्यते राम यत्र नाशो न विद्यते ॥
शास्त्रैः सज्जनसंपर्कपूर्वकैस् सुतपोदमैः सु⟨ं⟩तपोद⟨भ्⟩[म्]ऐः ।
आदौ संसारमुक्त्यर्थं प्रज्ञाम् एवाभिवर्धयेत् ॥
संसारविषवृक्षो ऽग्रसेकम् आस्पदम् आपदाम् ।
अञ्जनं मोहयामिन्या मौर्ख्यं यत्नेन नाशयेत् ॥
एतद् एव च मौर्ख्यस्य परमं विद्धि नाशनम् ।
यद् इदं प्रेक्ष्यते शास्त्रं किंचित्संस्कृतया धिया ॥
दुराशासर्पगतेन दुराश्*आ*सर्पग⟨न्र्⟩तेन मौर्ख्येन हृदि वल्गता ।
चेतः संकोचम् आयाति चर्माग्नाव् इव योजितम् ॥
प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति ।
दृग् इवेन्दौ निरम्भोदसकलामलमण्डले ॥
पूर्वापरविचारार्थचारुचातुर्यशालिनी ।
सविकासा मतिर् यस्य स पुमान् इति कथ्यते ॥
विकसितेन सितेन मनोमुषा वरविचारणशीतलरोचिषा ।
गुणवता हृदयेन विराजसे त्वम् अमलेन नभः शशिना यथा ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0