मोक्षोपायटीका · अध्याय 1.9
तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।
समुत्स्रष्टुमना रामम् आजुहाव सलक्ष्मणम् ॥
प्रतीहार महाबाहुं रामम् सत्यपराक्रमम् ।
सलक्ष्मणम् अविघ्नेन मुन्यर्थं शीघ्रम् आनय ॥
इति राज्ञा विसृष्टो ऽसौ गत्वान्तःपुरमन्दिरम् ।
मुहूर्तमात्रेणागत्य श्4: °आगग° समुवाच महीपतिम् ॥
देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे ।
विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥
आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः ।
न कस्यचिच् च निकटे स्थातुम् इच्छति खिन्नधीः ॥
इत्य् उक्ते तेन भूपालस् तं रामानुचरं जनम् ।
सर्वम् आश्वासयाम् आस पप्रच्छ च यथाक्रमम् ॥
कथं कीदृक् स्थितो राम इति पृष्टो महीभृता ।
रामभृत्यजनः खिन्नो वाक्यम् आह महीपतिम् ॥
देहयष्टिम् इमां देव धारयन्त इमे वयम् ।
खिन्नाः खेदपरिम्लाने विभो रामे सुते तव ॥
रामो राजीवपत्राक्षो यतःप्रभृति चागतः ।
सविप्रस् तीर्थयात्रायास् ततःप्रभृति दुर्मनाः ॥
यत्नप्रार्थनयास्माकं निजव्यापारम् आह्निकम् ।
सायम् अम्लानवदनः करोति न करोति वा ॥
स्नानदेवार्चनाचारपर्यन्ते परिखेदवान् ।
प्रार्थितो ऽपि हि ना तृप्तेर् अश्नात्य् अशनम् ईश्वरः ॥
लोलान्तःपुरनारीभिः कृतदोलाभिर् अङ्गने ।
न च क्रीडति लीलाभिर् वराद्भिर् न्11, श्4: लोलाभिर् ध°; wइर् wइए श्1, श्3, न्10 इव चातकः ॥
माणिक्यमुक्तासम्प्रोता श्4: °प्राप्तो केयूरकटकावली ।
नानन्दयति तं राजन् द्यौः पातविवशं यथा ॥
क्रीडद्वधूविलोलेषु वहत्कुसुमवायुषु ।
लतावलयगेहेषु भवत्य् अतिविषादवान् ॥
यद् रम्यम् उचितं स्वादु पेशलं चित्तहारि वा ।
बाष्पपूरेक्षण इव न्11, श्4: एव तेनैव परिखिद्यते ॥
किम् इमा दुःखदायिन्यः श्4: °न्याः प्रस्फुरन्ति पुरोगताः ।
इति नृत्तविलासेषु कामिनीः परिनिन्दति ॥
भोजनं शयनम् पानं विलासं स्नानम् आसनम् ।
उन्मत्तवेष्टितम् इव नाभिनन्दति निन्दितम् ॥
किं सम्पदा किं विपदा किं गेहेन किम् ईहितैः ।
सर्वम् एवासद् इत्य् उक्त्वा तूष्णीम् एको ऽवतिष्ठते ॥
नोदेति परिहासेषु न भोगेषु निमज्जति ।
न च तिष्ठति कार्येषु मौनम् एवावलम्बते न्11, श्4: °लम्भ्° ॥
विलोलालकवल्लर्यो हेलावलितलोचनाः ।
नानन्दयन्ति श्4: °यति तं नार्यो मृग्यो वनतरुं यथा ॥
एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च ।
रतिम् आयात्य् अरण्येषु विक्रीतवद् अजन्तुषु ॥
वस्त्रपानाशनादानपराङ्मुखतया तया ।
परिव्रड्धर्मिणां राजन् सो ऽनुयाति तपस्विनाम् ॥
एक एव वसन् देशे जनशून्ये जनेश्वर ।
न हसत्य् एकया बुद्ध्या न गायति न रोदिति ॥
बद्धपद्मासनः शून्यमना वामकरस्थले ।
कपोलतलम् आदाय केवलम् परितिष्ठति ॥
नाभिमानम् उपादत्ते नापि वाञ्छति राजताम् ।
नोदेति नास्तम् आयाति सुखदुःखानुवृत्तिषु ॥
न विद्मः किम् असौ जातः किं करोति किम् ईहते ।
किं ध्यायति किम् आयाति कथं किम् अनुधावति ॥
प्रत्यहं कृशतां याति प्रत्यहं याति पाण्डुताम् ।
विरागम् प्रत्यहं याति शरदन्त इव द्रुमः ॥
अनुयातौ तम् एवैतौ राजञ् शत्रुघ्नलक्ष्मणौ ।
तादृशाव् एव तस्यैव प्रतिबिम्बाव् इव स्थितौ ॥
भृत्यै राजभिर् अम्बाभिः स पृष्टो ऽपि पुनः पुनः ।
उक्त्वा न किञ्चिद् एवेति तूष्णीम् आस्ते निरीहितः ॥
आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः ।
इति पार्श्वगतम् भव्यम् अनुशास्ति सुहृज्जनम् ॥
नानाविभवरम्यासु स्त्रीषु गोष्ठीकथासु च ।
पुरःस्थितम् इवास्नेहो नाशम् एवानुपश्यति ॥
रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः न्11: °स्थि*ति*° ।
चेष्टितैर् एव काकल्या भूयो भूयः प्रगायति ॥
सम्राड् भवेति पार्श्वस्थं वदन्तम् अनुजीविनम् ।
प्रलपन्तम् इवोन्मत्तं हसत्य् अन्यमना मुनिः ॥
न प्रोक्तम् आकर्णयति प्रेक्षते न पुरोगतम् ।
करोत्य् अवज्ञां सर्वत्र सुमहत्य् अपि वस्तुनि ॥
अप्य् आकाशसरोजिन्याम् अप्य् आकाशमहावने ।
इत्थम् एतत् कथम् इति विस्मयो ऽस्य न जायते ॥
कान्तामध्यगतस्यापि मनो ऽस्य मदनेषवः ।
न भेदयन्ति दुर्भेदं धारा इव महोपलम् ॥
आपदाम् एकम् आवासम् अभिवाञ्छसि किं धनम् ।
अनुशास्येति सर्वस्वम् अर्थिने सम्प्रयच्छति ॥
इयम् आपद् इयं संपद् इत्य् अयं कल्पनामयः ।
मनस्य् अभ्युदितो मोह इति शोकात् प्रगायति ॥
हा हतो ऽहम् अनाथो ऽहम् इत्य् न्11: ह*म् इ*त्य् आक्रन्दपरो ऽपि सन् ।
न जनो याति वैराग्यं चित्रम् इत्य् एव वक्त्य् असौ ॥
रघुकाननसालेन रामेण रिपुघातिना ।
भृशम् इत्थं स्थितेनैव वयं खेदम् उपागताः न्11: त्*आ*ः ॥
न विद्मः किम् महाबाहो तस्य तादृशचेतसः ।
कुर्मः कमलपत्राक्ष गतिर् अत्र हि नो भवान् ॥
राजानम् अथ वा विप्रम् उपदेष्टारम् अग्रगम् ।
हसन् पशुम् इवाव्यग्रः सो ऽवधीरयति प्रभो ॥
प्रपञ्चो ऽयम् इह स्फारं जगन्नाम यद् उत्थितम् ।
नैतद् वस्तु न चैवाहम् इति निर्णीय संस्थितः ॥
नारौ नात्मनि नो मित्रे न राज्ये न च मातरि ।
न संपदापदोर् नान्तस् श्4: तान्° तस्यास्था न विभोर् बहिः ॥
निरस्तास्थो निराशो ऽसौ निरीहो ऽसौ निरास्पदः ।
मोहे न च विमुक्तो ऽसौ तेन तप्यामहे वयम् ॥
किं धनेन किम् अम्बाभिः किं राज्येन किम् ईहया ।
इति निश्चयवान् अन्तः प्राणत्यागमनाः स्थितः ॥
भोगेष्व् आयुषि राज्ये च मित्रे पितरि मातरि ।
परम् उद्वेगम् आयातश् चातको ऽवग्रहे यथा ॥
तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।
संसारजालम् आभोगि प्रभो प्रतिविषायते ॥
तादृशः स्यान् महासत्त्वः क इवास्मिन् महीतले ।
प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥
इति नो येयम् आयाता शाखाप्रसरशालिनी ।
आपत् ताम् अलम् उद्धर्तुं समुदेतु दया परा ॥
मनसि मोहम् अपास्य महामनाः सकलम् आर्तिमतः किल साधुताम् ।
सफलतां नयतीह तमो हरन् दिनकरो भुवि भास्करताम् इव ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0