भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.9

3.9.1

तच्चित्तास् तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च तन् नित्यं तुष्यन्ति रमयन्ति ये ॥

3.9.2

तेषां ज्ञानैकनिष्ठानाम् आत्मज्ञानविचारणात् ।
सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततैव या ॥

3.9.3

ब्रह्मन् विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् ।
ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया ॥

3.9.4

यथास्थितम् इदं यस्य व्यवहारवतो ऽपि च ।
अस्तङ्गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥

3.9.5

बोधैकनिष्ठतां यातो जागर्त्य् एव सुषुप्तवत् ।
य आस्ते व्यवहर्तैव स जीवन्मुक्त उच्यते ॥

3.9.6

नोदेति नास्तम् आयाति सुखे दुःखे मुखप्रभा ।
यथाप्राप्तस्थितेर् यस्य स जीवन्मुक्त उच्यते ॥

3.9.7

यो जागर्ति सुषुप्तस्थो यस्य जाग्रन् न विद्यते ।
यस्य निर्वासनो बोधस् स जीवन्मुक्त उच्यते ॥

3.9.8

रागद्वेषभयादीनाम् अनुरूपं चरन्न् अपि ।
यो ऽन्तर् व्योमवद् अत्यच्छस् स जीवन्मुक्त उच्यते ॥

3.9.9

यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते ।
कुर्वतो ऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥

3.9.10

यश् चोन्मेषनिमेषाभ्यां विधेः प्रलयसम्भवौ ।
पश्येत् त्रिलोक्याः खसमस् स जीवन्मुक्त उच्यते ॥

3.9.11

भोक्तैव यो न भोक्तैव शुद्धबोधैकतां गतः ।
बुद्धस् सुप्त इवास्ते ऽन्तस् स जीवन्मुक्त उच्यते ॥

3.9.12

नित्यं द्रष्टैव चाद्रष्टा जीवन्न् एव मृतोपमः ।
व्यवहर्तैव शैलाभस् स जीवन्मुक्त उच्यते ॥

3.9.13

यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः ।
हर्षामर्षभयोन्मुक्तस् स जीवन्मुक्त उच्यते ॥

3.9.14

शान्तसंसारकलनः कलावान् अपि निष्कलः ।
यस् सचित्तो ऽपि निश्चित्तस् स जीवन्मुक्त उच्यते ॥

3.9.15

यस् समस्तार्थजातेषु व्यवहार्य् अपि शीतलः ।
परार्थेष्व् इव पूर्णात्मा स जीवन्मुक्त उच्यते ॥

3.9.16

जीवन्मुक्तपदं त्यक्त्वा देहे कालवशात् क्षते ।
चिद् यात्य् अदेहमुक्तत्वं पवनो ऽस्पन्दताम् इव ॥

3.9.17

विदेहमुक्तो नोदेति नास्तम् एति न शाम्यति ।
न सन् नासन् न दूरस्थं न चाहं न च वेतरत् ॥

3.9.18

सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् ।
रुद्रस् सर्वान् संहरति सर्वान् सृजति पद्मभूः ॥

3.9.19

खं भूत्वा पवनस्कन्धान् धत्ते सर्क्षसुरासुरान् ।
कुलाचलगणो भूत्वा लोकपालपुरास्पदम् ॥

3.9.20

भूमिर् भूत्वा बिभर्तीमां लोकस्थितिम् अखण्डिताम् ।
तृणगुल्मलता भूत्वा ददाति फलसन्ततिम् ॥

3.9.21

बिभ्रज् जलानलाकारञ् ज्वलति द्रवति द्रुतः ।
चन्द्रो ऽमृतं प्रसवति मृतिं हालाहलं विषम् ॥

3.9.22

तेजः प्रकटयत्य् आशास् तनोत्य् आन्ध्यं तमो भवन् ।
शून्यं सन् व्योमताम् एति गिरिस् सन् रोधयत्य् अलम् ॥

3.9.23

करोति जङ्गमं चित्त्वे स्थावरं स्थावराक्र्टिः ।
भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा ॥

3.9.24

परमार्कवपुर् भूत्वा प्रकाशे ऽन्तर् विसारयन् ।
त्रिजगत्त्रसरेण्वोघं शान्तम् एवावतिष्ठति ॥

3.9.25

यत् किञ्चिद् इदम् आभाति भातं वा भाम् उपैष्यति ।
कालत्रयगतं दृश्यं तद् असौ सर्वम् एव वा ॥

3.9.26

कथम् एवं वद ब्रह्मन् भूयते विषमा हि मे ।
दृष्टिर् एषा तु दुष्प्रापा दुराक्रम्येति निश्चयः ॥

3.9.27

मुक्तिर् एषोच्यते राम ब्रह्मैतत् समुदाहृतम् ।
निर्वाणम् एतत् कथितं शृणु सम्प्राप्यते कथम् ॥

3.9.28

यद् इदं दृश्यते दृश्यम् अहन्त्वत्तादिसंयुतम् ।
सतो ऽप्य् अस्याप्य् अनुत्पत्त्या बुद्धयैतद् अवाप्यते ॥

3.9.29

विदेहमुक्तास् त्रैलोक्यं सम्पद्यन्ते यदा तदा ।
मन्ये ते सर्गताम् एव गता वेद्यविदां वर ॥

3.9.30

विद्यते चेत् त्रिभुवनं तत् तत्तां सम्प्रयान्तु ते ।
यत्र त्रैलोक्यशब्दार्थो न सम्भवति कश्चन ॥

3.9.31

तत्र त्रिलोकतां यातं ब्रह्मेत्य् उक्त्यर्थधीः कुतः ।
तस्मान् नो सम्भवत्य् अन्या जगच्छब्दार्थकल्पना ॥

3.9.32

अनन्यच् छान्तम् आभासमात्रम् आकाशनिर्मलम् ।
ब्रह्मैव जगद् इत्य् एव सत्यं सत्यावबोधिनः ॥

3.9.33

यथा हि हेमकटके विचार्यापि न दृश्यते ।
कटकत्वं क्वचिन् नाम ऋते निर्मलहाटकम् ॥

3.9.34

जलाद् ऋते पयोवीचौ नाहं पश्यामि किञ्चन ।
वीचित्वं त्वादृशैर् दृष्टं यत् तु नास्त्य् एव तत्र हि ॥

3.9.35

स्पन्दत्वं पवनाद् अन्यन् न कदाचन कुत्रचित् ।
स्पन्द एव सदा वायुर् जगत् तस्मान् न विद्यते ॥

3.9.36

यथा शून्यत्वम् आकाशस् ताप एव मरौ जलम् ।
तेज एव यथालोको ब्रह्मैव त्रिजगत् तथा ॥

3.9.37

अत्यन्ताभावसम्पत्त्या जगद्दृश्यस्य मुक्तता ।
ययोदेति मुने युक्त्या तां ममोपदिशोत्तमाम् ॥

3.9.38

मिथस् सम्पन्नयोर् द्रष्टृदृश्ययोर् एकसङ्क्षये ।
द्वयाभावे स्थितिं याते निर्वाणम् अवशिष्यते ॥

3.9.39

दृश्यस्य जगतस् तस्माद् अत्यन्तानुद्भवो यथा ।
ब्रह्म चेत्थं स्वभावस्थं बुध्यते वद मे तथा ॥

3.9.40

कयैतज् ज्ञायते युक्त्या कथम् एतत् प्रसिध्यति ।
एतस्मिंस् तु मुने सिद्धे न साध्यम् अवशिष्यते ॥

3.9.41

बहुकालम् इयं रूढा मिथ्याज्ञानविषूचिका ।
नूनं विचारमन्त्रेण निर्मूलम् उपशाम्यति ॥

3.9.42

न शक्यते झगित्य् एव समुच्छेदयितुं क्षणात् ।
समप्रयतने ह्य् अद्रौ समारोहावरोहणे ॥

3.9.43

तस्माद् अभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः ।
जगद्भ्रान्तिर् यथा शाम्येत् तथेदं कथ्यते शृणु ॥

3.9.44

वदाम्य् आख्यायिकां राम याम् इमां बोधसिद्धये ।
तां चेच् छृणोषि तत् साधो मुक्त एवासि बुद्धिमान् ॥

3.9.45

अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते ।
यः किलोत्पद्यते राम तेन मुक्तेन भूयते ॥

3.9.46

इयम् इत्थं जगद्भ्रान्तिर् भात्य् अजातैव खात्मिका ।
इत्य् उत्पत्तिप्रकरणे कथ्यते ऽस्मिन् मयाधुना ॥

3.9.47

यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
सर्वं सर्वप्रकाराढ्यं ससुरासुरकिन्नरम् ॥

3.9.48

तन् महाप्रलये प्राप्ते रुद्रादिपरिणामिनि ।
भवत्य् असद् अदृश्यं च क्वापि याति विनश्यति ॥

3.9.49

ततस् स्तिमितगम्भीरं न तेजो न तमस् ततम् ।
अनाख्यम् अनभिव्यक्तं सत् किञ्चिद् अवशिष्यते ॥

3.9.50

न शून्यं नापि चाकाशं न दृश्यं न च दर्शनम् ।
न च भूतपदार्थौघो यद् अनन्ततया स्थितम् ॥

3.9.51

किम् अप्य् अव्यपदेशात्म पूर्णात् पूर्णतराक्र्टि ।
न सन् नासन् न सदसन् नाभावो भवनं न च ॥

3.9.52

चिन्मात्रं चेत्यरहितम् अनन्तम् अजरं शिवम् ।
अनादिमध्यपर्यन्तं यद् अनाधि निरामयम् ॥

3.9.53

यस्मिञ् जगत् प्रस्फुरति दृष्टिमौक्तिकहंसवत् ।
यश् चेदं यश् च नैवेदं देवस् सदसदात्मकः ॥

3.9.54

अकर्णजिह्वो ऽनासात्वङ्नेत्रस् सर्वत्र सर्वदा ।
यश् शृणोत्य् आस्वादयति जिघ्रन् स्पृशति पश्यति ॥

3.9.55

स एव सदसद्रूपं येनालोकेन लक्ष्यते ।
सर्गचित्रम् अनाद्यन्तं खरूपं चाप्य् अरञ्जनम् ॥

3.9.56

अर्धोन्मीलितदृग् भ्रूभूमध्यतारकवज् जगत् ।
व्योमात्मैव सदाभासं स्वरूपं यो ऽभिपश्यति ॥

3.9.57

यस्यान्यद् अस्ति न विभोः कारणं शशशृङ्गवत् ।
यस्येदं च जगत् कार्यं तरङ्गौघ इवाम्भसः ॥

3.9.58

ज्वलतस् सर्वतो ऽजस्रं चित्तस्थालीषु तिष्ठतः ।
यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् ॥

3.9.59

यं विनार्कादयो ऽप्य् एते प्रकाशास् तिमिरोपमाः ।
सति यस्मिन् प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः ॥

3.9.60

सस्पन्दे समुदेतीव निस्स्पन्दे ऽन्तर्गतेव च ।
इयं यस्मिञ् जगल्लक्ष्मीर् अलात इव चक्रता ॥

3.9.61

जगन्निर्माणविलयविलासो व्यापको महान् ।
स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलो ऽक्षयः ॥

3.9.62

स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा ।
सत्ता नाम्नैव भिन्नेव व्यवहारान् न वस्तुतः ॥

3.9.63

सर्वदैव प्रबुद्धो यस् सुप्तो यस् सर्वदैव च ।
न सुप्तो न प्रबुद्धश् च यस् सर्वत्रैव सर्वदा ॥

3.9.64

यदस्पन्दश् शिवं शान्तं यत्स्पन्दस् त्रिजगत्स्थितिः ।
स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः ॥

3.9.65

आमोद इव पुष्पेषु न नश्यति विनाशिषु ।
प्रत्यक्षस्थो ऽप्य् अथाग्राह्यश् शौक्ल्यं शुक्लपटेष्व् इव ॥

3.9.66

मूकोपमो ऽपि यो वक्ता मन्ता यो ऽप्य् उपलोपमः ।
यो भोक्ता नित्यतृप्तो ऽपि कर्ता यश् चाप्य् अकिञ्चन ॥

3.9.67

यो ऽनङ्गो ऽपि समस्ताङ्गस् सहस्रकरलोचनः ।
नकिञ्चित् संस्थितेनापि येन व्याप्तम् इदं जगत् ॥

3.9.68

निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः ।
यस्य निर्मनसो ऽप्य् एता मनोनिर्माणरीतयः ॥

3.9.69

यदनालोचनाद् भान्ति संसारोरगभीतयः ।
यस्मिन् दृष्टे पलायन्ते सर्वथा सर्वदेतयः ॥

3.9.70

साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः ।
सति यस्मिन् प्रवर्तन्ते चित्रेहास् स्पन्दपूर्विकाः ॥

3.9.71

यस्माद् घटपटाकारपदार्थशतपङ्क्तयः ।
तरङ्गकणकल्लोलवीचयो वारिधेर् इव ॥

3.9.72

स एवान्यतयोदेति यः पदार्थशतभ्रमैः ।
कटकाङ्गदकेयूरनूपुरैर् इव काञ्चनम् ॥

3.9.73

यस् त्वम् एकावभासात्मा यो ऽहम् एते जनाश् च ये ।
यश् च न त्वम् अबुद्धात्मन् नाहं नैते जनाश् च ये ॥

3.9.74

अन्येवाव्यतिरिक्तैव सैवासेव च भङ्गुरा ।
पयसीव तरङ्गाली यस्मिन् स्फुरति दृश्यभूः ॥

3.9.75

यतः कालस्य कलना यतो दृश्यस्य दृश्यता ।
मानसी कलना येन येन भासां विभासनम् ॥

3.9.76

क्रियां रूपं रसं गन्धं स्पर्शं शब्दं च चेतनम् ।
यद् वेत्सि तद् असौ देवो येन वेत्सि तद् अप्य् असौ ॥

3.9.77

द्रष्टृदर्शनदृश्यानां मध्ये यद् दर्शनं स्थितम् ।
साधो तदवधानेन स्वात्मानम् अवबुध्यसे ॥

3.9.78

अजम् अजरम् अजाड्यं शाश्वतं ब्रह्म नित्यं शिवम् अमलम् अनाद्यं वन्ध्यवेद्यैर् अनिन्द्यम् ।
सकलकलनशून्यं कारणं कारणानाम् अनुभवनम् अवेद्यं वेदनं वित्त्वम् अन्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc