भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.10

3.10.1

महाप्रलयसम्पत्तौ यद् एतद् अवशिष्यते ।
भवत्व् एतद् अनाकारं नाम नास्त्य् अत्र संशयः ॥

3.10.2

न शून्यं कथम् एतत् स्यान् न प्रकाशः कथं भवेत् ।
कथं वा न तमोरूपं कथं वा नैव खात्मकम् ॥

3.10.3

कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् ।
कथं न बुद्धितत्त्वं स्यात् कथं वा न मनो भवेत् ॥

3.10.4

कथं वा न नकिञ्चित् स्यात् कथं वा सर्वम् इत्य् अपि ।
अनया च वचोभङ्ग्या मम मोह इवोदितः ॥

3.10.5

विषमो ऽयम् अति प्रश्नो भवता समुदाहृतः ।
भिनद्म्य् एनं त्व् अयत्नेन नैशं तम इवांशुमान् ॥

3.10.6

महाकल्पान्तसम्पत्तौ यत् तत् सद् अवशिष्यते ।
तन् नाम न यथा शून्यं तद् इदं कथ्यते शृणु ॥

3.10.7

अनुत्कीर्णा यथा स्तम्भे संस्थिता सालभञ्जिका ।
तथा विश्वं स्थितं तत्र तेन शून्यं न तत् पदम् ॥

3.10.8

अयम् इत्थं महाभोगो जगदाख्यो ऽवभासते ।
सत्यो भवत्व् असत्यो वा यत्र तत्र क्व शून्यता ॥

3.10.9

यथा न पुत्रिकाशून्यस् स्तम्भो ऽनुत्कीर्णसालिकः ।
तथा तात जगद् ब्रह्म तेन शून्यं न तत् पदम् ॥

3.10.10

सौम्याम्भसि यथा वीचिर् न चास्ति न च नास्ति च ।
तथा जगद् ब्रह्मणीदं शून्याशून्यपदं गतम् ॥

3.10.11

देशकालादिशान्तत्वात् पुत्रिकारचनं द्रुमे ।
सम्भवत्य् अजधातौ तु केन नान्तर् विमुह्यते ॥

3.10.12

तत् स्तम्भपुत्रिकाद्य् एतत् परमार्थजगत्स्थितेः ।
एकदेशेन सदृशम् उपमानं न सर्वतः ॥

3.10.13

न कदाचिद् उदेतीदं परस्मान् न च शाम्यति ।
इत्थंरूपं केवलं सद् ब्रह्म स्वात्मनि संस्थितम् ॥

3.10.14

अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना ।
अशून्यत्वासम्भवतश् शून्यताशून्यते कुतः ॥

3.10.15

ब्रह्मण्य् अयं प्रकाशो हि न सम्भवति भूतजः ।
सूर्यानलेन्दुतारादि कुतस् तत्र किलाव्यये ॥

3.10.16

महाभूतप्रकाशानाम् अभावस् तम उच्यते ।
महाभूताभावजं तु तेनात्र न तमः क्वचित् ॥

3.10.17

स्वानुभूतिप्रकाशो ऽस्य केवलं व्योमरूपिणः ।
यो ऽन्तर् अस्ति स तेनैव न त्व् अन्येनानुभूयते ॥

3.10.18

मुक्तं तमःप्रकाशाभ्याम् इत्य् एतद् अजरं पदम् ।
आकाशकोशम् एवैनं विद्धि कोशं जगत्स्थितेः ॥

3.10.19

बिल्वस्य बिल्वसञ्ज्ञस्य यथा भेदो न कश्चन ।
तथेह ब्रह्मजगतोर् न मनाग् अपि भिन्नता ॥

3.10.20

सलिले ऽन्तर् यथा वीचिर् मृदो ऽन्तर् घटको यथा ।
तथा यत्र जगत्सत्ता तत् कथं खात्मकं भवेत् ॥

3.10.21

मृज्जलाद्युपमानश्रीस् साकारात्रा समा न सा ।
ब्रह्म त्व् आकाशविशदं तस्यान्तस्स्थं तथैव तत् ॥

3.10.22

तस्माद् यादृक् चिदाकाशम् आकाशाद् अपि निर्मलम् ।
तदन्तस्स्थं तादृग् एव जगच्छब्दार्थभाग् अपि ॥

3.10.23

मरिचे ऽन्तर् यथा तैक्ष्ण्यम् ऋते भोक्तुर् न लक्ष्यते ।
चिन्मात्रत्वं पराकाशे तथा चेत्यकलां विना ॥

3.10.24

तस्माच् चिद् अप्य् अचिद्रूपा चेत्यरिक्ततयात्मनि ।
जगत्ता तादृश्य् एवेयं तादृङ्मात्रात्मतावशा ॥

3.10.25

रूपालोकमनस्कारास् तन्मया एव नेतरत् ।
यथास्थितम् अतो विश्वं सुषुप्तं तुर्यम् एव वा ॥

3.10.26

तेन योगी सुषुप्तात्मा व्यवहार्य् अपि शान्तधीः ।
आस्ते ब्रह्म निराभासं सर्वभासां समुद्गकम् ॥

3.10.27

आकारिणि यथा सौम्ये स्थितस् तोये द्रवक्रमः ।
अनाकृतौ तथा विश्वं स्थितं तत्सदृशं परे ॥

3.10.28

पूर्णात् पूर्णं प्रसरति निराकारान् निराकृति ।
ब्रह्मणो विश्वम् आभातं तद् विश्वार्थविवर्जितम् ॥

3.10.29

पूर्णात् पूर्णं प्रसरति संस्थितं पूर्णम् एव तत् ।
अतो विश्वम् अनुत्पन्नं यच् चोत्पन्नं तद् एव तत् ॥

3.10.30

चेत्यासम्भवतस् तस्मिन् पदे केव चिदर्थता ।
आस्वादकासम्भवतो मरिचे केव तीक्ष्णता ॥

3.10.31

सत्येवेयम् असत्यैव चितेश् चित्तोदिता परे ।
अभावात् प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः ॥

3.10.32

परमाणोर् अपि परं तद् अणीयो ऽप्य् अणीयसः ।
शुद्धं सूक्ष्मं परं शान्तं तद् आकाशोदराद् अपि ॥

3.10.33

दिक्कालाद्यनवच्छिन्नरूपत्वाद् अतिविस्तृतम् ।
तद् अनाद्यन्तम् आभासं भासनीयविवर्जितम् ॥

3.10.34

चिद्रूपम् एव नो यत्र लभ्यते तत्र जीवता ।
कथं स्याच् चित्तताकारा वासनानिलरूपिणी ॥

3.10.35

चिद्रूपानुदयाद् एव तत्र नास्त्य् एव जीवता ।
न बुद्धिता न चित्तत्वं नेन्द्रियत्वं न वासनाः ॥

3.10.36

एवं स्थितं लयारम्भपूर्णम् अप्य् अजरं पदम् ।
अस्मद्दृष्ट्या स्थितं शान्तं शून्यम् आकाशतो ऽधिकम् ॥

3.10.37

परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः ।
पुनर् एतत् समाचक्ष्व निपुणं बोधवृद्धये ॥

3.10.38

महाप्रलयसम्पत्तौ सर्वकारणकारणम् ।
शिष्यते यत् परं ब्रह्म तद् इदं वर्ण्यते शृणु ॥

3.10.39

नाशयित्वा स्वम् आत्मानं मनसो वृत्तिसङ्क्षये ।
यद् रूपं यद् अनाख्येयं तद् रूपं तस्य वस्तुनः ॥

3.10.40

नास्ति दृश्यं जगद् द्रष्टा दृश्याभावाद् विलीनवत् ।
भातीति भासनं यत् स्यात् तद् रूपं तस्य वस्तुनः ॥

3.10.41

चितेर् जीवस्वभावो यो यदि चेत्योन्मुखो वपुः ।
चिन्मात्रं विमलं शान्तं यत् तत् कारणकारणम् ॥

3.10.42

अङ्गुष्ठस्याथ वाङ्गुल्या वाताद्यस्पर्शने सति ।
जीवतश् चेतसो रूपं यत् तद् परमम् आत्मनः ॥

3.10.43

अस्वप्नाया अनन्ताया अजडाया घनस्थितेः ।
यद् रूपं चिरचिन्तायास् तत् तदानघ शिष्यते ॥

3.10.44

यद् व्योम्नो हृदयं यद् वा शिलायाः पवनस्य च ।
तस्याचेत्यस्य चिद्व्योम्नस् तद् रूपं परमात्मनः ॥

3.10.45

अचेत्यस्यामनस्कस्य जीवतो या क्रियावतः ।
स्यात् स्थितिस् सा परा शान्ता सत्ता तस्याद्यवस्तुनः ॥

3.10.46

चित्प्रकाशस्य यन् मध्यं प्रकाशस्य घनस्य वा ।
दर्शनस्य च यन् मध्यं तद् रूपं परमात्मनः ॥

3.10.47

वेदनस्य प्रकाशस्य दृश्यस्य तमसस् तथा ।
वेदनं यद् अनाद्यन्तं तद् रूपं परमात्मनः ॥

3.10.48

यतो जगद् उदेतीव नित्यानुदितरूप्य् अपि ।
विभिन्नवद् इवाभिन्नं तद् रूपं पारमात्मनः ॥

3.10.49

व्यवहारपरस्यापि यत् पाषाणवद् आसनम् ।
अव्योम्न एव व्योमत्वं तद् रूपं पारमात्मिकम् ॥

3.10.50

वेद्यवेदनवेत्तृत्वरूपत्रयम् इदं पुनः ।
यत्रोदेत्य् अस्तम् आयाति तत् तत् परमम् उत्तमम् ॥

3.10.51

वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति ।
अबुद्ध्यादौ महादर्शे तद् रूपं परमं स्मृतम् ॥

3.10.52

मनष्षष्ठेन्द्रियोन्मुक्तं यद् रूपं स्यान् महाचितेः ।
जङ्गमे स्थावरे वापि तत् सर्गान्ते ऽवशिष्यते ॥

3.10.53

स्थावराणां हि यद् रूपं तच् चेद् बोधमयं भवेत् ।
मनोबुद्ध्यादिनिर्मुक्तं तत् परेण समं भवेत् ॥

3.10.54

ब्रह्मार्कविष्णुहरशक्रसदाशिवादिशान्तौ शिवं परमम् एतद् इहैकम् आस्ते ।
शिष्टं प्रदिष्टम् अविनष्टम् अकष्टम् इष्टं मिश्रं न मिश्रम् अणुनाश्रितम् आश्रितेन ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc