भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.5

3.5.1

भगवन् मुनिशार्दूल किम् इवेह मनो भ्रमे ।
विद्यते कथम् उत्पन्नं मनो मायामयं कुतः ॥

3.5.2

उत्पत्तिम् आदाव् इति मे समासेन वद प्रभो ।
प्रवक्ष्यसि ततश् शिष्टं वक्तव्यं वदतां वर ॥

3.5.3

महाप्रलयसम्पत्ताव् असत्तां समुपागते ।
अशेषदृश्ये सर्गादौ शान्तम् एवावशिष्यते ॥

3.5.4

आस्ते ऽनस्तमितो भास्वान् अजो देवो निरामयः ।
सर्वदा सर्वकृत् सर्वः परमात्मा महेश्वरः ॥

3.5.5

यतो वाचो निवर्तन्ते यो मुक्तैर् अवगम्यते ।
यस्य चात्मादिकास् सञ्ज्ञाः कल्पिता न स्वभावजाः ॥

3.5.6

यः पुमान् साङ्ख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् ।
विज्ञानमात्रं विज्ञानविदाम् एकान्तनिर्मलम् ॥

3.5.7

यश् शून्यवादिनां शून्यं भासको यो ऽर्कतेजसाम् ।
वक्ता स्मर्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव यः ॥

3.5.8

सद् अप्य् असद् यो जगति यो देहस्थो ऽपि दूरगः ।
चित्प्रकाशो ह्य् अयं यस्माद् आलोक इव भास्वतः ॥

3.5.9

यस्माद् विष्ण्वादयो देवास् सूर्याद् इव मरीचयः ।
यस्माज् जगन्त्य् अनन्तानि बुद्बुदा जलधेर् इव ॥

3.5.10

यं यान्ति दृश्यवृन्दानि पयांसीव महाम्बुधिम् ।
य आत्मानं पदार्थं च प्रकाशयति दीपवत् ॥

3.5.11

आकाशे यश् शरीरे च दृषत्स्व् अप्सु लतासु च ।
पांसुष्व् अद्रिषु वातेषु पातालेषु च संस्थितः ॥

3.5.12

यः प्लावयति संरब्धं पुर्यष्टकम् इतस् ततः ।
येन मूकीकृता मूढाश् शिला ध्यानम् इवास्थिताः ॥

3.5.13

व्योम येन कृतं शून्यं शैला येन घनीकृताः ।
आपो द्रुताः कृता येन दीप्तो यस्य वशाद् रविः ॥

3.5.14

प्रसरन्ति यतश् चित्रास् संसारासारदृष्टयः ।
अक्षयामृतसम्पूर्णाद् अम्भोदाद् इव वृष्टयः ॥

3.5.15

आविर्भावतिरोभावमय्यस् त्रिभुवनोर्मयः ।
स्फुरन्त्य् अविरतं यस्मिन् घृणाव् इव मरीचयः ॥

3.5.16

नाशरूपो ऽविनाशात्मा यो ऽन्तस्स्थस् सर्ववस्तुषु ।
गुप्तो यो व्यतिरिक्तो ऽपि सर्वभावेषु संस्थितः ॥

3.5.17

प्रकृतिव्रततिर् व्योम्नि जाता ब्रह्माण्डसत्फला ।
चित्तमूलेन्द्रियदला येन नृत्यति वायुना ॥

3.5.18

यश् चिन्मणिः प्रकचति प्रतिदेहसमुद्गकम् ।
यस्मिन्न् इन्दौ स्फुरन्त्य् एता जगज्जालमरीचयः ॥

3.5.19

प्रशान्तचिद्घने यस्मिन् स्फुरन्त्य् अमृतवर्षिणि ।
धाराजलानि भूतानि दृष्टयस् तडितस् स्फुटाः ॥

3.5.20

चमत्कुर्वन्ति वस्तूनि यदालोकनया मिथः ।
असज् जातम् असद् येन येन सत् सत्त्वम् आगतम् ॥

3.5.21

चलतीदम् अनिच्छस्य कायायो यस्य सन्निधौ ।
जडं परमरत्नस्य शान्तम् आत्मनि तिष्ठतः ॥

3.5.22

नियतिर् देशकालौ च चलनं स्पन्दनं क्रियाः ।
इति येन गतं सत्तां सर्वसत्त्वाभिगामिना ॥

3.5.23

शुद्धसंविन्मयत्वाद् यः खं भवेद् व्योमवित्तया ।
पदार्थवित्तयार्थत्वम् अवतिष्ठत्य् अनिष्ठितः ॥

3.5.24

कुर्वन्न् अपीव जगतां महताम् अनन्तस्पन्दं न किञ्चन करोति कदाचनापि ।
स्वात्मन्य् अनस्तमयसंविदि निर्विकारे त्यक्तोदयस्थितिमतिस् स्थित एक एव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc