मोक्षोपाय · अध्याय 2.20
आर्यसङ्गमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद् बलात् ।
ततो महापुरुषता महापुरुषलक्षणैः ॥
यो यो येन गुणेनेह पुरुषः प्रविराजते ।
शिक्षेत तं तम् एवाशु तस्माद् बुद्धिविवृद्धये ॥
महापुरुषता त्व् एषा शमादिगुणशालिनी ।
सम्यग्ज्ञानं विना राम सिद्धिम् एति न कस्यचित् ॥
ज्ञानाच् छमादयो यान्ति वृद्धिं सत्पुरुषक्रमात् ।
श्लाघनीयाः फलेनान्तर् वृष्टेर् इव नवाङ्कुराः ॥
शमादिभ्यो गुणेभ्यश् च वर्धते ज्ञानम् उत्तमम् ।
अन्नात्मकेभ्यो यज्ञेभ्यश् शालिवृष्टिर् इवोत्तमा ॥
गुणाश् शमादयो ज्ञानाच् छमादिभ्यस् तथा ज्ञता ।
परस्परं विवर्धेते एते ऽब्दसरसी यथा ॥
ज्ञानं सत्पुरुषाचाराज् ज्ञानात् सत्पुरुषक्रमः ।
परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ ।
एको ऽपि नैतयोस् तावत् पुरुषस्येह सिध्यति ॥
यथा कलमरक्षिण्या गीत्या वितततारया ।
खगोत्सादेन सहितो गीतानन्दः प्रसाध्यते ॥
ज्ञानसत्पुरुषेहाभ्याम् अकर्त्रा कर्तृरूपिणा ।
तथा पुंसा निरिच्छेन समम् आसाद्यते पदम् ॥
सदाचारक्रमः प्रोक्तो मयैष रघुनन्दन ।
तथोपवेश्यते सम्यग् अयं ज्ञानक्रमो ऽधुना ॥
इदं यशस्यम् आयुष्यं पुरुषार्थफलप्रदम् ।
तज्ज्ञाद् आप्तात्मशास्त्रार्थाच् छ्रोतव्यं किल धीमता ॥
श्रुत्वा तु बुद्धिनैर्मल्याद् बलाद् यास्यसि सत्पदम् ।
यथा कतकसंश्लेषात् प्रसादम् अवशं पयः ॥
विदितवेद्यम् इदं हि मनो मुने विवशम् एव हि याति परं पदम् ।
यद् अवबुद्धम् अखण्डितम् उत्तमं तदवबोधदशां न जहाति हि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0