मोक्षोपाय · अध्याय 2.6
तस्मात् प्राक्पौरुषं दैवं नान्यत् तत् प्रोज्झ्य दूरतः ।
साधुसङ्गमसच्छास्त्रैर् जीवम् उत्तारयेद् बलात् ॥
यथा यथा प्रयत्नस् स्याद् भवेद् आशु फलं तथा ।
इति पौरुषम् एवास्ति दैवम् अस्तु तद् एव वः ॥
दुःखाद् यथा दुःखकाले हा कष्टम् इति कथ्यते ।
हाकष्टशब्दपर्यायस् तथा हा दैवम् इत्य् अपि ॥
प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते ।
बालः प्रबलपुंसेव तज् जेतुम् इह शक्यते ॥
ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा ।
यथाशु शुभतां याति प्राक्तनं कुकृतं तथा ॥
तज्जयाय यतन्ते ये न लाभलवलम्पटाः ।
ते मूढाः प्राकृता दीनास् स्थिता दैवपरायणाः ॥
पौरुषेण कृतं कर्म दैवाद् यद् अभिनश्यति ।
तत्र नाशयितुर् ज्ञेयं पौरुषं बलवत्तरम् ॥
यद् एकवृन्तफलयोर् अप्य् एकं शून्यकोटरम् ।
तत्र प्रयत्नस् स्फुरितस् तथा तद्रससंविदः ॥
यत् प्रयान्ति जगद्भावास् संसिद्धा अपि सङ्क्षयम् ।
क्षयकारकयत्नस्य तत्र ज्ञेयं महद् बलम् ॥
भिक्षुको मङ्गलेभेन नृपो यत् क्रियते बलात् ।
तद् अमात्येभपौराणां प्रयत्नस्य महत् फलम् ॥
पौरुषेणान्नम् आक्रम्य यथा दन्तैर् विचूर्ण्यते ।
अल्पं पौरुषम् आक्रम्य तथा शूरेण चूर्ण्यते ॥
अनुभूतं हि महतां लाघवं यत्नशालिनाम् ।
यथेष्टं विनियुज्यन्ते ते तैः कर्मसु लोष्टवत् ॥
शक्तस्य पौरुषं दृश्यम् अदृश्यं वापि यद् भवेत् ।
तद् दैवम् इत्य् अशक्तेन बुद्धम् आत्मन्य् अबुद्धिना ॥
भूतानां बलवद्भूतयत्नो दैवम् इति स्थितम् ।
तस्थुषाम् अप्य् अधिष्ठातृवताम् एतत् स्फुटं मिथः ॥
शास्त्रामात्येभपौराणाम् अविकल्प्या स्वभावधीः ।
सा या भिक्षुकराज्यस्य कर्त्री धर्त्री प्रजास्थितेः ॥
ऐहिकः प्राक्तनं हन्ति प्राक्तनो ऽद्यतनं बलात् ।
सर्वदा पुरुषस्पन्दस् तत्रानुद्वेगवाञ् जयी ॥
द्वयोर् अद्यतनस्यैव प्रत्यक्षाद् बलिता भवेत् ।
दैवं जेतुम् अतो यत्नैर् बालो यूनेव शक्यते ॥
मेघेन नीयते यद् वा वत्सरोपार्जिता कृषिः ।
मेघस्य पुरुषार्थो ऽसौ जयत्य् अधिकयत्नवान् ॥
क्रमेणोपार्जिते ऽप्य् अर्थे नष्टे कार्या न खेदिता ।
न बलं यत्र मे शक्तं तत्र का परिदेवना ॥
यन् न शक्नोमि तस्यार्थे यदि दुःखं करोम्य् अहम् ।
तद् अमानितमृत्योर् मे युक्तं प्रत्यहरोदनम् ॥
देशकालक्रियाद्रव्यवशतो विस्फुरन्त्य् अमी ।
सर्व एव जगद्भावा जयत्य् अधिकयत्नवान् ॥
तस्मात् पौरुषम् आश्रित्य सच्छास्त्रैस् सत्समागमैः ।
प्रज्ञाम् अमलतां नीत्वा संसाराम्बुनिधिं तर ॥
प्राक्तनश् चैहिकश् चेमौ पुरुषार्थौ फलद्रुमौ ।
ऐहिकः पुरुषार्थश् च जयत्य् अभ्यधिकस् तयोः ॥
कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः ।
अज्ञो जन्तुर् अनीशो ऽसौ वाङ्मनस्सुखदुःखयोः ॥
यस् तूदारचमत्कारस् सदाचारविहारवान् ।
स निर्याति जगन्मोहान् मृगेन्द्रः पञ्जराद् इव ॥
कश्चिन् मां प्रेरयत्य् एवम् इत्य् अनर्थकुकल्पने ।
यस् स्थितो दृष्टम् उत्सृज्य त्याज्यो ऽसौ दूरतो ऽधमः ॥
व्यवहारसहस्राणि यान्य् उपायान्ति यान्ति च ।
यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ॥
यथाशास्त्रम् अनुच्छिन्नां मर्यादां स्वाम् अनुज्झतः ।
उपतिष्ठन्ति सर्वाणि रत्नान्य् अम्बुनिधेर् इव ॥
स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ॥
क्रियायास् स्पन्दधर्मिण्यास् स्वार्थसाधकता स्वयम् ।
साधुसङ्गमसच्छास्त्रतीक्ष्णयाभ्यूह्यते धिया ॥
अनन्तं समतानन्दं परमार्थं विदुर् बुधाः ।
स येभ्यः प्राप्यते ऽत्यन्तं ते सेव्याश् शास्त्रसाधवः ॥
प्राक्तनं पौरुषं तच् चेद् दैवशब्देन कथ्यते ।
तद् युक्तम् एतद् एतस्मिन् नाम्नि नापवदामहे ॥
मूढैः प्रकल्पितं दैवम् अन्यद् यैस् ते क्षयं गताः ।
नित्यं स्वपौरुषाद् एव लोकद्वयहितं भवेत् ॥
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद् यत्नात् सत्कार्यवान् भव ॥
करामलकवद् दृष्टं पौरुषाद् एव यत् फलम् ।
मूढः प्रत्यक्षम् उत्सृज्य दैवमोहे निमज्जति ॥
सकलकारणकार्यविवर्जितं निजविकल्पबलाद् उपकल्पितम् ।
तद् अनपेक्ष्य हि दैवम् असन्मयं श्रय शुभाशय पौरुषम् आत्मनः ॥
शास्त्रैस् सदाचरितजृंभितदेशधर्मैर् यत् कल्पितं फलम् अतीव चिरप्ररूढम् ।
तस्मिन् हृदि स्फुरति नो ऽपरम् एति चित्तम् अङ्गावली तदनु पौरुषम् एतद् आहुः ॥
बुद्ध्वैव पौरुषफलं पुरुषत्वम् एतद् आत्मप्रयत्नपरतैव सदैव कार्या ।
नेया ततस् सफलतां परमाम् अथासौ सच्छास्त्रसाधुजनपण्डितसेवनेन ॥
दैवपौरुषविचारचारुभिश् चेतसा चरितम् आत्मपौरुषम् ।
नित्यम् एव जयतीति भावितैः कार्य आर्यजनसेवनोद्यमः ॥
जन्मप्रबन्धमयम् आमयम् एष जीवो बुद्ध्वैहिकं सहजपौरुषम् एव सिद्ध्यै ।
शान्तिं नयत्व् अवितथेन वरौषधेन पृष्टेन तुष्टिपरपण्डितसेवनेन ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0