मोक्षोपाय · अध्याय 2.19
विशिष्टांशसधर्मत्वम् उपमानेषु गृह्यते ।
को भेदस् सर्वसादृश्ये तूपमानोपमेययोः ॥
दृष्टान्तबुद्धाद् एकात्मज्ञानशास्त्रार्थवेदनात् ।
महावाक्यार्थसंवित्त्या शान्तिर् निर्वाणम् उच्यते ॥
तस्माद् दृष्टान्तदार्ष्टान्तविकल्पोल्लसितैर् अलम् ।
यया कयाचिद् युक्त्याशु महावाक्यार्थम् आश्रयेत् ॥
शान्तिश् श्रेयः परं विद्धि तत्प्राप्तौ यत्नवान् भवेत् ।
भोक्तव्य ओदनः प्राप्तः किं तत्सिद्धिविकल्पितैः ॥
अकारणं कारणिभिर् बोधार्थम् उपमीयते ।
उपमानैस् तूपमेयसदृशैर् एकदेशतः ॥
स्थातव्यं नेह भोगेषु विवेकविकलात्मना ।
उपलोदरसञ्जातपरिपीनान्धभेकवत् ॥
दृष्टान्तैर् युक्तिभिर् यत्नाद् वाञ्छितं त्यजतेतरत् ।
विचारणवता भाव्यं शान्तिशास्त्रार्थशालिना ॥
शास्त्रोपशमसौजन्यप्रज्ञातज्ज्ञसमागमैः ।
अन्तरान्तरसम्पन्नधर्म्यार्थोपार्जनक्रियः ॥
तावद् विचारयेत् प्राज्ञो यावद् विश्रान्तिम् आत्मनि ।
सम्प्रयात्य् अपुनर्नाशां शान्तिं तुर्यपदाभिधाम् ॥
तुर्यविश्रान्तियुक्तस्य प्रतीर्णस्य भवार्णवात् ।
जीवतो ऽजीवतश् चैव गृहस्थस्याथ वा यतेः ॥
न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ।
निर्मन्दर इवाम्भोधिस् स तिष्ठति यथास्थितम् ॥
एकांशेनोपमानानाम् उपमेयसधर्मता ।
बोद्धव्या बोध्यबोधाय न स्थेयं चोद्यचञ्चुना ॥
यया कयाचिद् युक्त्याशु बोद्धव्यं बोध्यम् एव ते ।
मुक्तये तन् न पश्यन्ति व्याकुलाश् चोद्यचञ्चवः ॥
हृदये संविदाकाशे विश्रान्ते ऽनुभवात्मनि ।
वस्तुन्य् अनर्थं यः प्रष्टा चोद्यचञ्चुस् स उच्यते ॥
अभिमानविकल्पांशैर् अज्ञो ज्ञप्तिं विकल्पयन् ।
बोधं मलिनयत्य् अन्तर् मुखं सर्प इवामलम् ॥
सर्वप्रमाणसत्तानां पदम् अब्धिर् अपाम् इव ।
प्रमाणम् एकम् एवेह प्रत्यक्षं राम तच् छृणु ॥
सर्वार्थसारम् अध्यक्षं वेदनं विदुर् उत्तमाः ।
नूनं तत् प्रति यत् सिद्धं प्रत्यक्षं तद् उदाहृतम् ॥
अनुभूतेर् वेदनस्य प्रतिपत्तेर् यथास्थितम् ।
प्रत्यक्षम् इति नामेह कृतं जीवस् स एव च ॥
स एव संवित् स पुनर् अहन्ताप्रत्ययात्मकः ।
स ययोदेति संवित्त्या सा पदार्थ इति स्मृता ॥
स सङ्कल्पविकल्पाद्यैः कृतनानाक्रमो भ्रमैः ।
जगत्तया स्फुरत्य् अम्बु तरङ्गादितया यथा ॥
प्राग् अकारणम् एवाशु सर्गादौ सर्गलीलया ।
स्फुरित्वा कारणीभूतं प्रत्यक्षं स्वयम् आत्मनि ॥
कारणत्वं विचारो ऽस्य जीवस्यासद् अपि स्थितम् ।
सद् इवास्यां जगद्रूपसम्पत्तौ व्यक्तिम् आगतम् ॥
स्वयम् एव विचारस् तु सनञर्थं स्वकं वपुः ।
नाशयित्वा करोत्य् आशु प्रत्यक्षं परमं पदम् ॥
विचारयन् विचारो ऽपि नात्मानम् अधिगच्छति ।
यदा तदा निरुल्लेखं परम् एवावशिष्यते ॥
मनस्य् अनीहिते शान्ते तैर् बुद्धीन्द्रियकर्मभिः ।
नेह कैश्चित् कृतैर् अर्थो नाकृतैर् अप्य् अभावनात् ॥
मनस्य् अनीहिते शान्ते न प्रवर्तन्त एव ते ।
कर्मेन्द्रियाणि कर्मादाव् असञ्चारितयन्त्रवत् ॥
मनोयन्त्रस्य चलने कारणं वेदनं विदुः ।
प्राणाली दारुमेषस्य रज्जुर् अन्तर्गता यथा ॥
रूपालोकमनस्कारपदार्थाद्याकुलं जगत् ।
विद्यते वेदनस्यान्तर् वाते ऽन्तस् स्पन्दनं यथा ॥
सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् ।
भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् ॥
द्रष्टैव दृश्यताभासं स्वं रूपं धारयन् स्थितः ।
स्वं यथा तत्र यद् रूपं प्रविभाति तथैव तत् ॥
सर्वम् आत्मा यथा तत्र सङ्कल्पत्वम् इवागतः ।
तिष्ठत्य् आशु तथा तत्र तद्रूप इव राजते ॥
सर्वात्मकतया द्रष्टुर् दृश्यत्वम् इव युज्यते ।
द्रष्टृत्वं द्रष्ट्रसद्भावे दृश्यस्य त्व् अस्ति नासतः ॥
अकारणकम् एवातो ब्रह्मकल्पम् इदं स्थितम् ।
प्रत्यक्षम् एव निर्मातृ तस्यांशास् त्व् अनुपाधयः ॥
स्वयत्नमात्रेतररूपको यस् तद्दैवशब्दार्थम् अपास्य दूरे ।
शूरेण साधो पदम् उत्तमं तत् स्वपौरुषेणैव हि लभ्यते ऽन्तः ॥
विचारयाचार्यपरम्पराणां मतेन सत्येन सितेन तावत् ।
यावद् विशुद्धां स्वयम् एव बुद्धाम् अनन्तरूपां परताम् उपैषि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0