मोक्षोपाय · अध्याय 2.12
परिपूर्णमना मान्यः प्रष्टुं जानासि राघव ।
वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुम् आदरात् ॥
रजस्तमोभ्यां रहितां शुद्धसत्त्वानुपातिनीम् ।
मतिम् आत्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरो भव ॥
विद्यते त्वयि सर्वैव पृच्छकस्य गुणावली ।
वक्तुर् गुणाली च मयि रत्नश्रीर् जलधौ यथा ॥
आत्तवान् असि वैराग्यं विवेकासङ्गजं मुने ।
चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः ॥
चिरम् आ शैशवाद् एव तवाभ्यासो ऽस्ति सद्गुणैः ।
शुद्धैश् शुद्धस्य दीर्घैश् च पद्मस्येवातिसन्ततैः ॥
अतश् शृणु कथां वक्ष्ये त्वम् एवास्या हि भाजनम् ।
न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती ॥
ये केचन समारम्भा याश् च काश्चन दृष्टयः ।
ते च ताश् च पदे दृष्टे निश्शेषं यान्ति वै शमम् ॥
यदि विज्ञानविश्रान्तिर् न भवेद् भव्यचेतसः ।
तद् अस्यां संसृतौ साधुश् चिन्तां सोढुं सहेत कः ॥
परप्राप्त्या विलीयन्ते सर्वा मननवृत्तयः ।
कल्पान्तार्कगणासङ्गात् कुलशैलशिला इव ॥
दुस्सहा राम संसारविषावेशविषूचिका ।
योगगारुडमन्त्रेण पावनेन प्रशाम्यति ॥
विकौतुका विगतविकल्पविप्लवा यथा स्थिता हरिहरपद्मजादयः ।
नरोत्तमास् समधिगतात्मदीपकास् तथा स्थिता जगति विबुद्धबुद्धयः ॥
परिक्षीणे मोहे गलति च घने ऽज्ञानजलदे परिज्ञाते तत्त्वे समधिगत आत्मन्य् अभिमते ।
विचार्यार्यैस् सार्धं गलितवपुषोर् वा सदसतोर् धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदम् ॥
प्रसन्ने चित्तत्त्वे हृदि सविभवे वल्गति परे समाभोगीभूतास्व् अखिलकलनादृष्टिषु पुरः ।
शमं यान्तीष्व् अन्तःकरणघटनास्व् आहितरसं धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदम् ॥
रथस् स्फारो देहस् तुरगरचना चेन्द्रियगतिः परिस्पन्दो वाताद् अहम् अकलितानन्तविषमः ।
परो वार्वाग् देही जगति विहरामीत्य् अनघया धिया दृष्टे तत्त्वे रमणम् अटनं जागतम् इदम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0