मोक्षोपाय · अध्याय 1.22
विकल्पकल्पनानल्पकल्पितैर् अल्पबुद्धिभिः ।
भेदैर् उद्धुरतां नीतस् संसारकुहकभ्रमः ॥
सतां कथम् इवास्थेह जायते जालपञ्जरे ।
बाला एवात्तुम् इच्छन्ति फलं मकुरबिम्बितम् ॥
इहापि विद्यते यैषा पेलवा सुखभावना ।
आखुस् तन्तुम् इवाशेषं कालस् ताम् अपि कृन्तति ॥
न तद् अस्तीह यद् अयं कालस् सकलघस्मरः ।
ग्रसते न जगज्जातं महाब्धिम् इव वाडवः ॥
समस्तसामान्यतया भीमः कालो महेश्वरः ।
दृश्यसत्ताम् इमां सर्वां कवलीकर्तुम् उद्यतः ॥
महताम् अपि नो देवः प्रतिपालयति क्षणात् ।
कालः कवलितानन्तविश्वो विश्वात्मतां गतः ॥
युगवत्सरकल्पाख्यैः किञ्चित् प्रकटतां गतः ।
रूपैर् अलक्ष्यरूपात्मा सर्वम् आक्रम्य तिष्ठति ॥
ये रम्या ये शुभारम्भास् सुमेरुगुरवो ऽपि ये ।
कालेन विनिगीर्णास् ते करभेणेव पन्नगाः ॥
निर्दयः कठिनः क्रूरः कर्कशः कृपणो ऽधमः ।
न तद् अस्ति यद् अद्यापि न कालो निगिरत्य् अयम् ॥
कालः कवलनैकान्तमतिर् अत्ति गिरीन् अपि ।
अनन्तैर् अपि भोगौघैर् नायं तृप्तो महाशनः ॥
हरत्य् अयं नाशयति करोत्य् अत्ति निहन्ति च ।
कालस् संसारनृत्ये हि नानारूपैर् यथा नटः ॥
भिनत्ति प्रविभागस्थो भूतबीजान्य् अनारतम् ।
जगत्य् असत्तया चञ्च्वा दाडिमानि यथा शुकः ॥
शुभाशुभविषाणाग्रविलूनजनपल्लवः ।
स्फूर्जति स्फीतजनताजीवराजीविनीगजः ॥
विरिञ्चमज्जब्रह्माण्डबृहद्बिल्वफलद्रुमम् ।
ब्रह्मकाननम् आभोगि परम् आवृत्य तिष्ठति ॥
यामिनीभ्रमरीपूर्णा रचयन् दिनमञ्जरीः ।
वर्षकल्पकलावल्लीर् न कदाचन खिद्यते ॥
भिद्यते नावभग्नो ऽपि दग्धो ऽपि हि न दह्यते ।
दृश्यते नातिदृश्यो ऽपि धूर्तचूडामणिर् मुने ॥
एकेनैव निमेषेण किञ्चिद् उत्थापयत्य् अलम् ।
किञ्चिद् विनाशयत्य् उच्चैर् मनोराज्यवद् आततः ॥
दुर्विलासविलासिन्या चेष्टया कष्टपुष्टया ।
दर्व्येव सूपकृत् सूपं जनम् आवर्तयन् स्थितः ॥
तृणं पांसुं महेन्द्रं च सुमेरुं पर्णम् अर्णवम् ।
आत्मस्फारतया सर्वम् आत्मसात्कर्तुम् उद्यतः ॥
क्रौर्यम् अत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता ।
सर्वं दौर्भाग्यम् अत्रैव सर्वम् अत्रैव चापलम् ॥
प्रेरयंल् लीलयार्केन्दू क्रीडतीह नभस्तले ।
निक्षिप्तवीटायुगलो निजे बाल इवाङ्गने ॥
सर्वभूतास्थिमालाभिर् आपादवलिताकृतिः ।
विलसत्य् एष कल्पान्ते कालः कल्पितकल्पनः ॥
अस्योड्डामरनृत्तस्य कल्पान्ते ऽङ्गविनिर्गतैः ।
प्रस्फुरत्य् अम्बरे मेरुर् भूर्जत्वग् इव वायुभिः ॥
रुद्रो भूत्वा भवत्य् एष महेन्द्रो ऽथ पितामहः ।
शुक्रो वैश्रवणश् चापि पुनर् एव न किञ्चन ॥
धत्ते ऽजस्रोत्थितध्वस्तान् सर्गान् अमितभासुरान् ।
अन्यान् अन्यान् अप्य् अनन्यान् वीचीन् अब्धिर् इवात्मनि ॥
महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् ।
देवासुरगणान् पक्वान् फलभारान् अवस्थितः ॥
आलोलभूतमषकघुङ्घुमानां प्रपातिनाम् ।
ब्रह्माण्डोडुम्बरौघानां बृहत्पादपतां गतः ॥
सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया ।
वपुर् विनोदयत्य् एकः क्रियाप्रियतमान्वितः ॥
अनन्तापायपर्यन्तं बद्धपीठं निजं वपुः ।
महाशैलवद् उत्तुङ्गम् अवलम्ब्य व्यवस्थितः ॥
क्वचिच् छ्यामातमश्श्यामं क्वचित् कान्तियुतं ततम् ।
द्वयेनापि क्रमाद् रिक्तं स्वभावं भावयन् स्थितः ॥
संलीनासङ्ख्यसंसारसारया स्वात्मसत्तया ।
गुर्वीव भारघनया निबद्धपदतां गतः ॥
न खिद्यते न म्रियते नायाति न च गच्छति ।
नास्तम् एति न चोदेति महाकल्पशतैर् अपि ॥
केवलं जगदारम्भलीलया घनहेलया ।
यापयत्य् आत्मनात्मानम् अनहङ्कारम् आगतम् ॥
यामिनीपङ्ककलिलां दिनकोकनदावलीम् ।
क्रियाभ्रमरिकां स्वात्मसरस्स्व् आरोपयन् स्थितः ॥
गृहीत्वा भीषणः कृष्णां रजनीं जीर्णमार्जनीम् ।
आलोककनकक्षोदम् आहरत्य् अभितो ऽवनिम् ॥
सञ्चारयन् क्रियाङ्गुल्या कोणकेष्व् अर्कदीपिकाम् ।
जगत्सद्मनि कारुण्यात् क्व किम् अस्तीति वीक्षते ॥
प्रेक्ष्याहानि निमेषेण सूर्याक्ष्णा पाकवन्त्य् अलम् ।
लोकपालफलान्य् अत्ति जगज्जीर्णवनाद् अयम् ॥
जगज्जीर्णकुटीकीर्णान् अर्पयत्य् उग्रकोटरे ।
क्रमेण गुणवल्लोकमणीन् मृत्युसमुद्गके ॥
गुणैर् आपूर्यते यैव लोकरत्नावली भृशम् ।
भूषार्थम् इव ताम् अङ्गे कृत्वा भूयो निकृन्तति ॥
दिनहंसानुसृतया निशेन्दीवरमालया ।
ताराकेसरयाजस्रं चपलो वलयत्य् अलम् ॥
शैलोर्णद्युधराशृङ्गजगदूर्णायुसौनिकः ।
प्रत्यहं पिबति प्रोक्ष्य तारारक्तकणान् अपि ॥
तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी ।
न तद् अस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥
कल्पकेलिविलासेन पिष्टपातितजन्तुना ।
न्यग्भावोद्भवहासेन रमते स्वात्मनात्मनि ॥
कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वपदं गतः ।
सर्वम् एव करोतीदं न करोति च किञ्चन ॥
सकलम् अप्य् अकलाकलितान्तरं सुभगदुर्भगरूपधरं वपुः ।
प्रकटयन् सहसैव च गोपयन् विलसतीह हि कालबलं नृषु ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0