मीमांसासूत्र (टीका सहित) · अध्याय 5.4
सर्वेषां चैष{*5।95*} वादः, एकस्तोमकानाम् अनेकस्तोमकानां च. कुतः? अविशेषवचनाद् अन्यशब्दस्य. नन्व् एकस्तोमकाः क्रतवः संकीर्त्यन्ते. सत्यं संकीर्त्यन्ते, प्रशंसार्थम्, न [585]{*5।96*} विशेषार्थम्. कः पुनः प्रशंसार्थः? यो वै त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते स तं दीपयति, चोदकप्राप्ता धर्मा अभ्यस्ताः प्रकृतौ, विकृतौ सुखं प्रतिपद्यन्ते.
[586]{*5।97*}
नोतेस्:
*{5।95: ए2: वैष}*
*{5।96: ए2: 5,162; ए6: 2,96}*
*{5।97: ए2: 5,162; ए6: 2,96}*
क्रमको यो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च
इह पाठक्रमस्य श्रुत्यर्थक्रमाभ्यां सह बाधां प्रति विचारणम्{*5।98*}. किं पाठक्रमस् ताभ्यां तुल्यः, उत बाध्यत इति. किं प्राप्तम्? तुल्यबलाव् एतौ, पाठो ऽपि हि कारणं श्रुत्यर्थाव् अपि. न च प्रामाण्ये कश्चिद् विशेषो ऽस्ति, तस्माद् अनियम इति. एवं प्राप्ते ब्रूमः, पाठक्रमो हि बाध्यते श्रुत्या, अर्थेन च. कुतः? श्रुतिविशेषात्, अर्थपरत्वाच् च. श्रुतिविशेषः कः? यत्र श्रवणं तत्र प्रत्यक्षं कारणम्, पाठक्रमस् त्व् आनुमानिकः, पाठक्रमेण स्मरणम्, एवम् अभिनिर्वर्तयितव्यम् इत्य् अवगम्यते. तस्यार्थवत्त्वेनैकयोपपत्त्या तस्यैवानुष्ठानम्{*5।99*}. श्रुत्या पुनर् अनुष्ठानम् एव, एवं भवतीति प्रत्यक्षाद् अवगम्यते.
तथार्थेन. कुतः? अर्थपरत्वात्, अर्थार्थं हि सर्वं प्रधानार्थम्{*5।100*}, प्रधानम् अभिनिर्वर्तयतीति सर्वं क्रियते. तस्मात् पाठस् ताभ्यां बाध्यते.
किम् उदाहरणं प्रयोजनं च? श्रुत्याम्{*5।101*} आश्विनो दशमो गृह्यते, तं तृतीयं जुहोति, अत्र पाठक्रमस्य बलीयस्त्वे तृतीयस्य ग्रहणम्, सिद्धान्ते तु दशमस्य. अर्थे, अग्निहोत्रहोमः पूर्वम् आम्नायते, पश्चाच् छ्रपणम्. एवं कर्तव्यम्, यदि पाठो बलवान्. सिद्धान्ते श्रपणं पूर्वम्, ततो होमः.
[587]{*5।102*}
नोतेस्:
*{5।98: ए2: विचारणा}*
*{5।99: ए2: तथैवानुष्ठानम्}*
*{5।100: ए1 गिब्त् प्रधानार्थम् इन् क्लम्मेर्न्}*
*{5।101: ए2: श्रुतौ}*
*{5।102: ए2: 5,163; ए6: 2,97}*
अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्त्या स्यात्
स्तो दर्शपूर्णमासौ, तत्र पूर्वं दध्नो धर्माः समाम्नाताः, पश्चाद् आग्नेयस्य, प्रदानं चाग्नेयस्य पूर्वम्. तत्र संदेहः, किं प्रावृत्तिकेन क्रमेण पूर्वं दध्नो ऽवदानाभिघारणासादनानि, उत मुख्यक्रमेण पूर्वम् आग्नेयस्येति. किं प्राप्तम्? अनियम इत्य्. एवं प्राप्ते ब्रूमः, अवदानादिषु प्रावृत्तिकेन पूर्वं दध्न इति. कुतः? एवम् अनुज्ञातेभ्यो व्यवधायकेभ्यो नाभ्यधिको ऽन्यो वा व्यवधायकः कल्पितो भविष्यति, दर्शयति च दध्नः पूर्वम् एव देयम्{*5।103*} इति.
नोतेस्:
*{5।103: ए2: पूर्वम् अवदेयम्}*
यथाप्रदानं वा तदर्थत्वात्
यथाप्रदानं वा कर्तव्यानि, यस्य प्रदानं पूर्वम्, तस्यावदानानि पूर्वम्, तस्माद् आग्नेयस्य. कुतः? प्रदानचोदनागृहीतत्वाद्{*5।104*} अवदानादीनाम्, प्रदानोपक्रमा एते न पृथक्पदार्था एते{*5।105*} इत्य् उक्तम्. अभिघारणम् अवदानं च तस्य प्रदानचिकीर्षयैव क्रियते. आसादनम् अपि प्रदानार्थम् एवासन्न् अकरणम्{*5।106*}, एवं दृष्टार्थता भवति. तस्मान् मुख्यक्रमेणाङ्गानां प्रयोग इति.
यत् तु, दध्नः पूर्वं प्रवृत्तिर् इति. अर्थात् पूर्वं प्रवृत्तिः, न पाठात्. प्रावृत्तिकाच् च मुख्यक्रमो बलीयान्, मुख्यक्रमे गृह्यमाणे प्रथम एकः पदार्थो विप्रकृष्टकालः स्यात्, प्रावृत्तिके पुनर् गृह्यमाणे सर्वेषां विप्रकर्षः. तस्मान् मुख्यक्रमो बलीयान् इति. अथ यल् लिङ्गम् उक्तम्, दध्नः पूर्वम् अवदेयम् [588]{*5।107*} इति. अत्रोच्यते, शृताभिप्रायम्{*5।108*} एतद् भविष्यति. तस्माद् अदोषः.
नोतेस्:
*{5।104: ए2: प्रदानं चोदनागृहीतत्वाद्}*
*{5।105: ए2 ओम्. एते}*
*{5।106: ए1 गिब्त् आसन्न् अकरणम् इन् क्लम्मेर्न्}*
*{5।107: ए2: 5,164; ए6: 2,98}*
*{5।108: ए2: श्रुताभिप्रायम्}*
लिङ्गदर्शनाच् च
लिङ्गम् अप्य् अस्मिन्न् अर्थे भवति, स वै ध्रुवाम् एवाग्रे ऽभिघारयति, ततो हि प्रथमाव् आज्यभागौ यक्ष्यन् भवतीति. तस्माद् अपि मुख्यक्रमेण नियम इति.
वचनाद् इष्टिपूर्वत्वम्
इष्टिपूर्वत्वं समानातम्. तत्र संदेहः, किम् इष्टिपूर्वत्वम्, सोमपूर्वत्वं वा विकल्पः{*5।109*}, अथवेष्टिपूर्वत्वम् एवेति. किं प्राप्तम्? इष्टिपूर्वत्वम् एव स्यात्. कुतः? वचनात्, वचनम् इदं भवति, एष वै देवरथो यद् दर्शपूर्णमासौ, यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानाम् अवस्यतीति{*5।110*}, नास्ति वचनस्यातिभारः. तस्माद् इष्टिपूर्वत्वम् एवेति.
नोतेस्:
*{5।109: ए2: विकल्प्यते}*
*{5।110: तैत्.स्. 2.5.6.1}*
सोमश् चैकेषाम् अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात्
इष्टिपूर्वत्वम् इत्य् एतद् गृह्णीमः, किं तु सोमश् चैकेषां{*5।111*} पूरो{*5।112*} दर्शपूर्णमासयोः स्यात्. कुतः? अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात्. यः सोमेन यक्ष्यमाणो ऽग्नीन् आदधीत, नर्तुं स{*5।113*} प्रतीक्षेन् न नक्षत्रम् इति. यः सोमयागं कर्तुम् आदधीत्, स न प्रतीक्षेत नक्षत्रं नाप्य् ऋतुं तावत्य् एवादधीतेत्य् आनन्तर्यम् उच्यते. इतरथा, ऋतुनक्षत्रातिक्रमवचनम् अनर्थकं स्यात् [589]{*5।114*}, आनन्तर्ये ऽनपेक्ष्यमाणे यस्यैवर्तुनक्षत्रे उक्ते तस्यैव तयोर् अनादरः कीर्तितः स्यात्, तस्माद् अस्ति सोमाधानयोर् आनन्तर्यम् इति. अपि च विस्पष्टा चाद्यतनी विभक्तिः, सोमेन यक्ष्यमाण इति, सा च नेष्टिपूर्वत्वम्{*5।115*} अनुज्ञाय विवक्ष्यते, न तदाद्यतनकालविवक्षा, तत्रायं शब्दो विप्रतिषिध्येत. तस्माद् आनन्तर्यविवक्षेत्य् अवगम्यते.
नोतेस्:
*{5।111: ए2: चैषां}*
*{5।112: ए2: पूर्वो}*
*{5।113: ए2 ओम्. स}*
*{5।114: ए2: 5,165; ए6: 2,98}*
*{5।115: ए2: यदा सेष्टिपूर्वत्वम्}*
तदर्थवचनाच् च नाविशेषात् तदर्थत्वम्
इतश् च सोमाधानयोर् आनन्तर्यम्. कुतः? तदर्थवचनात्, यः सोमेन यजेत स अग्निम् आदधीतेति च. सर्वैर् अप्य् असौ यक्ष्यमाणो ऽग्निम् आधत्ते सोमेनाग्निहोत्रादिभिश् च, नासति सोमस्य विशेषे सोमार्थता स्यात्. अयम् असौ विशेषः स्यात्, यद् आनन्तर्यं सोमाधानयोर् इति.
अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात्
सोमेनायक्ष्यमाणस्य च पवमानहविषां कालो निर्दिश्यते, यः सोमेनायक्ष्यंआणो ऽग्निम् आदधीत, स पुरा संवत्सराद् धवींषि निर्वपेद् इति, न खलु कश्चिद् अयक्ष्यमाणः, सर्वस्य विहितत्वात्. तस्माद् अनन्तरम् अयक्ष्यमाण इति गम्यते.
इष्टिर् अयक्ष्यमाणस्य, तादर्थ्ये सोमपूर्वत्वम्
इदं प्रयोजनसूत्रं वर्ण्यते. क्षीणम् अधिकरणम्. किं प्रयोजनं चिन्तायाः? इष्टिर् अयक्ष्यमाणस्य सोमेन निरभिसंधिक आधाने. तदर्थत्वे तु सोमपूर्वत्वम्{*5।116*}, सोमार्थतायां त्व् आधानस्य सोमपूर्वत्वं स्यात्.
[590]{*5।117*}
नोतेस्:
*{5।116: ए2: तादर्थ्ये सोमपूर्वत्वम्}*
*{5।117: ए2: 5,166; ए6: 2,99}*
उत्कर्षाद् ब्राह्मणस्य सोमः स्यात्
अस्त्य् आधानम्, तत्रैषो ऽर्हः समधिगतः, इष्टिपूर्वत्वं सोमपूर्वत्वं चेति. इदानीं संदेहः, किं त्रयाणां वर्णानाम् इष्टिपूर्वत्वं सोमपूर्वत्वं वा, उत ब्राह्मणस्य सोमपूर्वत्वम् एव, उत केवला पौर्णमास्य् उत्कृष्यते, ब्राह्मणस्योभौ कल्पाव् इति. अथ वा कर्मान्तरम् इदम्, यद् ऊर्ध्वं सोमात्, अथ वैकं हविर् उत्कृष्यते, ब्राह्मणस्योभाव् एव कल्पाव् इति. किं प्राप्तम्? त्रयाणां वर्णानाम् इष्टिपूर्वत्वं सोमपूर्वत्वं वा. कुतः? अविषेशात्. न किंचिद् विशेषम् अवगच्छामः. एवं प्राप्ते ब्रूमः, ब्राह्मणस्य सोमपूर्वत्वं स्यात्. कस्मात्? उत्कर्षात्, उत्कर्षो हि श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीसोमीयो भवति. यद् एवादः पौर्णमासं हविः, तत्र ह्य्{*5।118*} अनुनिर्वपेत्, तर्ह्य् उभयदेवत्यो भवतीति. किम् इव हि वचनं न कुर्यात्. तस्माद् ब्राह्मणस्य सोमपूर्वत्वम् एवेति.
नोतेस्:
*{5।118: ए2: तत् तर्ह्य्}*
पौर्णमासी वा श्रुतिसंयोगात्
यद् उक्तम्, ब्राह्मणस्य सोमपूर्वत्वम् एवेति, तन् न, तस्याप्य् उभौ कल्पौ. कुतः? अविशेषात्, न हि कल्पयोर् ब्राह्मणस्य कश्चिद् विशेष आम्नायते. नन्व् इदानीम् एवोक्तम्, ब्राह्मणस्योत्कर्ष इति. नेति ब्रूमः, पौर्णमासीमात्रस्य तत्रोत्कर्षः. श्रुतिसंयोगः पौर्णमास्यास् तत्र, यद् एवादः पौर्णमासं हविर् इति, यावद् वचनं वाचनिकम्, तत्र न न्यायः क्रमते. तुल्ययोर् एकदेश उत्कृष्टे नूनम् अपरो ऽप्य् एकदेश उत्कृष्यत इति.
[591]{*5।119*}
नोतेस्:
*{5।119: ए2: 5,167; ए6: 2,100}*
सर्वस्य वैककर्म्यात्
यद् उच्यते, केवला पौर्णमास्य् उत्कृष्यत इति. तन् न, कृत्स्नस्य दर्शपूर्णमासकर्मण उत्कर्षः, एवं फलेन संबन्धः, इतरथा न स्यात् फलम्. एकदेशत्वात् पौर्णमास्याः, केवलायाम् उत्कृष्यमाणायाम् अवशिष्टस्य पूर्वत्र क्रियमाणस्य न फलं स्यात्, एकदेशत्वात्, अफलत्वाच् चोक्तम् अपि न क्रियेत. समुदाये चोत्कृष्यमाणे भवति फलम्. तस्माद् अर्थात् समुदायस्योत्कर्षः, एवं कृत्स्नोपदेशो ऽर्थवान् भविष्यतीति. तस्मात् सर्वस्योत्कर्षः, सोमपूर्वत्वम् एव ब्राह्मणस्येति.
स्याद् वा विधिस् तदर्थेन
नैतद् अस्ति{*5।120*}, यद् एवं समुदायस्यासति वचन उत्कर्षः परिकल्प्येत, तस्माद् अन्यद् एवैवं नामकं कर्म, ऊर्ध्वं सोमात् स्यात्. एवम् एकदेशस्याश्रुतं फलं न कल्पयितव्यं भविष्यति. नामधेयं तु द्वयोः कर्मणोर् एकम्, अक्षाः पादाः माषा इति यथा. पौर्णमासधर्मकं वा कर्मान्तरं चोद्यत इति कर्मविधानम्, श्रुतेर् एतद् भवति, तद् वाक्यस्य बाधकम्. तस्मात् कर्मान्तरम् इति.
नोतेस्:
*{5।120: ए2: नैतद् अस्ति कृत्स्नोत्कर्ष इति}*
प्रकरणात् तु कालः स्यात्
कर्मान्तरस्यैतद्वाचकम् इति प्रमाणाभावः. प्रकृतस्य कर्मणो वाचकम् इति प्रत्यक्षम्, यच् च सप्रमाणकम्, तद् ग्राह्यम्, अन्यायश् चानेकार्थत्वम्. धर्मग्रहणे लक्षणाशब्दः श्रुतिसंभवे कल्प्यः स्यात्. अपि चास्य रूपं न गम्यते, रूपावचनान् न कर्मान्तरम्. तस्मात् प्रसिद्धेन नाम्ना प्रकृतस्य कर्मणो ग्रहणं कालविधानार्थं स्यात्. फलवत्त्वाच् च कृत्स्नस्योत्कर्षः, ब्राह्मणस्य [592]{*5।121*} च तथैव. यत् तु, श्रुतिर् वाक्याद् बलीयसीति, अत्रोच्यते, यत्र फलं न श्रूयते, वाक्यार्थो ऽपि तावत् तत्र गृह्यते. न च, इह फलस्य श्रवणम् अस्ति. कल्प्यं फलम् इति यद् उच्यते, न तत्, फलवचनम्{*5।122*} अन्तरेण. तत्र फलवचनः शब्दः कल्प्येत, तेन च सहैकवाक्यता. कालवचनेन तु सह प्रत्यक्षेणैकवाक्यतेति. तस्मान् न कर्मान्तरम्. स्थितं तावद् अपर्यवसितम् अधिकरणम्{*5।123*}.
नोतेस्:
*{5।121: ए2: 5,186; ए6: 2,100}*
*{5।122: ए2: फलं वचनम्}*
*{5।123: ए2: अधिकरणम्. अन्तरा चिन्तान्तरं वक्ष्यते}*
स्वकाले स्याद् अविप्रतिषेधात्
यः सोमेन यक्ष्यमाणो ऽग्निम् आदधीत, नर्तुं स{*5।124*} प्रतीक्षेन्{*5।125*} न नक्षत्रम् इति. अत्र संदेहः, किम् आधानस्यायं कालविशेषबाधः, उत सोमस्येति. किं प्राप्तम्? आधानस्य कालबाधः, स्वकाले स्यात् सोमः. कुतः? अविप्रतिषेधात्, अङ्गम् आधानम्, तस्य कालबाधो न्याय्यः, न प्रधानस्य. अङ्गगुणविरोधे च तादर्थ्याद् इति वक्ष्यते{*5।126*}.
नोतेस्:
*{5।124: ए2 ओम्. स}*
*{5।125: ए1 (व्.ल्.): सूक्ष्मेत}*
*{5।126: व्ग्ल्. zउ म्स् 12.2.25}*
अपनयो वाधानस्य सर्वकालत्वात्
अपनयो वाधानात्{*5।127*} सोमकालस्य स्यात्. कुतः? आधानस्य सर्वकालत्वात्, नैवाधाने कश्चित् कालनियमो ऽस्ति, यद् अहर् एवैनं श्रद्धोपनमेत्{*5।128*} तद् अहर् आदधीतेति{*5।129*}. अप्राप्तम् एव तद् आधानस्य, यत् प्रतिषिध्यते. तस्मात् सोमस्य कालबाध इति.
[593]{*5।130*}
नोतेस्:
*{5।127: ए2 ओम्. आधानात्}*
*{5।128: ए1 (व्.ल्.): यज्ञ उपनमेत्}*
*{5।129: श्प्ब्र् 2.1.3.9}*
*{5।130: ए2: 5,169; ए6: 2,101}*
पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात्
स्थिताद् उत्तरम्. न वैतद्{*5।131*} अस्ति, कृत्स्नौ दर्शपूर्णमासाव् उत्कृष्येते, ऊर्ध्वं सोमात्, केवला पौर्णमास्य् उत्कृष्यते. कुतः? वचनात्, वचनम् इदम्, यद् एवादः पौर्णमासं हविस् तत् तर्ह्य् अनुनिर्वपेद् इति, नास्ति वचनस्यातिभारः. तस्मात् पौर्णमासीमात्रम् उत्कृष्येत. यत् तु फलं नास्तीति, समुदायाद् एव फलं भविष्यतीति, वचनाद् एवं विज्ञानात्. तस्माद् अदोषः.
नोतेस्:
*{5।131: ए2: चैतद्}*
एकं{*5।132*} शब्दसामर्थ्यात् प्राक् कृत्स्नविधानात्
एकं वा हविर् उत्कृष्येत, न कृत्स्ना पौर्णमासी. कुतः? शब्दसामर्थ्यात्, एकं हविर् उत्क्रष्टुं शब्दः समर्थः, यद् एवादः पौर्णमासं हविर् इति श्रूयते, यावद् वचनं वाचनिकम्, तावद् वचनेनोत्क्रष्टुं शक्यते, नान्यद् अपि. प्राक् सोमात् कृत्स्नं विधीयते. ततो यद् वचनेनोत्कृष्यते, तद् ऊर्ध्वं सोमात्, यन् नोत्कृष्यते, तत् प्राग् भवितुम् अर्हति. तस्माद् एकं हविर् उत्क्रष्टव्यम्, ब्राह्मणस्योभौ कल्पाव् इति.
नोतेस्:
*{5।132: ए2: एकं वा}*
पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात्
इदं श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीषोमीयो भवति, यद् एवादः पौर्णमासं हविस् तत् तर्ह्य् अनुनिर्वपेत्, तर्ह्य् उभयदेवत्यो भवतीति. यस्मात् तस्मिन् काले सो [594]{*5।133*} ऽग्नीषोमीयो भवति, न प्राचीने काले तस्माद् अदो हविर् अनुनिर्वपेद् इति, अग्नीषोमीयत्वं विधाय द्विदेवताकत्वं हेतुत्वेन निर्दिश्यते. तस्माद् अग्नीषोमीयं हविर् हेतुमत् स्यात्, नान्यदेवताकम्, तदासाव् अग्नीषोमौ यष्टुम् अर्हति, न प्राक् सास्य देवतेति भवति पुरुषस्यापि यष्टुर् देवताभिसंबन्धः. तस्मात् पुरोडाशो ऽग्नीषोमीयो नान्यद् धविर् इति सिद्धम्.
नोतेस्:
*{5।133: ए2: 5,170; ए6: 2,101}*
आज्यम् अपीति चेत्
इति चेत् पश्यस्य् अग्नीषोमीयत्वात् पुरोडाश इति, आज्यम् अपि ह्य् अग्नीषोमीयम्. तस्मात् तद् अप्य् उत्कृष्येत.
न मिश्रदेवतत्वाद् ऐन्द्राग्नवत्
मिश्रदेवतं ह्य् आज्यम्, अग्नीषोमीयम्, प्राजापत्यम्, वैष्णवम् इति च. पुरोडाशस् त्व् अग्नीषोमीय एव. न त्व् अत्र मिश्रदेवतस्य वादः, मिश्रदेवतस्य हि प्राग् अपि भावो ऽवकल्प्यते. यद् अपि तदानीं यजमानो नाग्निषोमीयस् तद्देवतार्हः, तथाप्य् आज्यं हविः करिष्यत्य् एव, प्रजापतिं यक्ष्यति, विष्णुं वा. तस्मात् तस्योर्ध्वभावे न एष हेतुर् अग्नीषोमीयत्वं नाम. यथा चतुर्धाकरणं मिश्रदेवतत्वाद् ऐन्द्राग्नेन भवति, तद्वत् तत्राग्नेय इति, ऐन्द्राग्नो न शक्यते वदितुम्, तद् धितः साकाङ्क्षान् नोत्पद्यत इति. एवम् इहाग्नीषोमीयशब्देन न शक्यम् आज्यं वदितुम् अग्नीषोमीयो हि असौ{*5।134*}. तस्माच् छक्यं प्राग् यजमानेन कर्तुम् इति. तस्मान् न तस्योत्कर्षे ऽग्नीषोमीयता यजमानस्य हेतुर् इति, मिश्रदेवतस्य ग्रहणसामान्याद्{*5।135*} ऐन्द्राग्नवद् इत्य् उक्तम्.
[595]{*5।136*}
नोतेस्:
*{5।134: ए2: अनग्नीषोमीयो ऽप्य् असौ}*
*{5।135: ए2: मिश्रदेवतस्याग्रहणसामान्याद्}*
*{5।136: ए2: 5,171; ए6: 2,102}*
विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात्
इह वैकृतानि कर्माण्य् उदाहरणम्, ऐन्द्राग्नम् एकादशकपालं निर्वपेद् इत्येवमादीनि. तत्र संदेहः, किम् एता विकृतयः सद्यस्कालाः, उत द्व्यहकाला इति. किं प्राप्तम्? विकृतिः प्राकृतान् धर्मांश् चोदकेन गृह्णाति, अतस् ते धर्मा आनुमानिकाः, पौर्णमासी चान्यः कालः. स यदि वा प्रकृत्या गृह्येत, यदि वा विकृत्या, असंभवे ऽन्यतरस्याः कालस् त्यक्तव्यः, तत्रानुमानिको वैकृतस्य त्यज्यताम्, न प्रत्यक्षश्रुतः प्राकृतस्येति न्याय्यम्. तस्मात् सद्यस्काला एता विकृतयो भवेयुर् इति.
द्वैयहकाल्ये तु यथान्यायम्
द्वैयहकाल्ये क्रियमाणे यथान्यायं कृतं भवति, तस्माद् द्वैयहकाल्यं स्यात्. चोदकस् तथानुगृहीतो भवति, प्रकृतौ हि श्रूयते, पूर्वेद्युर् अग्निं गृह्णाति, उत्तरम् अहर् देवतां यजतीति. तस्माद् द्व्यहकालम् एकम् अभिनिर्वर्त्यम्, तदहर् एवोपक्रम्यापरेद्युः परिसमापयेत्.
वचनाद् वैककाल्यं स्यात्
नैतद् एवम्, द्व्यहकाला विकृतयो भवेयुर् इति, सद्यस्कालाः स्युः. कस्मात्? वचनम् इदं भवति, इष्ट्या{*5।137*} पशुना सोमेनाग्रयणेन वा यक्ष्यमाणः स पौर्णमास्याम् अमावास्यायां वा यजेतेति, साङ्गस्यैतद् वचनम्. तस्मात् साङ्गं पौर्ण[596]{*5।138*}मास्याम् अमावास्यायां वा कुर्वीतेति गम्यते, तेन सद्यस्काला विकृतयः.
नोतेस्:
*{5।137: ए2: न इष्ट्या}*
*{5।138: ए2: 5,172; ए6: 2,103}*
सांनाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात् प्रकृतिवत्
इह सांनाय्यविकाराश् चाग्नीषोमीयविकाराश् चोदाहरणम्, सांनाय्यविकारास् तावद् यथा, आमिक्षा{*5।139*} पशुर् इति, अग्नीषोमीयम्{*5।140*} एकादशकपालं निर्वपेच् छ्यामाकम्, ब्राह्मणो वसन्ते ब्रह्मवर्चस्काम इत्य्{*5।141*}एवमाद्यः. तत्र संदेहः, किम् एते प्राग् ऊर्ध्वं च सोमात्, उतोर्ध्वम् इति. किं प्राप्तम्? प्राग् ऊर्ध्वं च, विशेषानवगमात्. एवं प्राप्ते ब्रूमः, ऊर्ध्वं सोमाद् स्युर् इति, प्रकृतिर् ह्य् एषाम् ऊर्ध्वं सोमात्, चोदकेन एभिर् अपि ऊर्ध्वं सोमात् भवितव्यम्. सान्नाय्यस्य ऊर्ध्वं सोमात्, वचनेन, असोमयाजी संनयेद् इति. अग्नीसोमीयस्यापि, आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्ट्वा भवति{*5।142*}, यद् एवादः पौर्णमासं हविः, तत् तर्ह्य् अनुनिर्वपेद् इति, तर्हि स उभयदेवत्यो भवतीति, तद्विकृतिर् अपि सोमाद् ऊर्ध्वं भवितुम् अर्हति.
नोतेस्:
*{5।139: व्ग्ल्. तैत्.स्. 1.8.2.1}*
*{5।140: ए2: अग्नीषोमीयविकाराः, अग्नीषोमीयम्}*
*{5।141: तैत्.स्. 2.5.5.1}*
*{5।142: ए2: सोमेनेष्ट्वाग्नीषोमीयो भवति}*
तथा सोमविकारा दर्शपूर्णमासाभ्याम्
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0