मीमांसासूत्र (टीका सहित) · अध्याय 2.2
सं ते वार्युर्{*2।179*} वातेन गच्छताम्, सं जयत्रैर् अङ्गानि{*2।180*}, सं यज्ञपतिर् आशिषा{*2।181*} इति. वार्युर्{*2।182*} वातेन गच्छताम् इत्य् एष सं यजत्रैर् अङ्गानीति बहुवचनान्तन व्यवहितत्वात् संयज्ञपतिर् आशिषेत्य् अत्र नानुषज्यत{*2।183*}, एकेन साकाङ्क्षेण व्यवेतो{*2।184*} गच्छताम् इति शेषः, ततो बहुवचनान्तेन सं यजत्रैर् अङ्गानीत्य् एतेन संबन्धम् अनुपेत्य व्यवेतत्वात् परेण न संबध्यते, गम्यते हि तदा विशेषः, एकेन व्यवेत इति, गम्यमाने विशेषे न तत्र भावो वाक्यशेषस्योपपद्यते. तस्माद् बहुवचनान्तस्य परस्य च तद्व्यपेतस्य लौकिको वाक्यशेषः कर्तव्य इति.
[137]{*2।185*}
नोतेस्:
*{2।179: ए2,4,6: वायुर्}*
*{2।180: ए2,4,6: यजत्रैर् अङ्गानि}*
*{2।181: तैत्.स्. 1.3.8.1}*
*{2।182: ए1,5; ए2,4,6: वायुर्}*
*{2।183: ए2: नानुषञ्जते, ए4: नानुषज्जते, ए5: नानुषज्यते, ए6: नानुषज्ज्यते}*
*{2।184: ए2,4,6: साकाङ्क्षेणाव्यवेतो}*
*{2।185: ए2: 3,1; ए4: 3,1; ए5: 2,401; ए6: 1,94}*
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्
अस्ति ज्योतिष्टोमस् तत्र श्रूयते - सोमेन यजेत, दाक्षिणानि जुहोति, हिरण्यमात्रेयाय ददातीति{*2।186*}; यजति - ददाति - जुहोतयस् ते किं संहत्य कार्यं कुर्वन्ति, उत वियुत्येति संशयः, साधकाः संहत्यापि साधयन्तो दृश्यन्ते, वियुत्यापि. संहत्य तावत्, त्रयो ग्रावाण एकामुखां धारयन्तो दृश्यन्ते, नागदन्तकास् तु वियुत्यापि, एकैकस्मिन् हि शक्यते शिक्यम् अवलम्बयितुम्. अतो यजति, ददाति, जुहोतव्यः संहत्य साधयेयुर् वियुत्य वेति जायते संशयः.
किं तावत् प्राप्तम्, संहत्येति. कुतः? अदृष्टार्थानाम् उपकारकल्पनाल्पीयसी न्याय्येति. कथम्?
अदृष्टो यो ऽश्रुतो वार्थः, स नास्तीत्य् अवगम्यते।
तस्मिन्न् असति दृष्टश् चेत् श्रुतो वा न विरुध्यते॥
विरुध्यमाने कल्प्यः स्याज् जायते तेन सो ऽर्थवान्।
विशेषश् चेन् न गम्येत, ततो नैको ऽपि कल्प्यते॥
गम्यते च विशेषः, बहुभ्य एकम् अपूर्वम् इति. तस्मात् समुदायश् चिकीर्षितः, ततो ह्य् अदृष्टे कल्प्यमाने, अवयवानां समुदायं प्रत्य् अर्थवत्त्वाद् एकम् अपूर्वं समुदायात् कल्पितं भविष्यति. न च, अशब्दः समुदायः, अवयवशब्दैर् एव समुदायस्योक्तत्वात्. तस्मात् समुदायश् चिकीर्षितः. अथ वा यजेतेत्य् एतस्य पूर्वो भागो [138]{*2।187*} यजत्य् अर्थं ब्रवीति, उत्तरस् तम् एव{*2।188*} भावयेद् इत्य् अनुवदति, एवं जुहोतीति पूर्वो भागो जुहोत्य् अर्थम्, उत्तरस् तम् एवानुवदति. तेनैकस्यां भावनायां त्रयो यजत्य् आदय उपाया विधीयन्ते श्रुत्या. तस्माद् एतैर् यागदानहोमैर् विशिष्टापूर्वस्य भावना प्रतीयते, अत उच्यते - संहत्यैकम् अपूर्वं साधयन्तीति. यद् वा यजतिशब्देन विहितं दानं दानहोमशब्देनानूद्यते गुणसम्बन्धार्थम्, तस्माद् एकम् अपूर्वम् इति प्राप्तम्.
एवं प्राप्ते ब्रूमः - प्रतिशब्दम् अपूर्वभेद इति, शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्, यजेतेत्य् अनेन केवलस्य यागस्य कर्तव्यतोच्यते, न तु जुहोतिशब्दाभिहितस्य ददातिशब्दाभिहितस्य वा, शब्दान्तरत्वात्. प्रयोगवाक्यशेषभावेन हि समुदायस्य सत्तासम्बन्धो गम्यते, श्रुत्यावयवस्य, यजेत - इति सन्निहितयोर् अपि वाक्येन दानहोमयोः, श्रुत्या यागस्यैव सत्तासम्बन्धो गम्यते, न दानहोमयोः. श्रुतिश् च वाक्याद् बलीयसी. तस्मान् न समुदायः शब्दः, कल्प्यमानो हि प्रयोगवचनेनैकवाक्यतां नीत्वा कल्प्येत, शब्दान्तरं च यजतेर् ददातिः. तत्र यद्य् अपि परो भागो भावनावचनः सर्वेषु समानः, तथाप्य् एकैकस्य पूर्वो ऽवयवो ऽन्यः, अन्यश् च तेन समुदायः शब्दान्तरम् अन्यस्मात् समुदायात्, तत्रार्थान्तरं व्यक्तम्, दद्याद् इति दानेन साधयेद् इति केवलम् एव दानं करणं भावनायाः प्रतीयते, न यागहोमौ सहायाव् अपेक्षते. तथा जुहोतीति होमसाधनां भावनाम् आह, न दानयागाव् अपेक्षते. तत्रैतावच् छब्देनावगतम्, दानेन केवलेन सिध्यतीति जुहोतीत्य् अपि होमेन केवलेन सिध्यतीति, न तु दानेन केवलेन सिध्यतीति विज्ञानम् निवर्तते. ददाति तर्हि स्वेन कारकग्रामेण कृतानुबन्धो न यागं होमं वानुबन्धम् अपेक्षते. तस्माद् भिन्नानि वाक्यनि, प्रतिशब्दम् अपूर्वभेदः [139]{*2।189*} इति. न च दानस्य यजति जुहोतिर् वानुवादो यागहोमयोर् अविवक्षाप्रसङ्गात्. न च दानम् इतरयोर् अनुवादः, परस्वत्वार्थत्वाद् ददातेः, इतरयोश् च त्यागार्थत्वात्. प्रयोजनं पूर्वपक्षे समुदायाद् अपूर्वम्, सिद्धान्ते तु यागस्य फलवत्त्वाद् इतरयोर् गुणभावः.
नोतेस्:
*{2।186: श्प्ब्र् 4.3.4.21}*
*{2।187: ए2: 3,3; ए4: 3,1; ए5: 2,405; ए6: 1,94}*
*{2।188: ए2,5,6 ओम्. तम् एव}*
*{2।189: ए2: 3,8; ए4: 3,2; ए5: 2,410; ए6: 1,95}*
एकस्यैवं पुनःश्रुतिर् अविशेषाद् अनर्थकं हि स्यात्
समिधो यजति, तनूनपातं यजतीत्येवमादिः{*2।190*} पञ्चकृत्वो ऽभ्यस्तो यजतिशब्दः किम् एकम् अपूर्वं चोदयति, किं प्रत्यभ्यासम् अपूर्वभेद इति. शब्दान्तरे कर्मभेद उक्तः, इह स एव शब्दः पुनः पुनर् उच्चार्यते. तस्माद् एकम् एवात्रापूर्वम्. नन्व् अपूर्वान्तरम् अविदधद् अनर्थको भवति. सत्यम् एवाप्रयोजनो भवति, बहुकृत्वो ऽपि चोच्चार्यमाणो नान्यार्थो भवति, यत् प्रथमे उच्चारणे{*2।191*} गम्यते, शततमे ऽपि{*2।192*} तद् एव गम्यते. तस्मात् पञ्चकृत्वो ऽभ्यस्तो यजतिशब्द एकम् अपूर्वं चोदयति. न चाभ्यासो ऽनर्थको भविष्यति, तनूनपादादीर् देवता विधास्यति, तस्माद् एकम् अपूर्वम्.
एवं प्राप्ते ब्रूमः - एकस्यैवं पुनःश्रुतिः स्यात्, कर्मभेदं कुर्याद् इत्य् अर्थः. तावत्य् एव विधीयमाने ऽसति कस्मिंश्चिद् विशेषे पुनःश्रुतिर् अनर्थका भवेत्. ननूक्तं न शक्नोत्य् अर्थान्तरं विधातुम् इति. उच्यते - समिधो यजतीत्य् अपि प्रथमो ऽनुवाद एव, दर्शपूर्णमासाभ्यां यजेतेति यागः प्राप्त एव. तत्र देवता न शक्या विधातुम्, श्रुतिप्राप्ता हि तत्र देवता, इयं वाक्यात् प्रकरणाद् वा, तयोर् विकल्पो न न्याय्यः, स एष देवतायागसंबन्धो [140]{*2।193*} विधीयमानो ऽक्रियमाणे यागे न शक्यः कर्तुम् इत्य् अनर्थकः स्यात्. क्रियमाणे तु शक्यते. तस्माद् अभ्यसितव्यो यागः, प्रत्यभ्यासं चादृष्टभेद{*2।194*} इति, न च यत् समित्संबन्धेन क्रियते, तत् तनूनपात्संबन्धेन, भिन्नत्वात् तयोः, अतो न विकल्पः. प्रयोजनं{*2।195*} पूर्वपक्षे सकृत् प्रयोग इति, सिद्धान्ते पुनः पुनः प्रयोग इति.
नोतेस्:
*{2।190: तैत्.स्. 2.6.1.1-2}*
*{2।191: ए2,4 (व्.ल्.): यत् प्रथमं उच्चार्यमाणे}*
*{2।192: ए2,4 (व्.ल्.): शतकृत्वो ऽपि}*
*{2।193: ए2: 3,15; ए4: 3,20; ए5: 2,415; ए6: 1,96}*
*{2।194: ए2,4 (व्.ल्.): वापूर्व}*
*{2।195: ए2,4 (व्.ल्.): पक्षोक्तं}*
प्रकरणं तु पौर्णमास्यां रूपावचनात्
एवं हि समामनन्ति - यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवति{*2।196*}; ताव् अब्रूताम् अग्नीषोमाव् आज्यस्यैव ताव् उपांशु{*2।197*} पौर्णमास्यां यजन्न् इति; ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालं पौर्णमासे प्रायच्छत्{*2।198*}; ऐन्द्रं दध्यमावास्यायाम् ऐन्द्रं पयो ऽमावास्-यायाम् इति{*2।199*}. तथाघारम् आघारयति{*2।200*}; आज्यभागौ यजति, स्विष्टकृते समवद्यति, पत्नीसंयाजान् यजति, समिष्टयजुर् जुहोति{*2।201*}. तथा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वान् अमावास्यां यजत इति{*2।202*}. तत्र संदेहः - सर्वाण्य् एतानि समप्रधानानि, उताग्नेयादीनि पयोन्तानि प्रधानानि, आघारादीन्य् आरादुपकारकाण्य् अङ्गानि? तथा, य एवं विद्वान् इत्य् एवं संयुक्तौ प्रकृतानां कर्मणाम् अनुवदितारौ, अथ वा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वान् अमावास्यां यजत इत्य् अपूर्वयोः कर्मणोर् विधातारौ, तत्रेतरे गुणविधय इति. किं{*2।203*} प्राप्तम् - शब्दान्तर-त्वाद् अभ्यासाच् च समप्रधानानीति प्राप्ते ब्रूमः{*2।204*} - प्रकरणं तु पौर्णमास्याम्, प्रकृतानाम् आग्नेयादीनाम् अनुवदितारौ पौर्णमास्यमावास्यासंयुक्तौ. कुतः? रूपावचनात्, य एवं विद्वान् पौर्णमासीसंज्ञकं यागं यजत इति न सर्वे यागा [141]{*2।205*} उच्यन्ते, यः पौर्णमासीसंज्ञकः स विधीयते, न चैतद् एवम् अवगच्छामः, कीदृशम् एवंसंज्ञकस्य यागस्य रूपम् इति, ते न{*2।206*} किंचित् प्रतिपद्येमहि. अतो ब्रूमः - यद्य् अपूर्वस्य विधाताराव् अनर्थकाव् इति. अथ नु प्रकृतानाम् अनुवदितारौ, ततः सन्निहिताः पौर्णमास्यमावास्यासंयुक्ता यागा इति गम्यते रूपम्, तत्रार्थवत्ता वचनस्य. कथं पुनर् एकवचनान्तो बहूनां वाचको भविष्यतीति यद्य् उच्यते. समुदायशब्दतयावकल्पिष्यते, रूपवन्तो हि पूर्वप्रकृता यागाः, तेषां च प्रचयशिष्टः समुदायो ऽप्य् अस्ति तदपेक्षो ऽयम् अरूपशब्दः, तस्माद् एकवचनान्तता न दोषः, भवति हि बहूनाम् एकवचनान्तः शब्दः समुदायापेक्षः, यथा - यूथं वनं कुलं परिषद् इति. यदाग्नेयादीनां समुदायवचनावेतौ, तदा दर्शपौर्णमासशब्देनैत एवाभिधीयन्ते. तत एषां फलसंबन्धः, फलवत् सन्निधेस् त्व् आघारादीन्य् आरादुपकारकाणीति.
नोतेस्:
*{2।196: तैत्.स्. 2.6.3.3}*
*{2।197: ए1,6; ए2,5: नाव् उपांशु; ए4: नाव् उवांशु}*
*{2।198: व्ग्ल्. श्प्ब्र् 1.6.2.14}*
*{2।199: तैत्.स्. 2.5.4.1}*
*{2।200: तैत्.स्. 2.5.11.6}*
*{2।201: श्प्ब्र् 1.9.2.25}*
*{2।202: तैत्.स्. 1.6.9.1-2}*
*{2।203: ए2,4 (व्.ल्.): किं तावत्}*
*{2।204: ए2,4 (व्.ल्.): उच्यते}*
*{2।205: ए2: 3,23; ए4: 3,37; ए5: 2,421; ए6: 1,96}*
*{2।206: ए2,4: तेन न; ए6: तेन}*
विशेषदर्शनाच् च सर्वेषां{*2।207*} समेषु ह्य् अप्रवृत्तिः स्यात्
यदि च सर्वाणि समप्रधानान्य् अभविष्यन्, न विकृतौ प्रयाजा दृष्टन्ताम् दृश्यन्ते तु - प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*2।208*}, असत्याग्नेयगुणत्वे प्रयाजस्य तन्नोपपद्यते{*2।209*}. अतो न सर्वाणि समप्रधानानि.
नोतेस्:
*{2।207: ए2,4 (व्.ल्.): पूर्वेषां}*
*{2।208: तैत्.स्. 2.3.2.3}*
*{2।209: ए2,4: नोपपद्येत}*
गुणस् तु श्रुतिसंयोगात्
नैतद् अस्ति, पौर्णमास्यमावास्यासंयुक्तौ समुदायशब्दाव् इति, किं त्व् अपूर्वयोः कर्मणोर् विधातारौ, तथा न लक्षणशब्दो [142]{*2।210*} भविष्यति. ननु रूपं नास्ति. वाक्यान्तरेण रूपम् अवगमिष्यामः. पौर्णमास्याम् आग्नेयो ऽष्टाकपालो भवतीति यद् एतत् पौर्णमासीनाम् कर्म, तस्यैतद् रूपम्, अग्निर् देवता, पुरोङाशो द्रव्यम् इति. अत आग्नेयादिभिर् गुणो विधीयत इति.
नोतेस्:
*{2।210: ए2: 3,32; ए4: 3,70; ए5: 2,425; ए6: 1,97}*
चोदना वा गुणानां युगपच् छास्त्राच् चोदिते हि तदर्थत्वात् तस्य तस्योपदिश्येत
कर्मचोदना वाग्नेयादयः स्युः. कुतः? गुणानां युगपच् छासनात्, एकेनैव वाक्येनात्रानेको गुणो विधातुम् इष्यते भवता, न च, शब्दान्तरेण चोदिते कर्मण्य् अनेको गुणः परस्परसंबन्धे चासति शक्यते विधातुम्. कथम्? यदि तावत् पौर्णमास्याम् अष्टाकपालो भवतीति संबन्धो विवक्षितः, न तदायम् अर्थो ऽष्टाकपालः सत् तयाभिसंबध्यत इति, कस् तर्ह्य् अष्टाकपालः पौर्णमास्याभिसंबन्ध्यत इति? तत्र तदा भवतिर् वर्तते, तदानीम् आग्नेय इत्य् अयम् अस्यान्तिकाद् अप्य् उपनिपतितो भवति संबन्धाभावान् नानेन संबन्धम् अर्हति, अष्टाकपाल आग्नेयो भवतीति. अथाग्नेयः पौर्णमास्यां भवतीति विवक्ष्यते. तदाग्नेयपुरोङाशयोर् असंबन्ध एव स्यात्. अथ पौर्णमास्याम् अष्टाकपालस्याग्नेयता विधीयते. वक्तव्यम्{*2।211*}, केन तस्याम् अष्टाकपालो विहित इति. अथ तस्याम् आग्नेयस्याष्टाकपालता. तथाप्य् एष दोषः{*2।212*}. अथ पौर्णमासीत्य् उभाभ्यां संबध्येत.
परस्परेण द्रव्यदेवतयोर् असंबन्ध एव{*2।213*} स्यात्. अथ द्रव्यदेवते परस्परेण विशिष्टे सत्यौ पौर्णमास्या संबध्येयाताम् इत्य् उच्यते. आग्नेयो ऽष्टाकपालो यः, स पौर्णमास्यां भवतीति, तस्याप्रसिद्धत्वाद् एतद् अप्य् अयुक्तम्. अथ केनचिद् अग्नये सङ्कल्पितः पौर्णमास्यां विधीयते. तथापि देवताया अविधानाद् रूपाभाव एव. अथाग्निर् देवता भविष्यतीति कश्चिद् ब्रूयात्. स [143]{*2।214*} वक्तव्यः - मिथश् चानर्थसंबन्ध इति, न ह्य् आग्नेयशब्दो ऽनुवादो विधिश् च भवतीति. कल्पयिष्यामो देवताम् इति चेत्. न, असति विधाने देवताया अभावात्. संबन्धिशब्दो ऽयं देवतेति स एवाग्निर् अष्टाकपालस्य देवता, नाज्यस्य. तस्माद् अवश्यम् आग्नेयाष्टाकपालसंबन्धो विधातव्यः, स एष यागो भवतीति, तेन पौर्णमासीयागस्यापरो यागः संबन्धी विधीयते, न द्रव्यं देवता वा. न च यागस्य यागान्तरं रूपं भवति. अतो रूपावचनात् पौर्णमास्यम् आवास्यासंयुक्तौ नापूर्वयोः कर्मणोर् विधातारौ. यत् तूक्तम् - पौर्णमास्यमावास्याशब्दौ लक्षणया प्रकृतान् यागाननुवदितुं शक्नुतो नाञ्जस्येनेति. नैष दोषः, यदाञ्जस्येन शब्दार्थो नावकल्पते, तदा लक्षणयापि कल्प्यमानः साधुर् भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठति, अग्निसमीपे, अवटसमीपे तिष्ठतीति भवति संव्यवहारः. लक्षणापि हि लौकिक्येवेति.
नोतेस्:
*{2।211: ए2,4 (व्.ल्.): तत्र वक्तव्यम्}*
*{2।212: ए2,4 (व्.ल्.): तथापि स एव दोषः}*
*{2।213: ए2,4 (व्.ल्.): ओम्. एव}*
*{2।214: ए2: 3,36; ए4: 3,72; ए5: 2,429; ए6: 1,98}*
व्यपदेशश् च तद्वत्
उग्राणि ह वैतानि हवींष्य् अमावास्यायां संभ्रियन्ते, आग्नेयं प्रथमम् ऐन्द्र उत्तर इति सम्-उच्चयं दर्शयति, आग्नेयादीनां गुणत्वे विकल्पः स्यात्. तत्राग्नेयं प्रथमम्, ऐन्द्र उत्तरे द्व इति व्यवदेशो नावकल्पेत, विकल्पे संभारपौर्वापर्यानुपपत्तिर् इति.
लिङ्गदर्शनाच् च
लिङ्गं च दृश्यते - चतुर्दश पौर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशामावास्यायाम् इति.
[144]{*2।215*}
नोतेस्:
*{2।215: ए2: 3,38; ए4: 3,85; ए5: 2,435; ए6: 1,99}*
पौऋणमासीवद् उपांशुयाजः स्यात्
जामि वा एतद् यज्ञस्य क्रियते यद् अन्वञ्चौ पुरोडाशाव् उपांशुयाजम् अन्तरा यजतीति{*2।216*}, विष्णुर् उपांशु यष्टव्यो ऽजामित्वाय, प्रजापतिर् उपांशु यष्टव्यो ऽजामित्वाय, अग्नीषोमाव् उपांशु यष्टव्याव् अजामित्वाय इति. तत्र सन्देहः - उपांशुयाजमन्तरा यजतीति किं विष्ण्वादिगुणकानां प्रकृतानां यागानां समुद्-आयस्य वाचकः, अथ वापूर्वस्य यागस्येति. तत उच्यते - पौर्णमासीवद् उपांशुयाजो भवितुम् अर्हति. कुतः - नामसंबन्धात्, नामसंबद्धो हि विशिष्टो यागः श्रूयते, उपांशुयाजसंज्ञकः, न च द्रव्यदेवते रूपम्, प्रकृताश् चोपांशुगुणका यागा विद्यन्ते. तस्मात् समुदायशब्द इति. ननूपांशुगुणकं यागान्तरम् उपांशुत्वेन रूपेण रूपवद् विधीयते. न एवंजातीयकः शब्द उपांशुविशिष्टं यागं शक्नोति वक्तुम्, उपांशुयाग इति हि तस्य वक्ता, चजोः कु घिण्ण्यतोर्{*2।217*} इति{*2।218*} कुत्वेन भवितव्यम्, अव्युत्पन्नः पुनर् उपांशुयाजशब्दः. तस्मान् न रूपवद् यागान्तरम्. अथापि नामसंयुक्तं यजतिसामान्यम् एव, तथाप्य् अनुपदिष्टदेवताद्रव्यरूपं न यागान्तरं प्रतिपद्येमहि. नन्व् एवं सति प्रकृतानाम् अप्य् अवाचकः प्राप्नोति. मा भूद् उपांशुयाजशब्दः, यजतिशब्दो भविष्यति, तथा सत्य् उपांशुयाजशब्दे ऽप्य् अनुवादत्वाद् अनाञ्जस्ये ऽपि न दोषः.
[145]{*2।219*}
नोतेस्:
*{2।216: व्ग्ल्. तैत्.स्.2.6.6.4}*
*{2।217: ए5: कुघिष्णतोः}*
*{2।218: पाण्. 7.3.52}*
*{2।219: ए2: 3,40; ए4: 3,90; ए5: 2,439; ए6: 1,99}*
चोदना वाप्रकृतत्वात्
कर्मान्तरस्य वाचकः स्यात्, उपांशुयाजं यजतीति. कुतः? प्रकृतानां यागानाम् अभावात्, न चेत् प्रकृता विद्यन्त{*2।220*}, कस्य समुदायं वक्ष्यति? नन्व् इदानीम् एवोक्तं विष्ण्वादिगुणकाः प्रकृता यागा विद्यन्त इति. न विद्यन्ते, न हि, ते विधयो विष्णुर् उपांशु यष्टव्य इत्येवमादयः. अर्थवादा हि ते. कथम्? अस्मिन् वाक्ये विध्यन्तरस्य भावात्, उपांशुयाजम् अन्तरा यजतीति एतद् एतस्मिन् वाक्ये विधी-यते. यदीमे ऽपि विधीयेरन्, भिद्येत{*2।221*} तर्हि वाक्यम्. अपि च - यागस्य विष्ण्वादिनां च संबन्धो ऽत्र गम्यते वाक्ये, न च यागस्य विधानम्. ननु च, उपांशुयाजम् अन्तरा यजतीत्य् अत्राप्य् अन्तरालसंबन्धो ऽवगम्यते. वाढम्{*2।222*}, स तु विधीयत उपांशुत्वादिसंबन्धः. एकं हीदं वाक्यं नानेकं विधातुम् अर्हति. कथम्? जामि वा एतद् यज्ञस्य क्रियत इत्य् एवम् उपक्रमम् एतद् वाक्यम् अजामित्वायेत्य् एवम् अन्तम्, तस्य मध्ये समाम्नातं विष्ण्वादिवाक्यं तेन संबन्ध्य-मानं न वाक्यान्तरं भवितुम् अर्हति. तस्माद् विष्णुर् उपांशु यष्टव्य इत्येवमादयो न विधयः, किं तर्ह्य् अर्थवादाः. कः पुनर् अर्थवादः? आग्नेयाग्नीषोमीययोर् निरन्तरं क्रियमाणयोर् जामितादोष उक्तः, तं भिषजितुम्, उपांशुयाजम् अन्तरा यजतीति विहितम्. कथं तेन भिषजिष्यते? तस्मिन् क्रियमाणे ज्ञायत एव, यथा विष्णुर् यष्टव्यः प्रजापतिर् अग्नीषोमौ चेति{*2।223*}, ततश् च व्यवधानाद् अजामितावगम्यत एव, तेनाजामितार्थवादं वक्ष्यामीति विष्ण्वादिसंबन्धो ऽनूद्यते, न त्व् अन्तरालसंबन्धस्यान्यत् प्रयोजनम् अस्त्य् अतो विधानात्. कथं विष्ण्वादयो यष्टव्या इत्य् एतद् अवगम्यते? यष्टव्यान् अयष्टव्यान् वा विष्ण्वादीन् उपांशुयाजाभिष्टवाय सङ्कीर्तयतीति गम्यते. [146]{*2।224*} तत्र केचित् तावद् आहुः - प्राप्ता एवेति. कुतः? शाखान्तरे विधानाद् इति. यद्य् अप्य् अप्राप्तिः, तथाप्य् उपांशुत्वसामान्यात् प्रजापतिर् देवता विष्णुश् चेत्य् अनुवादाव् एव, उपांशुधर्माणौ हि विष्णुप्रजापती, तस्माद् यत्किञ्चित् प्राजापत्यं यज्ञे क्रियते, तद् उपांश्व् एव क्रियत इत्येवमादिसङ्कीर्तनान् मन्त्रसमाम्नानाच् च विष्णुम् अप्राप्तम् अपि प्राप्तम् इव वदेत्. अग्निषोमयोस् तु विधायकम् उदाह्रियते - एताव् अब्रूयाताम्{*2।225*} अग्नीषोमाव् वाज्यस्यैव ताव् उपांशु पौर्णमास्यां यजन् इति, तस्माद् यागान्तरम्.
नोतेस्:
*{2।220: ए2,4,5,6 (रिछ्तिग्): विद्यन्ते}*
*{2।221: ए1,5; ए2,4,6: भिद्यते}*
*{2।222: ए2,4,6: बाढम्}*
*{2।223: ए1,5,6; ए2,4: वेति}*
*{2।224: ए2: 3,46; ए4: 3,91; ए5: 2,445; ए6: 1,100}*
*{2।225: ए1,6; ए2,4,5: एव ताव् अब्रूताम्}*
गुणोपबन्धात्
यद् उच्यते, न ज्ञायते, कतमो ऽसाव् उपांशुयाजसंज्ञको याग इति, यस्यायं गुण उपबद्धः, उपांशु पौर्णमास्यां यजन् इति. तस्मान् न दोषः.
प्राये वचनाच् च
प्रधानकर्मप्राये वचनम्, प्रधानकर्मताम् उपोद्बलयति, यथा, अग्र्यप्राये लिखितं दृष्ट्वा भवेद् अयम् अग्र्य इति मतिः. तस्मान् न समुदायशब्द इति.
आघाराग्निहोत्रम् अरूपत्वात्
आघारम् आघारयतीति{*2।226*} श्रूयते, तथेमान्य् अपराणि, ऊर्ध्वम् आघारयति, सन्ततम् आघारयति, ऋजुम् आघारयतीत्येवमादि{*2।227*}. इदं चाग्निहोत्रं जुहोति, तथा, दध्ना जुहोति, पयसा जुहोतीत्येवमादि. तत्र सन्देहः - किम् ऊर्ध्वम् [147]{*2।228*} आघारयति, दध्ना जुहोतीत्येवमादिभिर् आघारा होमाश् च विहिताः, तेषाम् आघारम् आघारयति, अग्निहोत्रं जुहोतीत्य् एतौ समुदायानुवादौ, उतैताव् एवापूर्वयोर् आघारहोमयोर् विधाताराव् इति. किं तावत् प्राप्तम्? नापूर्वयोर् विधी इति. कुतः? अरूपत्वात्, न हि, एतयोः पूर्वेभ्यो होमाघारेभ्यो विशिष्टं रूपम् अस्ति. यतः कर्मान्तरम् अध्यवसेयम्. अतः प्रकृतत्वात्{*2।229*} प्रकृतानुवादौ.
नोतेस्:
*{2।226: तैत्.स्. 2.5.11.6}*
*{2।227: तैत्.स्. 2.5.11.7}*
*{2।228: ए2: 3,49; ए4: 3,110; ए5: 2,450; ए6: 1,101}*
*{2।229: ए1,6; ए2,4,5: प्रकृतानां रूपवत्त्वात्}*
संज्ञोपबन्धात्
संज्ञोपबन्धश् च भवति, अग्निहोत्रं नाम होमं जुहोतीति, आघारसंज्ञकं कर्म करोतीति, संज्ञाविशिष्टावाघारहोमौ विधीयेते. न च विज्ञायते{*2।230*}, को ऽसाव् आघारो नाम कर्मविशेषः, कश् आग्निहोत्रसंज्ञक इति. ननु विज्ञायते, आघारणम् आघारः, हवनं होमः. यद्य् आघारणसामान्यं होमसामान्यं च विधीयेते, विज्ञातपूर्वौ तर्ह्य् आघारहोमौ, तेनानुवादौ. अथाव्युत्पन्ना उभयोर् अपि संज्ञा, तथापि नाघाराग्निहोत्रसामान्यम् उच्येत, विशेषाश्रयत्वात् संज्ञायाः. न च, स विशेषो गम्यत इत्य् अपूर्वावाघारहोमविधी नावकल्प्येते. अपि च कथं क्रिया साधनशब्देनोच्येत? ईप्सिततमं हि यत् साधनम्, तत् द्वितीयान्तेनोच्यते, क्रिया तिङन्तेन. अनुवादपक्षे क्रियाणां समुदायो ऽर्थान्तरम्, तत् ईप्सिततमं साधनं भविष्यति.
नोतेस्:
*{2।230: ए1,5; ए2,4,6: विज्ञायेते}*
अप्रकृतत्वाच् च
न च, प्रकृतम् अपि द्रव्यदेवतम् आघारे विद्यते. येन रूपवान् स्यात्. तस्माद् एताव् अपि समुदायशब्दाव् इति.
[150]{*2।231*}
नोतेस्:
*{2।231: ए2: 3,52; ए4: 3,120; ए5: 2,459; ए6: 1,101}*
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्, तत्सन्निधेर् गुणार्थेन पुनः-श्रुतिः
न चैतद् अस्ति, समुदायशब्दाव् इति, कर्मान्तरचोदने स्याताम्. कुतः? शब्दार्थस्य प्रयोगभूतत्वात्, आघारयति, जुहोतीति, होमाघारौ प्रयोक्तव्याव् इति शब्दार्थः, तेन कर्मान्तरे विधीयेत इत्य् अवगच्छामः. आघाराग्निहोत्रशब्दौ च हवनाघारणसामान्यवाचिनौ प्रज्ञातौ, अतो नाविज्ञातार्थौ. तेन रूपवन्तौ सन्तौ विधीयेते.
यद् उक्तम्, ऊर्ध्वम् आघारयति, दध्ना जुहोतीत्येवमादिभिर् विहितत्वाद् अनुवादाव् इति. नैतद् एवम्, न ह्य् एते होमाघारौ विधातुं शक्नुवन्ति. ऊर्ध्वम् आघारयति, दध्ना जुहोतीति च नैतद् उक्तं भवति, आघारः कर्तव्यः, होमः कर्तव्य इति, किं तर्हि, ऊर्ध्वताघारसंबन्धः कर्तव्यः, दधिहोमसंबन्धः कर्तव्य इति. तस्माद् अराप्तत्वान् नानुवादौ. ननु संबन्धे विहित अर्थाद् धोमाघारौ भविष्यतः. नैतद् एवम्, अस्मिन् हि सति विधानेन संबन्धः. तस्मान् नार्थाद् आपद्येते होमाघारौ, अतो ऽपूर्वौ विधीयेत इति ब्रूमः.
नन्व् आघारयति, जुहोतीति होमाघारगतो व्यापारः श्रूयते, न दध्यूर्ध्वतादिसंबन्धः. सत्यं न श्रूयते. तस्मिन् निधेर् गुणार्थेन व्यापारश्रवणम् अवकल्पिष्यते. ननु पदार्थान्तरगतं व्यापारं श्रुतिर् न शक्नोति वदितुम्. सत्यम् एवम् एतत्, स्वपदार्थगतं वक्ष्यति, तं तु स्वपदार्थं गुणशब्दो विशेक्ष्यति, स एव{*2।232*} विशिष्टः प्रत्येष्यत इति भवेद् एतत्, विशिष्यात् स्वपदार्थं गुणशब्दः, न त्व् एष{*2।233*} गुणगतो व्यापारः प्रतीयेत. तत्र किं भविष्यति? अव्याप्रियमाणे ऽपि गुणे शब्दार्थावकॢप्तो भविष्यति. गुणवचनसन्निधिर् इदानीं किम् अर्थः? अनर्थकस् तु. कथं पुनर् अनर्थको [149]{*2।234*} नाम वेदो{*2।235*} भवितुम् अर्हति? सत्य् अर्थे नानर्थकः, असति त्व् अर्थे किम् अन्यद् उच्येत. एवं तर्हि वाक्याद् भविष्यति, श्रुत्यर्थे सति न वाक्यार्थो ऽवकल्प्यते. सत्यम् एवम् एतत्. अविवक्षिते त्व् अवकल्पिष्यते. कथम् अविवक्षा? गुणवचनस्याप्रमादपाठात्, स्वपदार्थस्य च शब्दान्तरेण विहितत्वात्. तस्मात् सिद्धम् - गुणार्थेन दध्ना जुहोतीत्येवमादीनां पुनःश्रुतिः{*2।236*}. जुहोतेर् उच्चारणं चानुवादो गुणसंबन्धार्थः. यदि जुहोतीत्य् अनुवादः,
केनेदानीं गुणो विधीयते? दधिशब्देनेति मा वोचत. नन्व् इदानीम् एव वाक्याद् गुणव्यापारो{*2।237*} गम्यत इत्य् उक्तम्. सत्यम् एवम् एतत्, अविधीयमानस् तु कुतो गम्यत इति, प्रमाणम् अस्य नावगम्येत. असति प्रमाणे व्यामोहः स्यात्. एवं तर्हि विधायकौ जुहोत्याघारयतिशब्दौ. कस्य तर्ह्य् अनुवादः? धात्वर्थस्येति ब्रूमः.
यदि विधायकौ, पूर्वम् एव विहिते स्वार्थे, किम् अर्थं पुनर् उच्चार्येते? वाक्यार्थो यस् तं विधातुम् इत्य् अदोषः. तस्मात् कर्मान्तरचोदने. यद् उक्तम् - नास्त्य् आघारे प्रकृतं द्रव्यदेवतम् इति. किम् एवं सति द्रव्यदेवतेन, यदा प्रसिद्धार्थाभिधानान् निर्ज्ञातम् एवास्य रूपम्. अपि च, चतुर्गृहीतं वैतद् अभूत् तस्याघारम् आघार्येत्य् आज्यमस्य द्रव्यम्, मान्त्रवर्णिको देवताविधिः, इन्द्र ऊर्ध्वो ऽध्वरो दिवि स्पृशतु महतो यज्ञो यज्ञपत इन्द्रवान् स्वाहेत्याघारम् आघारयतीति{*2।238*}, एवम् असाव् इन्द्रवान् यद्य् अस्येन्द्रो देवता, तद् यदि देवताभिधानम् एतद् आघारस्य, ततो ऽनेनाघारः कृतो भवति. तस्मात् कर्मान्तरे, न समुदायशब्दाव् इति सिद्धम्.
[150]{*2।239*}
नोतेस्:
*{2।232: ए1,5; ए2,4,6: एव}*
*{2।233: ए1,6; ए2,4,5: एवं गुणगतो}*
*{2।234: ए2: 3,58; ए4: 3,121; ए5: 2,463; ए6: 1,102}*
*{2।235: ए1,6; ए2,4,5: वेदे}*
*{2।236: ए2,4: पुनःश्रुतिर् इति}*
*{2।237: ए1,6; ए2,4,5: गुणगतो व्यापारो}*
*{2।238: व्ग्ल्. तैत्.स्. 1.1.12.1}*
*{2।239: ए2: 3,64; ए4: 3,153; ए5: 2,466; ए6: 1,103}*
द्रव्यसंयोगाच् चोदना पशुसोमयोः, प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन
ज्योतिष्टोमे श्रूयते - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*2।240*}, तत्रेदम् आमनन्ति, हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति{*2।241*}. तथा{*2।242*} सोमेन यजेतेति, तत्रापि{*2।243*}, ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णातीत्येवमादि. तत्र संशयः, किम् अवद्यति गृह्णाति{*2।244*} - चोदितानां कर्मणाम् एवालभतियजती समुदायस्यानुवदितरौ, अथापूर्वयोः कर्मणोर् विधाताराव् इति.
किं तावत् प्राप्तम्? समुदायस्येति. कुतः? ये इमे आलभतियजतिभ्यां कर्मणी विधीयेयाताम् इति चिन्त्येते, पूर्वम् एव त अवद्यतिगृह्णातिभ्याम् अवगमिते. न चावगमितो ऽर्थो विधीयते. हृदयादींस् तु पशुशब्देनानुवदति, सोमशब्देन च रसम्. तस्मात् सोमेन यजेतेत्य् अनुवादो यजतिः यजेत स्वर्गकाम इति{*2।245*} फलसम्बन्धार्थः. पशुम् आलभेतेति चालभतिर् अग्नीषोमसंबन्धार्थः. अपि च, दशैतान् अध्वर्युः प्रातःसवने ग्रहान् गृह्णातीति समुच्चयो दृश्यते. तथाश्विनो दशमो गृह्यते, तृतीयो हूयत इति च क्रमः. यदि चापूर्वौ यागौ विधीयेते, तत्रैन्द्रवायवादिभिर् देवता विधीयेरन्, ता एकार्थाः सन्त्यो विकल्पेरन्. यथा, खादिरे बध्नाति, पालाशे बध्नाति रोहितके बध्नातीति. तत्र क्रमसमुच्चयदर्शने नोपपद्येयाताम्, अथ पुनर् अस्मिन् समुदायवचने, यजतौ सम्यग् एतद् अवकॢप्तं भवति. तस्मात् समुदायानुवादौ.
[151]{*2।246*} एवं प्राप्ते ब्रूमः - अपूर्वयोः कर्मणोर् विधानचोदने पशुसोमयोः. कुतः? सोम-शब्दः क्षीरिण्यां लतायां प्रसिद्धो न रसे, आकृतिवचनो हि सोमशब्दो न व्यक्तिवचनः. तथा, शृङ्गिणि पुच्छवति लोमशे चतुष्पदि द्रव्यविशेषे पशुशब्दम् आकृतिवचनम् उपचरन्ति, न च, एवम् आकृतिकद्रव्याः प्रकृता यागा विद्यन्ते. येषाम् इमौ समुदायस्यानुवदितारौ भवेयाताम्. ननु पशु-विकारो हृदयादिः पशुशब्देनाग्नीषोमसंबन्धार्थम् अनूद्यते. नैतद् एवम्, पशुर् अग्नीषोमीयो भवतीत्य् एतावद् उच्यते, नायं प्रकृतो हृदयादिः पशुर् इति. तत्र यदि, लौकिकस्य पशोर् ग्रहणं ततो मुख्यः पशुशब्दः, यदि हृदयादेः, ततो जघन्यो विकारसंबन्धेन. तथा, सोमशब्दो ऽपि विकारसंबन्धेनानुवादः स्यात्. तस्माद् अपूर्वे कर्मणी विधीयेयातां नानुवादौ. अथैन्द्रवायवादिषु प्रकृतेषु यागेषु लता विधीयेतेति. उच्यते - न, सा शक्या वाक्येनैन्द्रवायवी ज्ञातुम्, श्रुत्या हि रस ऐन्द्रवायवः. तस्माद् द्रव्यसंयोगवचनः प्रकृतेषु यागेष्व् अपि सत्सु विधातुम् अनुवदितुं वा न शक्नुवन्न् अनर्थकः स्यात्. तस्माद् अपूर्वकर्मणी विधीयेयाताम्, न प्रकृतानाम् अनुवादाव् इति.
नोतेस्:
*{2।240: तैत्.स्. 6.1.11.6}*
*{2।241: तैत्.स्. 6.3.10.4}*
*{2।242: ए6: यथा}*
*{2।243: ए1,6; ए2,4,5: तथा}*
*{2।244: ए2,4: अवद्यतिगृह्णातिभ्यां}*
*{2।245: ए1,6; ए2,4,5: स्वर्गकामो वसन्ते वसन्त इति}*
*{2।246: ए2: 3,68; ए4: 3,153; ए5: 2,470; ए6: 1,103}*
अचोदकाश् च संस्काराः
एवं तावत्, प्रकृतेषु सत्स्व् अपि नानुवादाव् इत्य् उक्तम्, अथेदानीम्, प्रकृता एव यागा न सन्तीत्य् उच्यते. कुतः? अचोदकाः संस्काराः, न च, ऐन्द्रवायवादिभिर् यागा विधीयन्ते, तेन ग्रहणम् उपकल्पनमात्रं दृष्टार्थम्, उपकल्प्यमाने तु देवता[152{*2।247*}]सङ्कीर्तनम् अदृष्टाय. अतः, ऐन्द्रवायवं गृह्णातीतीन्द्रवायुभ्यां संकल्पयतीत्य् एतावद् उक्तं भवति, तत्र यागम् अन्तरेण संकल्पयतीत्य् एतन् न युज्यत इति यागः कल्प्येत, स एवाम्नातो यागः, यस्मिन् सति संकल्पो ऽवकल्प्येत. तस्मान् न, ऐन्द्रवायवं गृह्णातीत्येवमादिभिर् यागा विधीयेरन्, प्रकृतानां यागानाम् अभावान् न समुदायशब्दो यजतिः, तथा लभतिशब्द{*2।248*} इति.
नोतेस्:
*{2।247: ए2: 3,72; ए4: 3,167; ए5: 2,474; ए6: 1,104}*
*{2।248: ए2,4,5,6 (रिछ्तिग्): तथालभतिशब्द}*
तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात्
पशौ वृत्ता कथा दशमे पुनर् उद्भविष्यति, सोम इदानीं वर्तते. कथं क्रमसमुच्चयाव् इति. इन्द्रवाय्वाद्या देवता नैवं श्रूयन्ते, इन्द्रवायुभ्यां यागो निर्वर्तयितव्यः, मित्रावरुणाभ्यां यागो निर्वर्तयितव्य इति, यद्य् एवम् अश्रोष्यन्त, यागं प्रति देवता व्यकल्पिष्यन्त, केवलया हि देवतया तदा यागो निर्वर्त्यत इति विहितम् अभविष्यत्. अथ पुनर् इमाः अदृष्टार्थं गृह्णाति संस्कारं प्रति देवता विधीयन्ते, तत्रेन्द्रवायुसंकल्पाद् अन्यो मित्रावरुणसंकल्पः, तेन गृह्णातौ तत्कृताद् अदृष्टाद् अदृष्टान्तरम् उत्पादयति, एवम् अपरेष्व् अपि ग्रहणेषु, तस्मात् समुच्चयः. ग्रहणं तु{*2।249*} नियतपरिमाणेषूर्ध्वपात्रेषु प्रादेशमात्रेषु नियतपरिमाणेषूदककलशेषु संस्कृतस्य दशमुष्टिपरिमितस्य कृत्स्नस्य सोमस्य नावकल्पते. यद्य् अपि चावकल्पेत, तथापि नित्यविहितानां देवतानां विकल्पपक्षे तावत् प्रयोगवचनो मा बाधीत्य् अव[153]{*2।250*}यवग्रहणम् एव न्याय्यम्, कृत्स्नग्रहणे हि तद् एवेन्द्रवायुभ्यां संकल्पितम्, तद् एव मित्रावरूणाभ्याम् इति नावकल्पेत. तस्मात् कल्पनभेदात् पृथगवस्थितः सोमो नानादेवतत्वाद् एव नैक्येन शक्यः कर्तुम्. न चासति देवतायागे देवताभ्यः शक्यते संकल्पयितुम्. तस्माद् अवश्यं यथासंकल्पिता देवता यष्टव्याः, तासु चेज्यमानासु ज्योतिष्टोमेन यजेतेति श्रुतो यागो निर्वृत्त एव भवति, न देवतान्तरम् आकाङ्क्षति, कृत्स्नेन च दशमुष्टिना सोमेन यागः श्रुतः, सो ऽसत्य् अभ्यासे नावकल्पत इत्य् अर्थात् स गुणो भविष्यतीत्य् अभ्यसितव्यो यागः, न ह्य् अनभ्यस्तः सर्वाभिर् देवताभिः सर्वेण च{*2।251*} सोमेन संपन्नो भविष्यति. तस्मिंश् चाभ्यस्यमाने क्रमसमुच्चयौ युक्ताव् एव भवतः, तस्मात् तयोर् दर्शनं युज्यते एवेति.
नोतेस्:
*{2।249: ए1,5,6; ए2,4: च}*
*{2।250: ए2: 3,79; ए4: 3,174; ए5: 2,478; ए6: 1,105}*
*{2।251: ए2,4 ओम्. च}*
संस्कारस् तु न भिद्येत, परार्थत्वाद् द्रव्यस्य गुणभूतत्वात्
यद् अप्य् उच्यते - यथा खादिरे बध्नाति, पालाशे बध्नातीति खादिरादयः संस्कारे विकल्पन्ते, तद्वद् देवता विकल्पयिष्यन्त इति, तच् च नैवं युक्तम्, तत्र संस्कारम् अभिनिर्वर्तयितुं खादिरादयः श्रूयन्ते. यदि चेन्द्रवाय्वाद्या अपि ग्रहदेवता यागम् अभिनिर्वर्तयितुं श्रूयेरन्, ततो ऽत्रापि विकल्पः स्यात्, न त्व् एता यागे श्रुताः. तस्मात् समुच्चीयेरन्.
पृथक्त्वनिवेशात् सङ्ख्यया कर्मभेदः स्यात्
अस्ति वाजपेयः, वाजपेयेन स्वाराज्यकामो यजेतेति, [154]{*2।252*} तत्र प्राजापत्याः पशवः, सप्तदश प्राजापत्यान् पशून् आलभते, सप्तदशो वै प्रजापतिः, प्रजापतेर् आप्त्यै श्यामास्तूपरा एकरूपा भवन्ति, एवम् एव हि प्रजापतिः समृद्ध्यै{*2।253*}. तत्र सन्दिह्यते - किं सप्तदशैतानि कर्माणि, अथ सप्तदशपशुगुणकम् एकं कर्मेति. किं तावत् प्राप्तम्? एकं कर्मेति. कुतः? प्रजापतये सप्तदश पशवः सङ्कल्प्यन्ते. किम् एकं यागम् अभिनिवर्तयितुम् उत बहून् इति संशये एकम् इति न्याय्यं, यो हि बहून् यागान् कल्पयति, कल्पयत्य् असाव् एकम्, तत्रैकस्मिन्न् एव परिकॢप्ते सप्तदशानाम् एव पशूनां परिकल्पनम् उपपन्नं भवति, केन च द्वितीयादीन् यागान् अवकल्पयेम. एवं सत्य्{*2।254*} अल्पीयस्य् अदृष्टानुमानप्रसङ्गकल्पना भवति. तस्माद् एको यागः सप्तदशभिः पशुभिर् निर्वर्त्यते{*2।255*}.
एवं प्राप्ते ब्रूमः - सङ्ख्यया कर्मभेदो भवेत्, पृथक्त्वे पशूनां सति सप्तदशसङ्ख्या निविशेत, तच् च पशूनां पृथक्त्वं बहुषु यागेष्व् अवकल्पते, नैकस्मिन्. कथम्? एकादशभिर् अवदानैर् असौ यागो निवर्तयितव्य इत्य् एवं चोदकः प्रतिदिशति, तानि चैकस्माद् एव पशोर् अवाप्यन्ते, तत्र द्वितीयादेर् आलम्भो नावदानसंपादनाय भवितुम् अर्हति, एकम् आलभ्यमानम् अन्वालभ्येरन्न् अदृष्टार्थायापरे, तथासत्य्{*2।256*} अतदर्थत्वान् न ते प्राजापत्या भवेयुः, तत्र प्राजापत्यान् इति श्रवणम् उपरुध्येत{*2।257*}. तेनैकस्मिन् पशौ पृथक्त्वे निवेशिनी सप्तदशसङ्ख्या नावकल्प्येत, बहुषु यागेषु बहुभिर् एवावदानगणैः प्रयोजनम्, तेन सप्तदशभ्यो यागेभ्यः सप्तदश पशून् उपाददीरंस् तत्र सङ्ख्यासामं जस्यं भविष्यति, तस्मात् सप्तदश यागाः.
नन्व् एकस्मिन्न् अपि यागे सप्तदशभिर् अवदानगणैर् यक्ष्यते वचनात्. नैतद् एवम्, पशुषु हिं सा सङ्ख्या श्रूयते, नावदानगणेषु. अवदानानि हवींषि यागसाधनानि, न पश्वाकृतिः, सा ह्य् अवदानप्रकृतिद्रव्यं विशिषन्ती प्रकृतौ प्रधानस्योपकृतवतीति [155]{*2।258*} विकृताव् अप्य् अवदानप्रकृतिद्रव्यं विशिषन्ती प्रधानस्योपकरिष्यति, तत्र च पशोः सप्तदशसङ्ख्या विकारिका, नावदानगणस्य, तस्माद् एकस्मै अवदानगणायैकः पशुर् आलब्धव्यः प्राप्नोति, तत्र सप्तदशसङ्ख्या नोपपद्यते, एवम् एवावकल्पिष्यते. यदि शृङ्गाभिप्राया वर्णाभिप्राया रूपाभिप्राया वाभिविष्यन् सप्तदशपशवः श्वेतः कृष्णो रोहित इत्येवमादयः, तेषाम् अन्यतमो गृह्यत इति, अथवा तूपराः शृङ्गिण एकशृङ्गा इत्येवमादयः, तेषाम् अन्यतम इति, ते हि श्यामास् तूपरा एकरूपाः श्रूयन्ते, तदेषु बहुषु यागेषूपपद्यते, नैकस्मिन्. तस्मात् सप्तदश यागा इति. प्रयोजनम् एकस्मिन्न् अष्टे दुष्टे कृत्स्नः पशुगण आवर्तेत, एकम् आलभ्यमानम् अन्वालभेरन्, पूर्वपक्षे ऽदृष्टार्थम्. सिद्धान्त एक एव पशुर् आवर्तते, न हि कर्मभेदे पशुः पश्वन्तरम् आकाङ्क्षतीति.
नोतेस्:
*{2।252: ए2: 3,80; ए4: 3,188; ए5: 2,482; ए6: 1,105}*
*{2।253: तैत्.स्. 1.3.4.3}*
*{2।254: ए1,5; ए2,4,6 ओम्. सत्य्}*
*{2।255: ए1,6; ए2,4,5: निर्वर्तयितव्य}*
*{2।256: ए1,5; ए2,4,6: तथा सत्य्}*
*{2।257: ए2,4: उपरुध्यते}*
*{2।258: ए2: 3,85; ए4: 3,189; ए5: 2,488; ए6: 1,106}*
संज्ञा चोत्पत्तिसंयोगात्
अथैष ज्योतिर् अथैष विश्वज्योतिर् अथैष सर्वज्योतिर् इति. अत्र{*2।259*} संदेहः, किम् एभिर् नामधेयैः प्रकृतं ज्योतिष्टोमं सङ्कीर्त्य तत्र सहस्रदक्षिणादिगुणो विधीयते, अथ वा वक्ष्यमाणविशेषाणि कर्मान्तराण्य् उपदिश्यन्त इति. किं प्राप्तम्, प्रकरणानुग्रहात् प्रकृतस्य गुणविधानम् इति. ननु वाक्यसामर्थ्याज् ज्योतिरादीनाम् एते गुणा विधायिष्यन्ते. नैष दोषः, ज्योतिष्टोमस्यैवैतानि वाचकानि, ज्योतिर् इति ज्योतिष्टोमस्य प्रतीकम् उपादीयते, विश्वज्योतिर् इति त्रिवृदादीन्य् अस्य ज्योतींषि वाक्यशेषसङ्कीर्तितानि, तानि सर्वाण्य् अस्य, तेनासौ विश्वज्योतिः सर्वज्योतिश् च ज्योतिष्टोम इति एवं प्राप्तम्.
[156]{*2।260*} एवं प्राप्ते ब्रूमः - संज्ञा हि तिस्रो भेदिकाः, तेषां ज्योतिर् आद्याः, उत्पत्तिवाक्ये ह्य् एताः श्रूयन्ते, तासाम्{*2।261*} इमाः पुनः श्रुतयः. तस्माद् अथैष ज्योतिर् इत्य् अपूर्वस्य कर्मणो विधायकं वाक्यम्, अनुवादे हि सत्य् अप्रवृत्तिविशेषकरम् अनर्थकं स्यात्. प्रकृतस्य च गुणविधाने विकल्पो भवेत्, तत्र पक्षे बाधः, न च ज्योतिरादयो ज्योतिष्टोमस्य वदितारः, समुदायान्तराणि ह्य् एतानि, न चावयवेन समानेन समुदायान्तरं तदर्थम् एव भवति, यथा शालाशब्दो गृहवचनः, तत्र न शालाशब्दसामान्यान् मालाशब्दादयो ऽपि गृहवचना भवन्ति. यत् तु ज्योतिष्टोमस्य ज्योतिर् इति प्रतीकम् उपादीयत इति. प्रकरणसामर्थ्याद् धि तत्र ज्योतिष्टोमशब्देन परोक्षेनैकवाक्यता भवेत्, सा प्रत्यक्षं ज्योतिःशब्देन सहैकवाक्यतां बाधेत, नचैतन् न्याय्यम्, वाक्यं हि प्रकरणाद् बलीयः. अथ पुनर् अयं द्योतनार्थत्वाद् वा ज्योतिष्टोमत्वाद् वा कर्मान्तरे वत्स्यति, यच्{*2।262*} च त्रिवृदादीनि ज्योतींषि तेषां साकल्यवचनो विश्वज्योतिः सर्वज्योतिर् इति चेत्. नेति ब्रूमः, न हि त्रिवृदादिषु ज्योतिःशब्दः प्रसिद्धः, एवं ब्रुवन् प्रसिद्धं बाधेत. यत् तु वाक्यशेषाज् ज्योतिःशब्दस् त्रिवृदादिवचन इति, तस्मिन्न् एव वाक्ये स तत्र प्रयुक्त इति गम्यते प्रमाणान्तरेण न शब्देन, यत्र तु तत्प्रमाणान्तरं नास्ति, न तत्र वर्तितुम् अर्हति, यथा सिंहो देवदत्त इति सिंहशब्दो देवदत्तवचनः प्रमाणान्तरेण, न तु सिंहम् आलभेतेति यत्र, तत्र तु तत्प्रमाणान्तरं नास्ति. तस्मान् न विश्वज्योतिः सर्वज्योतिर् इति{*2।263*} च ज्योतिष्टोमस्य वदितारौ, न चेज् ज्योतिष्टोम उच्यते, सर्वाणि कमान्तराणि{*2।264*}
[157]{*2।265*}
नोतेस्:
*{2।259: ए1,5,6; ए2,4: सर्वज्योतिर् एतेन सहस्रदक्षिणेन यजेतेति श्रूयते. अत्र}*
*{2।260: ए2: 3,90; ए4: 3,206; ए5: 2,494; ए6: 1,107}*
*{2।261: ए2,4: नासाम्}*
*{2।262: ए1,5; ए2,4,6: यश्}*
*{2।263: ए2,4,5,6 ओम्. इति}*
*{2।264: ए2,4,6: कमान्तराणीति}*
*{2।265: ए2: 3,92; ए4: 3,216; ए5: 2,497; ए6: 1,107}*
गुणश् चापूर्वसंयोगे वाक्ययोः समत्वात्
चातुर्मास्येषु वैश्वदेवे समामनन्ति, तप्ते पयसि दध्यानयति सा वैश्वदेव्य् आमिक्षा वाजिभ्यो वाजिनम् इति{*2।266*}. तत्र सन्दिह्यते, किम् आमिक्षागुणके कर्मणि वाजिनं गुणविधिः, उत तस्माद् वाजिन-गुणकं कर्मान्तरम्{*2।267*}? किं प्राप्तम्? गुणविधिर् इति. कुतः? वाजेनान् नेनामिक्षया वाजिनो विश्वे-देवास् तान् अनूद्य वाजिनं विधीयते, तेनोभयं वैश्वदेवम्, आमिक्षा वाजिनं च. तस्मिन्न् एव च कर्मणि वाजिनगुणविधिः. यथा अग्निहोत्रं जुहोतीत्य् उक्ते दध्ना जुहोति, पयसा जुहोतीति{*2।268*}.
एवं प्राप्ते ब्रूमः - गुणश् चाप्रकृतेन देवताभिधानेन संबन्ध्यमानः कर्मान्तरं विदध्यात्, समे हि तदैते वाक्ये भवतः, उभे अप्य् अपूर्वयोर् यागयोर् विधातृणी. कथं पुनर् अपूर्वदेवताभिधानम्? यदेदानीम् एव उक्तम्, विश्वेषां देवानाम् अनुवादो वाजिनम्{*2।269*} इति. तद् उच्यते - इह विश्वेषां देवानां देवतात्वं क्वचिच् छ्रुत्या, क्वचित् वाक्येन. तद् धितनिर्देशे श्रुत्या, चतुर्थीनिर्देशे वाक्येन. यत्र श्रुत्या देवतात्वम्, तत्रामिक्षया सहैकवाक्यत्वम्. यत्र चतुर्थी, तत्र वाजिनेन, तत्रैषाम् एकत्र श्रुत्या देवतात्वम्, वाक्येन द्रव्यविशेषसंबन्धः. एकत्रोभयम् अपि वाक्येन. तद् इह देवतात्वं प्रति श्रुतिवाक्ययोर् विरोधः, विरोधे च श्रुतिर् बलीयसीत्य् आमिक्षावाक्ये देवतात्वं विश्वेषां देवानाम्, न वाजिनवाक्य इत्य् अध्यवसीयते, तेनावगम्यते, अप्रकृतेन देवतापदेनास्य संबन्ध इति. तस्मात् कर्मान्तरम् इति.
अथ यद् उपवर्णितम्, यथाग्निहोत्रं जुहोतीत्य् उक्ते दध्ना जुहोतीत्येवमादयो गुणविधय इति. तत्रोच्यते - [158]{*2।270*}
नोतेस्:
*{2।266: व्ग्ल्. मैत्.स्. 1.10.1}*
*{2।267: ए2,4: कर्मान्तरम् इति}*
*{2।268: व्ग्ल्. तैत्.ब्र्. 2.1.5.4}*
*{2।269: ए1,6; ए2,4,5: वाजिभ्य}*
*{2।270: ए2: 3,102; ए4: 3,234; ए5: 2,502; ए6: 1,108}*
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत
युक्तं यत् तत्र गुणविधानम्, न तत्राप्रकृतेन केनचिद् गुणेन संबन्धः, प्रकृतेन त्व् अस्ति यागेन. तस्माद् अनुपवर्णनम् एतत्.
अथ वाधिकरणान्तरम्, दध्ना जुहोतीत्येवमादीनि कर्मान्तराणि, विकल्पपरिजिहीर्षयावकल्प्यन्ते. तद् एव तु कर्म जुहोतीतिशब्दाद् अवगम्यते, न कर्मान्तरम्. तस्मात् तत्रैव गुणविधिः, वचनाद् विकल्पश् चेति सिद्धम्.
फलश्रुतेस् तु कर्म स्यात्, फलस्य कर्मयोगित्वात्
अग्निहोत्रं प्रकृत्य समामनन्ति, दध्नेन्द्रियकामस्य जुहुयाद् इत्येवमादि{*2।271*}. तत्र संशयः, किम् अग्निहोत्रहोमाद् धोमान्तरं दध्यादिहोमः, उत दध्यादेर् गुणात् फलम् इति. किं प्राप्तम्? होमान्तरम् इति. कुतः? फलश्रुतेः, फलम् इह श्रूयते, तच् च कर्मणो न्याय्यम्.
किं दृष्टं हि कर्मणः फलम्? कृष्यादितो व्रीह्यादि. नेति ब्रूमः, न ह्य् एतद् दृष्टेनानेन सिध्यति, यदि दर्शनं हेतुः [159]{*2।272*} फलज्ञाने, कृष्यादौ पदार्थे तद्दर्शनम्, न होमे. अथ कृषौ दृष्टम् अन्यत्रापि भवति. द्रव्याद् अपि प्रसज्यते. अथ कृषिसदृशाद् भवतीत्य् उच्यते, कृषिसदृशो होमः क्रियात्वात्, न द्रव्यम्, असदृशं हि तद् इति. होमो ऽप्य् असदृशः, मन्त्रदेवतादिसाधनत्वाद् धोमस्य, लाङ्गलादिसाधनत्वाच् च कृषेः. त्यागात्मकत्वाद् धोमस्य, पाटनात्मकत्वाच् च कृषेः. अथ किंचित् सादृश्यं गृह्यते. द्रव्यस्यापि सद् अनित्यम् इत्येवमादि किंचित् सादृश्यम् अस्ति. अथ द्रव्याद् अन्यत् सदृशतरम् अस्तीति कृत्वा न द्रव्यं सदृशम् इत्य् उच्यते. होमाद् अप्य् अन्यत् कृषेः सदृशतरम् अस्ति दृष्टार्थम् इति कृत्वा होमो ऽप्य् असदृशः स्यात्. न चैतत् सिद्धम्, यत् क्वचित् दृश्यते, तद् अन्यस्मिन् सदृशमात्रे ऽदृष्टम् अपि भवितुम् अर्हतीति, यद् धि यस्य कारणभूतं दृष्टं सिद्धे, तच् चेत् साध्ये ऽपि कारणभूतम् इत्य् अवगम्यते, भवति तत् तस्य साधकम्, यन् न ज्ञायते कारणभूतम् इति, न तत् सदृशम् अपि साधकम्. तस्मात् सदृशम् अपि साधकम् असाधकं वेति परीक्षितव्यम् इति. अथ यत् कर्म तत् फलवद् दृष्टम्, होमो ऽपि कर्म, तेनापि फलवता भवितव्यम् इति. उपरते कर्मणि द्रव्याणां तत्संयोगानां च द्रव्यान्तरं फलं दृष्टम् इति द्रव्यम् अपि फलवत् स्यात्. अपि च कृषेर् नादृष्टम् इति तत्सादृश्याद् धोमाद् अपि नादृष्टं भवेत्, कृषिसादृश्याद् वा व्रीहिर् एव भवेत्, नेन्द्रियम्. तस्मान् नैवंजातीयकेष्व् एतद् भवति दृष्टाद् अदृष्टसिद्धिर् इति. कथं तर्हि होमान् न्याय्यं फलम् इति. उच्यते, शब्देनावगम्यते तत्फलम्, यतः फलम् इति शब्द आह, ततो न्याय्यम्, होमाच् च फलम् इति श्रुत्या शब्देन गम्यते, दध्नः फलम् इति वाक्येन, श्रुतिश् च वाक्याद् बलीयसी. तस्मात् होमात् फलम् इति न्याय्यम्, दध्नः फलम् इति चान्याय्यम्.
अपि च दध्य् उभयम् असमर्थम्, कर्तुं फलम्, साधयितुं होमं च. [160]{*2।273*} ननु कम्बलनिर्णेजनवद् एतद् भविष्यति, निर्णेजनं ह्य् उभयं करोति, कम्बलशुद्धिं पादयोश् च निर्मलताम्. न ब्रूमः, एकस्योभयं प्रयोजनम् अभिनिष्पादयितुं सामर्थ्यं नास्तीति, किं तर्हि फले गुणभूतं दधि होमे चेत्य् एकं वाक्यं वदितुम् असमर्थम् इति. यदि फलं दध्ना कुर्याद् इति ब्रूयात्, न दध्ना होमम् इति, अथ दध्ना होमं साधयेद् इति ब्रूयात्, न फलम् इति. उभयवचने भिद्येत वाक्यम्, अभिन्नं चेदम् उपलभ्यते. तस्मान् न गुणात् फलम् इत्य् अग्निहोत्रहोमाद् दधिहोमः कर्मान्तरम् इति.
नोतेस्:
*{2।271: तैत्.ब्र्. 2.1.5.6}*
*{2।272: ए2: 3,106; ए4: 3,234; ए5: 2,507; ए6: 1,109}*
*{2।273: ए2: 3,109; ए4: 3,235; ए5: 2,512; ए6: 1,109}*
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत
तुशब्दात् पक्षो विपरिवर्तते, न कर्मान्तरम्, किं तु गुणात् फलम् इति. कथम्? अतुल्ये ह्य् एते वाक्ये, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अत्र कर्मसमभिव्याहृतं फलं स्वर्गकामो होमेन कुर्याद् इति, दध्नेन्द्रियकामस्य जुहुयाद् इति गुणसमभिव्याहृतम्. न ह्य् अत्र होम इन्द्रियाय कर्तव्य इति प्रतीयते, किं तर्हि दध्ना होम इन्द्रियकामस्येति, होमस्य दधिसंबन्ध इन्द्रियाय, न होमस्योत्पत्तिः, य इन्द्रियकामः स्यात्, स दध्ना होमं कुर्याद् इति. कतमो ऽत्र शब्दः पुरुषप्रयत्नस्य वक्तेति. जुहुयाद् इति ब्रूमः.
ननु श्रुत्या होमसंबद्धम् एष पुरुषप्रयत्नं वदति, वाक्येन दधिसंबन्धम्, न च, वाक्यं श्रुतिम् अपबाधितुम् अर्हति. न च, युगपद् उभयसंबन्धो न विरुध्यते, वाक्यं हि तथा भिद्येतेति. अत्रोच्यते - ये भवदीयं पक्षम् आश्रयेरन्, ते श्रुतिम् अपबाधेर् अन्तराम्{*2।274*}, अस्मदीये तु पुनः पक्षे जुहुयाद् इति धात्वर्थः केवलो ऽपबाधितो भवति, युष्मदीये तु कृत्स्न एव दध्नेति शब्दः. तं चाप्रमाद्यन्तः समामनन्तीति गम्यते. न चैतत् प्रमत्तगीतम्, [161]{*2।275*} इत्य् उक्तम्, तुल्यं हि सांप्रदायिकम् इति. तस्मान् न कर्मसमभिव्याहृतं फलम्, गुणसमभि-व्याहृते तु न कश्चित् प्रमादपाठः, अवश्यं हि, जुहुयाद् इति दध्नेन्द्रियकामयोः संबन्धवि-धानार्थं वक्तव्यं भवति. ननूच्यमाने ऽपि न केवलः करोत्य् अर्थो ऽवगम्यते, केवले न वचःप्रयोजनम्, स च होमसंबद्धः, तस्माद् असमञ्जसम् इति. नेति ब्रूमः, होमसंबद्धो ऽप्य् असौ करोत्य् अर्थ एव, केवलं त्व् अस्य होमसंबन्धे विशेषः, न तु करोत्य् अर्थतां बाधते, इन्द्रियकामस्य होमसंबद्धं प्रयत्नं दधिसंबद्धं कुर्याद् इति. नन्व् एवं सति स एव दोषः, होमसमभिव्याहृतं फलम् इति. उच्यते - जुहुयाद् इति शब्दस्यैतत्सामर्थ्यम्, यद् धोमविशिष्टं प्रयत्नम् आह, न त्व् अत्र होमः साधनत्वेन विधीयते, साध्यत्वेन विशिष्टस् तु प्रयत्नो वाक्येन दध्याश्रितो ऽवगम्यते, अत एव च वृत्तिकारेणोक्तम् - होमम् आश्रितो गुणः फलं साधयिष्यतीति, यथा राजपुरुषो राजानम् आश्रितो राजकर्म करोतीति. तस्माद् दध्नः फलम्, य इन्द्रियकामः, स दध्ना कुर्याद् इन्द्रियम् इति. कथम् इति. अनयाग्निहोत्रेतिकर्तव्यतयेति. कुत एतत्? फलसाधनस्य दध्न इतिकर्तव्यताकाङ्क्षत्वात्, अस्याश् चेतिकर्तव्यतायाः सन्निधानात्, चोदनालिङ्गस्य च जुहोत्य् अर्थस्य दर्शनात्. यस्माद् एव चायं जुहोत्य् ऽर्थो ऽनुवादः, तस्माद् अविधायकः. न च, अन्यद् धोमस्य विधायकं नास्तीति, तस्मान् न कर्मान्तरम्, तस्माद् दध्नः फलम् इति. अथ वा दधिशब्दस्य विवक्षितार्थत्वाद् दधिहोमसंबन्धो ऽयं वाक्येन विधीयते, तेन दध्नो होमेन संबध्यमानात् फलं भविष्यतीति.
[162]{*2।276*}
नोतेस्:
*{2।274: ए2,4,5,6: अपबाधेरंस्तराम्}*
*{2।275: ए2: 3,112; ए4: 3,249; ए5: 2,516; ए6: 1,111}*
*{2।276: ए2: 3,117; ए4: 3,262; ए5: 2,524; ए6: 1,111}*
समेषु कर्मयुक्तं स्यात्
त्रिवृद् अग्निष्टुद् अग्निष्टोमस् तस्य वायव्यास्व् एकविंशम् अग्निष्टोमसामकृत्वा ब्रह्मवर्चसकामो यजेतेति, एतस्यैव रेवतीषु वारवन्तीयम् अग्निष्टोमसाम कृत्वा पशुकामो ह्य् एतेन यजेतेति. अत्रायम् अर्थः सांशयिकः, किं तस्यैवाग्निष्टुतो ऽग्निष्टोमस्य गुणाद् वारवन्तीयात् पशवः फलम्, एतेन यजेतेति अनुवादः, अथ किम् एतेन यजेतेति कर्मान्तरम् इति. किं प्राप्तम्? न कर्मान्तरं गुणात् फलम् इति. कुतः? एतेन यजेतेति विदितस्यैतद् वचनम्, नाविदितस्य, अतो न विध्यन्तरम्, पशुकाम एवं यजेतेत्य् उच्यते, न यजेतेति, कथं कृत्वा? वारवन्तीयं कृत्वेति. अपि च, एतस्यैवेति विस्पष्टम् अकर्मान्तरवचनम्. तस्माद् गुणात् फलम् इत्य् एवं प्राप्तम्.
एवं प्राप्ते ब्रूमः - समेष्व् एवंजातीयकेषु भिन्नवाक्येषु कर्मयुक्तं फलं भवेत्, एतस्यैव रेवतीषु वारवन्तीयं कृत्वेति, न ह्य् एतस्य रेवत्यः सन्ति, यास्व् अस्य वारवन्तीयं भवेत्, तत्र रेवत्यो [163]{*2।277*} भवन्ति, तासु च वारवन्तीयं विधीयेतेति वाक्यम् भिद्येत. अथोच्येत, अस्य पूर्वा रेवतीर् उपादाय तासु च वारवन्तीयं कृत्वा, एतेन यजेतेत्य् अनुवदतीति. तथाग्निष्टोमसामेति नावकल्प्येत. अथाग्निष्टोमसामकार्ये भवतीत्य् उच्यते. एतस्यैवेत्य् एतद् अविवक्षितं स्यात्. उभयस्मिन् विवक्ष्यमाणे भिद्येत वाक्यम्, तस्मात् कर्मान्तरम्.
अथ कर्मान्तरे कथम् अवाक्यभेदः. रेवतीषु ऋक्षु वारवन्तीयं साम कृत्वा पशुकामो यजेतेत्य् अपूर्वो यागः सर्वैर् विशेषणैर् विशिष्टो विधीयते, तेनैकार्थत्वम्, विभागे च साकाङ्क्षत्वम् इत्य् एकवाक्यत्वम् उपपद्यते. नन्व् अर्थभेदो यागश् चैवं ह्य् अपूर्वः कर्तव्यः, रेवतीषु वारवन्तीयम् अपूर्वम् इति. नेति ब्रूमः, निर्वृत्तवारवन्तीयरेवतीगुणको यागो विधीयते, न वारवन्तीयनिर्वृत्तिः, अर्थाद् रेवतीषु वारवन्तीयम् अभिनिर्वर्त्स्यति, शक्यते च तन् निर्वर्तयितुम्. उच्यते - रेवतीनां वारवन्ती यस्य च संबन्धो न विहितः स्यात्, तत्र च रेवतीष्व् अन्यान्य् अपि सामानि भवेयुः. वारवन्तीयं चान्यास्व् अपि ऋक्षु. नैष दोषः, कृत्वेत्य् अभिनिर्वृत्तः संबन्धो यागायोच्यते, तेन संबन्धो गम्यते, द्वाव् अप्य् एताव् अर्थौ कृत्वेत्य् एष शब्दः शक्नोति वदितुम्, अभिनिर्वृत्तिं पूर्वकालतां च, यथा शोणमानय - इति रक्तगुणसंबद्धो ऽश्वः शब्देनैवानयतो{*2।278*} विधीयत इति, न वाक्यभेदो भवति, एवम् अत्रापि द्रष्टव्यम्.
नन्व् एवम् अपि बहवो ऽर्थाः, रेवत्यः, वारवन्तीयम्, तत्संबन्धः, यागः, पशुकामश् चेति. नैष दोषः, बहवः श्रूयन्ते, एको ऽत्र विधीयते, यागो विशिष्टः. ननु रेवत्यो ऽपि विधीयन्ते, वारवन्तीयम् अपि, यदि न विधीयेरन्, नैव तद्विशिष्टो यागः प्रतीयेत, न ह्य् अविधाय विशेषणम्, शक्यते विशिष्टो विधातुम्, तस्माद् बहुषु विधीयमानेषु नैकार्थ्यम्. अत्रोच्यते - अर्थ इति प्रयोजनम् अभिधीयते, यावन्ति पदान्य् एकं प्रयोजनम् अभि[164]{*2।279*}निर्वर्त्यन्ति, तावन्त्य् एकं वाक्यम्, न च, अत्र बहूनि प्रयोजनानि, न हि, अत्रानेकस्याभिप्रेतस्यानेकं पदं विधायकम् अस्ति, रेवतीष्व् इति नैतत् केवलं रेवतीनां विधायकम्, रेवतीषु वारवन्तीयम् इति. अत्रापि पदद्वये वारवन्तीयशब्दो द्वितीयान्तः, नास्मात् संबन्धो ऽभिप्रेतो गम्यते, प्रातिपदिकार्थस्याव्यतिरेकात्, कृत्वेत्य् अपि करोतिर् न संबन्धमात्रे पर्यवसितः परप्रयोजनसंबन्धम् आह. एवं विशिष्टस् तु यजतिर् न परार्थः, तद् एकम् एषां पदार्थानां प्रयोजनम्, तस्माद् एकवाक्यत्वम्. गुणे पुनः फले प्रकल्प्यमान अग्निष्टोमसाम्नः कार्ये वारवन्तीयम्, एतस्य च यदग्निष्टोमसामेति वाक्यभेदः स्यात्.
अथोच्यते, रेवत्यादिसर्वविशेषेण विशिष्टो याग एतस्याग्निष्टुतो विधीयेत. तथापि पशुकामसंबन्धाद् भिद्येत वाक्यम्. अथैवम् उच्येत, रेवतीषु कृतेन वारयन्तीयेन पशुकामो यजेतेति. नैवं शक्यम्, ऋगन्तरप्रगाणाद् विशेषहानाद् वैगुण्यं स्यात्. नन्व् इदानीम् एवोक्तम्, शक्यते हि रेवतीषु वारवन्तीयं कर्तुम् इति. सति वचने शक्यम्, असति वचने न वारवन्तीयग्रहणेन गृह्यन्ते. वचनं तर्हि भविष्यति, पशुकामो रेवतीषु वारवन्तीयम् अभिनिर्वर्तयेत्, ततो यजेतेति यजतिर् अनुवादः. यदि वचनं रेवतीषु वारवन्तीयसंबन्धस्य, सिद्धं कर्मान्तरम्, नाग्निष्टुतो गुणविधिः. ननु ततो यजेतेति यागानुवादाद् यागेनास्याङ्गप्रयोजनसंबन्धो भविष्यति. नैवं शक्यम्, यागं प्रत्यङ्गभावे विधीयमाने{*2।280*} पशुकामं प्रत्यसंबन्धः, उभयसंबन्धे वाक्यं भिद्येत. अथ यागसंबन्धो ऽनुवादः, प्रकरेण चाङ्गता. नेदम् उपपन्नम्, प्रकरणाद् धि वाक्यं बलवत्तरम्, तस्मात् कर्मान्तरम्, यागगुणकं वा रेवतीषु वारवन्तीयम्, तद्गुणको वा यागः, तत्र यागपशुकामयोः संबन्धस्य विधात्रीं यजतेर् उपरितनीं विभक्तिम् उपलभामहे लिङ्गम्, न तु रेवतीवारवन्तीयसंबन्धस्य [165]{*2।281*} विधायकं साक्षात् किंचिद् उपलभ्यते. तस्मात् सर्वविशेषणविशिष्टो यागः, पशुकामस्य विधीयत इति सिद्धम्.
अथ पुनर् विशिष्टे यागे विधीयमाने, तद् रेवतीषु वारवन्तीयं कथम् अग्निष्टोमसाम भवतीति? उच्यते - वचनाद् अग्निष्टोमसाम्नः कार्ये भविष्यतीति, किम् इव हि वचनं न कुर्यात्, नास्ति वचनस्यातिभारः. अथ यद् उक्तम् एतस्यैवेति, अनन्तरापेक्षं वचनम् इति तत्राप्य् अविरोधाद् एतद्धर्मकस्येति लक्षणाशब्दो भविष्यति. तस्मान् न गुणात् फलम्, कर्मान्तरम् एवं धर्मकम् इति, सिद्धं समेष्व् एवंजातीयकेषु कर्मयुक्तं फलम् इति.
नोतेस्:
*{2।277: ए2: 3,123; ए4: 3,263; ए5: 2,526; ए6: 1,111}*
*{2।278: ए1,6; ए2,4,5: शब्देनैवानयतौ}*
*{2।279: ए2: 3,127; ए4: 3,263; ए5: 2,538; ए6: 1,112}*
*{2।280: ए2,4 ओम्. विधीयमाने}*
*{2।281: ए2: 3,130; ए4: 3,264; ए5: 2,542; ए6: 1,113}*
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः
यो वृष्टिकामो यो ऽन्नाद्यकामो यः स्वर्गकामः, स सौभरेण स्तुवीत सर्वे वै कामाः सौभर इति{*2।282*} समाम्नाय ततः समामनन्ति, हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ - इति स्वर्गकामायेति{*2।283*}. तत्र विचार्यते, किं सौभरम्, वृष्टेर् निमित्तम्, हीष् इत्य् एतद् अपरं वृष्टेर् निमित्तम्, अथ सौभरम् एव वृष्टेर् निमित्तम्? यदा तद् वृष्टेर् निमित्तम्, तदा हीष् इति सौभरस्य निधनं कर्तव्यम् इति (एवं ऊर्गित्यन्नाद्यकामस्य, ऊ - इति स्वर्गकामस्य च तुल्यो विचारः.){*2।284*} कथं निधनाद् अपरं फलम्? कथं वा निधनव्यवस्थार्थं श्रवणम् इति, यद्य् एवम् अभि[166]{*2।285*}संबन्धः क्रियते, हीष् इति वृष्टिकामाय कुर्याद् इति, ततो निधनाद् अपरं फलम्, अथैवम् अभिसंबन्धः, हीष् इति निधनं कुर्याद् इति, तदा निधनव्यवस्थार्थं श्रवणम्, तदा वृष्टिकामायेति सौभरविशेषणं क्रियते, न हीषा संबन्धः.
किं तावत् प्राप्तम्? सौभरे निधने ऽपरः कामो विधीयत इति. कुतः? पुरुषश्रुतेः, पुरुषप्रयत्नस्यात्र श्रवणं भवति, कुर्याद् इति, तद् वृष्टिकामस्य हीषश् च संबन्धे कर्तव्ये वक्तव्यं भवति, न तु सौभरनिधनसंबन्धे, तत्र हि साङ्गं सौभरं कुर्याद् इति प्रयोगवचनसामर्थ्याद् एव सिद्धम्. तस्मात् कुर्याद् इति पुरुषप्रयत्नवचनाद् अवगच्छामः, यतरस्मिन् पक्षे पुरुषप्रयत्नवचनम् अर्थवत् ततरो ऽयं पक्ष इति, तत्र अस्मिन् पक्षे ऽर्थवत्, निधनाद् अपरं फलम् इति. तस्मात् सौभर एकः कामः, भेदेन निधनाद् अपि द्वितीयः काम इति.
अथ वा वृष्टिकामायेति पुरुषश्रुतिः, वृष्टिं यः कामयते, स पुरुषो वृष्टिकामशब्देनोच्यते, तद् अस्मिन् पक्षे श्रुतिर् विनियोक्त्री, इतरस्मिन् पक्षे पुनर् वृष्टिकामशब्देन पुरुषवचनेन सता सौभरं लक्ष्येत, तथा लक्षणाशब्दः स्यात्. श्रुतिलक्षणाविषये च श्रुतिर् न्याय्या, न लक्षणा. तस्मात् पश्यामो निधने द्वितीयः काम इति. एवं च फलभूयस्त्वं भविष्यति, तस्मान् निधने ऽपरः कामः.
नोतेस्:
*{2।282: ताण्ड्य. ब्र्. 8.8.18,20}*
*{2।283: ताण्ड्य. ब्र्. 8.8.19}*
*{2।284: इन् ए1 गेक्लम्मेर्त्}*
*{2।285: ए2: 3,133; ए4: 3,290; ए5: 2,544; ए6: 1,114}*
सर्वस्योक्तकामत्वात्{*2।286*} तस्मिन् कामश्रुतिः स्यात्, निधनार्था पुनःश्रुतिः
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0