मेघदूत · श्लोक 101-111
श्यामास्व् अङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं क्व चिद् अपि न ते चण्डि सादृश्यम् अस्ति ॥
त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम् आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम्
अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे क्रूरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः ॥
माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर् लब्धायास् ते कथम् अपि मया स्वप्नसंदर्शनेषु
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति ॥
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति ॥
संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात्
इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः ॥
नन्व् आत्मानं बहु विगणयन्न् आत्मना नावलम्बे तत् कल्याणि त्वम् अपि सुतरां मा गमः कातरत्वम्
कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण ॥
शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ मासान् अन्यान् गमय चतुरो लोचने मीलयित्वा
पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥
भूयश् चाह त्वम् असि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा
सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति ॥
एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः
स्नेहान् आहुः किम् अपि विरहे ह्रासिनस् ते ह्य् अभोगाद् इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति ॥
कच् चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि
निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव ॥
एतत् कृत्वा प्रियम् अनुचितप्रार्थनावर्त्मनो मे सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोशबुद्ध्या
इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् मा भूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः ॥
मूल पाठ: Meghadūta · Edition: S. K. De: Megha-dūta of Kālidāsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 · Data entry Asko Parpola · GRETIL (Göttingen) · CC BY-NC-SA 4.0