भाषा

ENहिગુ
ग्रंथ पाठ

मेघदूत · श्लोक 81-100

81

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम्
हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् इन्दोर् दैन्यं त्वदुपसरणक्लिष्टकान्तेर् बिभर्ति ॥

82

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती
पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच् चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥

83

उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा
तन्त्रीर् आर्द्रा नयनसलिलैः सारयित्वा कथं चिद् भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती ॥

84

शेषान् मासान् विरहदिवसस्थापितस्यावधेर् वा विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः
सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ॥

85

सव्यापाराम् अहनि न तथा पीडयेद् विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते
मत्संदेशैः सुखयितुम् अतः पश्य साध्वीं निशीथे ताम् उन्निद्राम् अवनिशयनासन्नवातायनस्थः ॥

86

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः
नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् ॥

87

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमलकं नूनम् आगण्डलम्बम्
मत्संयोगः कथम् उपनमेत् स्वप्नजो ऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥

88

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम्
स्पर्शक्लिष्टाम् अयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण ॥

89

पादान् इन्दोर् अमृतशिशिराञ्जालमार्गप्रविष्टान् पूर्वप्रीत्या गतम् अभिमुखं संनिवृत्तं तथैव
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश् छादयन्तीं साभ्रे ऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥

90

सा संन्यस्ताभरणम् अबला पेलवं धारयन्ती शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम्
त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा ॥

91

जाने सख्यास् तव मयि मनः संभृतस्नेहम् अस्माद् इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि
वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् ॥

92

रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम्
त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति ॥

93

वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या
संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् ॥

94

तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व
मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥

95

ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम्
विद्युद्गर्भे स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर् मानिनीं प्रक्रमेथाः ॥

96

भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं तत्संदेशान् मनसि निहिताद् आगतं त्वत्समीपम्
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि ॥

97

इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव
श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात् किं चिद् ऊनः ॥

98

ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः
अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः पूर्वाशास्यं सुलभविपदां प्राणिनाम् एतद् एव ॥

99

अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं सास्रेणास्रद्रवम् अविरतोत्कण्ठम् उत्कण्ठितेन
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः ॥

100

शब्दाख्येयं यद् अपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात्
सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस् त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह ॥

मूल पाठ: Meghadūta · Edition: S. K. De: Megha-dūta of Kālidāsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 · Data entry Asko Parpola · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc