भाषा

ENहिગુ
ग्रंथ पाठ

मत्तविलासप्रहसन · अध्याय 1

1.1

॥ श्रीः ॥
मत्तविलासप्रहसनं
श्रीमहेन्द्रविक्रमवर्मप्रणीतम् ।
- - -
(नान्द्यन्ते ततः प्रविशति सूत्रधारः ।)
सूत्रधारः - भाषावेषवपुःक्रियागुणकृतान् आश्रित्य भेदान् गतं
भावावेशवशाद् अनेकरसतां त्रैलोक्ययात्रामयम् ।
नृत्तं निष्प्रतिबद्धबोधमहिमा यः (1) प्रेक्षकश् च स्वयं
स व्याप्तावनिभाजनं दिशतु वो दिव्यः कपाली यशः

1.2

भोः ! समासादितः खलु मया यवीयसीं भार्यां अधिकृत्य समुत्पन्नव्यलीकायां ज्येष्ठायां मे कुटुम्बिन्यां युक्ततरः प्रसादनोपायः, यच् चिरस्याद्य वयं प्रेक्षाधिकारे परिषदा नियुक्ताः स्मः । तद् यावद् एनाम् उपसर्पामि । ({परिक्रम्य च्देह्} नेपथ्याभिमुखम् अवलोक्य) आर्ये ! इतस् तावत् ।
(प्रविश्य)
नटी - (सरोषम्) अय्य! किं चिरस्स कालस्स जोव्वण{गुण : गुण्ण ह्}भरमत्तविलासप्पहसणं (ओ?दं)सेदुं (2) आअदो सि ।
[आर्य! किं चिरस्य कालस्य यौवनगुणभरमत्तविलासप्रहसनं दर्शयितुम् आगतो ऽसि ।]
सूत्रधारः - यथाह भवती ।
नटी - ताए एव {दाव : दाणिं द्} दंसेहि, जा तुए रमैदव्वा ।
[तयैव तावद् दर्शय, या त्वया रमयितव्या ।]
सूत्रधारः - त्वया सह दर्शयिष्यामीति ।
नटी - किं ताए एव्व णिउत्तो सि ।
[किं तयैव नियुक्तो ऽसि ।]
सूत्रधारः - एवम् एतत् । अपि च, तत्र गता महान्तम् अनुग्रहं लप्स्यसे ।
नटी - तव एव्व खु एदं जुज्जै ।
[{तवैव : तथैवं ग्} खल्व् एतद् युज्यते ।]
सूत्रधारः - भवति! किम् इव न युज्यते । त्वत्प्रयोगपरितोषिता परिषद् अनुरहीष्यतीति ।
नटी - (सहर्षम्) एवं । लद्धो अय्यमिस्साणं पसादो ।
[एवम् । लब्ध आर्यमिश्राणां प्रसादः ।]
सूत्रधारः - बाढम् । लब्धः ।
नटी - जै एवं, किं दे पिअक्खाणिअं देमि ।
[यद्य् एवं, किं ते {प्रियाख्यानिकं : प्रियाख्यानितकं ग्} ददामि ।]
सूत्रधारः - अलं प्रियाख्यानिकपुनरुक्तेन । {पश्य : कुतः ए},
उद्भिन्नरोमाञ्चकपोलरेखम्
आविर्मयूखस्मितम् अञ्चितभ्रु ।
लब्ध्वा प्रिये दुर्लभम् आननं ते
भूयो ऽपि किं प्रार्थयितव्यम् अस्ति

1.3

नटी - किं दाणि अय्येण पौज्जिदव्वं ।
[किम् इदानीम् आर्येण {प्रयोक्तव्यम् : नाटकं नाटयितव्यम् ग्} ।]
सूत्रधारः - ननु त्वयैवाभिहितं मत्तविलासप्रहसनम् इति ।
नटी - णूणं {इमस्सिं : इमस्मि उन्नि} पक्खवादी मे कोवो, जेण अभिप्पाआणु{रूवं : गदं ख} भणाविद ह्मि । अय्य! कदमो उण सो कवी, जो इमाए किदीए पआसीअदि ।
[{नूनम् : आम् ग्} अस्मिन् पक्षपाती मे कोपः, येनाभिप्रायानुरूपं भाणितास्मि । आर्य! कतमः पुनः स कविः, {यो ऽनया कृत्या प्रकास्यते : येनानया कृत्या आत्मानम् एव प्रकाशयिष्यति ग्} ।]
सूत्रधारः - भवति! श्रूयताम् । {विदित द्}पल्लवकुलधरणिमण्डल{कुल : ओम्. ह्}पर्वतस्य सर्वनयविजितसमस्तसामन्तमण्डलस्य आखण्डलसमपराक्रमश्रियः श्रिमहिमानुरूपदानविभूतिपरिभूतराजराजस्य श्रीसिंहविष्णुवर्मणः पुत्रः शत्रुषड्वर्गनिग्रहपरः परहितपरतन्त्रतया महाभूतसधर्मा महाराजः श्रीमहेन्द्रविक्रमवर्मा नाम । अपि च -
प्रज्ञादानदयानुभावधृतयः कान्तिः कलाकौशलं
सत्यं शौर्यम् अमायता विनय इत्येवम्प्रकारा गुणाः ।
अप्राप्तस्थितयःसमेत्यशरणं याता यम् एकं कलौ
कल्पान्ते जगदादिम् आदिपुरुषं सर्गप्रभेदा इव

1.4

किं च -
आकरे सूक्तिरत्नानां यस्मिन् गुणगरीयसाम् ।
अर्घन्ति (3) बहु सूक्तानि सतां सारलघून्य् अपि

1.6

नटी - किं दाणि अय्येण विलम्बीअदि । णं अपुरुवदाए तुरिअं अणुट्ठिदव्वो अअं पओओ ।
[किम् इदानीम् आर्येण विलम्ब्यते । नन्व् अपूर्वतया त्वरितम् अनुष्ठातव्यो ऽयं प्रयोगः ।]
सूत्रधारः - {अहं तु : हन्त ए} -
सम्प्रति सङ्गीतधनः
कविगुणकथयास्मि निघ्नतां नीतः । 5अब् ।
({नेपथ्ये स् : नैपथ्ये उ})
प्रिये! देवसोमे!
सूत्रधारः - {(श्रुत्वा) ए}
युवतिसख एष सुरया
कपालविभवः कपालीव ॥ 5च्द् ॥
(निष्क्रान्तौ ।)
{स्थापना : आमुखम् एह्} ।
(ततः प्रविशति सपरिग्रहः कपाली ।)
कपाली - (क्षीबतां रूपयित्वा) प्रिये! देवसोमे! सत्यम् एवैतत् - तपसा कामरूपता प्राप्यत इति । यत् त्वया परमव्रतस्य विधिवदनुष्ठानेनान्य एव रूपातिशयः क्षणात् प्रतिपन्नः । तव हि -
उद्भिन्नश्रमवारिबिनु वदनं सभ्रूलताविभ्रमं
खेलं यातम् अकारणानि हसितान्य् अव्यक्तवर्णा गिरः ।
रागाक्रान्तम् अधीरतारमलसापाङ्गं युगं नेत्रयोर्
अंसोपान्तविलम्बिनश् च विगलन्मालागुणा मूर्धजाः

1.7

देवसोमा - भअवं! मत्तं विअ मत्तं विअ मं भनासि ।
[भगवन्! मत्ताम् इव मत्ताम् इव मां भणसि ।]
कपाली - किम् आह भवती ।
देवसोमा - ण हु किञ्चि भणामि ।
[न खलु किञ्चिद् भणामि ।]
कपाली - किन् नु खलु मत्तो ऽस्मि ।
देवसोमा - भअवं! परिब्भमै परिब्भमै पुहुवी । पुरो वदामि विअ । अवलम्ब दाणि मं । [भगवन्! परिभ्रमति परिभ्रमति पृथिवी । पुरः पतामीव । वलम्बस्वेदानीं माम् ।]
कपाली - प्रिये! {तथास्तु : तथा द्} । (अवलम्बमानः पतनं रूपयित्वा) प्रिये! सोमदेवे! किं त्वं कुपितासि, यद् अवलम्बितुम् उपसर्पतो मे दूरीभवसि ।
देवसोमा - अहो णु खु आअदकोवा सोमदेवा, जा तुए सीसेण पणमिअ अणुणीअमाणा वि दुरीहोइ ।
[अहो नु खल्व् आगतकोपा सोमदेवा, या त्वया शीर्षेण प्रणम्यानुनीयमानापि दूरीभवति ।]
कपाली - ननु त्वम् एवासि सोमदेवा । (ध्यात्वा) न हि {न हि द्}, देवसोमा ।
देवसोमा - भअवं! णं तहा वल्लहा सोमदेवा, णार्हदि मम णामकेणाभिधादुं ।
[भगवन्! ननु तथा वल्लभा सोमदेवा, नार्हति मम {नामकेनाभिधातुम् : नामधेयेनाभिधातुम् ग्} ।]
कपाली - भवति! सुलभपदस्खलितो मे मदो ऽयं {तवात्रापराद्धः : तवात्रापराध्यति एग्} ।
देवसोमा - दिट्ठिआ ण तुवं ।
[दिष्ट्या न त्वम् ।]
कपाली - कथं मद्यदोषो माम् एवं सङ्क्रामयति । भवतु {भवतु : ओम्. f} । {अहम् ए} अद्यप्रभृति मद्यनिषेवणान् निवृत्तो ऽस्मि ।
देवसोमा - भअवं! मा मा मम कारणादो वदभङ्गेण तवो खण्डेदुं ।
[{भगवन्! मा मा मम : मा मा एवं भगवन् मम ग्} कारणाद् व्रतभङ्गेन तपः खण्डयितुम् ।] (पादयोः पतति ।)
कपाली - (सहर्षम् {उत्थाप्यालिङ्ग्य : उत्थाप्यालिड्य च च्दे)} {धृर्ण धृर्ण : धृष्ण धृष्ण द् : धिर्ण धिर्ण एग्} नमः शिवाय । प्रिये!
पेया सुरा प्रियतमामुखम् ईक्षितव्यं
ग्राह्यः स्वभावललितो विकृतश् च वेषः ।
येनेदम् ईदृशम् अदृश्यत मोक्षवर्त्म
दीर्घायुर् अस्तु भगवान् स पिनाकपाणिः

1.8

देवसोमा - भअवं! णं तहा भणिदव्वं । अघन्ते मोक्खमग्गं अण्णहा वण्णअन्ति । [भगवन्! ननु तथा भणितव्यम् । अर्हन्तो {मोक्षमार्गम् अन्यथा : अन्यथा मोक्षमार्ग ग् (नोते अम्बिगुओउस्)} वर्णयन्ति । ]
कपाली - भद्रे! ते खलु मिथ्यादृष्टयः । कुतः -
कार्यस्य निःसंशयम् आत्महेतोः
सरूपतां हेतुभिर् अभ्युपेत्य ।
दुःखस्य कार्यं सुखम् आमनन्तः
स्वेनैव वाक्येन हता वराकाः

1.9

देवसोमा - सन्तं सन्तं पावं ।
[शान्तं शान्तं पापम् ।]
कपाली - शान्तं शान्तं पापम् । न खलु ते पापा आक्षेपमुखेनाप्य् अभिधातुम् अर्हन्ति, ये ब्रह्मचर्यकेशनिर्लोटन{मलधारण : ओम्. f}भोजनवेलानियम{मलिनपट : दिक्पट द्}परिधानादिभिः प्राणिनः परिक्लेशयन्ति । तदिदानीं कुतीर्थसङ्कीर्तनोपहतां जिह्वां सुरया प्रक्षालयितुम् इच्छामि ।
देवसोमा - तेण हि अण्णं {दाणिं स् : दाणि उ} सुरापणं ग्च्छामो ।
[तेन ह्य् अन्यम् इदानीं सुरापाणं गच्छावः ।]
कपाली - प्रिये! {तथास्तु । : तथास्तु । काञ्ची... (? च्)}
({उभौ : ओम्. (च्?)} परिक्रामतः ।)
कपाली - अहो तु खलु विमानशिखरविश्रान्तघनरसितसन्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्यापणस्य कुसुमशरविजयघोषणायमानवरयुवतिकाञ्चीरवस्य {काञ्चीपुरस्य : ओम्. ह्} परा विभूतिः । अपि च -
अनतिशयम् अनन्तं सौख्यम् अप्रत्यनीकं
समधिगतसतत्त्वा मेनिरे यन् मुनीन्द्राः ।
तद् इह निरवशेषं दृष्टम् एतत् तु चित्रं
यद् उत करणभोग्यं कामभोगात्मकं च

1.10

देवसोमा - भअवं! भअवदी वारुणी विअ अणवगीअमहुरा कञ्ची ।
[भगवन्! भगवती वारुणीवानवगीतमधुरा काञ्ची ।]
कपाली - प्रिये! पश्य पश्य । एष सुरापणो यज्ञवाटविभूतिम् अनुकरोति । {अत्र हि : तत्र ए} ध्वजस्तम्भो यूपः, सुरा सोमः, शौण्डा ऋत्विजः, चषकाश् चमसाः, शूल्यमांसप्रभृतय उपदंशा हविर् विशेषाः, मत्तवचनानि यजूंसि, गीतानि सामानि, उदङ्काः स्रुवाः, तर्षो ऽग्निः, सुरापणाधिपतिर् यजमानः ।
देवसोमा - अह्माअं पि एत्थ भिक्खा रुद्दभाओ भविस्सदि ।
[आवयोर् अप्य् अत्र भिक्षा {रुद्रभागो : विभागः ग्} भविष्यति ।]
कपाली - अहो दर्शनीयानि प्रहत{मर्दल : मद्दल च्दे}{करणानुगतानि : करणाहितानि f : करणाहतानि च्} विविधाङ्गहारवचनभ्रूविकाराणि उच्छ्रितैकहस्तावलम्बितोत्तरीयाणि {विगलित : विगलितानि ए}वसनप्रतिसमाधानक्षणविषमितलयानि व्याकुलितकण्ठगुणानि मत्तविलासनृत्तानि ।
देवसोमा - अहो रसिओ खु आअय्यो ।
[अहो रसिकः खल्व् आचार्यः ।]
कपाली - एषा भगवती वारुणी चषकेष्व् आवर्जिता प्रत्यादेशो मण्डनानाम्, अनुनयः प्रणयकुपितानां, पराक्रमो यौवनस्य, जीवितं विभ्रमानाम् । किं बहुना -
मिथ्या त्रिलोचनविलोचनपावकेन
भस्मीकृतां मदनमूर्तिम् उदाहरन्ति ।
स्नेहात्मिका तदभितापवशाद् विलीना
सेयं प्रिये! मदयति प्रसभं मनांसि

1.11

देवसोमा - भअवं! जुज्जै एदं । ण हि लोओवआरणिरदो लोअणाहो लोअं विणासेदि ।
[भगवन्! युज्यत एतत् । न हि लोकोपकारनिरतो लोकनाथो लोकं विनाशयति ।]
(उभौ कपोलपटहं कुरुतः ।)
कपाली - भवति! भिक्षां देहि ।
(नेपथ्ये) भअवं! एसा भिक्खा । पडिगण्हदु भअवं ।
[भगवन्! एषा भिक्षा । प्रतिगृह्णातु {भगवान् : ओम्. f : भवान् ग्} ।]
कपाली - {एष : एष एष च्दे} प्रतिगृह्णामि । प्रिये! क्व मे कपालम् ।
देवसोमा - अहं वि ण पेक्खामि ।
[अहम् अपि न पश्यामि ।]
कपाली - (ध्यात्वा) आ, तस्मिन्न् एव सुरापणे विस्मृतम् इति तर्कयामि । भवतु, प्रतिनिवृत्य द्रक्ष्यावः ।
देवसोमा - भअवं! अधम्मो खु एसो आदरोवणीदाए भिक्खाए अप्पडिग्गहो । किं {दाणि स् : दाणी उ} करम्ह ।
[भगवन्! अधर्मः खल्व् एष आदरोपनीताया भिक्षाया अप्रतिग्रहः । किम् इदानीं कुर्वः ।]
कपाली - {प्रिये! ह्} आपद्धर्मं प्रमाणीकृत्य गोशृङ्गेण प्रतिगृह्यताम् ।
देवसोमा - भअवं! तह ।
[भगवन्! तथा ।] (प्रतिगृह्णाति ।)
(उभौ {तथा कृत्वा ए} परिक्रम्यावलोकयतः ।)
कपाली - कथम् इहापि न दृश्यते । (विषादं रूपयित्वा) भो भो माहेश्वराः! माहेश्वराः! अस्मदीयं भिक्षाभाजनम् इह भवद्भिः किं दृष्टं । {(कर्णन् दत्त्वा ए)} किम् आहुर् भवन्तः - न खलु वयं पाश्याम इति । हा हतो ऽस्मि । भ्रष्टं मे तपः । केनाहम् इदानीं कपाली भविष्यामि । भोः! कष्टम् ।
येन मम पानभोजन-
शयनेषु नितान्तम् उपकृतं शुचिना ।
तस्याद्य मां वियोगः
सन्मित्रस्येव पीडयति

1.12

(पतितः शिरस्ताडनं रूपयित्वा) भवतु । अस्ति लक्षणमात्रम् । न मुक्तो ऽस्मि कपालि{संज्ञायाः : संज्ञया ख} । (उत्तिष्ठति ।)
देवसोमा - भअवं! केण खु गहीडं कवालं ।
[भगवन्! केन खलु गृहीतं कपालम् {भवेत् ग्} ।]
कपाली - प्रिये! तर्कयामि शूल्यमांसगर्भत्वाच् छुना वा शाक्यभिक्षुना वेति ।
देवसोमा - तेण हि अण्णेसणणिमित्तं सव्वं {कञ्चीउरं : कञ्चीपुरम् च्f} परिब्भमामो ।
[तेन ह्य् अन्वेषणनिमित्तं सर्वं काञ्चीपुरं परिभ्रमावः ।]
कपाली - प्रिये! तथा ।
(उभौ परिक्रामतः ।)
- - -
({ततः प्रविशति शाक्यभिक्षुः पात्रहस्तः । : ओम्. ह्(4)})
शाक्यभिक्षुः - अहो {उवासअस्स : उवाघअस्स क(5)अ(6)} धणदाससेट्ठिणो {महा f}सव्वावासमहादाणमहिमाणो, जहिं मए अभिमदवण्णगन्धरसो मच्छमंसप्पआरबहुलो अअं पिण्डवादो समासादिदो । जाव दाणि राअविहारं एव्व गच्छामि । (परिक्रम्य आत्मगतम्) भोः! परमकारुणिएण भअवदा तहागएण पासादेसु वासो, {सुविहि(अ)सय्येसु स् : सुविहिअसय्येसु उ : सुविहिदसय्येसु च् : सुविहिसय्येसु f(7)} पज्जङ्केसु सअणं, पुव्वण्हे भोअणं, अवरण्हे सुरसाणि पाणआणि, {पञ्चसुग(न्धव्वो?न्धोव)हिअं स् : पञ्चसुगन्धवोधिअं क : पञ्चसुगन्धोबोधिअं अf : पञ्चसुगन्धव्वो च्द्} {तम्बोल्लं : तम्बुल्लं च्द्}, सण्हवसणपरिघाणं ति एदेहि उवदेसेहि भिक्खुसङ्घस्स अणुग्गहं करन्तेण किण्णु {हु : खु च्} इत्थिआपरिग्गहो सुरावाणविहाणं च ण दिट्ठं । अहव कहं सव्वञ्चो एदं ण पेक्खदि । अवस्सं एदेहि दुट्ठबुद्धत्थविरेहि णिरुच्छाएहि अह्माणं तरुणजणानं मच्छरेण पिडअपुत्थएसु इत्थिआसुरावाण{विहाणाणि : वअणाणि खब्} पलामिट्ठाणि त्ति तक्केमि । कहिं णु हु अविणट्ठमूलपाठं समासादएअं । तदो सम्पुण्णं बुद्धवअणं लोए पआसअन्तो सङ्घोवआरं करिस्सं । (परिक्रामति)
[{(गन्धम् आघ्राय ए)} अहो उपासकस्य धनदासश्रेष्ठिनः सर्वावासमहादानमहिमा, यस्मिन् मयाभिमतवर्णगन्धरसो मत्स्यमांसप्रकारबहुलो ऽयं पिण्डपातः समासादितः । यावद् इदानीं राजविहारम् एव गच्छामि । भोः! परमकारुणिकेन भगवता तथागतेन प्रासादेषु वासः, सुविहितशय्येषु पर्यङ्केषु शयनं, पूर्वाह्णे भोजनम्, अपराह्णे सुरसानि पानकानि, पञ्च{सुगन्धोपहितं : सुगन्धोद्बोधितं ग्} ताम्बूलं, श्लक्ष्णवसनपरिधानम् इत्य् एतैर् उपदेशैर् भिक्षुसङ्घस्यानुग्रहं कुर्वता खिन् नु खलु स्त्रीपरिग्रहः {सुरापानविधानं : सुरापानं ग्} च न दृष्टम् । अथ वा कथं सर्वज्ञ एतन् न {पश्यति : प्रेक्षिष्यति ग्} । अवश्यम् एतैर् दुष्टबुद्धस्थविरैर् निरुत्साहैर् अस्माकं तरुणजनानां मत्सरेण पिटकपुस्तकेषु स्त्रीसुरापान{विधानानि : वचनानि ग्} परामृष्टानीति तर्कयामि । कुत्र नु खल्व् अविनष्टमूलपाठं समासादयेयम् । ततः सम्पूर्णं बुद्धवचनं लोके प्रकाशयन् सङ्घोपकारं करिष्यामि ।]
देवसोमा - भअवं! पेक्ख पेक्ख । एसो रत्तपडो इमस्सिं विस्सत्थपुरिससम्पादे राअमग्गे सङ्कुइदसव्वङ्गो उभयपक्खसञ्चारिददिट्ठी सङ्किदपदविक्खेवो {तुरिअतुरिअं स् : तुरिअतुरिओ स् व्.ल्. : तुरिअं उ : तुरिओ ब्द्} गच्छै ।
[भगवन्! पश्य पश्य । एष रक्तपटो ऽस्मिन् विश्वस्तपुरुष{सम्पाते : सञ्चारे ग्} राजमार्गे सङ्कुचितसर्वाङ्ग उभयपक्षसञ्चारितदृष्टिः शङ्कितपदविक्षेपस् त्वरितत्वरितं गच्छति ।]
कपाली - प्रिये! एवम् एतत् । अपि चास्य हस्ते चीवरान्तःप्रच्छादितं किम् अप्य् अस्तीव ।
देवसोमा - भअवं! तेण हि {ओलम्बिअ : अविल स् व्.ल्. ब्च्द्)} आसादिअ जानीमो ।
[भगवन्! तेन ह्य् {अवलम्ब्यासाद्य : अवलम्बितं समासाद्य ग्} जानीवः ।]
कपाली - भवति! तथा । ({उपगम्य : उभाव् अनुगम्य द्}) भो भिक्षो! तिष्ठ ।
शाक्यभिक्षुः - को णु खु मं एवं भणादि । (निवृत्यावलोक्य) ऐ अयं एअंव्ववासी दुट्ठकवालिओ । भोदु, इमस्स सुराविब्भमस्स लक्खं ण होमि । ({सत्वरं : त्वरितो खब्च्द्} गच्छति ।)
[को नु खलु माम् एवं भणति । अयि अयम् एकाम्रवासी दुष्ट{कापालिकः : कपाली ग्} । भवतु, अस्य सुराविभ्रमस्य लक्ष्यं न भवामि ।]
कपाली - प्रिये! हन्त लब्धं कपालं । अस्य हि मद्दर्शनजनितभयात् त्वरैव चौर्यसाक्षित्वं प्रतिपन्ना । (द्रुतम् उपगम्याग्रतो रुणद्धि । आः धूर्त्त! {क्वेदानीं गमिष्यसि : ओम्. च्} ।)
शाक्यभिक्षुः - कवालिआउस! मा मा एवं । किं एदं । (आत्मगतम्) अहो ललिअरूवा उवासिआ । [कापालिकोपासिक! {मा मैवम् : मा मैवं वक्तुम् ग् : ओम्. च्f} । किम् एतत् । अहो ललितरूपा उपासिका ।]
कपाली - भो भिक्षो! दर्शय {भवान् ह्} तावत् । यावद् एतत् ते पाणौ {चीवरान्तःप्रच्छादितं : चीवरान्तरितं च्} द्रष्तुम् इच्छामि ।
शाक्यभिक्षुः - किं एत्थ पेक्खिदव्वं । भिक्खाभाअणं खु एदं ।
[किम् अत्र द्रष्टव्यम् । भिक्षाभाजनं खल्व् एतत् ।]
कपाली - अत एव द्रष्टुम् इच्छामि ।
शाक्यभिक्षुः - आ, उस! मा मा एवं । पच्छण्णं खु एदं णेदव्वं ।
[आ, उपासक! मा मैवम् । प्रच्छन्नं खल्व् एतन् नेतव्यम् ।]
कपाली - नूनम् एवमादिप्रच्छादननिमित्तं बहुचीवरधारणं बुद्धेनोपदिष्टम् ।
शाक्यभिक्षुः - सच्चं एदम् ।
[सत्यम् एतत् ।]
कपाली - इदं {तत् : ओम्. द्ग्} {संवृतसत्यम् : संवृठं सत्यम् ग् : संवृतं परमसत्यम् द्} । परमार्थसत्यं श्रोतुम् इच्छामि ।
शाक्यभिक्षुः - भोदु एत्तओ परिहासो । अदिक्कमदि भिक्खावेला । साहेमि अहं । (प्रतिष्ठते ।) [भवत्व् एतावान् परिहासः । अतिक्रामति भिक्षावेला । साधयाम्य् अहम् ।]
कपाली - {आः : हः ग्}, धूर्त्त! क्व गमिष्यसि । दीयतां मे कपालम् । (चीवरान्तम् {आलम्बते : अवलम्बते च्दे} ।)
शाक्यभिक्षुः - णमो बुद्धाअ ।
[नमो बुद्धाय ।]
कपाली - नमः करपटायेति वक्तव्यं, येन चोरशास्त्रं प्रणीतम् । अथवा खरपटाद् अप्य् अस्मिन्न् अधिकारे बुद्ध एवाधिकः । कुतः -
वेदान्तेभ्यो गृहीत्वार्थान्
यो महाभारताद् अपि ।
विप्राणां मिषताम् एव
कृतवान् कोशसञ्चयम्

1.13

शाक्यभिक्षुः - सन्तं पापं सन्तं पापं ।
[शान्तं {पापं : ओम्. ग्} शान्तं पापं ।]
कपाली - एवं सुवृत्तस्य तपस्विनः कथम् इव पापं न शाम्यति ।
देवसोमा - भअवं! परिस्सन्तो विअ लक्खीअसि । ण एदं सुहोवाअसुलहं कवालं । ता एदिना गोसिङ्गेण सुरं पिबिअ जादबलो भविअ इमिणा सह विवादं करेहि ।
[भगवन्! परिश्रान्त इव लक्ष्यसे । नैतत् सुखोपायसुलभं कपालं । तद् एतेन गोशृङ्गेण सुरां पीत्वा जातबलो भूत्वानेन सह विवादं कुरु ।]
कपाली - तथास्तु ।
(देवसोमा {कपालिने : ओम्. च्} सुरां प्रयच्छति ।)
कपाली - (पीत्वा) प्रिये! त्वयापि श्रमापनोदः कर्तव्यः ।
देवसोमा - भअवं! तह । (पिबति ।)
[भगवन्! तथा ।]
कपाली - अयम् अस्माकम् अपकारी । संविभागप्रधानः स्वसिद्धान्तः {प्रमाणयितव्यः च्} । शेषम् आचार्याय प्रदीयताम् ।
देवसोमा - जं भअवं आणवेदि । गह्णदु भअवं ।
[यद् भगवान् आज्ञापयति । गृःणातु {भगवान् : भवान् ग्} ।]
शाक्यभिक्षुः - (आत्मगतम्) अहो सुहोवणदो अब्भुदओ । एत्तओ दोसो - महाजणो पेक्खिस्सदि । (प्रकाशम्) भोदि । मा मा एवं । ण {वड्ढदि : वद्धै कअ} अह्माणं । (सृक्वणी लेढि ।)
[अहो सुखोपनतो ऽभ्युदयः । एतावान् {अत्र खलु एष ग्} दोषः - महाजनो द्रक्ष्यति । भवति । मा मैवम् । न वर्धते ऽस्माकम् ।]
देवसोमा - धंस । कुदो दे एत्तिआणि भाअधेआणि ।
[{ध्वंसस्व : दुष्ट ग्} । कुतस् ते {एतावन्ति : एतानि ग्} भागधेयानि ।]
कपाली - प्रिये! इयम् अस्येच्छाविरोधिनी वाग् मुखप्रसेकेन स्खल(य?)ति (8) ।
शाक्यभिक्षुः - इदाणिं वि णत्थि दे करुणा ।
[इदानीम् अपि { नास्ति ते : ते नास्ति ग्} करुणा ।]
कपाली - यद्य् अस्ति करुणा, कथं वीतरागो भविष्यामि ।
शाक्यभिक्षुः - एवं वीदरागिणा वीदरोसेण वि होदव्वं ।
[एवं वीतरागिणा वीतरोषेणापि भवितव्यम् ।]
कपाली - वीतरोषो भविष्यामि, यदि मे स्वकं दास्यति ।
शाक्यभिक्षुः - किं दे सअं ।
[किं ते स्वकं ।]
कपाली - कपालम् ।
शाक्यभिक्षुः - कहं कवालं ।
[{कथं : कस्मिन् एग्} कपालम् ।]
कपाली - कथं कपालम् इत्य् आह । अथवा युक्तम् एतत् ।
दृष्टानि वस्तूनि महीसमुद्र-
महीधरादीनि महान्ति मोहात् ।
अपह्नुवानस्य सुतः कथं त्वम्
अल्पम् न निह्नोतुम् अलं कपालम्

1.14

देवसोमा - भअवं! केवलं लालीयमाणो ण दैस्सदि । ता एदस्स हत्थादो आच्छिन्दिअ गच्छामो । [भगवन्! केवलं लाल्यमानो न दास्यति । तद् एतस्य हस्ताद् आच्छिद्य गच्छावः ।]
कपाली - प्रिये! तथा । (आच्छेत्तुं {व्याप्रियते : व्याप्रियेते च्} ।)
शाक्यभिक्षुः - धंस दुट्ठकवालिअ । (हस्तेन नुदन् पादेन {ताडयति : पातयति द्} ।) [{ध्वंसस्व : ध्वंस (9) गच्छ ग्} दुष्टकापालिक!]
कपाली - कथं पतितो ऽस्मि ।
देवसोमा - मुदो सि दासिएवुत्त! ({केशापकर्शणं : केशाकर्शणं द्} रूपयित्वा निरालम्बना पतिता ।) [मृतो ऽसि दास्याःपुत्र!]
शाक्यभिक्षुः - (आत्मगतम्) अघं बुद्धस्स विण्णाणं, जेण मुण्डणं {दिट्ठं : किदं कअ} । (प्रकाशम्) उट्ठेहि उट्ठेहि उसिए! उट्ठेहि । (इति देवसोमाम् {उत्थापयति : हस्तेन गृह्णाति ए} ।)
[अर्हं {(अर्घं वा) स्: (अघं वा) उ} बुद्धस्य विज्ञानम्, येन मुण्डनं दृष्टम् । उत्तिष्ठोत्तिष्ठ उपासिके उत्तिष्ठ ।]
कपाली - पश्यन्तु पश्यन्तु माहेश्वराः अनेन दुष्टभिक्षुनामधारकेण नागसेनेन मम प्रियतमापाणिग्रहणं क्रियमाणम् ।
शाक्यभिक्षुः - आ वुस! मा मा एवं । धम्मो खु अह्माणं विसमपदिदाणुकम्पा ।
[आ उपासक! {(आयुष्मन्! वा) सु} मा मैवम् । धर्मः खल्व् {अयम् ग्} अस्माकं {विषमपतितानुकम्पा : विषमपतितानाम् अनुकम्पा ग्} ।]
कपाली - किम् अयम् अपि सर्वज्ञधर्मः । नन्व् अहं पूर्वं पतितो ऽस्मि । भवतु, किम् अनेन । इदानीं तव शिरःकपालं मम भिक्षाकपालं भविष्यति ।
(सर्वे कलहं {रूपयन्ति : कुर्वन्ति च्} ।)
शाक्यभिक्षुः - दुक्खं दुक्खं ।
[दुःखं दुःखम् ।]
कपाली - पश्यन्तु पश्यन्तु माहेश्वराः । एष दुष्टभिक्षुनामधारको {नागसेनो द्f} मम भिक्षाकपालं मुषित्वा स्वयम् एवाक्रन्दति । भवतु, अहम् अप्य् आक्रोशयिष्ये । अब्रह्मण्यम् अब्रह्मण्यम् ।
- - -
(ततः प्रविशति पाशुपतः)
पाशुपतः - सत्यसोम! किम् अर्थम् आक्रन्दसि ।
कपाली - भो बभ्रुकल्प! दुष्टभिक्षुनामधारको नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति ।
पाशुपतः - (आत्मगतम्) {अये! द्} यद् अस्माभिर् अनुष्ठेयं, गन्धर्वैः तद् अनुष्ठितम् । एष दुरात्मा,
तां क्षौरिकस्य दासीं
मम दयितां चीवरान्तदर्शितया ।
आकर्षति काकण्या
बहुशो {गां : गः ए} ग्रासमुष्ट्येव

1.15

तद् इदानीं प्रतिहस्तिप्रोत्साहनेन {अस्मत् ग्}शत्रुपक्षं ध्वंसयामि । (प्रकाशम्) भो नागसेन! अप्य् एवम् एतद्, यथायम् आह ।
शाक्यभिक्षुः - भअवं! तुवं पि एवं भणासि । आदिण्णादाणा वेरमणं सिक्खापदं । मुधावादा वेरमणं सिक्खापदं । {अब्बम्हचय्या : अब्बम्हञ्ञचय्या (क)(10)अ} वेरमणं सिक्खापदं । पाणादिपादा वेरमणं सिक्खापदं । {अकालभोअणा : भोअणकालत्थेरा कअf} वेरमणं सिक्खापदं । अह्माअं बुद्धधम्मं सरणं गच्छामि ।
[भगवन्! त्वम् {अप्य् एवं भणसि : अपि न जानासि ग्} । अदत्तादानाद् विरमनं शिक्षापदम् । मृषावादाद् विरमनं शिक्षापदम् । अब्रह्मचर्याद् विरमनं शिक्षापदम् । प्राणातिपाताद् विरमनं शिक्षापदम् । अकालभोजनाद् विरमनं शिक्षापदम् । अस्माकं {बुद्धधर्मं : बुद्धं धर्मं ग्} शरणं गच्छामि ।]
पाशुपतः - सत्यसोम! ईदृश एषां समयः । किम् अत्र प्रतिवचनम् ।
कपाली - नन्व् अस्माकम् अनृतं न वक्तव्यम् इति समयः ।
पाशुपतः - उभयम् अप्य् उपपन्नम् । को {ऽत्र : ओम्. द्} निर्णयोपायः ।
शाक्यभिक्षुः - बुद्धवअणं पमाणीकरअन्तो भिक्खू सुराभाअणं गण्हदि त्ति को एत्थ हेदू । [{भो ग्} बुद्धवचनं प्रमाणीकुर्वन् भिक्षुः सुराभाजनं गृह्णातीति को ऽत्र हेतुः ।]
पाशुपतः - नहि प्रतिज्ञामात्रेण हेतुवादिनः सिद्धिर् अस्ति ।
कपाली - प्रत्यक्षे हेतुवचनं निरर्थकम् ।
पाशुपतः - कथं प्रत्यक्षम् एव ।
देवसोमा - भअवं! एदस्स हत्थे चिवरान्तप्पच्छादिदं कवालं ।
[भगवन्! एतस्य हस्ते चीवरान्तःप्रच्छादितं कपालम् ।]
पाशुपतः - श्रुतं भवता ।
शाक्यभिक्षुः - भो भअवं! एदं कवालं ण परकेरअं ।
[भो भगवन्! एतत् कपालं न परकीयम् ।]
कपाली - तेन हि दर्शय तावत् ।
शाक्यभिक्षुः - तह ।
[तथा ।] (दर्शयति ।)
कपाली - पश्यन्तु पश्यन्तु माहेश्वराः कापालिकेन {कपालिने कअf} कृतम् अन्याय्यम् अस्य भदन्तस्य साधुवृत्ततां च ।
शाक्यभिक्षुः - आदिण्णादाणा वेरमणं सिक्खापदं । {... (इति पुनस् तद् एव पठति ।) : कअच्द् रेपेअत् थे wहोले पस्सगे}
({इत्यादि पठित्वा ए} उभौ नृत्यतः ।)
शाक्यभिक्षुः - हद्धि । {लज्जितव्वे : उदिदव्वे च्} काले णच्चदि ।
[हा धिक् । लज्जितव्ये काले नृत्यति ।]
कपाली - आः को नृत्यति । (सर्वतो विलोक्य {आत्मगतम् र्} ।) आ मम नष्टभिक्षाभाजन{दर्शन : जनित ह्}कुतूहलमलयानिलप्रयुक्ताया ध्रुवम् अस्य नृत्तबुद्धिः प्रीतिलताया विलसितेषु ।
शाक्यभिक्षुः - भअवं! केण कारणेण एदं ण लक्खीअदि । भो आचिक्खदु भअवं । इमस्स अअं वण्णो ।
[{भो ग्} भगवन्! केन कारणेनैतन् न लक्ष्यते । भोः आचष्टां भगवान् । अस्यायं वर्णः ।]
कपाली - किम् अत्र वक्तव्यम् । ननु मया दृष्टम् । काकाद् अपि कृष्णम् इदं कपालम् ।
शाक्यभिक्षुः - तेण हि एदं ममकेरअं ति सअं एव अब्भुवगदं ।
[तेन ह्य् एतन् मदीयम् इति स्वयम् एवाभ्युपगतम् ।]
कपाली - सत्यम् अभ्युपगतं तव वर्णान्तरकरणे नैपुण्यम् ।
पश्य,
यद् एतद् आसीत् प्रथमं स्वभावतो
मृणालभङ्गच्छविचोरम् अम्बरम् ।
ननु त्वया नीतम् अचिन्त्यकर्मणा
तद् एव बालारुणरागताम्रताम्

1.16

अपि च,
आवृतं बहिर् अन्तश् च कषायेणानपायिना ।
त्वां प्राप्तं स्यात् कथं नाम कपालम् अकषायितम्

1.17

देवसोमा - हा हदह्मि मन्दभाआ । सव्वलक्खणसम्पण्णदाए कमलासणसीसकवालाणुभावस्स पुण्णमासिसोमदंसणस्स णिच्चसुरागन्धिणो एदस्स मलिणपडसंसग्गेण इअ ईदिसी अवित्था संवुत्ता । (इति रोदिति ।)
[हा हतास्मि मन्दभागा । सर्वलक्षणसंपन्नतया {कमलासनशीर्षकपालानुभावस्य : ओम्. ग्} पौर्णमासीसोमदर्शनस्य नित्यसुरागन्धिन एतस्य मलिनपटसंसर्गेणेयम् ईदृश्य् अवस्था संवृत्ता ।]
कपाली - प्रिये! अलं सन्तापेन । पुनः शुचिर् भविष्यति । श्रूयन्ते हि महान्ति भूतानि प्रायश्चित्तैर् अपनीतकल्मषाणि भवन्ति । {तथा हि : यथा च्} -
आस्थाय प्रयतो महाव्रतम् इदं बालेन्दुचूडामणिः
स्वामी नो मुमुचे पितामहशिरश्छेदोद्भवाद् एनसः ।
नाथो ऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टुस् तनूजं पुरा
हत्वा यज्ञशतेन शान्तदुरितो भेजे पुनः पुण्यताम्

1.18

भो बभ्रुकल्प! नन्व् एवम् एतत् ।
पाशुपतः - {आगमानुगतम् : आगमानुरूपम् च्} अभिहितम् ।
शाक्यभिक्षुः - {भो : भोदु च्} वण्णो दाव मए किदो । इमस्स सण्ठाणपरिमाणं केण णिम्मिदं । [भोः! वर्णस् तावन् मया कृतः । अस्य संस्थानपरिमाणं {केन निर्मितं : तावत् कथम् ग्} ।]
कपाली - ननु मायासन्तानसम्भवाः खलु भवन्तः ।
शाक्यभिक्षुः - केत्तिअं वेलं भवन्तं अक्कोसामि । गण्हदु भअवं ।
[कियन्तीं वेलां भवन्तम् आक्रोशामि । गृह्णातु (11) भगवान् ।]
कपाली - नूनम् एवं बुद्धेनापि दानपरिमिता पूरिता ।
शाक्यभिक्षुः - एवं {गदे : किदे f} {किं स् : कि उ} दाणिं मे सरणं ।
[एवं गते किम् इदानीं मे शरणम् ।]
कपाली - ननु बुद्धधर्मसङ्घाः ।
पाशुपतः - नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तद् अधिकरणम् एव यास्यामः ।
देवसोमा - भगवन्! यद्य् एवं, नमः कपालाय ।
[भअवं! जै एवं, णमो कवालस्स ।]
पाशुपतः - को ऽभिप्रायः ।
देवसोमा - एसो उण अणेअविहारभोअसमधिगदवित्तसञ्चओ जहाकामं अधिकरणकारुणिआणं मुहाणि पूरेदुं पारेदि । अह्माअं पुण अहिचम्मभूदिमत्तविभवस्स दरिद्दकवालिअस्स परिआरिआणं को एत्त विभवो अधिकरणं पविसिदुं ।
[एष पुनर् अनेकविहारभोगसमधिगतवित्तसंचयो यथाकामम् {अधिकरण : कारुण च्}{कारणिकानां : कारुणिकानां अल्ल् म्स्स्.(12)} मुखानि पूरयितुं पारयति । अस्माकं पुनर् अहिचर्मभूतिमात्र{विभवस्य : विभव ग्}दरिद्रकापालिकस्य परिचारिकाणां को ऽत्र विभवो ऽधिकरणं प्रवेष्टुम् । ]
पाशुपतः - {नैतद् एवम् : मा मैवम् च्} ।
अजिह्मैः सारगुरुभिः
स्थिरैः श्लक्ष्णैः सुजन्मभिः ।
तैर् धर्मो धार्यते स्तम्भैः
प्रासाद इव साधुभ्ः

1.19

कपाली - कृतम् अनेन । कुतश् चिद् अपि न्याय्य{न्याय ब्चे}वृत्तेर् भयं नास्ति ।
शाक्यभिक्षुः - {(पाशुपतम् अवलोक्य) द्} भो भअवं! तुमं दाव अग्गदो होहि {होदु अब्च्f} । [भो भगवन्! त्वं तावद् अग्रतो भव ।]
पाशुपतः - बाढम् {प्रथमः कल्पः खब्च्दे} ।
(सर्वे परिक्रामन्ति ।)
- - -
(ततः प्रविशत्य् उन्मत्तकः ।)
उन्मत्तकः - एशो एशो दुट्ठकुक्कुले । शुल्लमंशगब्भं कवालं गण्हिअ धावशि । दाशीएवुत्त! कहिं गमिश्शिशि । एशो दाणिं कवालं णिक्खिविअ मं खायिदुकामो अहिमुहं आहावै । (दिशो विलोक्य) इमिणा पत्थलेण दन्ताणि शे भञ्जिश्शं । कहं कवालं उज्झिअ पलाअशि । उम्मत्ते दुट्ठकुक्कुले ईदिशेण {णाम : ओम्. f} शूलत्तणेण मए शह वि लोशं कलेशि । गामशूगलं आलुहिअ गगणम् उप्पदिदेण शागलेण पडिपञ्जिअ लावणं बला गहीदे शक्कशुदे तिमिङ्गले । ऐ एलण्डलुक्ख! किं भणाशि । अलिअं अलिअं त्ति । णं एशे मुशलशमविशाललम्बहत्थे दद्दुले मे शक्खी । अहव तेल्लोक्कविदिअपलक्कमश्श शक्खिणा किं कय्यं । {एवं : एव्वं दाव द्} कलिश्शं । कुक्किलखादिअशेशं मंशखण्डं खादिश्शं । (खादन् भ्रान्तः ।) हा हा मालिदो म्हि, बप्फेण मालिदो म्हि । (रुदित्वा विलोक्य) के एशे मं तालेशि । (विलोक्य ।) दुट्ठदालआ! जश्श वा कश्श वा {भाउणेओ स् : भाअणेओ उ} खु अहं, भीमशेणश्श घटुक्कओ विअ । अवि अ शुणाथ -
गहीदशूला बहुवेशधालिणो
शदं पिशाआ उदले वहन्ति मे ।
शदं च वग्घाण णिशग्गभीशणं
मुहेण मुञ्चामि अहं {महोलए स् : महोलये उ}

1.19

कहं मं बाहन्ति । पशीदन्तु पशीदन्तु दालअभट्टा । इमश्श मंशखण्डश्श कालणादो मा मं बाहेह । (अग्रतो विलोक्य ।) एशे खु अम्हाणं आआलिए शूलनन्दी । {जाव स् : जावं उ} णं उवशप्पामि । (इति धावति ।)
[एष एष दुष्टकुक्कुरः । शूल्यमांसगर्भं कपालं गृहीत्वा {धावसि : धावति ग्} । दास्याःपुत्र! कुत्र गमिष्यसि । एष इदानीं कपालं निक्षिप्य मां खादितुकामो ऽभिमुखम् आधावति । अनेन प्रस्तरेण दन्तान् अस्य भङ्क्ष्यामि । कथं कपालम् उज्झित्वा पलायसे । उन्मत्तो दुष्टकुक्कुर ईदृशेन नाम शूरत्वेन {सह ग्} मया {सहापि रोषं : सह विरोधं ग्} करोषि । ग्राम{सूकरम् : सूकरगलम् ग्} आरुह्य गगनम् उत्पतितेन {सागरेण : (प्रोबब्ल्य्) श्वगणेन ग्(13)} {प्रभञ्ज्य : प्रतिभञ्ज्य ग्} {रावणं बलाद् : ऐरावतं ग्} गृहीतः {शक्रसुतस् : ससुतस् ग्} तिमिङ्गिलः ।(14) अयि एरण्डवृक्ष! किं भणसि । अलीकम् अलीकम् इति । {नन्व् एष मुसलसमविशाललम्बहस्तो दर्दुरो मे साक्षी : हनुमत एषा मुसलसमविशाललम्बहस्ते दर्दुरे मे शक्तिः ग्} । {अथवा त्रैलोक्यविदितपराक्रमस्य साक्षिणा किं कार्यम् : अथवा किं मम त्रैलोक्यविदितपराक्रमस्य शक्त्याः कार्यम् ग्} । एवं {करिष्यामि : तावत् करिष्ये ग्} । कुक्कुरखादितशेषं मांसखण्डं खादिष्यामि । हा हा {बाष्पेण मारितो ऽस्मि : मालितो ऽस्मि बाष्पेण ग्} । क एष मां ताडयसि । {दुष्टदारका : दुष्टदारकभर्तार! वासुदेवस्य भागि ग्}! यस्य वा कस्य वा भागिनेयः खल्व् अहं, भीमसेनस्य घटोत्कच इव । अपि च शृणुथ -
गृहीतशूला बहुवेषधारिणः
शतं पिशाचा उदरे {वहन्ति : वसन्ति ग्} मे ।
शतं च व्याघ्राणां निसर्गभीषणं
मुखेन मुञ्चाम्य् अहं महोरगान्

1.20

कथं {मां बाधन्ते : पुनर् अपि मां ताडयन्ति ग्} । प्रसीदन्तु प्रसीदन्तु दारकभर्तारः! अस्य मांसखण्डस्य कारणाद् मा मां {बाधध्वम् : ताडयथ ग्} । एष खल्व् अस्माकम् आचार्यः शूरनन्दी । यावद् एनम् {उपसर्पामि : उपहरामि ग्(15)}।]
पाशुपत - अये! अयम् उन्मत्तकः इत एवाभिवर्तते । य एषः -
निर्विष्टोज्झितचित्रचीवरधरो रूक्षैर् नितान्ताकुलैः
केशैर् उद्धतभस्म{पांसु : पाण्डु द्}निचयैर् निर्माल्य{मालाकुलैः : मालावृतः चे : मालावृतैः द्} ।
उच्छिष्टाशनलोलुपैर् बलिभुजाम् अन्वास्यमानो गणैर्
भूयान् ग्रामकसारसञ्चय इव भ्राम्यन् मनुष्याकृतिः

1.21

उन्मत्तकः - {(पाशुपतम् अवलोक्य) च्दे} जाव णं उवशप्पामि । (उपसृत्य) महाशाहुणो चण्डालकुक्कुलश्श शआशादो अहिअदं एदं {कवालं : ओम्. द्} पडिगण्हदु भअवं ।
[यावद् एनम् उपसर्पामि । महासाधोश् चण्डालकुक्कुरस्य सकाशाद् {मया ग्} अधिगतम् एतत् कपालं प्रतिगृह्णातु {भगवान् : भवान् । भगवन्(16) । मस्तकेन वन्दामि ग्} ।]
पाशुपतः - (सदृष्टिक्षेपम् ।) पात्रे प्रतिपाद्यताम् ।
उन्मत्तकः - महाबम्हण! कलिअदु पशादो ।
[महाब्राह्मण! क्रियतां प्रसादः ।]
शाक्यभिक्षुः - एसो महापासुवदो एदस्स जोग्गी ।
[एष महापाशुपत एतस्य योग्यः ।] (सत्यसोम!)
उन्मत्तकः - (कपालिनम् उपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणीकृत्य पादयोः पतित्वा) महादेव! कलीअदु पशादो । एशो दे अञ्जली ।
[महादेव! क्रियतां प्रसादः । एष ते ऽञ्जलिः ।]
कपाली - {प्रिये! च्} अस्मदीयं {इदं ए} कपालम् ।
देवसोमा - {भगवन्! ग्} एवं एदं ।
[एवम् एतत् ।]
कपाली - भगवत्प्रसादात् पुनर् अपि कपाली संवृत्तः । (ग्रहीतुम् इच्छति ।)
उन्मत्तकः - दाशीएवुत्त! विशं खादेहि ।
[दास्याःपुत्र! विषं खाद ।]
(कपालम् आच्छिद्य गच्छति ।)
कपाली - (अनुसृत्य) {एष : हन्त च् : कष्टम् एष ए} यमपुरुषो मे जीवितं हरति । अभ्यवपद्येतां भवन्तौ ।
उभौ - होदु । अम्हे दे सहाआ होम ।
[भवतु । आवां ते सहायौ भवावः ।]
(सर्वे रुन्धन्ति ।)
कपाली - भोः । तिष्ठ तिष्ठ ।
उन्मत्तकः - किश्श मं लुन्धन्ति ।
[कस्मान् मां रुन्धन्ति ।]
कपाली - अस्मदीयं कपालं दत्त्वा गम्यताम् ।
उन्मत्तकः - मूढ! कि ण पेक्खशि, शुवण्णभाअणं खु एदं ।
[मूढ! किं न पश्यसि, सुवर्णभाजनं खल्व् एतत् ।]
कपाली - एवंविधं सुवर्णभाजनं केन कृतम् ।
उन्मत्तकः - एदिणा शुवण्णवण्णपडावुदेण शुवण्णकारावुत्तएण किदं त्ति भअवं । शुवण्णभाअणं त्ति भणामि ।
[एतेन सुवर्णवर्णपटावृतेन सुवर्ण{कारावुत्तेन : कारेण ग्} कृतम् इति भगवन् । सुवर्णभाजनम् इति भणामि ।]
शाक्यभिक्षुः - किम् अअं उम्मत्तओ ।
[किम् अयम् उन्मत्तकः ।]
उन्मत्तकः - उम्मत्तओ त्ति बहुशो एदं शद्दं शुणोमि । एदं गण्हिअ दलिशेहि उम्मत्तअं । (कपालिने कपालं प्रयछति ।)
[{उन्मत्तक इति बहुश एतं शब्दं शृणोमि । एतद् गृहीत्वा दर्शयोन्मत्तकम् । : युष्माकं उन्मत्तका । युष्माकं पुत्रा उन्मत्तकाः । एतद् दत्त्वा दर्शयामि उन्मत्तकत्वम् । ग्}]
कपाली - (कपालं गृहीत्वा) अयम् इदानीं कुड्येनान्तर्हितः । शीघ्रम् अनुगम्यताम् ।
उन्मत्तकः - लद्धप्पशादे ह्मि ।
[लब्धप्रसादो ऽस्मि ।]
(निष्क्रान्तो जवेनोन्मत्तकः ।)
शाक्यभिक्षुः - अहो अच्छरिअं । परवक्खस्स लाभेण अहं परितुट्ठो ह्मि ।
[अहो आश्चर्यम् । परपक्षस्य लाभेनाहं परितुष्टो ऽस्मि ।]
कपाली - (कपालं परिष्वज्य ।)
चिरं मया चरितम् अखण्डितं तपो
महेश्वरे भगवति भक्तिर् {अस्ति : अस्तु च्} मे ।
तिरोहितः स तु सहसा सुखेन नस्
त्वम् अद्य यत् कुशलि कपाल दृश्यसे

1.22

देवसोमा - भअवं! चन्दसमागदं विअ पओसं भअवन्तं पेक्खन्तीए अज्ज आणन्ददी विअ मे दिट्ठी ।
[भगवन्! चन्द्रसमागतम् इव प्रदोषं भगवन्तं पश्यत्या अद्यानन्दतीव मे दृष्टिः ।]
पाशुपतः - दिष्ट्या भवान् वर्धते ।
कपाली - नन्व् अभ्युदयो भवताम् एव ।
पाशुपतः - (आत्मगतम् ।) सत्यम् एतत् । नास्त्य् अदोषवतां भयम् इति । {यद् : ओम्. च्द्} अयम् अद्य {भिक्षुर् : ओम्. द्} व्याघ्रमुखात् {कथम् अपि ए} परिभ्रष्टः । (प्रकाशम् ।) यावद् अहम् इदानीम् एव सुहृदभ्युदयकृतम् आनन्दं पुरोधाय भगवतः {पूर्व : पूर्वं कअ(17)}{स्थली : स्थल च्}निवासिनो {धूम : धूम्र ह्}वेलां {प्रतिपालयामि : सम्भावयामि च्}। अयं चाद्यप्रभृति -
विरोधः पूर्वसम्बद्धो
युवयोर् अस्तु शाश्वतः ।
परस्परप्रीतिकरः
किरातार्जुनयोर् इव

1.23

(निष्क्रान्तः पाशुपतः ।)
कपाली - भो नागसेन! यन् मयापराधः कृतः, तत् प्रसन्नहृदयं त्वम् इच्छामि ।
शाक्यभिक्षु - किं एदं पि अब्भत्थणीअं । किं दे पिअं करेमि ।
[किम् एतद् अप्य् अभ्यर्थनीयम् । किं ते प्रियं करोमि ।]
कपाली - यदि मे भगवान् प्रसन्नः, किम् अतः परम् अहम् इच्छामि ।
{शाक्यभिक्षु - गच्छामि दाव अहं ।
[गच्छामि तावद् अहम् ।]
कपाली - गच्छतु भवान् पुनर्दर्शनाय ।
शाक्यभिक्षु - तह होदु । (निष्क्रान्तः ।)
[तथा भवतु ।]
कपाली - प्रिये देवसोमे! गच्छावस् तावत् । : ओम्. (नो सिग्लुम्)(18)}
(भरतवाक्यम्)
शश्वद् भूत्यै प्रजानां वहतु विधिहुताम् आहुतिं जातवेदा
वेदान् विप्रा भजन्तां सुरभिदुहितरो भूरिदोहा भवन्तु ।
उद्युक्तः स्वेषु धर्मेष्व् अयम् अपि विगतव्यापद् आचन्द्रतारं
राजन्वान् अस्तु शक्तिप्रशमितरिपुणा शत्रुमल्लेन लोकः

मूल पाठ: Mattavilāsaprahasana · Edition: s by N.P. Unni 1998 (Nag Publishers) and T.G. Sastri 1917 (Trivandrum Sanskrit Series) · Data entry Christian Ferstl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc