मातृकाचक्रविवेकः · अध्याय 1
----
मुक्तबोध इन्दोलोगिचल् रेसेअर्छ् इन्स्तितुते
उसे ओf थिस् मतेरिअल् (ए-तेxत्स्) इस् चोवेरेद् ब्य् च्रेअतिवे चोम्मोन्स् लिचेन्से ब्य्-न्च्
चतलोग् नुम्बेर्: म्
उनिfओर्म् तित्ले: मातृकाचक्रविवेक
औथोर् : स्वतन्त्रानन्दनथ
एदितोर् : पन्दित् ललित प्रसद दब्रल्
देस्च्रिप्तिओन्:
वोलुमे 50 ओf थे प्रिन्चेस्स् ओf wअलेस् सरस्wअति भवन तेxत्स्. एदितेद् अन्द् wइथ् अन् इन्त्रोदुच्तिओन् ब्य् पन्दित् ललित प्रसद दब्रल्.
नोतेस्:
दत एन्तेरेद् ब्य् थे स्तff ओf मुक्तबोध उन्देर् थे दिरेच्तिओन् ओf मर्क् स्. ग्. द्य्च्zकोwस्कि.
रेविसिओन् 0: fएब्रुरर्य् 21,
पुब्लिस्हेर् : प्रिन्चेस्स् ओf wअलेस् सरस्wअति भवन तेxत्स्
पुब्लिचतिओन् येअर् :
पुब्लिचतिओन् चित्य् : बेनरेस्
पुब्लिचतिओन् चोउन्त्र्य् : इन्दिअ
----
॥ श्रीः ॥
मातृकाचक्रविवेकः ।
स्वतन्त्रानन्दनाथ विरचितः
प्रथमः खण्डः ।
जाग्रत्सुषुप्तिकृतदक्षिणवामभागां
स्वप्नस्वभावपरिकॢप्तजघन्यभागाम् ।
इह खलु परमशिवभट्टारकस्य प्राणभूतया
विद्याविद्योभयचमत्कारमयया स्वरसवाहिन्या विमर्शशक्त्या समुन्मीलितासु
बाह्याभ्यन्तरविविधविचित्रसिद्धान्तविप्रतिपत्तिषु विलुठतो लोकस्यानुग्रहाय
शिवप्रयुक्तः स्वतन्तानन्दनामा महासिद्धः स्वरसिद्धतया
निखिलवाङ्मयनिदानतया च महाप्रमाणस्य
मातृकामहामन्त्रस्यार्थोपदेशेन निखिलसंशयनिरासनिराकुलं
परमार्थस्वरूपं निरूपयितुकाम आदौ महामन्त्रार्थरूपिणीं भगवतो
महादेवस्य महाशक्तिं ग्रन्थस्य पारम्पर्यप्रवृत्तिरूपाभीष्टसिद्धये
परामृशति-जाग्रदित्यादि । सुप्तिनिवृत्तौ घटपटादीनां
चिद्वेदनानुसन्धानदशा जाग्रत् सुषुप्तिर्जडनिद्रा क्रमेण ताभ्यां कृतौ
दक्षिणवामपार्श्वौ यया ताम् । जाग्रतः क्रियारूपतया दक्षिणभागत्वं
कर्मप्रधानः खलु दक्षिणभागः शरीरेऽनुभूयते । निद्रात्मिकायाः
सुप्तेर्वामभागत्वं वामभागः खलु निष्क्रियः स्त्रीभागः । स्वप्नेत्यादि ।
प्. २)
तुर्यातितुर्यघटिताननहृत्प्रदेशां
प्राणेश्वरीं परशिवस्य परामृशामः
अनिवृत्तायां सुप्तौ मानसिको भेदः संसारः स्वप्नः स एव
स्वभावोऽवस्थाविशेषः तेन परिकॢप्तो जघन्यभागो योनिभागो यया तां
सुषुप्तिजाग्रन्मध्यदशायाः स्वप्नस्य मध्याङ्गौचित्ये
विकल्पोदयस्थानत्वाद्योनित्वमुक्तम् । एवं च सुषुप्तिः संसारस्य गर्भदशा
स्वप्नः प्रसवदशा जाग्रत् प्रवृद्धिदशेति वेदितव्यम् । एवं
जीवावस्थात्रयात्मकं त्रिकोणं शरीरचक्रस्थितमनुसन्धाय तत्रैव स्थितं
शिवत्रिकोणमनुसन्धत्ते - तुर्येति । तुर्यं चतुर्दशा ।
चेत्यव्याप्तिम(ति)ती । जीवावस्थात्रये चित्कारणकस्य चास्य
चिन्मयत्वानुसन्धानदशा तुर्यम् । तत्रापि यद्यपि
चिद्व्याप्तिविषयभूतजाग्रदाद्यवस्थात्रयवशादवस्थात्रयसम्भवः तथापि
सर्वव्याप्तिमत्त्वाच्चितेरैक्येन वैचित्र्याभावादेकविधत्वमुक्तं तुर्यस्य ।
अतीततुर्यं तुर्यातीतं संसारकलङ्कास्पृष्टशुद्धान्तर्मुखचिद्विश्रान्तिः
ताभ्यां क्रमेण घटितमुखहृदयभागाम् । तुर्यस्य
जाग्रदादिदशाविजृम्भमाणचेत्यकवलनान्मुखत्वमुक्तम् । मुखं हि
चर्वणव्यापारवत् । अतितुर्यं निखिलदशाप्राणभूतमिति हृदयत्वेनोक्तम् ।
एवं च जाग्रदादिदशाचतुष्टयात्मकचतुरस्रचक्रस्य अथवा
जाग्रदाद्युपाधिवशात् तुर्यस्यापि त्रैविधयभिमाने
शिवजीवत्रिकोणद्वयश्लेषसम्भावितषट्कोणचक्रस्य वा
शरीररूपेणावस्थितस्य मध्ये चक्रनाभिपदे हृदयदेशे
तुर्यातीतविश्रान्त्यात्मना प्राणकलया स्फुरन्तीं चतुरङ्गां षडङ्गां वा
परमशिवस्य प्राणेश्वरीं सत्तासंपादनीयम् । अनेन पञ्चावस्थोत्तरा
सार्वत्रिकतया अखण्डरूपिणी परमशिवदशा काचिदङ्गीकृतेति
शिवाधिक्यमुक्तम् । प्राणेश्वरीमित्यनेन यद्यपि सा परमशिवदशा सम्भवति
तथापि तस्याश्चित्सारभूतविमर्शशक्त्यधीना सत्तेति शक्त्युत्कर्षः परिगृहीत
इति विज्ञेयम् । परामृशाम इत्यनेन नमस्कारादेः सर्वस्या अपि क्रियायाः
पर्यालोचने विमर्शमात्रत्वमेवेति सूचितम्
प्. ३)
स्पर्शस्वरोल्लिखितजागरसुप्त्यवस्था-
मन्तःस्थसूचितसुषुप्त्युदित प्रबोधाम् ।
ऊष्मोक्तजागरदशोदितसुप्त्यवस्थां
मन्त्रोत्करस्य जननीं मनसा विशामः
अथेयमेव पञ्चावस्थात्मकपञ्चावयवमूर्तिः सकलसिद्धान्तसमष्टिरूपिणी
परमशिवशक्तिर्मातृकामहामन्त्रेणोच्यते इत्याह - स्पर्शेत्यादि । कादयो
मावसानाः स्पर्शाः सृष्टिप्रलयविषयत्वात् अकारादिविसर्गान्ताः स्वराः
उच्चारणे सङ्कोचविकासबाहुल्यान्नादकल्पा नादा एवेत्यर्थः । स्वरो नादः ।
स्पर्शैः स्वरैश्च क्रमेण उल्लिखिते बोधिते जागरसुप्तिदशे यया तां
स्पर्शैर्जागरं स्वरैः सुप्तिं च व्यञ्जयन्तीमित्यर्थः । अन्तःस्थेत्यादि ।
यरलवा अन्तःस्था स्वरस्पर्शयोरन्तर्मध्ये तिष्ठन्तीति तथोक्ताः । तैः सूचितः
बोधितः सुषुप्त्युदितः सुषुप्तिदशायामेवोदितः न तु जागरवत्सुप्तिविरामे
प्रबोधः घटपटाद्यनुसन्धानरूपो बोधः स्वप्नमिति यावत् यया ताम् ।
अन्तःस्थवर्णेषु स्वप्नदशामवगमयन्तीमित्यर्थः । ऊष्मेत्यादि । शषसहा
ऊष्माणः । पारिभाषिकोऽयं शब्दः । अथवा सङ्कुचितरूपतया जडानां
स्पर्शवर्गाणां पुनःसङ्कोचत्यागरूप ऊष्मादिविकृतताप्रारम्भलक्षणः
प्रयत्नविशेषः येषु वर्णेष्विति ऊष्माणस्तैरुक्ता जागरदशायामेवोदिता उत्थिता
सुषुप्त्यवस्था जागरादूर्ध्वं सुप्तेः प्राग्भवन्ती योगनिद्राखय जीवावस्था
तुर्यं यया ताम् । मन्त्रोत्करस्य बाला श्रीविद्या परा महार्थशाम्भवी
चरणविद्यादि पारलौकिकस्य पञ्चाक्षर्यष्टाक्षर्यादेः लौकिकस्य
मन्त्रसमुदायस्य जननीं कारणभूतां मातृकामित्यर्थः । मनसा
विमृशामः सकलमृलतया सकलसिद्धिहेतुत्वात्
विविधसमयसमुत्पादितपरमार्थविषयसंशयसमुच्छेदिमहाप्रमाणत्वाच्
च तदेकाग्रचित्ता भवाम इत्यर्थः । अत्रोष्मवर्णोक्ते तुर्ये
क्षकाररूपकूटाक्षरविषयस्य तुर्यातीतस्य समुल्लेखनं च विवक्षितमिति
निरवशेषं प्रमेयम्
प्. ४)
सङ्कोचसंश्रयणवर्जनभावभङ्ग्या
जाग्रत्सुषुप्तिदशयोर्गमकौ प्रयत्नौ ।
द्वौ स्पृष्टताविवृतते विदितौ सुधीभिः
स्पर्शस्वराक्षरगतौ परिशीलयामः
स्पर्शादिभिर्वर्णैः जाग्रदादयो दशा ज्ञाप्यन्त इत्युक्तम् ।
ज्ञाप्यज्ञापकयोरभिधालक्षणादिषु केनचित्सम्बन्धेन भवितव्यम् ।
कोऽयमत्र सम्बन्ध इत्याशङ्क्याह - सङ्कोचेति । सङ्कोचस्य संश्रयणे
परिग्रहः वर्जनं तत्त्यागः तयोर्भावः स्वभावः संस्थनविशेष इति यावत् ।
तस्य भङ्ग्या प्रकारेण सादृश्येनेत्यर्थः ।
जाग्रत्सुषुप्तिदशयोर्यथाक्रमं गमकौ ज्ञापकौ द्वौ यथाक्रमं
स्पर्शस्वराक्षरगतौ स्पृष्टताविवृतते द्वौ प्रयत्नौ । स्पृष्टता नाम
कण्ठताल्वादीनामधरोर्ध्वभागसङ्घट्टनरूपो वर्णोच्चारणप्रयत्नः
विवृतता नाम सङ्घट्टितस्य कण्ठादिभगद्वयस्य
पुनर्विघट्टनप्रयत्नः । कण्ठादिभागयोः सङ्घट्टनमेव स्पृष्टता
विघट्टनमेव विवृतता । एतयोः सङ्कोचग्रहणतत्त्यागलक्षणौ प्रयत्नौ
सादृश्याज्जाग्रत् सुषुप्त्योर्बोधकौ । अभिनयनाद् व्यञ्जकाविति भावः । यथा
अङ्गुलिमुकुलनादिर्व्यञ्जकः तद्वदिति भावः । घटपटादिग्रहणपदे जाग्रति
त्वात्मनः सङ्कोचभावः विश्रान्तिपदे सुषुप्तु तु पूर्णभाव
इत्येतदनुभववेद्यम् । अतो जाग्रत्सुषुप्त्योः स्पर्शस्वरकदम्बकाभ्यां
सङ्कोचग्रहणतत्त्यागरूपमवस्थासादृश्यं प्रेक्षावद्भिरङ्गीक्रियत एव
। तदेव सादृश्यं व्यङ्ग्यव्यञ्जकसम्बन्धकल्पकमित्यभिप्रायः ।
सुधीभिर्विदिताविति विशेषणेन वर्णानामवस्थानां च
व्यङ्ग्यव्यञ्जकसम्बन्धनिदानभूतौ प्रयत्नौ
प्रेक्षावन्मात्रगम्यावित्युक्तानां वर्णानामेव दशागमकत्वेऽपि
सङ्कोचतत्त्यागरूपमवस्थासादृश्यं वर्णानां प्रयत्नमूलमिति
प्रयत्नयोरवस्थागमकत्वमुपचरितं परिशीलयाम
इत्येतत्प्रयत्नपर्यालोचनमेवास्माभिरप्यनुसन्धीयते नातः परः
समाधिरित्युपदिष्टम्
प्. ५)
स्पृष्टिर्यवर्गविषया विवृतत्वयुक्ता
स्पृष्ट्यन्विता विवृतता च शवर्गनिष्ठा ।
तौ स्वप्नतुर्यदशयोर्गमकौ प्रयत्ना-
वेतौ स्मराम्यसकलापरिपूर्तिपूर्त्योः
अथान्तःस्थोष्मणां स्वप्नतुर्यगमकत्वे
सम्बन्धमुपपदयतिस्पृष्टिरित्यादि । यवर्गविषया स्पृष्ट्ः स्पृष्टता
प्रयत्न विवृतत्वयुक्ता मिश्रप्रयत्न इत्यर्थः । अत्र स्पृष्टतायाः
प्राधान्यं विवृततायास्तु तदनुवृत्त्या गुणत्वम् । एवं च
यवर्गोच्चारणप्रयत्नस्य स्पृष्टताया विवृतत्वसङ्कीर्णतया असमग्रत्वे
ईषत्स्पृष्टत्वमिति विवेकः । शवर्गोच्चरणप्रयत्नस्य विवृततायाः
स्पृष्टतासङ्कीर्णतया सामग्र्यभावे ईषद्विवृतत्वमेवेति वेदितव्यम् । अत
एवैतौ प्रयत्नौ असकलापरिपूर्तिपूर्त्योः असमग्रसङ्कोचपूर्णभावयोः
स्वप्नतुर्यदशयोः यथाक्रमं गमकौ ईषत्सङ्कोचरूपस्य स्वप्नस्य
ईषत्स्पृष्टता ईषत्पूर्णरूपस्य तूर्यस्य ईषद्विवृतता च पूर्ववत्सादृश्यात्
व्यज्यत इति भावः । अत्रैव गम्यते स्पृष्टं करणं
स्पर्शानामीषत्स्पृष्टमन्तः स्थानामिति वैयाकरणैर्यदुक्तं तत्साधु
विवृतमूष्मणां स्वराणां चेत्येतत्तु
उष्मस्वरानुभवविरोधादुपेक्षणीयमिति । स्मरामीति । स्वानुसन्धानेनास्य
उपदेश्यजनशिक्षा विवक्षिता
प्. ६)
पूर्णैव पूर्तिरविकल्पपदे सुषुप्तौ
जाग्रत्यपूर्तिरपि संसृतिधाम्नि तद्वत् ।
जाग्रत्सुषुप्तिसमवायपदे तुरीये
स्वप्ने च तादृशि तयोरसमग्रतैव
अथानुभववेद्यं जाग्रदादीनां सङ्कोचविकासाद्यानन्दान्वयायोपपादयति
- पूर्णेत्यादि । अविकल्पपदे निर्विकल्पकक्ष्यायां
बाह्याभ्यन्तरेन्द्रियविश्रान्तिरूपत्वादिति भावः । इदं च विशेषणं
पूर्तिसमग्रताया हेतुत्वेनोक्तम् । विकल्पाभाव एव निराघटपूर्णभावबोधक
इत्यनुभवः प्रमाणम् । अविकल्पपदत्वात् सुषुप्तौ पूर्तिः पूर्णैव समग्रैव
संसृतिधाम्नि घटपटाद्यननुसन्धानरूपविश्रान्त्यस्पृष्टसंसारपदे
गाढविकल्पोदयस्थान इति भावः । इदं च सङ्कोचभावसमग्रताया
हेतुत्वेनोक्तं विशेषणम् । गाढविकल्पोदय एव महासङ्कोचसमर्पक इति
चानुभव एव प्रमाणम् । जाग्रत्सुषुप्तिसमवायपदे मिश्रपदे तुर्ये
चतुर्थदशायाम् । यद्यपि तुर्ये चिद्विश्रान्तिलक्षणसुषुप्तिव्याप्तिः तथापि
साजाग्रद्व्याप्तिश्चेत्येप्यनुसन्धीयत इति
विकल्पस्पृष्टतयाजाग्रतश्चानुवृत्तिरिति मिश्रत्वमेव । स्वप्ने च तथाविधे
मिश्ररूपे यद्यपि स्वप्नस्य विकल्पप्राधान्यात् जाग्रत्सुषुप्तिसमवाय
उभयोरेकरूपः तथापि मिश्रत्वमात्रसामान्यविवक्षया स्वप्नस्य
तुर्यसाम्यमुक्तम् । तादृशीति । तयोः पूर्त्यपूर्त्योः असमग्रतैव तुर्ये
पूर्त्यसामग्र्यं स्वप्ने त्वपूर्त्यसामग्र्यं च क्रमेण योज्यम्
प्. ७)
स्वप्नः सुषुप्त्यनुगतं ननु जाग्रदेव
तुर्यं च जाग्रदनुवृत्तसुषुप्तिरेव ।
स्वप्नस्तथा च सति जाग्रत एव भेद-
स्तुर्या दशापि च तथैव सुषुप्तिभेदः
उक्तप्रकारेण स्पर्शादिभिर्वर्णैः जाग्रदादीनां सङ्कोचभावादिलक्षणं
सादृश्येन गम्यगमकभावसंबन्धनिबन्धनं प्रैपाद्य
ज्ञानक्रियारूपतया प्रत्येकं द्वैविध्यं जाग्रत्सुषुप्त्योः । तत्र स्वप्नो
ज्ञानजाग्रत् या जाग्रदिति प्रसिद्धा दशा सा क्रियाजाग्रत् तदा तुर्यं
ज्ञानसुषुप्तिः या सुप्तिः या सुषुप्तिरिति प्रसिद्धदशा सा क्रियासुषुप्तिः । ततः
स्वप्नो जाग्रद्भेद एव तुर्यं च सुषुप्तिभेद एवेति दशाचतुष्टयस्य
वर्गद्वयरूपतां तत्स्वरूपज्ञानाद्यधिकरणाय समुपदिशतिस्वप्नः
सुषुप्त्यनुगतमित्यादिना । ननु स्वप्नो नाम जाग्रदेव यथा जाग्रति
घटपटादयो गृह्यन्ते तथात्रापीति । अयमेव विशेषः यत्स्वप्ने
सुषुप्तेरनुवृत्तिः जाग्रति तन्निवृत्तिरिति । अथ तुर्यं च सुषुप्तिरेव । तथा
विश्रान्त्युपलम्भादत्र चायमेव विशेषः यत्तुर्ये जाग्रदनुवृत्तिः सुषुप्तौ तु
तन्निवृत्तिरिति । एवं विशेषाल्पतया स्वप्नतुरीययोः जाग्रत्सुषुप्तिभेदत्वं
वेदितव्यमिति भावः
प्. ८)
ज्ञानात्मनान्तरुदिते खलु बोधसुप्ति-
स्वप्नस्तुरीयमिति नामविशेषभाजौ ।
वाह्ये क्रियात्मकतयोदितयोस्तयोः स्या-
दाख्या प्रबोध इति सुप्तिरिति प्रसिद्धा
स्वप्नतुर्ययोर्जाग्रत्सुषुप्त्यपेक्षामभिस्फुटीकरोति - ज्ञानात्मनेति ।
ज्ञानाकारत्वमेव वर्णभेद इति प्रक्रान्तप्रमेयतात्पर्यम् । ज्ञानात्मनेति ।
बोधश्च सुप्तिश्च बोधसुप्ती इत्यर्थः । प्रथममन्तः अभ्यन्तरक्षायां
ज्ञानात्मना ज्ञानरूपेण उदिते (सति) यथाक्रमं स्वप्नस्तुरीयमिति
नामविशेषौ भवतः । अथ वाह्ये वाह्येन्द्रियकक्षायां क्रियात्मकतया
क्रियारूपेण उदितयोस्तयोर्जाग्रत्सुषुप्त्योः प्रबोध इति सुप्तिरिति जाग्रत्सुषुप्तिरिति
प्रसिद्धाख्या व्यवहारो भवतीत्यर्थः । एतेनाभ्यन्तरेन्द्रियानुसन्धानं
ज्ञानरूपं बाह्येन्द्रियानुसन्धानं क्रियारूपमिति वेदितव्यम् ।
संसृतिश्चविश्रान्तिश्च प्रथममाभ्यन्तरेन्द्रियानुसंहिता सती पश्चाद्
बाह्येन्द्रिय प्रथायामवतरतीति विवेकः । सर्वस्यापि भावस्य
शिवशक्त्यात्मकतया ज्ञानक्रियारूपत्वमिति भावः । एवं च
ज्ञानजाग्रत्क्रियाजाग्रज्ज्ञानसुषुप्तिः क्रियासुषुप्तिः पुनरपि
ज्ञानजाग्रदादीत्येवं दशा चतुष्टयादवतरतस्तुर्यातीतनाभेः कालचक्रस्य
परिभ्रमणमनुसन्धेयमिति तात्पर्यम्
प्. ८)
जाग्रद्बहिर्विलसनं ननु भेदसृष्टेः
स्वप्नोन्तरुल्लसनमित्युभयी दशैव ।
तुर्याभिधानमुपयात्यविभेदसृष्टौ
सृष्टिद्वयस्य जनिविश्रमभूस्सुषुप्तिः
इदानीं जाग्रददिदशाचतुष्टयस्य
भेदाभेदरूपसंसारतद्विश्रान्तिस्वभावतां यथायोगमुपदर्शयति -
जाग्रद्बहिरित्यादि । सृष्टिः प्रवृत्तिरूपसंसारः भेदसृष्टेः
भेदरूपप्रवृत्तिसंसारस्य बहिर्विलसनं
बाह्येन्द्रियकक्ष्यायामवभासनं जाग्रत् तस्या एव भेदसृष्टेः
अन्तरुल्लसनं आभ्यन्तरेन्द्रियकक्ष्यायां स्फुरणं स्वप्नः दशाद्वयमिदं
पशोः संसारभूमिरिति वेदितव्यम् । इत्युभयी दशैव
जाग्रत्स्वप्नरूपदशाद्वयमेवाविभेदसृष्टिः । अविभेदो विभेदस्याभावः
संहारः विश्रान्त्यौन्मुख्येन भेदनिवृत्तिमार्गपरिग्रहः तत्सृष्टौ
तुर्याभिधानमुपयाति भेदसंसारादयं मार्गः
जाग्रदन्तदशात्रयापेक्षया चतुर्थत्वाच्चतुर्थः चतुर्थपर्यायः खलु
तुर्यशब्दः । सुषुप्तिस्वभावं दर्शयति - सृष्टिद्वयेति । सृष्टिद्वयस्य
भेदाभेदरूपस्य जनिरुत्पत्तिः विश्रमो विलयः तद्भूस्तत्पदं सुषुप्तिः
सुषुप्तेर्भेदाभेदविश्रान्तिरूपतया प्रतिपादयिष्यमाणया
जीवशिवसंसारोदयविलयभूमित्वम् । एतदुक्तं भवति -
सुषुप्त्यादिजाग्रदन्तेन भेदरूपेण पदत्रयेण जीवः संसरति ।
जाग्रदादिसुषुप्त्यन्तेनाभेदरूपेण तुर्याभिधानजुषा तेनैव पदत्रयेण शिवो
(ख्यानान्वि)श्रमते तं विश्रममार्गं पाशमेव भजन्नपि मायया
न विमृशति । एवं
शिवोऽपीच्छाज्ञानक्रियापर्यायभेदरहितसुषुप्तिस्वप्नजाग्रत्तयेव संसरति
तुर्यपर्यायजाग्रदादिसुषुप्त्यन्तनिवृत्तिमार्गेण विश्रमते च । यद्यपि शिवे
प्रवृत्ति निवृत्ति मार्गयोरभेदैकरूपत्वात् तुर्यव्यवहारो विद्यते तथापि
निवृत्तिमार्ग एव तस्य व्यवहारस्य मुख्यत्वमिति महोपदेशः ।
अद्वैतसंसारस्य द्वैतसंसारसमः समाधिरित्युत्तरप्रतिपादयिष्यमाणेषु
तत्पदेषु तत्प्रक्रियोन्नयनम्
प्. १०)
सृष्टा बहिः शिवचिता प्रकृतिर्विसर्ग-
स्तां स्वात्मना कवलयन् शिव एष बिन्दुः ।
संसारविश्रमजुषोरिति नामधेये
संसारिणौ पशुशिवौ च पशुः शिवश्च
एवं दशास्वरूपमुपदिश्य तदधिष्ठातृभूतं शिवजीवस्वरूपं
निरूपयिष्यन् प्रकृतोपयुक्ततया मन्त्रसमयासिद्धां बिन्दुविसर्गपरिभाषां
व्यौत्पादयति - सृष्टा बहिरित्यादि । शिवचिता शिव इति व्यवह्रियमाणया चिता
प्रकाशतत्त्वेन बहिः बहिरिव न तु परमार्थतो बहिः । सर्वव्यापिवस्तुनः
प्रकाशभित्तिलग्नतायां सत्यामेव सत्तासिद्धेः तद्बहिष्ठतायां तदसिद्धेः ।
सृष्टा विसृष्टा । विसर्जनमपि चमत्कारमात्रा । प्रकृतिः स्वभावः
विमर्श इत्यवगन्तव्यम् । प्रकाशस्य वा स्वभावो विमर्शः । येन स्वभावेन
विना प्रकाशस्यार्थो परागेपि स्फटिकादिकस्येव जाड्यं प्रसज्यत इति
प्राप्तस्वसंविच्छास्त्रकारैरुद्धोषितमन्त्रमात्रसमयं
दीक्षानन्तरमधिकृतसंविच्छास्त्रसिद्धान्ता एव परमरहस्यरूपस्य
मन्त्राथस्योपदेशाधिकारिण इत्यस्माभिरिह मन्त्रार्थविवेकप्रस्तावे
संविन्मतसारमात्रमेवोद्गीर्यत इत्यनभियोगः । प्रकाशो हि
स्वस्वभावभूतं स्वात्मविश्रान्तं
पराप्रकृतिस्वातन्त्र्यमायाविद्यादिशब्दैरागमिकैर्वह्रियमाणं
जगद्बीजभूतं विमर्शं कदाचित् प्रपञ्चानुसन्धित्सायां स्वात्मभित्तावेव
बहिरिव विसृज्यत इति विसर्गशब्दवाच्यो विमर्शो वेद्याकारवान् वेदकं
कवलयति अत एव प्रमाता च भवति । स (न ?) च वेदकश्चिद्रूपोऽपि
प्रमुषितवैभवः प्रमेयतामुपगतो जीवो भवति । यदा पुनः स शिवप्रकाशः
प्रपञ्चसञ्जिहीर्षायां तां विमर्शरूपिणीं प्रकृतिं स्वात्मना कवलयति
तदा (भि)विदिधातोरविच्छेदार्थतया (भि)विद्यन्तेऽविच्छिद्यत
इति बिन्दुशब्दव्यवहार्यो भवति । बिन्दुरविच्छेदकारणमिति भारतीयानां च
व्यवहारः । अपरिच्छिन्नस्वभावो भवतीत्यभिप्रायः । एवं वेद्यात्मनो
विमर्शस्य (वि)सर्गत्वं वेदा(दका)त्मनः प्रकाशस्य
विन्दुत्वमुपदिष्टं भवति । एतदेवाह - संसारविश्रमजुषोरिति ।
संसरणस्वभावो विमर्शः (विश्रमण)अरुणस्वभावः प्रकाशः
तयोरित्युक्तप्रकाशौ विमर्शप्रकाशयोर्विसर्गबिन्दुशब्दौ नामधेयत्वेन
परिभाषितौ । अथ विसर्गसमुन्नितस्य विचित्रस्य संसारस्य सामान्यदृष्ट्या
विषयमाह - संसारिणा इति
प्. ११)
द्वैतात्मकं भवति संसरणं पशोस्त-
द्द्वैतरूपमभवस्य परस्य शम्भोः ।
मिश्रं त्रिरूपमपि संसरणं यतः स्या-
द्विश्रान्तिभाक्तदिह धाम परं हि बिन्दुः
पशुशिवपरशिवासामान्याः न (सामान्येन) तावत्संसारिण एवेति
प्रदर्शितम् । इदानीं पश्वादीनां विविच्य संसारविशेषविषयतामुपदर्शयति
- द्वैतात्मकं भवतीति । तत्र विसर्गपर्यायस्य विमर्शस्याविद्यारूपेण
भेदचमत्कारोन्मीलनादिति भावः । तत्संसरणं अभवस्य शिवस्य संबन्धि
अद्वैतरूपं तत्र विमर्शात्मकविद्यारूपेणाभेदचमत्कारपरिग्रहात्
तथात्वमित्यवगन्तव्यम् । परस्य शम्भोः संसरणमित्यनुवर्तते । मिश्रं
द्वैताद्वैतरूपं तत्र विद्याविद्योभयरूपिण्या विमर्शशक्तेर्यौगपद्येन
भेदाभेदैकरहस्यप्रदर्शनचमत्काराभ्युपगम इति वेदितव्यम् । अत्र
तृतीयकक्ष्यायां परशम्भुपदोपादानेन त्रिकविश्रान्तिसिद्धन्तेऽपि
बहुमतिरुपसूचिता । तस्यापि तृतीयपदाधिष्ठातृसंसारेषु परिगणनं
चतुष्टयार्थमतश्रद्धया कृतम् । अतः संसारकलङ्का स्पृष्टं
शुद्धान्तर्मुखविश्रमस्वभावं महाबिन्दुपदं विवेचयति -
त्रिरूपमित्यादि । यतः यत्रेति त्रिरूपमपि संसरणं विश्राम्यति ।
तत्परमनुत्तरं धाम विन्दुरिति निष्कृष्टमिति भावः । यद्यपि
चतुर्थकक्ष्यायाः सर्वसंसारोपादानभूतपूर्णविमर्शस्वभावतया
महाविश्रान्तिपदत्वं तथापि
कक्ष्यात्रयोदञ्चितप्रपञ्चकलकलानुसंन्धानगन्धो नोपशान्त इति
तदुत्तीर्णं पञ्चममेव परव्योमलक्षणं पदं
पञ्चमाम्नायपरिशोधितं निष्कलमहाबिन्दुतत्त्वमिति तात्त्विकसिद्धान्तः ।
अत्रैतदुद्दिष्टं भवति । यत्पशोः सुषुप्त्याद्यवस्थात्रयं भेदरूपं अथवा
भेदरूपायां शैवीतुर्यदशायां च तदतीतदशा ।
एतस्मिन्स्वरस्पर्शादिभिर्मन्त्रैः अभिधीयत इति प्रतिपादिते दशापञ्चके
भेदाभेदमिश्रसंसाररूपास्तिस्रो दशाः सर्वसंसारैकैकविश्रान्तिरूपा
(रूपाणां) चतुर्थ दशानां (चतुर्थदशान्तर्गतानां)
योगः तुर्ये चतुर्थदशायां योगः तदतीते महाबिन्दुदशायोग इति तद्विवेकः ।
त्रिविधसंसारतदेकरसविश्रमतदुत्तीर्णमहाविश्रमदशासु सर्वमपि
दशाजातमन्तर्भुतमिति सिद्धजनघण्टापथः । अतोऽयमुपदेशो
मनीषिजनहृदयङ्गम इत्यलमतिप्रसङ्गेन
प्. १२)
गौणो हि बिन्दुरिति वित्तिरभेदरूपा
शैवी तनूर्भवति भेदपदं तु वेद्यम् ।
जीवस्य संवरकमस्य ततः स्वरूपं
सर्गैर्भवेद्व्यवहृतिर्महतामितीयम्
उक्तन्यायेन बिन्दोरपरिच्छेदलक्षणत्वाच्छिवस्य विकल्पस्पृष्ट्या
परिच्छेदसंभवेन विन्दुलक्षणस्यासमग्रत्वेऽपि गौणन्यायेन
बिन्दुव्यवहारोऽङ्गीक्रियते इत्याह - गौणेत्यादि । वृत्तिः संवित्तिः
अभेदरूपा । इदं विशेषणं
गौणविन्दुव्यवहारहेतुभूतगुणगर्भितमभेदरूपत्वं गुणः तद्वत्तया
गौणो विन्दुर्भवतीति विशेषः । सा वित्तिः शैवी शिवसंबन्धिनी तनूः स्वरूपं
भवति मिश्रसंसाराधिष्ठातुरप्येवं बिन्दुत्वमूहनीयम् ।
व्यवहारबाहुल्याभिसान्धिना शिवस्यैवोक्तं बिन्दुत्वमिति वेदितव्यम् । एवं
पशोरपि परिच्छेदे सत्यपि चिद्रूपतया बिन्दुत्वं प्राप्तमेव । अथ तस्य
चैत्यव्याप्ततया विसर्गत्वमपि संभावितमित्याह - भेदपदमित्यादि ।
भेदपदं भेदस्थानं वेद्यं तु शब्दो वित्तिस्वरूपाच्छिवाज्जीवस्य
भेदमवगमयति । जीवस्य संवरकं तत एवास्य स्वरूपं यद्यस्य
संवरकं तत्तस्य स्वरूपमिति भावः । वेद्यमपि भेदस्य संवरकं
व्यापकं ततस्तस्य स्वरूपं भवतीत्यर्थः । अतो वेद्यरूपतया जीवस्य
वेद्यवद्विसर्गशब्दव्यवहारविषयो भवेदित्यर्थः । महतां
मन्त्रसमयविदामिति । इयमुक्तप्रकारा व्यवहृतिः व्यवहारः
प्. १३)
चैत्यं विमर्शपरिणामदशाविमर्श-
श्चिद्धर्म एष च चितो जननाल्लयाच्च ।
नास्त्येव सा चिदपि यद्यविमृष्टरूपा
धर्मस्ततो भवति चिच्च विमर्शशक्तेः
अथ पशुशिवपदयोः वेद्यवेदकान्योन्यकवलनमित्युक्तं तत्र किं
निमित्तमित्याकाङ्क्षायामाह - चैत्यमित्यादि ।
शिवशक्तिपर्यायप्रकाशविमर्शपरिणामो जगदिति रहस्यागमसिद्धान्तः ।
यद्यपि विमर्शस्यैव विलासो जगदित्यङ्गीकृतं पुरातनैः तथापि विमर्शस्य
प्रकाशमन्तरेण स्वरूपासिद्धेर्विमर्शो जगदाकारेण विलसन्नपि तत्र जगति
प्रकाशांशमर्धेनावभासयति अर्धेन निजांशं तत्र वेदकः
प्रकाशांशः वेद्यं विमर्शांशः । एवं सति वेद्यपर्यायं चैत्यं
विमर्शपरिणामदशा तत्पर्यालोचने विमर्श एव । एष च विमर्शः चिद्धर्मः
प्रकाशस्य धर्मः । कुतः - चितो जननात् लयाच्च यतः प्रकाशादेवोदेति
तत्रैव विलीयते च ततः सर्वस्यापि वस्तुनः स्फुरणेन विना सत्ताभावात्
स्फुरणस्य तु प्रकाशादीनत्वात् प्रकाशकारणकत्वमवश्यमङ्गीकार्यम् ।
किञ्च शब्दरूपस्य विमर्शस्य गगनादुदयो गगन एव लयः सम्भावितः
तदेव गगनं प्रकाश इत्यलङ्कृतादि कारुण्युपदेश्ये
प्रतिपादनलम्पटेन(?) । अथान्यस्मिन्पक्षे प्रकाशोऽपि विमर्शस्य
धर्म इत्याह - नास्त्येवेति । सा चित्प्रकाशोऽपि यद्यविमृष्टरूपा
इयमीदृशीति विमर्शेन अनिर्दिष्टस्वरूपा चेत् नास्त्येव
इदमीदृगित्यविमृष्टस्यापि वस्तुनः सत्तायां शशविषाणादेरपि सत्त्वं
प्रसज्यते । ततः सर्वमपि वस्तु कोट्यधिरोहे विमर्शमपेक्षत इति प्रकाशस्यापि
सत्त्वे विमर्शकारणकत्वेन विमर्शधर्मत्वमवश्यमङ्गीकर्तव्यमित्याह
- धर्मस्ततो भवतीत्यादिना
प्. १४)
चिच्चैत्ययोरिति समे सति धर्मधर्मि-
भावे परस्परपदाक्रमणं स्वभावः ।
चैत्यावृता भवति चित्पशुरेष चैत्य-
मावृण्वती चिदपि याति शिवप्रसिद्धिम्
प्रकाशविमर्शयोरन्योन्यधर्मधर्मिभावप्रवचनस्य प्रकृतोपयोगमाह
- चिच्चैत्ययोरित्यादि । इति उक्तप्रकारेण चिच्चैत्ययोः धर्मधर्मिभावे समे
सति परस्परपदाक्रमणं स्वभावो नैसर्गिको व्यापारो भवति । धर्मिणो
धर्मपदव्याप्त्यौ चित्यादिति भावः । चिच्चैत्ययोरन्योन्याक्रमेणैका वा दशा
सम्भाव्यत इत्यत्नाह - चैत्यावृतेत्यादि । चैत्यावृता चित् एष पशुर्भवति
एष इति पुरो निर्देशेन स्वशक्तिप्रमोषपरिप्राप्तं दीनभावं निदर्शयति अथ
चैत्यमावृण्वती व्याप्नुवन्ती चित् शिव इति प्रसिद्धिं याति
प्. १५)
चिच्चैत्ययोः समतया स्तिमिते स्वभावे
मिश्रं तु मध्यमपदं परशम्भुरूपम् ।
चिच्चैत्यमिश्रणतया तदयं त्रिरूपो
धर्मी च तत्तदुचितश्च तथा विमर्शः
इदानीं चिच्चैत्ययोः समव्याप्तिपदस्य तृतीयतत्त्वस्य स्वरूपं
विप्रतिपत्तिविषयतया सम्यगुपदिशति - चिच्चैत्ययोरित्यादि । चिच्चैत्ययोः
समतया समव्याप्तिकत्वेन स्वभावे स्तिमिते निश्चले सति
विश्रान्तिस्वभावावगाहितया निश्चलं तन्मध्यमपदं मिश्रमिति
व्यवह्रियमाणमिति परशम्भुरूपं भवतीति शेषः । तु शब्दः
शिवजीवाभ्यां भेदाभिधायकः मध्यमपदमित्यनेनास्य पदस्य
तृतीयत्वेऽपि शिवजीवोभयस्वभावतया सन्धित्वौचित्येन
मध्यमत्वमप्यङ्गीकृतमित्युपदिष्टं
प्रवृत्तिनिवृत्तिरूपयोर्जीवशिवव्यापारयोरेककालीनत्वपर्यालोचनाया##-
समव्याप्तिपदत्वेन सम्भाव्यते सैव
स्तिमितदशोभयमूलतयोभयपक्षव्यापिनी पक्षद्वयगतविशेषस्वाम्यं
लभते । यथा बहुविटपमूलपदभूता तरुशाखा विटपसम्बन्धिषु
पुष्पफलादिषु स्वत्वं भजति तरुशाखेयं पुष्पिता फलिता तद्वत् ।
तदेवंरूपेणैव मिश्रपदप्रमातुः शिवजीवव्यापारयौगपद्यानुसन्धानं
न तु विकल्पकक्ष्याधिरोहेण शिवजीववत् । तथात्वे तृतीयपदव्यवस्थितस्य
महातत्त्वस्य शिवजीवपङ्क्तौ तत्सार्थक्येन व्यापारान्तराङ्गीकारलम्पटे
शिवजीवस्वभावानुप्रवेशवैभवस्याप्यभावात् तदुभयापेक्षया
दाक्षिण्यमूल एवोत्कर्षोऽपि स्यादित्यलमसामयिकविवादाग्रहेण । तदत्रायं
विप्रतिपत्त्या वार्ता नोपकर्तव्य(?) इति प्रमेयतात्पर्यमुक्तम् ।
जीवादिस्वरूपं त्रैविध्यनिगमनद्वारेण दृढीकुर्वन्नाह - चिच्चैत्येति ।
मिश्ररूपतत्त्वेन अयमपरोक्षभूतो धर्मी द्वैतानुसन्धानरूपो विमर्श
एवात्र धर्मः तद्वान् प्रमातेति यावत् । त्रिरूपः
मन्त्रव्यवहारबाहुल्यदृष्ट्या त्रैरूप्यमुक्तं न तु
चतुर्थपञ्चमदशयोरनन्तरोक्तधर्मस्य द्वैतादिरूपस्य विमर्शस्य
त्रैविध्यात् धर्मित्रैविध्यमित्यभिप्रेत्याह - तत्तदुचितश्चेति । औचित्यं जीवस्य
द्वैतविमर्शः शिवस्याद्वैतविमर्शः परमशिवस्योभयात्मकविमर्श इति
प्. १६)
चित्तिश्च चैत्यमपि तच्च विमर्शतत्त्वं
ज्ञानक्रिये न हि तयोः परमार्थभेदः ।
ज्ञानं गृहीतकठिनत्वगुणं क्रिया स्या-
ज्ज्ञानं भवेद्विरलिमाश्रयिणी क्रियैव
एवमत्र विषयोपयुक्तं शिवरूपं शिवस्य जीवत्रयस्वरूपं
स्फुटतरमुपपाद्य तदत्यन्तोपयुक्तं ज्ञानक्रियास्वरूपं व्युत्पादयति -
चितिश्चेत्यादि । चिदेव चितिः सा च अभेदरूपं खलु ज्ञानं घटो ज्ञात इति
भिन्नेष्वपि घटपटादिष्वेकरूपत्वेनाभिन्नतयानुभूयमानत्वात् । भेदरूपा
खलु चैत्यरूपिणी क्रिया चैत्यानां
घटपटादीनामन्योन्यव्यावृत्तस्वरूपतया भेदरूपेणानुभूयमानत्वात् ।
एवं चिच्चैत्यरूपयोः ज्ञानक्रिययोः पारमार्थिको न भेद इत्याह - न हि
तयोरित्यादि । चिच्चैत्ययोर्योऽयं भेदावभासः सन (पारमार्थिकः -
अपि) तु मायापर्यायविपर्ययज्ञाननिबन्धन इत्यभिप्रायः ।
तत्त्वभेदश्चिच्चैत्ययोरित्यत्राह - ज्ञानमित्यादि । ज्ञानं प्रकाशः
गृहीतकठिनत्वगुणं विमर्शाकारेणेति भावः । आकाशस्य काठिन्यं
शब्दः तदा चिदाकाशस्य काठिन्यरूपो विमर्श इति प्रकाशविमर्शयोः
जलकरकयोरिव न वास्तवो भेद इति तात्पर्यम् । ननु प्रकाशविमर्शयोः
जलकरकयोरिव भेदो मास्तु चैत्यात्मिकत्वेन घटपटादिनानारूपायाः
क्रियायाः ज्ञानरूपात्प्रकाशाद्भेदो दुरपन्हवः । वर्णरूपाद्विमर्शादपि
पृथुबुध्नोदराद्याकारतया घटपटादयो भिद्यन्त एवेति
चेद्घटपटादिनः सर्वस्यापि वस्तुनो घटपटादिशब्दरूपविमर्शातिरिक्तं न
किञ्चिदपि स्वरूपं विवेकदशायामवतिष्ठत इति
गुरुकटाक्षपरिक्षपितमायान्धकारैः सुप्रतिपन्नत्वात् ज्ञानाभेदं
क्रियायाः प्रतिपाद्य क्रियाया अभेदं ज्ञानस्य प्रतिपादयति - ज्ञानं
भवेदित्यादि । सापि विमर्शरूपिणी क्रिया विरलिमाश्रयिणी काठिन्यपरित्यागेन
विश्रान्तिलक्षणं विरलिमानं परिगृह्णाति । ज्ञानं भवेत्प्रकाशैकरस्यं
प्राप्नोतीत्यर्थः । एवं ज्ञानस्य बहीरूपं क्रिया क्रियाया आन्तरं रूपं
ज्ञानमिति तयोरेकार्थत्वामिति निष्कर्षः
प्. १७)
ज्ञानस्य सिध्यति विना क्रियया न रूपं
तस्यास्तथैव न हि तेन विनोपलम्भः ।
तस्मात्तयोर्यमलतैव मतं हि सैद्धं
पूर्वापरत्वकलनं त्विह पूर्वपक्षः
अथ शिवशक्तिस्वरूपयोः ज्ञानक्रिययोस्तुल्यप्राधान्यतया
यौगपद्यसिद्धिसंप्रतिपत्तिमूलयामलसिद्धान्तं मन्त्रहृदयभूतत्वेन
सिद्धाभिमतं प्रतिबोधयन्नेतन्मताभ्युपगममूलभूतं
प्रकाशविमर्शपर्यायज्ञानक्रियान्योन्यकारणकत्वं प्रागुक्तमेवानुवदति
- ज्ञानस्येत्यादिना । हि यस्मात् क्रियया विमर्शेन विना ज्ञानस्य
प्रकाशस्वरूपं न सिध्यति तथैव तस्याः क्रियायास्तेन ज्ञानेन
विनोपलम्भनासिद्धिः तस्मात्तयोर्ज्ञानक्रिययोर्यमलता युतपत्सिद्धतैव
सैद्धं सिद्धसम्बधि मन्त्रहृदयत्वादिति भावः । इह
ज्ञानक्रियासिद्धिविचारविषये पूर्वापरत्वकलनं तु पूर्वपक्षः
वेद्यवेदकाकारेण प्रकृतिपुरुषाकारेण देहात्माकारेण शब्दार्थाकारेणैव
पर्यायप्रकारान्तराकारेण वा क्रियाज्ञानयोः सिद्धेः
पौर्वापर्याभ्युपगमः पूर्वपक्षत्वमेव भजति निर्वोढुमशक्यत्वादिति
तात्पर्यम्
प्. १८)
अर्धं क्रिया भवति दक्षिणमन्यदर्धं
ज्ञानं समत्वमनयोरपि मध्यमिच्छा ।
इच्छैव बीजमचलान्तरबाह्यगत्या
ज्ञानं क्रिया च खलु मूलमिहाङ्कुरश्च
इदानीं
ज्ञानक्रिययोरन्योन्याविनाभावस्वभावतैकस्वरूपसम्बन्धौचित्ययोः
तत्समष्टिरूपयेच्छया समस्त्रीपुमुभयस्वभावतया
रहस्यविद्भिरभिमतस्य परमशिवतत्त्वस्य स्वरूपभागत्वाभिप्रायेण
एकस्वरूपसम्बन्धं दर्शयति - अर्धं क्रियेत्यादि । क्रिया दक्षिणमर्धं
भवति शिवस्येत्यभिप्रायः । कर्मकाण्डस्य दक्षिणमार्गतयाङ्गीकारादियं
व्यवस्था । ज्ञानमन्यद्वाममर्धं ज्ञानकाण्डस्य
वाममार्गत्वेनाङ्गीकारादिति भावः । ननु शैवं दक्षिणाचारः शाक्तं
वामाचार इति सिद्धजनप्रतिपादात् क्रिया
विमर्शरूपत्वाच्छक्तिस्वरूपमित्यङ्गीकर्तव्यम् ज्ञानं प्रकाशरूपत्वात्
शिवस्वरूपमिति च तत्कथं क्रियाया दक्षिणत्वं ज्ञानस्य वामत्वमिति चेत्
सत्यं रहस्यसमयसारावबोधकसद्गुरुसपर्याविधुराणामयं विप्रतिपत्तिषु
सङ्घट्टो दुरतिक्रमः महागुरुकटाक्षशिवतां(?) तु
निराकृत्यात्र विवेचयति तदुपदिश्यते ज्ञानक्रियारूपयोः
शिवशक्त्योरन्योन्यानुरागेणान्योन्यस्वभावोपरक्तस्वभाव इति वेदितव्यम् ।
शिवस्य स्वभावो ज्ञानं जडाकारया क्रिययोपरक्तं सत् जडस्य शुक्लतया
शुक्लं भवति । शक्तिः स्वभावः क्रिया अजडेन ज्ञानेनोपरक्ता सती अजडस्य
रवेः ऋतुतया अरुणा भवति । तदुभयमिश्रं
तद्रूपमुभयवर्णसंसर्गात्त्विदं हेमनिभं भवतीति
शिवादिस्वरूपत्रयपर्यायशाम्भवोक्तचरणत्रयवद्वर्णवा##-
शक्तिस्वभावक्रियास्वरूपानुसन्धानैकव्यापारतया ज्ञानमार्गे वामाचारे
व्यवस्थापित इति (?) कौलिकोपनिषत् । तदेतत्प्रमेयं
ज्ञानक्रिययोर्वामदक्षिणार्धत्वोपन्यासद्वारेण सूत्रकृता व्युत्पादितं
ज्ञानक्रियामिश्रपदे स्वे(ष्वि)च्छया भागव्यवस्थामाह -
समत्वमनयोरिति । अनयोर्ज्ञानक्रिययोः समत्वं समव्याप्तिकत्वं यत्तदिच्छेति
इच्छालक्षणं चात्रानुसन्धेयम् । मध्यमिति ।
दक्षिणवामयोर्मध्यमित्यर्थः । इच्छातत्त्वस्य
प्राक्प्रतिपादितपरशिवस्वभावस्य ज्ञानक्रियात्मकपक्षद्वयमूलरूपतया
तदुभयबीजत्वं समर्थयति इच्छैव बीजमित्यादि । एवकारेण पक्षत्रयस्यापि
ज्ञानं च कर्म चेत्यादिवक्ष्यमाणत्रिमूर्त्यात्मकत्वप्रतिपादनेन
यद्यप्यन्योन्यमूलत्वमुपपत्तिमत् तथापि माध्यमिकतया
सुषुम्नापर्यायभूताया इच्छाया एव प्रेक्षावन्महायोगिभिरुररीकृतं
ज्ञानक्रियारूपत्वमित्युपदिष्टम् । इच्छैवाचला प्राक्प्रतिपादितमर्यादया
स्तिमितस्वभावा । इदं च विशेषेण बीजत्वसमर्थकम् । बीजं हि निश्चलं तिष्ठति
मूलाङ्कुरावेव अन्तर्बहिश्च प्रसरतः । आन्तरगत्या निवृत्तिरूपप्रसरणेन
ज्ञानं मूलं बीजस्याधोभागप्रसृतवान् रोहावयवः बाह्यगत्या
प्रवृत्तिरूपप्रसरणेन क्रिया इह बीजे अङ्कुरः । चकारः समुच्चयाभिधानेन
बीजस्य पूर्णं लक्षणत्वमभिधत्ते
प्. २०)
ज्ञानं क्रिया तदुभयैकरसापि चेच्छा
तत्त्वत्रयं भवति नित्ययुतस्वभावम् ।
ज्ञानस्य मानमिति मेयमिति क्रियाया
मातेति चेतरपदस्य हि नामभेदाः
इच्छाज्ञानक्रियाणां प्रमात्रादिभिरेकार्थतया
प्रमातृप्रमाणप्रमेयशब्दव्यवहारोऽपि भवतीत्याह - ज्ञानं
क्रियेत्यादि । ज्ञानं क्रिया तदुभयैकरसा तदुभयसमष्टिरूपा इच्छा च इति
तत्त्वत्रयं नित्ययुतस्वभावं भवति अन्योन्याविनाभूतं भवति ।
एतद्विशेषणं त्रिपुटीरूपतया नित्ययुतस्वभावेभ्यः प्रमत्रादिभ्य
इच्छादीनां सादृश्योक्तिद्वारेणैकार्थताप्रतिपादकम् । इच्छादीनां
प्रमात्रादिषु कस्य केनैकार्थतेत्याकाङ्क्षायामाह ज्ञानस्येत्यादि । ज्ञानस्य
मानमिति क्रियाया मेय इति इतरपदस्य ज्ञानक्रियाभ्यामितरस्य पदस्य इच्छाया
इत्यर्थः । मातेति च नामभेदात्संज्ञाभेदः ससंज्ञकानामिच्छादीनां
प्रमात्रादीनां च पर्यालोचने भेद इति भावः
प्. २१)
ज्ञानं च कर्म च परस्परमूलमिच्छा
मूलं तयोस्तदुभयं खलु मूलमस्याः ।
मूर्तित्रयं मतमिदं त्रयमेव सृष्टि-
स्थित्यन्तकारणतया त्रिगुणस्वभावम्
इच्छादीनां मन्त्रसमयसिद्धत्रिकोणभावोपपत्तेव्युत्पादनाभिप्रायेण
प्रत्येकमितरद्वयमूलतामुपपादयति - ज्ञानं चेत्यादि । ज्ञानं च
कर्म च परस्परमूलं प्रकाशविमर्शस्वरूपत्वात् ।
प्राक्प्रतिपादितमर्यादयेति भावः । इच्छा तयोर्ज्ञानक्रिययोर्मूलं
मिश्रतत्त्वस्योभयमूलत्वं च प्राक्प्रतिपादितं तस्या इच्छायास्तदुभयं
मूलं ज्ञानक्रियामिश्ररूपिण्या इच्छायास्तृतीयतत्त्वस्य
सिद्धिर्ज्ञानक्रियासिद्धिमूलेति चोपपन्नमिति भावः ।
इदमिच्छादित्रयमेवोक्तमर्यादया अन्योन्यमूलं सन्मूर्तित्रयं
हरिहरहिरण्यगर्भात्मना । महाशक्तिरिच्छादिरूपिण्येवावभासत इति
तत्त्वविदामभिमतमित्यर्थः । मूर्तित्रयस्यापि
परस्परमूलत्वादिच्छादिभावोपपत्तिः । इच्छादित्रयस्य मूर्तित्रयत्वोपपत्तौ
महत्तत्त्वादिकं निधत्ते सृष्ट्यादि । इदमिच्छादित्रयं
सृष्टिस्थित्यन्तकारणतया त्रिगुणस्वभावं - भेदरूपस्य मिश्रस्य वा
संसारस्येच्छातत्त्वे सृष्टिः ज्ञानतत्त्वे स्थितिः क्रियातत्त्वे संहार इति
इच्छादित्रयस्य सृष्ट्यादिहेतुत्वात् त्रिगुणस्वभावता सृष्ट्यादिक्रमेण
रजःसत्त्वतमःप्रकृतिता । इच्छादित्रयमेव गुणत्रयस्वभावं चेत्यर्थः
प्. २२)
एतत्त्रयात्मकतया सकलं त्रिरूपं
सुप्त्यादिका अपि दशाश्च तथैव तिस्रः ।
सुप्तिः क्रियाजडतया भवति प्रबन्धो
ज्ञानं विमिश्रमनयोः पदमन्यदिच्छा
अत इच्छादिरूपतयैव संसारे सर्वमपि वस्तु त्रैरूप्येणावतिष्ठत इत्याह -
एतत्त्रयात्प्रकतयेत्यादि । लोकत्रयं वर्णत्रयं वेदत्रयमित्यादिरूपेण
सकलमपि वस्तुजातं पर्यालोच्यमानं त्रैरूप्येणैवावतिष्ठते ।
तत्रेच्छादित्रयात्मकत्वमेव हेतुरित्यर्थः । इदानीं प्रकृतास्तिस्रः
(सुप्त्या)सृष्ट्यादिदशा अपि इच्छाद्यात्मिका एवेत्याह - सुप्त्यादिका
इति । सुप्त्यादिदशा अपि अथैवेच्छाद्यात्मिका इति सूत्रकारस्य
सामान्योक्ततात्पर्यभूतमुत्तरत्र तद्व्यवहारदर्शनात्पारम्पर्येण
गुरुमुखागतत्वाच्चादिकृतं रहस्यप्रमेयमुपदिश्यते ।
सुप्त्यादीनामिच्छाद्यात्मकत्वेनान्योन्य मूलतायां तुल्यप्राधान्यतया
त्रिकोणभावप्राप्तावन्योन्यमादिमध्यान्तभावः सम्भाव्येत तथा च
सत्यादिमध्यान्तव्यवस्थित इच्छाज्ञानक्रिअयभावः प्रत्येकमपि सम्भाव्यते ।
तथा हि भेदसंसारे सुषुप्तिरिच्छा भेदाकारविश्रान्तिरूपत्वात्
भेदसंसारप्रारम्भपदत्वाच्च प्रारम्भपदमिच्छादिप्रहतो मार्गः स्वप्नो
ज्ञानं किञ्चित्सङ्कोचपदत्वात् । प्रारम्भपदमिच्छेति प्रारब्धस्य
किञ्चित्सिद्धिपदं ज्ञानदशेति स्फुटतरपदा जाग्रत् क्रियासङ्कोचस्य
पर्यवसितत्वात् प्रारब्धस्य निर्वर्णक्रियेति ऋजुमार्गः । एवमिच्छति जानाति
करोतीति पदत्रयव्यवस्थितः सर्वोप्युद्यम इति वेदितव्यम् । अथ
पुनर्विश्रमणक्रिअयसमुद्यमे जाग्रदिच्छा कस्यचिदुद्यमस्य निष्पत्तावन्यस्य
चोद्यमस्य प्रवृत्तौ मध्ये विश्रान्तिः सम्भवतीति
जाग्रद्विरताविच्छालक्षणं विश्रान्तिपदं सम्भवत्येवमन्यत्रापि विज्ञेयम् ।
निवृत्तिः स्वप्नो ज्ञानं किञ्चिद्विश्रान्तिसमुन्मीलनात् । सुषुप्तिः क्रिया
विश्रमरूपा क्रियाया अनुसन्धानात् । तथेह सुप्तिजाग्रतोः प्रत्येकमिच्छात्वं
क्रियात्वं च स्वप्नस्य ज्ञानत्वं च निरूपितम् । अथान्यत्पदं निरूप्यते ।
विकल्पाविकल्परूपत्वादजडविश्रमरूपस्वप्नः प्रकाशपदं
जडविश्रमरूपा सुषुप्तिर्विमर्शपदं
अनयोरन्योन्यभावपरिग्रहप्रक्रियायां स्वप्न इच्छा
जडीभावक्रियाप्रारम्भरूपत्वात् जाग्रज्ज्ञानं जाग्रति प्रकाशस्य
स्ववहिर्भूततयावभासमाने वेद्यांशे जडतापरिग्रहात् जडसुषुप्तिः
क्रियासमभिलषिताया जडीभावक्रियायाः साकल्येनानुसन्धानात् । अथास्य
जडस्वरूपस्य पुनः प्रकाशकरस्या(थ?)ऽजडी
भावक्रियासमुद्यम एव सुषुप्तिरिच्छा अजडीभावक्रियाप्रारम्भरूपत्वात् ।
जाग्रत् ज्ञानं वेदकप्रकाशस्पृष्टस्य (या) वे(द्य)दस्य
किञ्चिदजडीभावसमुदयाद् स्वप्नः क्रिया किञ्चि जडाजडरूपस्य साकल्येन
अजडीभावक्रियानुसन्धानात् । एवं स्वप्नसुप्त्योः प्रत्येकमिच्छात्वं
क्रियात्वं च जाग्रतो ज्ञानत्वं च विज्ञेयम् । अनयैव दिशा
जडाजडप्रमातृपदयोर्जाग्रत्स्वप्नयोरन्योन्यभावप्रक्रियायामपि
वक्ष्यमाणमर्यादया बिन्दुविसर्गश्लेषरूपत्वेन
जडाजडविश्रान्तिरूपसुषुप्तिमध्यकक्ष्यावगाहेन प्रत्येकमिच्छात्वं च
योजनीयम् । विश्रान्तिरूपाया अपि सुषुप्तेश्चिदचिन्मयत्वात् ज्ञानत्वोक्तिरनवद्यैव
। जीवः सुषुप्त्यवगाहेन विश्रान्तिं जानन्नेव शिवो भवति । शिवश्च
तदवगाहेन जडत्वं जानन् जीवो भवतीति सुषुप्तेः
मध्यपदत्वमुपपन्नमेवेति निरवद्यकरं प्रमेयम् । एवं सुप्त्यादिपदत्रये
यस्य कस्यचिदप्युपक्रमेण विलोमानुलोमभावात्
पदत्रयप्रवाहशिवशक्त्यन्योन्यभावसमाधिरपि सिध्यतीति
सुप्त्यादिदशात्रयावबोधके मातृकाखण्डत्रये यस्य
कस्यचिदप्युपक्रमेणावर्तनं साम्प्रदायिकमेवेति
तत्सर्वप्रक्रियानुसन्धानं परिशीलनीयम् । तदुक्तं मातृकासङ्ग्रहरूपस्य
बालामन्त्रस्य प्रस्तावे लघुस्तोत्रकारेण क्रमगतं यद्वास्थितं व्युत्क्रमादिति
सुप्त्यादिदशात्रयप्रतिबिम्बभूतचतुर्दशारादिचक्रस्कन्धत्रयात्मनः
श्रीचक्रस्यापि सपर्याविषये यस्य कस्यचिदपि स्कन्धस्योपक्रमेण
बीजत्रयोद्देशेन विलोमानुलोमस्कन्धत्रयप्रवाहे
सम्यगनुभवसमाधिसिद्धिरेवेति
तदखिलप्रक्रियानुसन्धानमाचार्यवर्याणामिति
महामन्त्रयन्त्रप्राणभूतमिदं प्रमेयमिति प्रपञ्चितं
स्वप्नजाग्रत्सुषुप्तीनामिच्छाज्ञानक्रियात्वं प्रसिद्धमार्गतया प्रतिपादयैत्
सुप्तिः क्रियेत्यादि । क्रियात्वे जाड्यं हेतुतयोक्तं क्रिया खल्ल
स्मृतिविलक्षणसाक्षादनुभवरूपतया बहिरुपसन्धानं
तज्ज्ञानरूपान्तरानुसन्धानवदजडं न भवतीति क्रियाया
जडत्वमनुभवसम्प्रतिपन्नम्
प्. २४)
अन्योन्यलीनवपुषोरिह चैत्यचित्योः
सुप्त्यदिषु त्रिषु पदेषु भवो द्विरूपः ।
श्लिष्टः प्रवृत्तिविनिवृत्तिमयो विभाव्यः
श्रीचक्रमूलमनुसंस्थितिदर्शनेन
उक्तमर्यादया सूचितं सुषुप्त्यादीनां जडाजडस्वभावतया
द्वैरूप्येणावस्थानं स्फुटीकरोति - अन्योन्यलीनवपुषोरित्यादि ।
सुप्त्यादिदशात्रयं खलु चिच्चैत्यपर्याययोः शिवजीवयोः
संसरणविश्रमणव्यवहारपदं स्वरूपमेव ।
प्रकाशविमर्शपर्याययोश्चिच्चैत्ययोरन्योन्यलीनत्वं स्वभावः । प्रकाशे
खलु विमर्श(वास)ना नैयत्येनावस्थिता विमर्शे च प्रकाशवासना
तयोरन्योन्यभावोपादानस्वभावत्वात् त(थै)दैव
जडत्वाजडत्वव्यवस्थया तयोः प्रत्येकं स्वरूपभूते सुप्त्यादि दशात्रये
अजडेऽजडं जडे वा जडमपि वासनारूपेण निलीनं पर्यायेण परिस्फुरतीति
सूत्रतात्पर्यम् । चैत्यचित्योरिति । चैत्यशब्दस्य पूर्वनिपातेन मायाप्राबल्यात्
चैत्यपर्यायजीवदशानामेव प्रथमपर्यायस्फुरणमित्यभिसन्धिः ।
चैत्यचित्योर्जीवशिवयोः क्रमेण प्रवृत्तिनिवृत्तिमयः अत एव द्विरूपो भवः
संसारः सुप्त्यादिषु त्रिषु पदेषु श्लिष्टोन्योन्यनिलीनो विभाव्यः
जीवशिवपदानामन्योन्यनिलीनतालक्षणश्लेषनिर्णये मूलमाह श्रीचक्रेत्यादि ।
चक्रं नवत्रिकोण श्लेषविशिष्टं यन्त्रं मूलमनुर्मातृका तयोः
संस्थितिः संस्थानविशेषः तद्दर्शनेन पर्यालोचनेन
श्रीचक्रसंस्थितिश्चतुर्दशारादिस्कन्धत्रयेऽपि प्रतिस्कन्धं त्रिकोणयोः श्लेषः
तेन श्लेषेण प्रत्येकं त्रैरूप्येणावस्थितानां
शिवजीवदशानामन्योन्यनिलीनताध्यवसायेन पर्यायेण स्फुरणप्रतिपत्तिः
मूलमनुसंस्थितिः खण्डत्रयस्यानुलोमविलोमवर्तनं तेन च
प्रवृत्तिनिवृत्तिरूपव्यवस्थयान्योन्यनिलीनानां जीवशिवदशानां
पर्यायेणोल्लसनप्रतिपत्तिरिति विवेकः
प्. २५)
इच्छा सुषुप्तिरबहिर्जनितः प्रबोधो
ज्ञानं क्रिया भवति जागरणं जडस्य ।
तुर्यस्थजागरपदादिसुषुप्तिसीमा
इच्छादयः खलु दशास्त्वजडाः शिवस्य
इदानीं विवृतीषत्स्पृष्टिस्पृष्टीषद्विवृतिविवृतिप्रयत्नक्रमेण
व्यवस्थितमन्त्रसंस्थानेनावबोध्येन
सुप्त्यादिजाग्रदन्तजाग्रदादिसुषुप्त्यन्तप्रवृत्तिनिवृत्तिमार्गयोर्जीवशिवयोः
सङ्कोचपूर्णभावाभिव्यक्तिः सहृदयसामयिकहृदयङ्गमेति
तन्मार्गोपाश्रयेण तत्समयमवबोधयितुकामः
सुप्त्यादीनामिच्छादिभावमुपपादयति - इच्छा सुषुप्तिरित्यादि ।
सुषुप्तिरिच्छाभेदसंसारा इत्यभिप्रायः अबहिरन्तर्जनितः प्रबोधः स्वप्नः
ज्ञानं जागरणं जाग्रदवस्था क्रिया जडस्य जीवस्येवेच्छादीनां
समवायनिर्देशः तुर्यस्थेत्यादि । उक्तं खलु प्राक्
जाग्रत्स्वप्नसुषुप्तीनामभेदविस्ऽयत्वे तुर्यव्यवहार इति तदभिप्रायेणात्रोक्तं
तुर्यस्थजागरपदादीति । तुर्यस्थं तुर्यव्यवहारलग्नं यदभेदरूपं
जागरपदं तदादित आरभ्य सुषुप्तिसीमाः तुर्यस्थेन या सुषुप्तिः तदवधिकाः
अभेदजाग्रत्स्वप्नसुषुप्तय इत्यर्थः । अजडाः तुर्यस्थलेनैवाजडत्वे सिद्धे
पुनरजडविशेषणमनु(धि)ष्ठानतया योजनीयम् । शिवस्येच्छादयो
दशा भवन्ति ।
ननु प्रकाशमयः शिवः प्रवृत्त्यभिमुखो विमर्शमयः
पशुर्निवृत्त्यभिमुख इति प्रागुक्तं कथमत्र निवृत्तिरूपिणी तुर्यदशा
शिवस्येत्युक्तमिति चिदुच्यते । निवृत्त्याह्बिमुख पशुः शिव इत्येव व्यवह्रियते ।
प्रवृत्त्यभिमुखः शिवश्च पशुरित्येव व्यव्हारमुपलभत इति महागुरोः
सूत्रकारस्य निरवद्यः प्रवचनमार्गः
प्. २६)
अन्तर्मुखी भवति बिन्दुगतिर्विसर्ग-
स्योक्ता गतिर्गुरुजनेन बहिर्मुखीति ।
पूर्वः सुषुप्तिपदमध्यमुपैति जाग्रन्
मध्यात्तमृच्छति परस्तु सुषुप्तिमध्यात्
अथ
जीवशिवयोर्बहिर्मुखान्तर्मुखतयान्योन्यविलक्षणस्फुरणमुपपत्तिमदेवेति
प्राक्प्रतिपादितप्रक्रियामनुस्मारयन्नाह - अन्तर्मुखीत्यादि ।
बिन्दुगतिरन्तर्मुखी भवति विसर्गस्य गतिर्बहिमुखीति गुरुजनेनोक्ता ।
तयोर्विश्रमणसंसरणस्वभावतेति प्राक्प्रतिपादितत्वादत्राप्रतिपादनमिति
मन्तव्यम् । अतः कारणात्पूर्वोपसन्निहितवाक्ये पूर्वनिर्दिष्टो बिन्दुः
सन्निहितवाक्यपूर्वनिर्दिष्टो जाग्रन्मध्यात्सुषुप्तिपदमध्यमुपैति
तिसृणामपि दशानां प्रत्येकं जडाजडभागद्वयस्य
प्रतिपादितत्वान्मध्यदेशो भागद्वयस्य सन्धिरित्यवगम्यते ।
जडजाग्रत्परिसमाप्त्यनन्तराद्बुद्धं तुर्यपर्यायाजडजाग्रत्प्रारम्भपदं
जाग्रन्मध्यं ततः पूर्वावधेः सुषुप्तिपदमध्यं
अभेदसुषुप्तिपरिसमाप्तिपदमुत्तरावधिमुपैति । परस्तु उत्तरनिर्दिष्टो विसर्ग
इत्यवगम्यते । सुषुप्तिमध्यात्
अजडसुषुप्तिपरिसमाप्त्यनन्तरोद्बुद्धजडसुषुप्तिप्रारम्भपदात् पूर्वावधेः
तं जाग्रन्मध्यं भेदजाग्रत्परिसमाप्तिपदमुत्तरावधिमृच्छति गच्छति ।
एवं बिन्दुविसर्गयोरन्तर्बहिः प्रसरणप्रक्रिया
मन्त्रार्थविवेकादित्यन्तोपयोगिनीति सूत्रकारेण स्फुटीकृतेति वेदितव्यम्
प्. २७)
सुप्त्यादि जाग्रदवधि त्रितयं दशानां
जन्तोः प्रवृत्तिवपुषोऽथ निवृत्तिमूर्तेः ।
तज्जाग्रदाद्यवधिभूतसुषुप्ति शम्भो-
रारोहसीमसमुपक्रमणोवरोहः
उक्तमेवार्थं दृढीकरणाय उपपत्त्यन्तरोपन्यासेन प्रतिपादयति -
सुप्त्यादीत्यादि । प्रवृत्तिस्वरूपस्य जन्तोर्जीवस्य दशानां त्रितयं
सुप्त्यादिजाग्रदवधि प्रागुक्तमर्यादेवेति भावः । अथेति पक्षान्तरे ।
निवृत्तिमूर्तेः शम्भोर्दशानां जाग्रदादि अवधिभूतसुषुप्ति
सुषुप्त्यवधिमित्यर्थः । अत्र च प्रागुक्तप्रक्रियानुसन्धातव्या ।
जीवदशाप्रवहणवैलक्षण्येन शिवदशानां
जाग्रदादिप्रवहणप्रक्रियायामुपपत्तिमाह - आरोहेति । आरोहस्य
आरोहणरूपक्रियायाः या सीमा अवधिः तत्समुपक्रमणं तत्प्रारम्भः
खल्ववरोहः प्रसिद्धः । तस्मात्प्रवृत्तिरूपसजीवदशावधिपदं (##?
भवतीत्युपपद्यत इत्यर्थः
प्. २८)
तस्मात्प्रवृत्तिविनिवृत्तिमयोभयार्थः
स्वप्नः सुषुप्तिरपि जाग्रदपीति गोप्यम् ॥
भेदानि भेदमयजीवशिवाङ्गकानां
षण्णां विमिश्रणमिदं प्रकृत्तिर्दशानाम्
अथारोहावरोहरूपयोः प्रवृत्तिनिवृत्ति(रारोह##?
प्रत्येकं भागद्वयाङ्गीकारो रहस्यमार्ग इत्युपदिशति - तस्मादिति ।
प्राक्प्रतिपादितप्रमेयतात्पर्यस्य हेतुत्वमुक्तं तदुच्यते । जीव एव खलु
प्रवृत्तिकर्त्ता निवृत्तिमङ्गीकुर्वन् शिव इत्युच्यते शिवो वा प्रवृत्तिपदे
जीवशब्देन व्यवहृतः पुनर्निवृत्तिपदे शिवशब्दव्यवहारं प्राप्नोति न तु
जीवशिवयोः पारमार्थिको भेदः अपि तु दशाभेदेनैव भेद इत्येकार्थता ।
एतदुभयपर्याययोः तयोः प्रकाशविमर्शयोः एवमेकार्थतानुसन्धेया ।
एवं प्रवृत्तिनिवृत्तिकर्त्र्योरेकार्थंत्वे या प्रवृत्तिरूपा क्रिया तस्या एव
निवृत्त्या भाव्यम् । यद्यन्यतः प्रवृत्तिरन्यतो निवृत्तिः तर्हि जीवस्यान्यत्र
प्रागुक्तप्रवृत्तिरूपबन्धानुच्छेदेऽन्यत्र निवृत्तिरूपा मुक्तिरिति
मुक्तेर्बन्धसहितत्वेन निराकुलानन्दरूपं तल्लक्षणं न प्राप्नोतीति
प्रवृत्तिनिवृत्त्योरैकपद्यमेवोपपद्यते । तत्प्रवृत्तिरूपस्यैव दशात्रयस्य
निवृत्तिरूपतेति प्रत्येकमवस्थाद्वयमङ्गीकर्तव्यम् । तदेवावस्थाद्वयं
भावद्वयमिति व्यपदिश्यत इति प्राक्प्रमेयतात्पर्यम् । तस्मादिति हेतुतयोक्तम् ।
तस्मात्कारणात् स्वप्नः प्रवृत्तिनिवृत्तिमयोभयार्थः सुषुप्तिरप्येवं
जाग्रदप्येवमित्येतद्रहस्यम् । एवं
प्रवृत्तिनिवृत्तिसंभावितभेदाभेदमयत्वेन प्रत्येकं द्विस्वभावानां अत
एव षण्णां जीवशिवाङ्गकानां दशानां
विमिश्रणमन्योन्यलीनतालक्षणश्लेषः प्रकृतिस्वभावः शिवस्याभ्यन्तरे
शक्तिः शक्तेरभ्यन्तरे शिव इति यदा शिवशक्त्योरन्योन्यान्तरवस्थानं तदा
भेदविभागेन तदङ्गभूतानां जाग्रदादीनां
भागद्वयस्यान्योन्यान्तरवस्थानमिति
स्वप्नप्रजागरसुषुप्तिमयाष्टकोण-
पङ्क्त्यस्रयुग्ममनुकोणविराजमाने ।
यन्त्रेश्वरे हि शिवजीवसमन्वयोऽयं
दृष्टः समस्तपरमार्थविदीष्टदेवे
एवं भेदाभेदभागयोः प्रत्येकमुपपादिततया द्विरूपस्य जाग्रदेकस्य
अन्योन्यश्लेषं तत्रेति बिम्बभूते महायन्त्रे संपादयतिस्वप्नप्रजागरेत्यादि ।
स्वप्नप्रजागरसुषुप्तिमयैः स्वप्नादिप्रतिबिम्बभूतैः अष्टकोणः
पङ्क्त्याश्र(य?)को युग्ममनुकोणैः अष्टकोणस्वप्नप्रतिबिम्बं
यकारादिहकारान्तैरष्टभिर्वर्णैः स्वप्नतत्त्वावयवानां
कलादिशक्त्यन्तानां वक्ष्यमाणत्वात् पङ्क्त्यश्रयुग्मं जाग्रत्प्रतिबिम्बं
ककारादिस(न)कारान्तैर्विंशत्त्या वर्णैः जाग्रत्तत्त्वावयवानां
पृथिव्यादिश्रोत्रान्तानां वक्ष्यमाणत्वात् मनुकोणश्चतुर्दशकोणः
सुषुप्तिप्रतिबिम्बं अकाराद्यौकारान्तैश्चतुर्दशभिर्वर्णैः
सुषुप्तितत्त्वावयवानां पृथिवीसंस्कारादिबिन्द्ववर्तसंस्कारान्तानां
वक्ष्यमाणत्वात् । एवं स्कन्धत्रयात्मकैश्चक्रैर्विराजमाने
यन्त्रेश्वरीमहायन्त्रे अयं शिवजीवसमन्वयः
प्रत्येकमवस्थात्रयात्मकशिवजीवश्लेषः दृष्टः । दर्शनं चैवं
अष्टकोणादिषु चतुर्दशकोणान्तेषु चक्रेषु । योऽयं त्रिकोणद्वयश्लेषः
संलक्ष्यते स एव श्लेषो जीवशिवाङ्गभूतस्वप्नोद्य(##?
त्रिकोणः प्रतिबिम्बमिति युक्तं एकैकस्मिन् जाग्रदादिपदे कथं
त्रिकोणभवमूलभूता त्रैरूप्योपपत्तिरिति नाशङ्कनीयम् ।
अवस्थानामिच्छादिरूपतया तस्य चेच्छादित्रयस्य प्राक्प्रतिपादितमर्यादया
नित्ययुतस्वभावत्वादेकस्यापि पदे सर्वस्या अपि त्रिपुट्या व्यतिषङ्ग इति
निरवद्यम् । यन्त्रेश्वरस्य मातृकाया इव महाप्रमाणतामुपपापयति -
समस्तेति । समस्तपरमार्थविदामनेन विशिष्टोपादेयतोक्ता । इष्टदेवे
इष्टदेवतारूपेणाभिमते । मन्त्रदेवताभ्यामतिरिक्तं न हि प्रमाणम् । अतो
मातृकाचक्रबोधितोऽर्थो न संशयैरुप्स्पृश्यत इति तात्पर्यम्
प्. ३०)
सुप्तिः शशी जडतया तपनोऽपि जाग्र-
च्चैत्यस्य सन्तपनमात्रचिदात्मकत्वात् ।
स्वप्नोनलोगिलितचैत्यतया पशुत्वे
सोऽप्यर्क एव दहनः सकलं शिवत्वे
अथ स्वरस्पर्शव्यापकानां
चन्द्रसूर्याग्निव्यवहारोपपत्तिस्तदर्थभूतसुषुप्त्यादीनां
चन्द्रादित्योपपत्तिमूलेति तत्प्रमेयं व्युत्पादयति - सुप्तिः शशीत्यादि ।
जडतया जाड्याद्धेतोः सुप्तिः शशी चन्द्रः ब्रह्माण्डे योऽयं
जडस्वरूपश्चन्द्रः स खलु पिण्डाण्डे सुषुप्तिः
ब्रह्माण्डपिण्डाण्डयोरन्योन्यकारणकत्वेनैकस्वभावत्वात् । चैत्यस्य
वेद्यस्य घटपटादेः सन्तपनमात्रचिदात्मकत्वात्
सुषुप्तिगतजाड्यप्रमार्जनादजडत्वस्पृष्ट्युपलम्भनेन यत्सन्तपनं
प्रकाशोष्मणा शोषणं न तु तत्सन्तापनमेतद्दहनतन्मात्रचिदात्मकत्वात्
तत्परिपाटीव्यवस्थितप्रकाशकात्मकत्वाद्धेतोर्जाग्रदवस्था तपनः सूर्यः
जाग्रतः परिच्छिन्नप्रकाशात्मकतया बहिर्गतत्वेनैव चैत्यप्रकाशनं
सूर्यस्येव न तु वह्निवत् स्वान्तर्गतत्वेन स्वावधिपर्यन्तप्रकाशनमिति भावः ।
गिलितचैत्यतया स्वान्तरुपक्षिप्तचैत्यतया स्वप्नोऽनलः स्वप्ने खलु चैत्यं
स्वमनोगर्भ एव निलीनं भाति । एवं वह्नित्वेन संभावितस्य स्वप्नस्य
पशुत्वविषये सूर्यत्वमेवाह पशुत्वे सोऽप्यर्क एवेति स इति स्वप्नः पशुः खलु
स्वप्ने स्वमनोगतत्वेन स्वान्तस्थमपि जगन्मायया स्वबहिष्ठमेवानुसन्धत्ते
। जाग्रति पतितो जाग्रदिव स्वप्नोऽपि पशोः सूर्य एवेत्यनुभवसंप्रतिपन्नं
शिवत्वे सुप्त्यादीनां विशेषमाह - शिवत्वे सकलं दहन इति । सकलं
सुप्त्यादित्रयं दहनोऽग्निरेव सर्वत्र दशायामभेदवासनापाटवेन
जगत्कवलनादिति भावः
प्. ३१)
चैत्यातिविस्फुरणसीम्नि खलु प्रतिष्ठा
जाग्रत्यणोरथ तुरीयपदान्तरर्थे ।
शम्भोर्विमर्शवति जाड्यमलव्यपेते
जाग्रत्सुषुप्तिदशयोः सममध्यभागे
अथ जीवशिवयोर्दशात्रये सर्वत्र वा कुत्रचिद्वा
स्वात्माभिमानदार्ढ्यमित्याकाङ्क्षायां मन्त्रतात्पर्यमभिसन्धायाह ##-
अवधिः तत्र जाग्रति भेदपरमावधौ अणोर्जीवस्य प्रतिष्ठा
स्वात्मनोऽभिमानदार्ढ्येनावस्थानं जाग्रत्पदबोधकेषु स्पर्शेषु मकारस्य
जीवकलास्थानत्वेन वक्ष्यमाणत्वात् । अथ शम्भोर्विमर्शवति अत एव
जाड्यमलव्यपेते जाग्रत्सुषुप्तिदशयोः सममध्यभागे अभेदविकल्पपदमत्र
जाग्रद्विवक्षितं निर्विकल्पपदं सुषुप्तिः तयोर्मध्यभागे सन्धिरूपस्य तस्य
पदस्य विकल्पाविकल्पोभयपदव्यापकत्वात् ।
अभेदविकल्पाविकल्पसन्धिपदबोधकस्य क्षकारस्य शिवकलास्थानत्वेन
वक्ष्यमाणत्वात्
प्. ३२)
माता शशी भवति मेयपदं पशुत्वे
वह्निः प्रमाणमिह तिग्मरुचिः क्रियाग्र्यम् ।
मातानलः शिवपदे हिमगुः प्रमेयं
ज्ञानाग्र्यभाग इह तुर्यरविः प्रमाणम्
अथ जाग्रन्मध्यमपदकस्य मार्गस्य प्रमेयमाह - माता शशीत्यादि ।
पशुत्वे शशी सुषुप्त्यात्मकस्वरखण्डार्धश्चन्द्रः माता प्रमाता भवति ।
पशुत्वे चन्द्ररुपस्य वेद्यस्यैव व्याप्तिः मेयपदं वह्निः स्वप्नात्मकं
व्यापकखण्डार्धो वह्निः प्रमेयपदं भवति । पशुत्वे वह्निरूपस्य
वेदकस्य व्याप्यत्वात् । इह पशुत्वे तिग्मरुचिः जाग्रदात्मकस्पर्शखण्डार्धः
सूर्यः क्रियाग्र्यं वेद्यांशप्रधानं प्रमाणं वेद्यवेदकोभयात्मके
प्रमाणे पशुदशायां वेदकांशव्यापकतया
वेद्यांशप्राधान्यमवलम्बते । अथ शिवतायां
चन्द्रादेर्भावान्तरग्रहणमाह शिवपदे अनलपदकः प्रमाता शिवपदे
वेदकस्य व्यापकत्वात् तत्र हिमगुश्चन्द्रः वेद्यं प्रमेयं व्याप्यत्वात् इह
शिवतायां तुर्यरविः अभेदजाग्रद्रूपो रविस्तुर्यरविः ज्ञानाग्र्यभागं
वेदनप्रधानांशकं व्याप्तिमत्तया प्रधानभूतवेदकांशं प्रमाणं
भवति । अयं सुप्त्यादिस्वप्नान्तमार्गे विवेक इति वेदितव्यम्
प्. ३३)
चैत्यप्रमातुरिह यज्जडमेव मानं
तच्चित्प्रमाणमनुजीवति तद्धि चैत्यम् ।
चित्तत्त्वमेव नियमादनुजीवदेतन्-
नात्यश्नुते स्वमिव चित्तदिदं विभेदि
अथ विसर्गरूपस्य वेद्यप्रमातुर्भेदरूपतोपपत्तिमाह -
चैत्यप्रमातुरित्यादि । इह जाग्रन्मध्यमपदके मार्गे चैत्यप्रमातुः
चैत्यरूपस्य प्रमातुः जडमेव क्रियारूपतया जडमेव यावन्मानं
प्रमाणं वेद्यकवलनसाधनं तच्चितिप्रमाणं चितः साधनभूतं
ज्ञानरूपं प्रमाणमनुजीवति अनुप्राणिति । अत्रायमभिप्रायः पशुत्वे
वेद्यस्य कवलयतः पृथिव्यादिरूपस्य वेद्यप्रमातुस्तत्कवलने व्याप्तौ
साधनं शब्दादिपञ्चकं शब्दादिभिः खलु स्वधर्मभूतैः साधनैः
पृथिव्यादयो वेदकं बध्नन्ति । तत्र शब्दादयो जडत्वाद्वेदकस्य साधनं
विमर्शरूपत्वादजडं श्रोत्रादिकमनुजीवन्ति । श्रोत्रादीनामेव
शब्दादिव्याप्त्यनुसन्धानेन शब्दादीनां व्याप्तिप्रसादसिद्धिरिति भावः । अतो
वेद्यप्रमाणस्य वेदकप्रमाणसापेक्षकार्यकारित्वम् । तच्च चैत्यं
प्रमातृचित्तत्त्वमेव नियमादनुजीवति । चित्तत्त्वाभावे
चैत्यव्याप्त्यनुसन्धातुरभावाच्चैत्यव्याप्तेरसिद्धिरेव । अपि च
चैत्यस्वरूपस्याप्यसिद्धिः प्रथत इति चैत्यव्याप्तिपदे चितः
शिरोदर्शनमवश्यमिति चिद्व्याप्तिपदे चैत्योच्छेद इव चैत्यव्याप्तिपदे चितो
नोच्छेदः । अतश्चैत्यं स्वव्याप्तिपदे चित्सहितमेवेति भेदस्योपपत्तिरिति तात्पर्यम्
। चित् स्वमिवात्मानमिव एतच्चित्तत्त्वं कर्म नात्यश्नुते नात्यन्तमुत्सादयति
तत्तस्मात्कारणादिदं चैत्यं विभेदि भेदवत्
प्. ३४)
जाड्यादचिन्न विमृशत्यपि मातृभावे
तां चित्कलेव गिलितात्मपदां मृशन्ति ।
मोहेन कल्पयति मातृदशाममुष्या
व्याप्तिर्हि मातृपदलक्षणतोपपन्ना
उक्तमेवार्थं स्फुटीकरोति - जाड्यादित्यादि । अचित् चैत्यं मातृभावेऽपि
स्वव्याप्तिकपदेऽपि जाड्याद्धेतोर्न विमृशति । न हि पृथिव्यादौ
चैत्यविमर्शः तां अयति संपादयति । एवं चेद्विमर्शवतो वेदकस्येव
वेद्यव्याप्तिपदेऽपि प्रमातृत्वमस्त्विति चेत् नेत्याह । अव्याप्तेर्मातृलक्षणत्वं
व्याप्तिमात्रतावच्छिन्नप्रमातृलक्षणरूपविमर्शवतोऽपि वेदकस्य
तृतीयपदमपि व्याप्यत्वाभिमानदोषेण व्याप्यत्वान्न प्रमातृत्वमिति
तात्पर्यम्
मानं तृतीयपदभागपि बाह्यतस्तु
मध्ये विमिश्रणमिदं खलु मेयमात्रोः ।
मिश्रं हि मध्यमपदे निखिलस्य दृष्टं
द्वैरूप्यमस्य च नपुंसकता च धाम्नः
इदानीं स्पर्शार्धस्य जाग्रद्रूपस्य प्रमाणात्मनः सूर्यस्य
मेयमातृमिश्ररूपतया तदुभयसिद्ध्यनन्तरं सिद्धिरापन्नेति तृतीय
(पदत्वे स्वीकृते) स्वयं कृते स्वपदौचित्यं कथं
मध्ममरूपद्वितीयपदौचित्यमित्याशङ्कां परिहरति - मानमित्यादि ।
मानं प्रमाणं तृतीयपदभागपि बाह्यतस्तु मध्यविश्रान्तिपदे
निराग्रहरूपेण सिद्धस्वरूपयोर्मयमात्रोर्बाह्यतयाऽन्योन्यव्यातिस्वभावतया
तत्स्वभावपरिग्रहसन्नाहरूपप्रमाणस्य द्वितीयकक्ष्यारोहित्वम् । एतदुक्तं
भवति । विश्रान्तावन्तर्मुखयोर्मेयमात्रोरन्योन्यव्याप्त्याग्रहानुदयात्स्वा##-
तयोराग्रहोदयेनाभिमुख्यं भजतोर्मध्ये प्रमाणपदाविर्भाव इति
वेदितव्यम् । अतस्तृतीयपदत्वं बहिर्मध्यकक्ष्यारोहेण द्वितीयपदत्वं
प्रमाणस्येति निष्कर्षः । अक्षरार्थस्तु मानं तृतीयपदभान्यपि बाह्यतस्त्विति
बाह्ये विशेषकथनादिदमन्तरेति गम्यते । बाह्यतस्तु मध्यम् । अत्रोपपत्तिमाह
- इदं प्रमाणं मेयमात्रोः विमिश्रणं
अन्योन्यभावग्रहणमार्गत्वात्सन्निपातपदं व्यामिश्रणपदस्य
मध्यत्वोपपत्तिमाह । निखिलस्य वस्तुनोऽहोरात्रादेर्मिश्रं सन्ध्यारूपं पदं
मध्यमपदे दृष्टं तस्य धाम्नः पदस्य द्वैरूप्यं द्विस्वभावत्वं
शक्तिशिवात्मकतया स्त्रीपुमात्मकमेयमातृसङ्करतया नपुंसकता चेति
वेदितव्यमिति शेषः
प्. ३५)
रश्मीननूदयति बिम्बमतः स्वरेषु
सर्गः सितांशुरणुबिन्दुरिनश्च कादौ ।
यादौ शिखी महितबिन्दुरिति त्रिखण्ड्या
वर्णक्रमेण विदितं त्रिमहोमयत्वम्
अथ स्वरादीनां प्रसिद्धं चन्द्रादिभावं सोपपत्तिकं प्रतिपादयति -
रश्मीनित्यादि । बिम्बं सूर्यादीनां बिम्बं रश्मेरनु किरणानां
पश्चादुदयति । अवयवोदयानन्तरमवयव्युदय इति बहुमतमित्यर्थः । अतः
तस्मात्कारणात् स्वरेषु विसर्गः सितांशुश्चन्द्रः अधिष्ठितश्चेति शेषः ।
अकारादिविन्द्वन्तानां पञ्चदशस्वराणां विसर्गापेक्षया
प्रथमोच्चारणमेव प्रथमोदयोपलक्षकतया चन्द्रकलात्वसमर्पकम् । एवं
चाकारादिबिन्द्वन्तपञ्चदशस्वराः कलाः षोडशकलारूपो
विसर्गश्चन्द्रस्वरूपमित्युपपादितम् । तथैव कादौ स्पर्शकदम्बके
अणुबिन्दुः परिच्छिन्नबिन्दुः अन्योन्यान्तर्गतमेयमातृमिश्रस्वभावतया
सा(?)पादिभान्तचतुर्वर्णकलाद्वयरूपाङ्गाङ्गिरूपः इनः
सूर्यो वाधिष्ठातेति शेषः । सूर्यस्य द्विस्वभावत्वादक्षरद्वयात्मकाः कलाः
। अतः ककारादिनकारान्तैर्विंशत्या वर्णैर्दशकलाः सम्पद्यन्ते । तासां च
पूर्ववदवयवकलात्वविवेकः । एकादश्या द्वादश्याश्च कलाया
यादिस्वरूपायाश्च तथा । यरलवादौ वर्णगणे महितबिन्दुः
(अत्रोपेतव्यः) अनग्न्योपेतव्यः शिखी अनलः अधिष्ठातेति शेषार्थः
पूर्ववत् इति वर्णक्रमेण त्रिखण्ड्या मातृकाखण्डत्रयस्य त्रिमहोमयत्वं
चन्द्रादितेजस्त्रितयस्वभावत्वं विदितम् । अत्रायं सारो बिन्दु क्षकारादेः
साम्प्रदायिकोपदेशः प्राक्प्रतिपादिते स्वप्नमध्यपदे मार्ग इव अत्रापि
जाग्रन्मध्यपदे मार्गे
चैत्यचित्पर्याययोर्विसर्गबिन्द्वोरन्योन्यनिलीनतालक्षणश्लेषः
सुप्त्यादिपदत्रयावबोधके स्वरादिखण्डत्रये विभाव्यः । स्वरेषु
तावदेकमात्रद्विमात्ररूपा बिन्दुविसर्गकलाः
प्रथमद्वितीयोच्चारणोपलक्षितयोरन्तर्बहिःकक्ष्ययोः स्थिताः । तथैव
तत्पर्यन्ते समुच्चारणप्रयत्नोपलक्षितान्तर्बहिः प्रसरणौ बिन्दुविसर्गौ तौ
तदत्र जडविश्रान्तिपदसुषुप्तौ बहिर्विसर्गोऽन्तर्बिन्दुरिति शक्तेरभ्यन्तरे शिव इति
चैत्यपर्यायशक्तितत्त्वाद्यवस्थादयः । अथाजडविश्रान्तिरूपस्वप्नावबोधके
व्यापकवर्गे यवर्गस्येषत्स्पृष्टाविषयत्वेन भेदप्रमातृकलात्वात्
विसर्गकलात्वं शवर्गस्य
विवृतताविषयत्वेनाभेदप्रमातृबिन्दुकलात्वप्रवृत्तिनिवृत्तिमेलनात्मनो
व्यापकवर्गस्य उभयपर्यन्तगतौ मकारक्षकारो
भेदाभेदकलाधिष्ठातारौ विसर्गबिन्दू । अत्रापि
प्रथमद्वितीयोच्चारणोपलक्षिते अन्तर्बाह्यकक्ष्ये अतो बिन्दुगर्भे विसर्ग इति
शक्तेरभ्यन्तरे शिव इत्यस्य स्वप्नात्मनो विश्रमपदस्य
शिवतत्त्वतयाध्यवसायः । अथान्योन्यग्रहणपदजागरावस्थाबोधके
स्पर्शस्कन्धे
कार्यज्ञेयरूपपृथिव्यादिगन्धादिरूपदशविषयकरणज्ञानसाधनरूपप्
आयवादिघ्राणादिदशेन्द्रिययोगाद्दशकलानिष्पत्तिः । तत्र विषयाणां
जडत्वाद्विसर्गरूपता इन्द्रियाणामजडत्वाद्बिन्दुरूपता । अत्र ग्रहणपदे
कादीनां प्रथमोच्चारणरूपः
पूर्वनिपातोऽभ्यर्हिंतग्राहकत्वमभिव्यक्तिद्वारा वेद्यतत्त्वस्य
प्रथमव्याप्तिमुपपादयैत् । सुप्तिस्वप्नयोस्तु विश्रान्तिपदत्वाद्बिन्दुविसर्गयोः
पूर्वनिपातोऽभ्यर्हितविश्रान्तिताभिन्नान्तरत्यन्तनिलीनतामापादयति । इति
निरवद्यं प्रमेयं स्पर्शपर्यन्ते
पादिभान्तवर्णचतुष्कसंबन्धिद्विद्विवर्णनिष्पन्नं कलाद्वयं
विन्दुविसर्गरूपमधिष्ठातृद्वयं प्रमाणकलानां मेयमातृमिश्रतया
द्विद्विवर्णनिष्पन्नत्वाद्वर्णचतुष्केणाधिष्ठातृतदङ्गबिन्दुविसर्ग##-
विसर्गांशव्याप्तिः प्रवृत्तिपदे । अथ निवृत्तिपदे वेदकव्याप्त्यां
खण्डत्रयेऽपि विन्द्वंशव्याप्तिरित्यनुसन्धेयम्
प्. ३४)
खण्डक्रमेण शशिनो दहनाङ्गतोक्ता
तद्व्युत्क्रमेण जडभानुगुणत्वमग्नेः ।
खण्डेषुच क्रमविलोमजपेन चैत्य-
चित्योः परस्परपदाक्रमरीतिरुक्ता
खण्डत्रयस्य प्रथमं स्वरादिपाठस्तदनन्तरं व्यापकादिपाठश्च
प्रथमं वेद्येन वेदकाक्रमणं पश्चाद्वेदकेन वेद्याक्रमणं बोधयतीति
उत्तरेण सूत्रेणाह - खण्डक्रमेणेत्यादि । खण्डक्रमेण
स्वरादिखण्डानां क्रमेणानुलोमपाठेन शशिनश्चन्द्रस्य दहनाङ्गता
दहनः अङ्गं यस्येति विग्रहः । तद्भावस्तत्ता । उक्ता । तद्व्युत्क्रमेण तेषां
खण्डानां व्युत्क्रमेण विलोमपाठेन अग्नेः जडभानुगुणत्वं
जडभानुश्चन्द्रः गुणोऽङ्गं यस्येति विग्रहः । पूर्ववत्
उक्तमित्यनुषञ्जनीयम् । अ(त्र)खण्डानां क्रमव्युत्क्रमोक्त्या
अकारादिक्षकारान्तवर्णानां क्रमव्युत्क्रमपाठोक्तिरसती स्फुटेति
स्फुटत्वायाह - खण्डेषु चेति । खण्डेषु च क्रमविलोमजपेन क्रमः
अनुलोमः विलोमस्तद्विपर्ययः तथाविधेन जपेन चैत्यचित्योर्विसर्गबिन्द्वोः
परस्परमाक्रमरीतिः आक्रमः आक्रमणं रीतिः प्रक्रिया उक्ता । अनुलोमजपेन
चैत्येन चिदाक्रमणं विलोमजपेन चिता चैत्याक्रमणमिति योजना
प्. ३८)
स्वप्नश्च जाग्रदपि वासरपूर्वयामौ
तुर्यं पदद्वयवदुत्तरयामयुग्मम् ।
सुप्तिस्तुरीयलयभुः प्रथमं क्षपार्धं
स्वप्नप्रजागरदशालयभूर्द्वितीयम्
इति श्रीमातृकाचक्रविवेके तात्पर्यविवेकः प्रथमः खण्डः
अथ स्वप्नमध्यमे मार्गे दशानां पुनः पुनरावृत्त्या कालरूपतां
व्यवस्थापयति - स्वप्नश्चेत्यादि । अहोरात्ररूपः खलु कालः
अष्टयामात्मकः । तत्र स्वप्नश्च जाग्रदपि वासरस्य प्रहमयामः स्वप्नः
सुषुप्तिरूपिण्या रात्रेरनन्तरं प्रवर्तमानत्वात् । वासरस्य द्वितीययामो
जाग्रत्स्वप्नानन्तरं प्रवर्तमानत्वात्ग्राहकरूपेण प्रमाणरूपभेद
स्फुरणपरमावधित्वाच्च पदद्वयवत् ।
निवृत्तिजाग्रत्स्वप्नरूपपदद्वययुक्तं तुरीयम् उत्तरयामयुग्मं वासरस्येति
संबन्धः । तत्र तुर्यजाग्रत्तृतीययामभेदः संसारस्य
निवृत्तिप्रारमभरूपत्वात् तुर्यस्वप्नश्चतुर्थयामः भेदरवेः रूपजाग्रतो
भेदसन्तापस्यातिमात्रनिवृत्तेः । अथ तूरीयलयभूः
उक्तनिवृतीजाग्रत्स्वप्नरूपतुरीयतादशाविश्रान्तिभूमिः सुप्तिः । सुप्तिः खलु
भेदाभेदरूपाणां संसारदशानां विश्रमपदं कारणरूपत्वात् ।
अतस्तुर्यजाग्रद्विश्रान्तपदं सुषुप्तिरूपिण्या रात्रेः प्रथमयामः ।
तुर्यस्वप्नविश्रान्तपदंद्वितीययाम इति तुरीयलयभूः सुप्तिः प्रथमं
क्षपार्धं यामद्वयं स्वप्नजागरदशालयभूः सुप्तिः द्वितीयं
क्षपार्धं स्वप्नविश्रमपदं तृतीययामो जाग्रद्विश्रमपदं
रात्रिचतुर्थयाम इति सम्यगनुभवतां हृदयङ्गमप्रमेयतया
मन्त्रार्थप्राणभूतत्वाच्चैतदुपदिष्टम् । अथ
प्रकरणपरिसमाप्तिवाच्यग्रन्थस्योपपत्तिमन्नामोद्देशमुपदिशन्नेतरस्य
ग्रन्थप्रमेयाङ्गतां स्फुटीकरोति - इतीत्यादि । अत्र मातृकाशब्दस्य
तन्त्रेण द्विरुक्तिरवगन्तव्या तेन मातृका च मातृकाचक्रं चेति लभ्यते ।
तयोर्विवेकोऽत्रेति विग्रहः । मातृका मन्त्रो मातृकायाश्चक्रं
मातृकाचक्रं मातृकावर्णसन्निवेशवशेन संभूतं चक्रं
मातृकैव चक्राकारेण सन्निवेष्टेति भावः । तहा हि मन्वस्रे
अकाराद्यौकारान्तचतुर्दशस्वरेषु विन्दुकलानां सप्तानामेकभागे
सन्निवेशः विसर्गकलानां सप्तानामन्यभागे चक्रमध्ये प्रतिकोणं
कोणाभ्यन्तरभागविभावितेषु चतुर्दश दलेषु
दलमूलविभावितवृत्ताकारदलतत्कर्णिकावृत्तरूपदलसहितेषु षोडशसु
षोडशदलपद्मरूपविन्दोर्विसर्गचन्द्रस्तेष्वेव दलेषु
एकैकदलव्यवहितदलाष्टकसंभाविताष्टदलपद्मबिम्बो बिन्दुवह्निरिति
बिन्दुविसर्गवर्गयोः
प्. ४०)
सन्निवेशः विसर्गव्याप्तेः प्राधान्ये विसर्गस्य बहिर्निवेशः
बिन्दोस्त्वन्तर्व्याप्यत्वेनाभिमतत्वाद्बिन्दुव्याप्तौ बिन्दुपदे बाह्यत्वाभिमानः
विसर्गपदेऽन्तरभिमान इत्यभिमानस्योभयाकारसंभवादनवद्यम् ।
दशारयुग्मे विस्ऽयेन्द्रियरूपविंशतिवर्णानां विंशतिकोणेषु
यथाभिमुख्यं सन्निवेशः बहिर्दशारबाह्ये
विदिक्चतुष्टयोपलक्षितमर्मचतुष्टयस्य
प्रतिपदमन्तर्भागविभावितत्रिकोणचतुष्टये
प्रकृत्यादिमनोऽन्ततत्त्वरूपाणां पादिभान्तानां सन्निवेशः । अथवा
वेद्यवेदकरूपे कादिभान्तवर्णकदम्बके कादयो द्वादशवर्णा वेद्यरूपा
अवरोहक्रमेण भकारप्रभृतिद्वादशवर्णा वेदकरूपाः तेषां
यथाक्रममन्वयेन द्वादशकलानिष्पत्तिः । तत्र प्रथमतः कलाद्वयं
बिम्बरूपं इतराः कला अवयवभूताः कोणेषु सन्निवेश्याः ।
वेद्यवेदकव्याप्तिप्रक्रिया पूर्ववत् । अष्टकोणे एकतो भागे चतुर्षु कोणेषु
यादिलान्तवर्णचतुष्टयसन्निवेशः । अन्यतो भागे चतुर्षु कोणेषु
शादिहान्तवर्णचतुष्कविन्यासः । यादिचतुष्कमूले शादिचतुष्कान्ते च
त्रिकोणबिन्दुरूपचक्रद्वये गुणत्रयावृतगुणोत्तीर्णजीवशिवरूपयोः
मकारक्षकारयोः सन्निवेशः तयोरन्योन्यव्यापकतयाभिमुख्येन
चक्राद्यन्तोपलक्षके चक्रमध्ये विनिवेश इत्यनवद्यम् इति
वर्णसन्निवेशप्रक्रिया किञ्चिदुन्मीलिता मन्त्रार्थानुरोधेन
मतिमद्भिर्वर्णसन्निवेशाच्चक्रे विशेषवत्तया कृतोऽपि
अर्थाविशेषाभावात्प्रतिपादितेन सवर्णानुरूपेण अनुरुध्यत इत्यनवद्यम् ।
द्विवेकरूपः । इदं च प्रकरणं ग्रन्थतात्पर्यप्रमेयमित्युक्तमिति शिवम्
विद्यामातृविवेचने पुरभिदः प्रज्ञापि
संमुह्यतीत्यर्थाद्दशारयुतद्विदशारचतुर्विंशतिदलविवेके तन्नेत्यनेन
कलाद्वादशके रवेर्दशावयवकला सद्विस्वरूपकले वेदितव्ये । अष्टकोणे
चैवमष्टदलविवेके वह्न्यवयवकला ।
प्. ४१)
चक्रं (त्रित्रिककोण) यत्संनिवेशोवहिर्मन्वस्त्रे प्रथितस्तदत्र न हि मे
गर्हा प्रमादे गिराम् ॥
मातुर्मन्त्रतनोर्मिंथश्च समये मययन्यतो दुर्लभ ।
स्वाङ्गक्रीडनयोग्यतावितरणाद्यत् (?)पुत्रकोऽहं कृतः ॥
शिवानन्देन मुनिना देशिकादेशवर्तिना ।
व्याख्यातं मातृकाचक्रविवेके प्रथमं पदम्
अथ द्वितीयः खण्डः ।
मायाबलात्प्रथमभासि जडस्वभावं
विद्योदयादथ विकस्वरचिन्मयत्वम् ।
सुप्त्याह्वयं किमपि विश्रमणं विभाति
चित्रक्रमं चिदचिदेकरसस्वभावम्
अथ मन्त्रखण्डानां दशाचतुष्टयाभिधानप्रक्रियां
प्रतिपदमारभमाणस्तत्रादौ जीवशिवयोर्विश्रान्तिपदत्वेन
सर्वसंसारबीजरूपतया चाभ्यर्हितां सुषुप्तिं तदवच्छेदके स्वरखण्डे
वितत्य विवरिष्यन् जडाजडरूप(त)यासुप्ति(प्ते)रेकपदे
सामरस्येन स्थितिचमत्कारमभिष्टौति । मायेत्यादि । चिदचिदेकरसस्वरूप
चिदचितोस्तत्त्वयोर्य एको रसः गजवृषभचित्रन्यायादन्योन्याऽविरोधेन
एकपदानुप्रविष्टोभयतत्त्वमध्यसम्भूतो रसः । यत्र रसे जडस्याऽजडस्य च
तत्त्वस्य प्रत्येकं भागकरणं विना सर्वत एव स्वरूपानुप्रवेशः
यदैकस्मिंशिच्त्रविशेषे गजवृषभयोः प्रत्येकमनुप्रवेशो भागकरणं
विनैव साकल्येन तद्वत् । सोऽयं जडाजडमध्यैकरसः स्वभावः स्वरूपं
यस्य तत्सुप्त्याह्वयं सुप्तिरिति व्यवह्रियमाणं किमपि अनिर्वचनीयं
अनुभवैकवेद्यमिति यावत् । विश्रमणं विश्रान्तिः विभाति
सर्वस्यानुभवविषयं स्फुरति । एतत्सुषुप्तिविश्रमणं विशेषण मुखेन
स्फुटं व्युत्पादयति । चित्रेति मायेत्यादि च । चित्रस्याऽलेख्यविशेषस्य
गजवृषभश्लेषकादेः क्रम इव क्रमः प्रकारो यस्य तत् । एकस्मिन्नेव
सुप्तिविश्रमे जडाजडपर्याययोर्विसर्गबिन्द्वोः प्रत्येकं सर्वतोऽनुप्रवेश इति ।
चित्रविशेषसादृश्यं सुप्तिदशाया जडत्वं तावत्सर्वस्यानुभवसिद्धत्वात्
सम्प्रतिपन्नम् । अजडत्वं तु एतावन्तं कालं सुखमहमस्वाप्समिति
सुप्त्यन्तसम्भावितसुषुप्तिसुखानुवादेन गम्यते । चित्रशब्दस्य
अद्भुतार्थत्वमप्यवगन्तव्यम् । एकस्यां सुप्तौ
अन्योन्यविरुद्धजडाजडसामरस्यमद्भुतमिति । एवं सुप्तिविषययोः
जडाजडप्रतीत्योर्मध्ये जडप्रतीतेः प्राथम्यमुपपादयति मायेति । मायैव
विद्यातो बलीयसी बाह्यकक्ष्याविलसनशीलतया पाश्चात्यस्फूर्तिः
स्फूर्तिप्राथम्यलक्षणं बलीयस्त्वं न लभते । उत्पत्तौ तु विद्याया एव
प्राथम्यं न मायायाः अतो मायाबलात् सुप्तिविश्रमणप्रथमभासे
जडस्वभावं अथ विद्योदयादविकस्वरचिन्मयत्वं चित्सामरस्येन
निस्पन्दस्ये(स्यै)व (चित्)तत्त्वस्य
युगपज्जडाजडान्योन्यव्या(प्ति)पिरूपस्पन्दं चमत्कारश्चेति ।
सामरस्यजडाजडपर्यायाणामिच्छाज्ञानक्रियाणां यामलत्वमेव
सिद्धान्ततया मन्त्रेणोच्यत इत्यवगन्तव्यम् । अतः सुप्त्यादिदशासु सामरस्यं
स्पन्दद्वयं च यामलं च सर्वतो विभावनीयम् । इच्छाज्ञानक्रियापर्यायस्य
सामरस्यस्पन्दद्वयात्मनः पदत्रयस्य यामलत्वादेव एतदनन्तरमेतदिति न
क्रमो नियतः ॥ अत एव तत्त्रितयबोधकानां मन्त्रखण्डानां न
पौर्वापर्यक्रमः । तदात्मनो महाचक्राङ्गभूतचक्रत्रितयस्य च न
क्रमनियम इति सर्वत्र स्कन्धत्रयस्य प्रत्येकं प्राधान्याभिव्यक्त्यर्थं
तत्तदाद्यावर्तप्रक्रिया प्रागुपपादिता ॥ १
प्. ४४)
माता नभःक्षितिविमिश्रपदं प्रमाणं
वायुः शिखी च सलिलं च मही च मेयम् ।
ज्ञानात्मपूर्वपठितं युगलत्रयेऽपि
पश्चादुदीरितमिहाभिमतं क्रियात्म
अथ स्वरवर्णप्रस्तावे सर्ववर्णानां सामान्यभूतं
भूतपञ्चकाभिधायकत्वं व्युत्पादयिष्यन् भूतपञ्चकस्य
सकलसंसारकलापभूतप्रमातृप्रमाणप्रमेयात्मतां व्युत्पादयति ।
मातेत्यादि । नभः क्षित्योर्विमिश्रपदं माता । देहात्मनोः
पृथिव्याकाशरूपयोरुभयोरपि प्रमात्रभिमानविषयत्वात् । वायुः शिखी च
उभयं प्रमाणं शिखी वह्निः सलिलं च मही च उभयं प्रमेयं
देहात्मनोरन्यतरस्मिन् प्रमातृत्वाभिमाने इतरस्य प्रमेयत्वमिति ।
पृथिव्याकाशयोरुभयोरपि प्रमेयत्वं सम्भवत्येव ।
अत्रा(काशा)त्मनः प्रमातृत्वपक्षापेक्षया पृथिव्याः
प्रमेयत्वमुक्तमिति मन्तव्यम् ॥ ज्ञानक्रिययोरित रेतराऽविनाभावस्वभावत्वात्
॥ प्रमात्रादिपदत्रये प्रत्येकपदं तयोर्द्वयोरपि स्थितिरिति तद्विभागमाह
ज्ञानात्मेत्यादि । युगलत्रयेऽपि नभःक्षितिवायुशिखिसलिलमहीरूपे
युग्मत्रयपूर्वपदे तन्नभोवायुसलिलरूपं ज्ञानात्मा । पश्चादुदीरितं
क्षितिशिखिमहीरूपं क्रियात्म । ज्ञानम्प्रमाता आकाशः क्रिया प्रमाता
क्षितिरूपो देहः ज्ञानं प्रमाणं वायुः क्रिया प्रमाणं वह्निः ज्ञानं
प्रमेयं सलिलं क्रिया प्रमेयं महीति विभागः । अयं विभागः उत्तरत्र
ज्ञानक्रियाप्रमात्रोरितरेतरव्याप्तौ प्रमाणादिपदद्वयेऽपि तत्तदंशत्वं
भवेदिति तत्रोपयुक्ततयाऽत्र प्रदर्शित इति मन्तव्यम्
प्. ४५)
वर्णाः स्ववायुशिखितोयधराः क्रमेण
स्युः कण्ठतालुकशिरोरदनोष्ठजातः ।
स्थानोच्चयापचयजौ महदल्पभावौ
स्याद् व्युत्क्रमः पशुपदे सलिलानिलादौ
एवं प्रमात्रादिरूपतया सकलसंसारकलापस्य भूतपञ्चकस्य
वर्णबोध्यत्वं सम्बन्धप्रवचनपूर्वं व्युत्पादयति - वर्णा इत्यादि ।
कण्ठतालुकशिरोरदनोष्ठजाताः कण्ठादिपञ्चस्थानसम्भूता वर्णाः
अकारकवर्गहकाराः कण्ठजाः इकारचवर्गयकारशकारास्तालुजाः
ऋकारटवर्गरेफषकाराः शिरोभवाः ऌकारतवर्गलकारसकारा
दन्तजाताः उकारपवर्गवकारा ओष्ठजा इति वैयाकरणमतानुसारेण वेदितव्यम्
। उभयसन्धिरूपाणां सन्ध्यक्षराणामुभयरूपता कूटाक्षरस्य
स्थानकूटजन्यत्वमिति विवेकः । कण्ठाद्योष्ठान्तपञ्चस्थानजाता वर्णाः
क्रमेण खवायुशिखितोयधराः आकाशादिपृथिव्यन्तपञ्चभूतबोधकाः ।
बोध्यबोधकयोरभेदोपचाराद्वर्णानामाकाशादित्वोक्तिः ।
कण्ठादिस्थानजातानां वर्णानामाकाशादिबोधने सम्बन्धमुपपादयति
- स्थानेति । महदल्पभावौ आकाशादीनां महावृत्त्यल्पवृत्तित्वेन
मिथः प्रसिद्धानामन्योन्यापेक्षया महानल्पश्च उभौ भावौ स्वभावौ
स्थानोच्चयापचयजौ स्थानस्य कण्ठादेः उच्चयः उच्चत्वं अपचयो नीचत्वं
ताभ्यां जायेते सम्भाव्येते इति तज्जौ । अयमत्राभिप्रायः - वर्णानां
सुप्त्यादिदशावबोधने यथा सदृश्यं सम्बन्धः
तेषामाकाशाद्यवबोधने च सादृश्यमेव सम्बन्धः । स्थानपञ्चके
कण्ठस्य सर्वोन्नतस्थानतया तद्भवो वर्णो महावृत्तिर्भूतपञ्चके
महावृत्तिमाकाशं सादृश्येनावबोधयति । एवं तालुभवः
शिरोभवाद्यपेक्षया महावृत्तिरास्याद्यपेक्षया महावृत्तिं वायुं
सादृश्येनैव बोधयति । एवमन्यदप्यूह्यम् । शिरसः पञ्चसु स्थानेषु
मध्यत्वेनाभिमतत्वात् सर्वोच्चत्वं नाऽशङ्कनीयम् ।
कण्ठजादीनामाकाशादिबोधनं पशुपदे व्युत्क्रमं भजतीत्याह स्यादित्यादि
। चैत्यव्याप्तिमत्खलु पशुपदं तत्र व्याप्तिपरिग्रहेण पृथिव्या
आकाशभावः व्याप्तिभ्रंशादाकाशस्य पृथिवीभावः । तथा
नीलकण्ठजैर्वर्णैराकाशभावं प्राप्ता पृथिव्युच्यते ।
तालुभवैर्वायुभावं प्राप्तं सलिलमुच्यते । शिरोभवैरजडांशकस्याहारो
जडांशकोटिर्वह्निरुच्यते । वह्निर्जडाजडरूपं तेजः वायुरजडरूपं तेजः
सलिलं जडतेज इति जाग्रत्स्कन्धे वक्ष्यमाणत्वात् । दन्त्यौष्ठ्यवर्णैः
पृथिव्युदकरूपौ वायवाकाशावुच्येते । सर्वत्रैव क्रिया व्याप्तिमती पशुपदे
क्रियारूपा पृथिव्येव ज्ञानांशं जलं व्याप्नोतीति दन्त्योष्ठ्ययोः
पृथिवीजलबोधकत्वमेवोपपन्नम् । लकारवकारयोर्दन्त्योष्ठ्ययोः
पृथिवीजलबीजत्वं प्रसिद्धमिति ततोऽपीदमुपपन्नम् । एवं च वर्णा
विवृतत्वादिप्रयत्नोपघटितसुषुप्त्यादिसादृश्येन सुषुप्त्यादिबोधकाः
कण्ठादिस्थानोपघटितव्याप्तितारतम्यरूपेण आकाशादिसादृश्येन
आकाशादिबोधकाः सम्बन्धद्वयान्वयेन सुषुप्त्यादिविषयाकाशादिबोधका
भवन्तीति मन्त्रस्य तत्त्वरहस्यप्रतिपादकता परमोपपत्तिमती
प्. ४६)
इच्छाद्वयं भवति तालुभवोष्ठ्यवर्णौ
मूर्धन्यदन्त्यतनुमानयुगं क्रियादि ।
सङ्कोचभावतदभाववशादकारः
सर्गोऽपि बिन्दुरपि सन् श्रितमातृभावः
अथ सकलसंसारकारणरूपायां सुप्तौ
कार्यकारणयोरेकरूप्यनियमाद्वासनारूपेण सर्वसंसारसंविधानेन
भवितव्यमिति । आ(अ)कारादिषु पञ्चस्वरेषु भेदाभेदरूपवासनां
संसारसन्नाहमुपदर्शयति । इच्छेत्यादि । तालुभवौष्ठ्यवर्णौ इकारोकारौ
इच्छाद्वयं भवति । जडाजडप्रमात्रोर्विसर्गबिन्द्वोरिति
सूत्रान्तोपदिश्यमानविसर्गबिन्दुप्रमातृसम्बन्धेन लभ्यते ।
इकारोकारयोर्व्याप्य पद एवेच्छात्वं वेदितव्यंनतु व्यापकपदे
विसर्गव्याप्तौ । विसर्गरूपः अकार एवेच्छा इकारस्तत्साधनं भवति ।
अकारेकारयोः क्रियात्वेनेकारस्य भावः । बिन्दुव्याप्तावपि बिन्दुरूपः अकार
एवेच्छा उकारस्तु तदेकाकारतां लभते ज्ञानरूपत्वात् । ततः यदापि विसर्गो
व्यापी तदा उकारस्य बिन्द्विच्छात्वं बिन्दोरूपरूपत्वात् । यदा बिन्दुर्व्यापी तदा
इकारो विसर्गेच्छा तदुपरूपत्वादिति विवेकः । मूर्धन्यदन्त्यौ ऋकारऌकारौ
तत्तनु तत्स्वरूपं । क्रियादिमानयुगं कर्मेन्द्रियज्ञानेन्द्रियरूपं
प्रमाण्युगलमित्यर्थः । सङ्कोचभावतदभाववशात् सङ्कोचभावो
भेदरूपता तदभावस्त्वभेदरूपता । तद्वशात् अकार एव विसर्गो बिन्दुरपि
संश्रितमातृभावः प्रमातृभावं श्रयतीत्यर्थः । इदमत्र रहस्यम् ।
अकार एवाभेदरूपो बिन्दुः अकार एव भेदरूपो विसर्गः तयोर्बिन्दुविसर्गयोः
सामरस्यपदमप्यकार एव । सामरस्यपदे निष्पन्द एवाकारः
ज्ञानक्रियारूपबिन्दुविसर्गेच्छारूपेण बहिःस्पन्दचमत्कारं परिगृह्णाति ।
तत्रादौ यदा विसर्गरूपेण स्पन्दते तदा
प्रमातृभूतविसर्गरूपाकारस्पन्दसमकालमेव
इकारादिवर्णचतुष्टयात्मकस्त्रीपुंरूपः संसारकलापश्चाकारगर्भादेव
बहिःस्पन्दते । यदा बिन्दुरूपेणाकारस्पन्दः तदा बिन्दुना प्रमात्रा सहैव
निवृत्तिरूपः प्रागुक्तवर्णचतुष्टयात्मकः संसारकलापः
पूर्ववदकारगर्भादेव स्पन्दते । तदेवमकार एव सामरस्यपदमकारस्यैव ।
बिन्दुविसर्गरूपेण बहिः स्पन्दनमकारादेव
सकलसंसारकलापभूतभूतपञ्चकोत्पत्तिरकार एव
मातृकोदयविश्रान्तिस्थानमित्युपनिषत्
प्. ४८)
मूलद्वये स्फुरति मातृयमस्तदन्त-
रिच्छाद्वयं भवति मानयुगं तदन्तः ।
एतत्समं पदमतो विषमं द्विरूपं
चैत्योच्छ्रये स्फुरति जातु चिदुच्छ्रये च
अथानन्तरवर्णगर्भे वासनारूपेणावस्थितस्वस्पन्दद्वयवशात् बहिर्विलसितस्य
विसर्गबिन्दुसंसारद्वयसन्नाहसंस्थानस्य पदस्वरूपं दर्शयति ।
मूलेत्यादि मूलद्वये संसारकलापपदस्य उभयोर्मूलयोः मातृकायुगं
विसर्गविन्दुरूपं प्रमातृयुगलं स्फुरति तदन्तस्तयोरन्तः व्याप्यप्रदेशे
इच्छाद्वयं इकारोकाररूपं यथायोगं भवतीति सम्बन्धः विसर्गस्यान्तः
सन्निधौ इकारः बिन्दोरन्तः सन्निधौ उकार इति योजना । तदन्तस्तयोरिच्छयोरन्तः
व्याप्यप्रदेशे मानयुगं ऋकारऌकाररूपं प्रमाणद्वयं भवतीति
पूर्ववत्सम्बन्धः । विसर्गादकारादारभ्य अकारेकार##-
समं विसर्गबिन्द्वोः समव्याप्तौ पदं अतः अस्मात्पदाद्विषमं
असमानरूपं पदं द्विरूपं भवति । जातु कदाचित्
चैत्योच्छ्रययोर्विसर्गव्याप्तौ बिन्दोरकारस्यादर्शनं उकाररूपेणैव
तदवस्थानमिति पञ्चाङ्गत्वं जातु चिदुच्छ्रये चिद्व्याप्तौ
विसर्गरूपस्याकारस्यादर्शनं इकाररूपेणैव तदवस्थानं उकारस्यापि
बिन्दावकारेऽप्यैकरूप्यमिति चतुरङ्गता एवं विषमं पदमुत्तरत्र
प्रतिपादनपरीक्षया योजनीयम् । पञ्चाङ्गकस्य विसर्गपदस्य
सुप्त्याद्यवस्थात्रयसम्भाविते त्रैरूप्ये पञ्चत्रिकोणाः सम्पद्यन्ते ।
चतुरङ्गस्य बिन्दुपदस्यापि तथात्वे चत्वारस्त्रिकोणाः सम्पद्यन्ते । तथा च
पञ्चत्रिकोणरूपस्य शक्तिपर्यायस्य विसर्गस्य चतुस्त्रिकोणरूपस्य
शिवपर्यायस्य बिन्दोः समपदे अन्योन्यश्लेषेण नवत्रिकोणश्लेषात्मनः
श्रीमहायन्त्रस्य सम्पत्तिरिति वेदितव्यम्
प्. ४९)
साम्यं भवेत्प्रकृतमत्र चमत्क्रियैव
वैषम्यमद्भुततरा हि विमर्शवृत्तिः ।
निष्पन्दतां समपदे सततं भजन्ती
प्रस्पन्दते च चिदचित्कलितोच्छ्रितत्वात्
उक्तमर्यादया नवाङ्गरूपस्य समपदस्य पञ्चाङ्गरूपस्य विसर्गपदस्य
चतुरङ्गरूपस्य बिन्दुपदस्य च मध्ये स्वाभाविकवैकारिककक्ष्याविभागं
दर्शयति - साम्यमित्यादि । अत्र समविषमरूपे पदत्रये साम्यं समत्वं
प्रकृतं भवेत् । यद्यपि यामलन्यायेन पदत्रयस्य पौर्वापर्याभावात्
स्वाभाविकागन्तुकपर्यालोचनाया निरवकाशः तथापि
निष्पन्दविश्रान्तिरूपत्वेन समपदस्य स्वरूपपदद्वयापेक्षया
निर्विकारत्वमनुभवपदे स्फुरतीति तस्य प्रकृतत्वं मूलरूपत्वमिति यावत् ।
वैषम्यं स्पन्दरूपं विषमत्वं तु चमत्क्रियैव चमत्कारमात्रमेव तत्रापि
पर्यालोचने निष्पन्दस्वभावस्य भित्तिभूतस्यानुवृत्तत्वात् । कथं
स्पन्दास्पन्दयोर्विरुद्धयोः सामानाधिकरण्यमित्यत्राह - अद्भुतेत्यादि ।
विमर्शवृत्तिः सकलसंसारमूलभूतस्य महाप्रकृतेर्विमर्शस्य
वृत्तिर्व्यापारः अद्भुततरा हि । तदेवाद्भुततरत्वमभिधत्ते
निष्पन्दतामित्यादि । समपदे सततं नित्यं निष्पन्दतां भजन्ती ।
चिदचित्कलितोच्छ्रितत्वाच्चिदचितोः प्रमात्रा(त्राः)
संयोजितव्याप्तिरूपोच्छ्रितत्वात् प्रस्पन्दते च यौगपद्येन
निष्पन्दस्पन्दद्वयप्रक्रिया चैवं निष्पन्दस्वरूपानुभवकाले स्पन्दद्वयं
व्यवृत्तिरूएणाऽनुभूतत एव । अत्र निष्पन्दविश्रामे स्पन्दो न स्फुरतीति
स्पन्दद्वयमनुसन्धाय खलु तदस्फुरणमनुसन्धेयम् ॥ अओ निष्पन्दे पदे
व्यावृत्तिविषयतया स्पन्दयोरनुभवोऽपि नियत एव । एवं
जडस्पन्दानुभवकाले विश्रान्त्यजडस्पन्दयोर्व्यावृत्तिविषयतयाऽनुभवः
अजडस्पन्दानुभवकाले च विश्रान्तिजडस्पन्दानुभवश्चैवमेवेति । अथवा
सन्धिरेकाकारतया चैत्रमैत्रादीनामेकत्वे चैत्रो विश्रमते मैत्रो बहिर्मुखः
स्पन्दते देवदत्तोऽन्तर्मुखः स्पन्दते इति यौगपद्यं पदत्रयस्य । अतो
विमर्शवृत्तिरद्भुततरेति यथोक्तम्
प्. ५०)
चैत्यं यदोल्लसति सङ्घटितस्वकेच्छं
चित्स्वं स्वभावमणुमाश्रयते निजेच्छाम् ।
अन्तर्भवेदथ चिदुल्लसने तु चेत्यं
पञ्चाङ्गकं जडपदं चतुरङ्गमन्यत्
चैत्यमित्यादि । प्रबोधसौकर्याय प्राग्व्याख्या तस्य
विसर्गपदपञ्चत्वबिन्दुपदचतुष्ट्वप्रमेयस्येदं सूत्रम् । चैत्यं विसर्गः
बहिः पृथिवीरूपोऽन्तःप्रकृतिरूपः यदासङ्घटितस्वकेच्छं
(चवर्गेकार) चवर्गाकार इकारप्रतिपाद्यगन्धाद्यहङ्काररूपिण्या
यया स्वकीयेच्छया स्वयैव रूपान्तरेण सङ्घटितं सम्बद्धं सत् उल्लसति ।
तदा चित् अणुम् सङ्कुचितम् स्वम्स्वसम्बन्धिस्वभावं स्वरूपं निजेच्छां
अकार(उ)(व)कारप्रतिपा(द्य)द्यापरिमितप्रमातृरूप्
आम् आश्रयते तदाकारेण तिष्ठति । चिदुल्लसने तु चैत्यं विसर्गः तन्मयः
परिमितप्रमाता च अन्तर्भवेत् । चितीति शेषः । चैत्यस्वरूपान्तरमिच्छैव तिष्ठति
। अतः कारणात् जडपदं पञ्चाङ्गकम् । अन्यत् अजडपदं चतुरङ्गम्
प्. ५१)
अन्तर्बहिः करणजृम्भणयोरदीर्घ-
दीर्घस्वरेषु जडसंसरणं द्विरूपम् ।
ए ऐ इति द्वयमिहोल्लिखति क्रमेण
स्वीयेच्छया पदयुगे घटनं जडस्य
प्रमेयप्रमाणप्रमातृरूपकक्ष्यात्रयोपलक्षितानां स्वप्नादीनां
कारणरूपतया कक्ष्यात्रयवति सुषुप्तिपदे
पञ्चपञ्चरूपह्रस्वदीर्घस्वरवर्गद्वयविभक्तबिन्दुविसर्गपदात्मिकायां
प्रमेयकक्ष्यायां सुषुप्तिसुषुप्तौ तद्विश्रान्ततत्कारण भूतभेदा
भेदमिश्रप्रमातृसंसारवासनां व्युत्पाद्य इदानीं
सन्ध्यक्षरचतुष्करूपे सुषुप्तिप्रमाणपदे ग्राहकपदत्वात्
भेदादिप्रमातृसंसारविलासं दर्शयति - अन्तरित्यादि ।
अन्तर्बहिःकरणजृम्भणयोः क्रमादन्तर्बहिरिन्द्रियसमुन्मेषे च सति
जडसंसरणं परिमितप्रमातृसंसारः द्विरूपं
स्वप्नजाग्रद्रूपेणेत्यर्थः । तत्संसरणद्वयं कर्म ए ऐ इति वर्णद्वयं
कर्तृ अदीर्घदीर्घस्वरेषु पञ्चपञ्चात्मना पदद्वयरूपेण स्थितेष्वित्यर्थः
। अधिकरणसप्तमी ह्रस्वस्वरपदरूपे अधिकरण येकारः
स्वप्नरूपमन्तःसंसारमुल्लिखति बोधयति । दीर्घस्वरपदरूपे अधिकरण
यैकारो जाग्रद्रूपं बहिः संसारं बोधयति । ए ऐ इति द्वयं रूपं
सद्बोधयतीत्यत्राह क्रमेणेत्यादि । क्रमेण पदयुगे अन्तर्बहीरूपे जडस्य
प्रमातुः अन्तर्बहिः
प्. ५२)
पदयोरेकमात्रद्विमात्राकाररूपस्य स्वीयेच्छया
अन्तर्बहिरेकमात्रद्विमात्रेकाररूपया घटनं सत् सङ्घट्टनरूपं सत्
एकारः खल्वकारेकारघटनरूपः तत्रैवैकारे अकारेकारयोः
द्वितीयमात्रायोगेन निष्पन्नत्वात् अकारेकारघटनरूप ऐकारः । अत्रेदं
हृदयं । स्पर्शव्यापकबोध्ययोः जाग्रत्स्वप्नयोः संसारपदयोः
प्रतिपदमादौ प्रमेयकक्ष्या मध्यतः प्रमाणकक्ष्या अन्ततः
प्रमातृकक्ष्या चोपलक्ष्यते । तत्कारणरूपतया सुषुप्तावपि कक्ष्यात्रयम्
तत्रादौ ह्रस्वदीर्घरूपादश स्वराः प्रमेयकक्ष्याः सन्ध्यक्षरचतुष्टयं
प्रमाणकक्ष्या विन्दुविसर्गौ प्रमातृकक्ष्या । एवं सति प्रमेयकक्ष्या
जडविश्रान्तिपदं प्रमातृकक्ष्या अजडविश्रान्तिपदं प्रमाणकक्ष्या
जडाजडयोः संसारपदं तस्य संसारपदस्य विश्रान्तिमूलत्वाद्विश्रान्तिरूपे
प्रमेयपदे संस्थान(संसार)वासना इच्छाद्वयं भवतीत्यादि
सूत्रचतुष्टयेन निरूपिताऽनेन सूत्रेण सन्ध्यक्षररूपे प्रमाणपदे ए ऐ इति
वर्णद्वयं जडप्रमातुरन्तर्बाह्यसंसारौ प्रतिपाद्यते ।
प्रमाणत्वात्सन्ध्यक्षराणां द्विद्विवर्णरूपता । सुषुप्ते विश्रान्तिपदत्वेन
तत्रेच्छामात्रस्यैव संसारस्योपपत्तिः । अकारस्य विसर्गस्येच्छायामिकार##-
योग एव विसर्गस्य चित्पदग्राहकत्वमिति । एकारस्य ग्राह्यग्राहकोभयरूपता ।
एवमैकारादिष्वपि योज्यम् । स्वप्नप्रमातुरेव बहिर्मुखत्वेन
जाग्रत्प्रमातृत्वमिति । एकारस्यैव लकारेकारद्वितयमात्रायोगेन
सन्धिवशादैकारत्वमिति । नायमैकार आकार ईकारयोगो निष्पन्नः । तथात्वे
सन्धिवशादेकारत्वमेवेति । एतेन स्वप्नस्याऽन्तःसीमतया बिन्दुपदत्वं जाग्रतो
बाह्यसीमतया विसर्गपदत्वमिति सूचितम्
प्. ५३)
अन्तर्भैः करणवृत्तिवशाददीर्घ-
दीर्घं स्वरेष्वजडसंसरणं द्विरूपम् ।
ओ औ इति द्वयमिहोल्लिखति क्रमेण
स्वीयेच्छया द्विरजडस्य पदस्य योगम्
अथ जडप्रमातुरन्तर्बहिः संसाराणामोकारौकारविषयौ निरूपयति
अन्तरित्यादि । अन्तर्बहिःकरणवृत्तिवशात् पूर्ववदन्तर्बहिरिन्द्रियोल्लासवशात्
द्विरूपमजडसंसरणं अजडप्रमातृसंसारं
पूर्ववददीर्घदीर्घस्वरेषु पदद्वयरूपेषु अधिकरणभूतेषु अजडस्य
पदस्य अजडप्रमातुर्बिन्दोरित्यर्थः । स्वीयेच्छया अन्तर्बाह्यकक्ष्ययोः द्विः
द्विवारं योगं सङ्घट्टनं कर्म ओ औ इति द्वयं कर्तृ उल्लिखति सूचयति ।
अकारात्मनो बिन्दोः ह्रस्वस्वरेषु स्वीयेच्छया उकारेण अन्तः पद एवयोगः ।
तस्यैव बहिःपदे दीर्घस्वरेषु पदभूतेषु द्वितीयमात्रायुक्तया उकाररूपया
इच्छया द्वितीयमात्रायुक्तस्यैकवारं योग इति । तद्योगनिष्पन्नस्वरूपा
औकारौकारान्तं योगौ सूचयत इति तात्पर्यम् । ओकाराकारयोः प्रत्येकं
ग्राह्यग्राहकोभयरूपत्वादिति विवेकः पूर्ववत्
भेदेऽपि बिन्दुरविभेदपदेविसर्गो
ज्ञानक्रियास्थल तयाऽन्तरबाह्यसीम्नोः ।
दृष्टाविह प्रकरणस्य बलात्स्वभावं
नैवाप्नुतः स्फुटमभेदविभेदरूपम्
ननु बिन्दुरभेदरूपः विसर्गो भेदरूपः कथं भेदप्रमातुरन्तःपदे
स्वप्ने बिन्दुत्वं । अभेदप्रमातुर्बहिःपदे तुर्यजाग्रति विसर्गत्वमित्यत्राह ।
भेदेऽपीति । भेदेऽपि भेदसंसारे बिन्दुः ह्रस्वस्वरवर्गाधिष्ठाता अविभेद पदे
अभेदसंसारे विसर्गः दीर्घस्वरवर्गाधिष्ठाता च आन्तरबाह्यसीम्नोः
भेदस्वप्ने तुर्यजाग्रति च ज्ञानक्रियास्थलतया अन्तःपदस्य ज्ञानस्थलतया
बहिःपदस्य क्रियास्थलतया दृष्टौ लक्षितौ एकारौकाररूपेणेत्यर्थः । एतौ
बिन्दुविसर्गौ प्रकरणस्य बलाद्भेदाऽभेदरूपस्य प्रकरणस्य बलात् ।
अभेदविभेदरूपं स्वभावं बिन्दोरविभेदरूपस्वभावः विसर्गस्य
विभेदरूपः तं स्वभावं स्फुटमभिव्यक्तं तथा यथा नैवाप्नुतः
स्फुटस्यैव स्वभावस्य नैवाप्नुत इति निषेधात् । किञ्चित्स्वभावे प्राप्नुत एवेति
गम्यते । अयमर्थः - भेदस्वप्नपदे निविष्टो बिन्दुः
भेदप्रकरणबलादभेदरूपं स्वभावं न स्फुटमाप्नोति किञ्चिदाप्नोत्येव ।
शुद्धभेदपदाज्जाग्रतः स्वप्ने (अभेदस्पर्श) अविभेदः
स्पर्शवशाद्विशेषः । एवं तुर्यजाग्रति निविष्टो विसर्गोऽपि अभेदप्रकरण
बलाद्भेदरूपं स्वभावं स्फुटं नाप्नोति किञ्चिप्राप्नोत्येव ।
शुद्धाऽभेदरूपात्तुरीयस्वप्नपदात् तुर्यजाग्रतो
भेदस्पृष्टिवशाद्विशेषोऽस्त्येवेति मन्तव्यम्
प्. ५४)
बिन्दुः कला अपि विसर्गकला गुणाः स्युः
सर्गः कला अपि च बिन्दुकलाङ्गभूताः ।
बिन्द्वग्निरष्टकल एव विसर्गपायी
सर्गस्तु षोडशकलादृढबिन्दुरिन्दुः
अथास्मिन् सुषुप्तिपदे बिन्दुविसर्गयोस्तत्कलानाञ्च अन्योन्यश्लिष्टतयाऽङ्गाङ्गि
भावः समान इति प्रतिपादयन् बिन्दुविसर्गयोः बिम्बस्वरूपं व्युत्पादयति ##-
विसर्गव्याप्त्यभिमाने सतीति वेदितव्यम् । अथ सर्गो विसर्गः तत्कला अपि
बिन्दोस्तत्कलानां चाऽङ्गभूता भवतीति बिन्दुव्याप्त्यभिमाने सतीति वेदितव्यम् ।
अथ बिन्दोः कति कलाः विसर्गस्य कतीत्यत्राह - बिन्द्वग्नीत्यादि । बिन्द्वग्निः
अग्न्रिरूपो बिन्दुः । अष्टकल एव ह्रस्वस्वराः पञ्च एकारौकारौ द्वे अं इति
स्वस्वरूपमेका कलेति सम्भूय बिन्दोरष्टौ कलाः बिन्दोरङ्गभूता विसर्गकला
अष्टौ सन्ति । तथा च कथं बिन्दोरष्टकलत्वमित्यत्राह - विसर्गपायीति
विसर्गं चन्द्ररूपं पिवतीति विसर्गपायी । बिन्द्वग्निः बिन्दावग्नौ कलासहितो
विसर्ग एकाकारतां भजतीति विन्दोरष्टावेव कला इत्यर्थः । दृढविन्दुः
स्वव्याप्तावपि अनुच्छिन्नबिन्दुः । तदुच्छेदे विसर्गस्वरूपस्यैक्यसिद्धेः ।
इन्दुश्चन्द्ररूपो विसर्गस्तु षोडशकलोऽङ्गभूताभिर्बिन्दुकलाभिः सह
दीर्घस्वरपञ्चक ऐकारौकारह(अः)कारारूपविसर्गकलाः षोडशेति
योजना
प्. ५५)
बिन्दोः कला अपि विसर्गकलाश्च सप्त
सप्तैतदन्वयवशेन चतुर्दशारम् ।
बिन्द्वग्निरष्टदलपद्मगतस्तदन्तः
सर्गश्च षोडशदलाब्जगतोऽस्य चान्तः
इदानीं बिन्दुविसर्गयोस्तत्कलानां च अन्योन्यश्लेषं महायन्त्रस्य सुषुप्तिपदे
चतुर्दशारचक्रे समुपदर्शयति - बिन्दोरित्यादि । बिन्दोः कला अपि सप्त ।
विसर्गकलाश्च सप्त । उभयत्र अवयविकलां विनेति विज्ञेयम् ।
एतत्सप्तकद्वयस्याऽन्वयवशेन श्लेषवशेन चतुर्दशारं संपद्यत इति
शेषः । तदन्तः तस्य चतुर्दशकोणस्यान्तः ।
प्रागुपदिष्टसुप्तिविभावनामर्यादया बिन्द्वाग्निरष्टदलपद्मगतः । अस्य
चाऽष्टदलपद्मरूपबिम्बस्य बिन्दोरन्तर्विसर्गश्च षोडशदलाऽब्जगतः । अत्रापि
प्राक्प्रतिपादितप्रक्रियाऽनुसन्धेया
प्. ५६)
ह्रस्वस्वराष्टदलभागनलो हि दीर्घ-
मात्रात्मषोडशदलाम्बुजभाद्छशाङ्कः ।
चन्द्रार्कयोस्त्रिगुणिताऽष्टकलात्मनोः स्या-
द्बिन्दौ प्लुताष्टकदलात्मनियुक्तिरग्नौ
इति मातृकाचक्रविवेके सुषुप्तिविवेको द्वितीयः खण्डः ॥
इदानीं प्रकारान्तरेण बिन्दुकला विविक्ता । एवं विसर्गस्य षोडशदलान्
समुपदर्शयन् बिन्दुविसर्गस्य तत्सामरस्यरूपं पदत्रयं स्वरवर्गे
समुपदर्शयति - ह्रस्वेत्यादि । अनलो बिन्दुः
ह्रस्वस्वररूपाऽष्टदलपद्मबिम्बगतः स्यात् । शशाङ्को विसर्गः
दीर्घमात्रात्मषोडशदलाम्बुजभाक् । अष्टसु दीर्घस्वरेषु या मात्राः षोडश
तदात्मकषोडशदलाम्बुजबिम्बसंश्रित इत्यर्थः । प्रतिवर्णं द्विमात्रतया
षोडशमात्रासम्पन्नेषु दीर्घस्वरवर्णेषु यद्यप्यष्टौ मात्रा बिन्दुरूपाः
बिन्दुसाहित्येनेव विसर्गसंस्थाननियमात् तथापि
बिन्दोर्ह्रस्वस्वररूपविविक्तविस्ऽयसंभवात् षोडशमात्रात्मकं
दीर्घस्वराष्टकं विसर्गस्य विविक्तो विषय इत्यभिमानः । एवं च
चन्द्रार्कयोर्विसर्गबिन्द्वोरभेदपदाधिष्ठातुर्बिन्दोरर्कत्वमप्यनेन सूच्यते
अभेदखण्डस्यैकाधिष्ठातृत्वात् । भेदचमत्कारसम्पत्तिरभिहितत्वात्
सावशेषजगत्स्वामीकरणोऽर्कः । निरवशेषजगत्स्वामीकरणोऽनल इति ।
तस्मादभेदबिन्दोरुभयोरपि व्यवहार इति भावः ।
तयोर्विसर्गबिन्दुरूपचन्द्रार्कयोस्त्रिगुणिताऽष्तकलात्मनोः
त्रिगुणिताष्टकलाश्चतुर्विंशतिकलाः तदात्मनो बिन्दोरष्टौ कलाः । विसर्गस्य
दीर्घस्वरमात्रारूपाः षोडशकलाः । संभूयोभयोश्चतुर्विंशतिकलाः
तद्रूपयोरेतयोः प्लुताष्टकदलात्मनि चतुर्विंशतिमात्राभिरष्टौ प्लुताः
सम्पद्यन्ते । प्लुतस्य त्रिमात्रत्वात् ।
प्. ५७)
तस्मिन्महाबिन्दावग्नौ भेदाभेदोभयपक्षव्यापित्वादयं
महाबिन्दुरग्निरेव । न तु सूर्यव्यवहारस्यापि पदं तस्मिन्नग्नौ
तयोश्चन्द्रार्कयोर्युक्तिर्योगः स्यात् । प्लुतस्य नासान्तरनादत्वात् ।
तदात्मकस्याऽस्य सामरस्यपदस्य
प्रवृत्तिनिवृत्तिस्पन्दभित्तिभूतनिष्पन्दभूतस्य महातत्त्वस्य
शाश्वतत्वमित्युपदिष्टम् ।
अविभेदविभेदमिश्रणैस्त्रिभिरङ्गैर्घटितैकमूर्तिका ।
हृदयेषु विभाति शाङ्करी स्वरवर्गार्थमयी महात्मनाम् ॥
भागद्वयस्फुरितबिन्दुविसर्गरूपं
तत्सामरस्यपदलक्षकमध्यरेखम् ।
आलोच्यमर्थवदनुत्तरवर्णबिम्ब-
मर्च्यं च जप्यमपि चाऽखिलसिद्धिमूलम्
अन्तःस्फुरद्बिन्दुपदं बहिष्ठा
त्तदूर्द्ध्वतस्त्वष्टविसर्गरूपम् ।
इकारबिम्बं समुपासनीयं
मकारबिम्बं च ततो विलोमम्
मध्ये विमिश्रपदलक्षकपूर्णबिन्दु-
मूर्द्ध तले च चिदचित्पदखण्डबिन्दुम् ।
ईकारबिम्बमिनचन्द्रकृशानुरूपं
श्रीपादुकां परशिवस्य शिरस्सु शेयात्
प्. ५८)
नित्या षोडशिकात्मिका स्वरकला नित्यत्रिकोणाकृति-
र्नव्ये द्रव्यरसैकदभ्रलहरी साक्षात्कृतव्योमभिः ।
यः सम्यग्वरिवस्यति स्फुरणया तस्याऽम्बिकानुग्रहे
गूढोऽप्येष हृदि स्फुरेत्स्वरगणस्यार्थः कृतार्थत्वभूः
शिवानन्देन मुनिना देशिकादेशवर्तिना ।
द्वितीये मातृकाचक्रविवेके व्याकृतं पदम्
॥ इति द्वितीयः खण्डः समाप्तः ॥
अथ तृतीयः खण्डः ।
विश्वस्य कारणदशेति विचारितैवं
कार्यक्रमो भवति कार्यमिदं विमर्शात् ।
विश्रान्तमात्मनि पराह्वयवाचि सुप्तौ
विश्वं वमत्यथ विबोधपदे विमर्शः
अथ स्कन्धान्तरमारभमाणः पूर्वोत्तरस्कन्धयोः सम्बन्धदर्शनाय
पूर्वस्कन्धतात्पर्याभिधानपूर्वमुत्तरस्कन्धप्रमेयं प्रस्तौति -
विश्वस्येत्यादि । इति उक्तप्रकारेण विश्वस्य विश्रान्तिसंसाररूपेण
कारणकार्यरूपस्य कारणदशा विश्रान्तिरूपा अवस्था निरूपिता ।
विश्रान्तिरूपासुषुप्तिः कारणरूपं विश्वं संसाररूपाः स्वप्नादयः
कार्यरूपं विश्वमिति भावः । एवं कार्यक्रमः । यदा कारणक्रमः तदा
कार्यस्यापि क्रमः कारणकार्ययोरेकरूपत्वादिति भावः ।
प्रमेयादिकक्ष्यात्रयसम्पन्नत्वजडाजडव्याप्त्यादिः कारणक्रमः । एवमेव
कार्यक्रमोऽपि कार्यनिष्ठः प्रमेयकक्ष्यादिक्रमः कार्यक्रमः । इदं कार्यं
विश्वं विमर्शाद्भवतीति शेषः । इदमीदृगित्यनुसन्धानमूलं
वाचिकत्वरूपं कार्यं विश्वानुसन्धानं विमर्शः । अतः कार्यरूपस्य
विश्वस्य विमर्शमूलत्वम् । अयं विमर्शः सुषुप्तिविश्रान्तौ केनरूपेण स्थित
इत्यत्र आह विश्रान्तमित्यादि । विमर्शः सुप्तौ सुषुप्तिकाले । पराह्वयवाचि परेति
व्यवह्रियमाणायां वाचि । आत्मनि स्वाकारे परावाग्रूपे स्वात्मनीत्यर्थः ।
विश्रान्तं निलीनं विश्वम् । अथ सुषुप्त्यनन्तरं
विबोधपदेऽप्यु(व्यु)त्थानदशायां वमति वहिरुद्वमति अनेन
विश्वस्य विमर्शगर्भ एव स्थितिरुद्दिष्टा । तद्विलासरूपत्वात् विमर्शविलास##-
विमर्शे स्वयमपि निलीनः प्रबोधपदे अन्तर्बाह्येन्द्रियात्मना स्फुटस्वरूपस्य
विमर्शस्य गर्भान्निःसरतीति भावः
प्. ६०)
वाणी परा खलु ऋकारऌकाररूपा
सङ्कोचगन्धसहिता गगनेऽपि सुप्तौ ।
सङ्कोच एव चिदचिद्गगनस्य वाणी
तद्व्योम सङ्कुचति च प्रकृतौ विमर्शे
विमर्शः पारावाग्रूपेण सुषुप्तिविश्रान्तौ तिष्ठतीत्युक्तम् ।
प्रमेयप्रमाणप्रमातृरूपे अकाराद्युकारान्तविश्रान्तिपदे परस्या वाचः
किं स्थानं कः स्वभाव इत्यत्राह - वाणीत्यादि । परा वाणी
ऋकारऌकाररूपा खलु अनेन परावाग्रूपस्य विमर्शस्य प्रमाणत्वमुक्तम्
। व्युत्थानपदेष्वपि विमर्शः प्रमाणरूप इति वेदितव्यम् ।
प्रमाणरूपाणामिन्द्रियाणां अनुसन्धानरूपत्वादनुसन्धानस्य
विमर्शरूपेण पर्यवसानादिन्द्रियाण्येव विमर्शस्य स्वरूपमिति निष्कृष्टो
विवेकः । ऋकारऌकारात्मनः प्रमाणस्य
परावाक्तत्वविमर्शरूपतायामुपपत्त्यन्तरमासां सङ्कोचयति । गमनेऽपि
सामान्यरूपायामपि सुप्तौ पूर्णस्वभावायामिति भावः ।
सङ्कोचगन्धसहिता ऋकारऌकारयोरिकारोकारापेक्षया सङ्कोचभावः
प्रतीयते । व्यञ्जनवर्णेष्विव स्थौल्यानुभवात् । ननु परावाचो विमर्शस्य
सङ्कोचः स्वभावश्चेत् तदानीं खलु सङ्कोच भावोपलक्षित -
ऋकारऌकारात्मकप्रमाणत्वोपपत्तिरिति परावाचो विमर्शस्य
सङ्कोचस्वभावतामुपपादयति - सङ्कोचेति । चिदचिद्गगनस्य
चिदचित्सामरस्यरूपस्य गगनस्य विश्रान्तिः सङ्कोच एव ।
वाणीविमर्शदशायां विश्रान्तस्वभावः पूर्णतयाऽनुभूयते । स एव
स्वभावो यथानुसन्धानभूमिकां प्रतिगृह्णाति तथा
ग्राह्यग्राहकोभयाभासात्मकविमर्शरूपेण सङ्कुचति । गगनस्य
शब्दाकारेण खलु सङ्कोचः । विश्रान्तिरूपस्य गगनस्य
शब्दरूपविमर्शानां सङ्कोच इत्युपपन्नम् । ननु पूर्णतया स्थितं
तद्विश्रान्तिगगनं कुतो हेतोर्विमर्शात्मना सङ्कोचभावं प्राप्नोतीत्यत आह
- तद्व्योमेति । तद्व्योम विश्रान्तिगगनं विमर्शे प्रकृतौ स्वभावे सति
सङ्कुचति । विमर्शात्मना सङ्कोचभावपरिग्रहो विश्रान्ति तत्त्वस्य स्वभावः
न कश्चिदप्यत्र हेतुरिति भावः
प्. ६१)
धर्मे स्वके स्वरसवाहिनि वाक्स्वरूपे
लग्नं परं गगनमप्युपयाति सत्ताम् ।
सत्त्वाय नित्यमुपगूढाविमर्शतत्त्वं
तद्धर्मतां गगनमप्युपयाति चित्रम्
इदानीं कार्यरूपजगद्बीजस्य विमर्शस्य कारणरूपजगद्बीजत्वमपि
प्रतिपादयन् महत्त्वतां व्युत्पादयति । धर्म इत्यादि - स्वरसवाहिनि स्वत एव
प्रवहणशीले न त्वन्यप्रेरणया तथात्वे तस्यापि प्रेरकस्य
प्रेरणसङ्कल्परूपं विमर्शं विना प्रेरणानुपपत्तेः तस्यापि विमर्शस्य
विमर्शान्तरं विनाऽप्रवहणमित्यनवस्थया विमर्शस्य पर्यन्ततया
स्वरसवाहित्वमङ्गीकार्यम् । अतः स्वरसवाहिनि वाक्स्वरूपे चिद्धर्म एव च चितो
जननलयाच्चेति प्राक्प्रतिपादितमर्यादया धर्मे विमर्शस्वरूपे स्वके धर्मे
लग्नं सत् परं गगनमपि चिदचित्सामरस्यरूपं विश्रान्तितत्त्वमपि
सत्तामुपयातीति विमर्शसीमानुप्रवेशा भावात् । नास्त्येव सा चिदपीति
प्रागुक्तक्रियया विश्रान्तितत्त्वस्यापि स्वरूपासिद्धेः । अतः सत्त्वाय सत्तासिद्धये
नित्यं नियतं उपगूढविमर्शतत्त्वं आलिङ्गितविमर्शतत्त्वं गगनमपि
चिदचित्सामरस्यरूपं विश्रान्तिगगनमपि तद्धर्मतां तस्य विमर्शस्य
धर्मतामुपयाति । चित्रं अन्योन्यधर्मधर्मित्वमद्भुतमित्यर्थः ।
प्राक्प्रतिपादितोऽयमर्थः विमर्शस्य सर्वप्रकारजगन्मूलत्वप्रवचनप्रस्थाने
विमर्शप्रभावव्युत्पादनायाऽनुस्मृत इति निरवद्यम्
प्. ६२)
तस्मात्परैव जननी समुपासनीया
व्योम्नः परस्य गतजाड्यमियं हिरूपम् ।
बध्नाति चेयमिदमंशसमुच्छ्रयेण
जन्तून् विमोचयति चोन्नमिताऽहमंशात्
अतः सर्वमूलतया विमर्शतत्त्वमेवोपासनीयमित्याह - तस्मादित्यादि ।
तस्माद्विश्रान्तेरपि मूलत्वात् कारणत्वात् जननी सर्वमूलत्वात् सर्वमातृका
परैव विमर्शशक्तिरेव समुपासनीया । एवकारः पर्यालोचितो वाऽस्य
निर्णयमभिधत्ते । तामेव पर्यालोचनामुद्घाटयति व्योम्न इत्यादि । परस्य
व्योम्नः उपास्यत्वेन संभावितस्येति भावः । गतजाड्यं निर्विमर्शतया
सम्भावितजाड्यशङ्काव्यपेतं रूपं । इयं हि खलु परावाक्
चेतनरूपतयोपास्यत्वेना.भिमतस्य परमगगनस्य चैतन्यकलास्थानम् अत
एवाऽव्यक्तचैतन्यादंशात् अभ्यर्हितेति भावः । अनेन विमर्शस्य
प्रकाशैकात्म्यमुपपादितम् । विमर्शस्य परमोपास्यत्वकथनात्तदात्मकस्य
प्रमाणतत्त्वस्य विशेषेण उपास्यत्वमुपपादितम् । अयमर्थो
महायन्त्रप्रथमोपासनायोग्यप्रमुखपदचतुरस्ररूपस्य प्रमाणचक्रस्य
सन्निवेशादभिव्यक्तः उपास्यत्वेन व्युत्पादितस्य
विमर्शस्यैवोपासनाप्रवृत्तिमूलं बन्धमोक्षैककर्तृ प्रतिपादयति
बध्नातीत्यादि । इयमेव विमर्शरूपिणी परा इदमंशसमुच्छ्रयेण
स्वस्वरूपोभयभागयोर्भेदाभेदरूपयोरिदमहमंशयोर्मध्ये
इदमंशसमुच्छ्रयेण जन्तून् बध्नाति । सर्वत्र वस्तुनि इदमाकारप्रतीतौ
देहमात्रेऽप्यहमाकारप्रतीतौ सैवोच्छ्रितेदग्ताप्रतीतिः खलु बन्धः ।
उन्नमिताऽहमंशाज्जन्तून् विमोचयति च । इदंप्रतीत्यन्यथाभावेन
सर्वत्राऽहन्ताप्रतीत्यौल्बण्यमेव च मोक्ष इति भावः ।
अनयोर्बन्धमोक्षयोर्विमर्शरूपिणी पराशक्तिरेव मूलं स्वरसवाहिनी खलु
परा यस्य यस्यहृदये इदन्तौल्बण्येनाऽहन्तान्यग्भावेन प्रवहति स स बद्धो
भवति यस्य यस्य हृदये अहन्तौल्बण्येन इदन्तान्यग्भावेन प्रवहति स स
मुक्तो भवतीति भावः
प्. ६३)
त्रेधेदमित्यहमिति स्फुरणात्मिकाया-
स्तस्याः स्वरूपमुभयांशसमाऽसमत्वे ।
तद्धर्मसङ्गतिवशेन तथा त्रिरूपो
धर्मीं च चैत्यचितिमेलनसिद्धरूपः
पूर्वसूत्रेण इदमहमत्मकौ प्रत्ययौ विमर्शरूपिण्याः परायाः स्वरूपे
उभौ भागाविति सूचितं अनेन सूत्रेण तमेवार्थं स्फुटीकरोति - त्रेधेत्यादि
। इदमित्यहमिति यत् स्फुरणद्वयं तदात्मिकायाः तस्याः परायाः स्वरूपं
त्रेधा भागत्रयविशिष्टत्वदिति भावः । के ते भागा इत्यत्राह उभयांशेत्यादि ।
इदमित्यहमिति स्फुरणरूपयोरुभयोरंशयोः समासमत्वेन त्रिधेत्यन्वयः ।
इदमहमंशयोः साम्यमेको भागः तयोरसमत्वे इदमिति
स्फुरणोल्बणतायामेको भागः अहमिति स्फुरणोल्बणतायामन्यो भाग इति तौ
द्वौ भागौ समत्वभावेन सम्भूय त्रयो भागाः । अत्रापि
जडाजडसाम्यानामिव भागकरणं विना प्रत्येकं सर्वसन्निविष्टानां
समत्वादिस्वरूपाणामंशत्वमुपचारः । एवं धर्मरूपं विमर्शं
पर्यालोच्य प्रक्रियासाम्येन प्राक्प्रतिपादितस्यापि धर्मिणस्त्रिरूप्यमनुस्मरति
तद्धर्मेत्यादि । तद्धर्मसङ्गतिवशेन उक्तनवीनत्रिरूपस्य तस्य
विमर्शात्मनो धर्मस्य संसर्गवशेन धर्मी च तथा त्रिरूपः
त्रैरूप्योपलक्षितं धर्मिणं प्रदर्शयति चैत्येति । चैत्यचितिमेलनसिद्धरूपः
व्याप्तिमता चैत्येन व्याप्तिमत्या चिता तदुभयमेलनेन सिद्धस्वरूप इत्यर्थः ।
इदन्तोल्वणविमर्शसङ्गतिवशात् व्यापकचैत्यरूपः धर्मी
अहन्तोल्वणविमर्शसङ्गतिवशात् व्यापकचिद्रूप् धर्मी इदन्ताऽहन्तासाम्येन
स्तिमितविमर्शसङ्गतिदशा चिच्चैत्यसामरस्यरूपो धर्मीति विवेकः
प्. ६४)
विश्रान्तिधामनि निजाश्रययोर्विमर्श-
श्चिच्चैत्ययोर्भवपदे स्वयमाश्रयोऽपि ।
एतद्द्वयं निजसमाश्रयमेव कुर्वन्
स्वैरक्रमेण विलसत्यबहिर्बहिश्च
अथ सूत्रत्रयेण परमशिवभट्टारकस्वातन्त्र्यशक्तेर्विमर्शस्य
निराधारविलसनचमत्कारान् प्रदर्शयति - विश्रान्तीत्यादि । विमर्शः कर्ता
विश्रान्तिधामनि विश्रामपदे सुषुप्तावित्यर्थः । निजाश्रययोः
चिच्चैत्ययोर्विश्रान्तेः निःशब्दतया विमर्शश्चिच्चैत्ययोराश्रितो लीन
इत्युपपन्नम् । भवपदे संसारपदे स्वयमाश्रयो भवपदस्य
विकल्पमूलत्वाद्विकल्पस्य विमर्शत्वात्तत्र पदे प्रमात्रादिकः सर्वोऽप्यर्थो
विमर्शमूल एवेति चिच्चैत्ययोः प्रमात्रोरपि विमर्शाश्रितत्वम् । तथा
धर्मिणोरप्याश्रयो विमर्श एतद्द्वयं चिच्चैत्यरूपं धर्मिद्वयं
निजसमाश्रयमेव स्वमाश्रयमेव कुर्वन् अबहिः - अन्तः सीमायाम् ।
बहिश्च बहिःसीमायां च स्वैरक्रमेण बाह्यादभ्यन्तरं वा
अभ्यन्तराद्बाह्यं वेति एवमादिभिः स्वरसप्रवहणक्रमैर्विलसति
प्. ६५)
स्वप्ने स्फुरत्यबहिरिन्द्रियमूर्तिरन्त-
र्बाह्ये बहिःकरणमूर्तिरथ प्रबोधे ।
सङ्कोचमाश्रयति पूर्वपदेऽत्र किञ्चि-
दत्यर्थमुत्तरपदे तु तमादधाति
स्वप्नेत्यादि । स्वप्ने अबहिरिन्द्रियमूर्तिर्मनोबुद्धिस्वरूपः
अन्तरभ्यन्तरकक्ष्यायां स्फुरति । जगद्रूपं स्वविलासं दर्शयतीति भावः ।
स्वप्नशब्दः प्रकृतिसंसारस्याप्युपलक्षकस्तत्रापि मनोबुद्धिरूपेण
विमर्शस्य जगदुद्वमनात् । अथानन्तरं प्रबोधे सुषुप्तिनिवृत्त्या
शुद्धजाग्रद्रूपे प्रबोधे बहिः कारणमूर्तिः
श्रोत्रादिवागादिज्ञानकियेन्द्रियस्वरूपः । बाह्ये बाह्यकक्ष्यायां स्फुरतीति
संबन्धः । अत्र स्वप्नजाग्रद्रूपपदद्वये यत्पूर्वपदं स्वप्नस्तत्र
किञ्चित्सङ्कोचमाश्रयति । सुषुप्तौ विश्रान्त्यैकरस्येन पूर्णस्य विमर्शस्य
तदन्तरपदे स्वप्ने ईषत्सङ्कोचस्तद्वशात् प्रमातृप्रमेययोरपि तथात्वम्
तमेव जाग्रत्सङ्कोचमाह उत्तरपदेत्विति । उत्तरपदे स्वप्नान्तरपदे जाग्रति
अत्यर्थमतिमात्रं तं सङ्कोचमादधाति अङ्गीकरोति
प्. ६६)
सङ्कोचवर्तिपरसीमनि बाह्यरङ्गे
व्याप्तिं समर्पयति नान्तरधाम्नि पूर्णे ।
विश्रान्तिमर्पयति पूर्णतरामितोऽपि
माया चमत्कृतिमवाप्य जडो विमर्शः
पशोः संसारपदे विमर्शस्य मायाचमत्कारपरिग्रहेण विपरीतप्रतीतिरूपेण
विलसनं दर्शयति -
सङ्कोचेति । सङ्कोचवर्तिपरसीमनि सङ्कोचभावपरमपदे बाह्यरङ्गे
जाग्रत्पदे व्याप्तिं समर्पयति पूर्णतामारोपयति । घटपटादीनां प्रस्फुटं
साक्षात्करणेन जाग्रत्प्रकाश एव पूर्ण इत्यनुसन्धत्ते । पूर्णे जाग्रदपेक्षया
पूर्णे सङ्कोचस्येषन्मात्रत्वात् । आन्तरधाम्नि आन्तरकक्ष्यायां स्वप्न
इत्यर्थः । अत्र व्याप्तिं पूर्णतां न समर्पयति स्वप्नप्रकाशस्य
जाग्रत्प्रकाशादल्पत्वमनुसन्धत्ते । साक्षात्कृतानामपि घटपटादीनां
जाग्रदुदये अन्तर्धानात्स्वप्नप्रकाशस्य निष्प्रकाशसुषुप्तिकल्पत्वमेवेति
प्रतिपद्यत इत्यर्थः । इतोऽपि स्वप्नात् पूर्णतरामतिपूर्णां विश्रान्तिसुषुप्तिमितोऽपि
स्वप्नादल्पमिति सङ्कोचपदं प्रतिपद्यते कस्यचिदपि घटपटादेरप्रतिपत्तेरिति
भावः । एवं विमर्शस्य विपरीतप्रतिभाने निमित्तमाह - मायेत्यादि । माया
चमत्कृतिमवाप्य जडः सन् विमर्श एव विपरीतरूपो भवतीत्यर्थः । न
क्वचिन्माया विद्यानामतत्त्व । विमर्श एवेदन्तौल्वण्येन
संभासमानामायेत्युच्यते स एवाहंतौल्बण्येन भासमानो विद्येति
व्यपदिश्यत इति वेदितव्यम्
प्. ६७)
इच्छाद्वयान्तरितमानयुगे यवर्गे
स्वाप्ने जडा खलु दशा समवेक्षणीया ।
मातृत्वमत्र मनसो हि लकारमूर्तेः
स्वप्नो हि मानसिकसंसरणं प्रसिद्धम्
इदानीमिच्छामात्रसंसारस्य सुषुप्तेरनन्तरं ज्ञानक्रियासंसारयोः
स्वप्नजाग्रतोर्मध्येविसर्गप्रकरणत्वात् क्रियाप्राधान्येन यद्यपि जाग्रतः
प्रथमविवेकौचित्यं तथास्योत्पत्तिक्रियासृष्ट्या ज्ञानस्य प्रथमत्वात्
ज्ञानसंसारस्य स्वप्नस्य प्रथमं विवेकमाचरमाण ईषत्सङ्गोचरूपां
स्वप्नदशामीषत्सङ्कोचवति यवर्गे निरूपयति -
इच्छेति । इच्छाद्वयान्तरितमानयुगे स्वरपदप्रक्रियानुसारेण
इकारोकारसङ्कोचरूपयोः यकारवकारयोः जडाजडेच्छात्वम् तेन
इच्छाद्वयेन अन्तरितं मध्येकृतं मानयुगम् ।
ऋकारऌकारसङ्कोचरूपरेफलकारात्मकं क्रियाज्ञानरूपं
प्रमाणयुगं यत्र तस्मिन् यवर्गे जडा स्वाप्ने दशा जीवसंबन्धिनी
भेदस्वप्नदशा समवेक्षणीया खलु यवर्गस्वप्नदशयो
रीषत्सङ्कोचरूपयोः सादृश्ययोगादिति भावः । अत्र स्वप्ने लकारमूर्तेर्मनस
एव प्रमातृत्वम् । लकारः खलु ज्ञानप्रमाणस्थानीयः । अन्तःकरणसंसारे
स्वप्ने ज्ञानरूपे प्रमाणं मन एव न तु श्रोत्रादयो न तु
स्वतन्त्राणीन्द्रियाण्येव निजनिजेषु विषयेषु प्रवर्तन्त इत्यनुभवः । मनसः किं
स्वरूपं वेत्यत आह श्रोत्रादीनां बहीरूपमान्तरंरूपं चेति रूपद्वयं
यथा(दा) श्रोत्रादयो बहिर्निमीलिता अन्तः प्रवर्तन्ते तथा(दा)
श्रोत्रादीनामेव तथान्तरं रूपं मन इत्युच्यते यदा बहिरुन्मीलिताः प्रवर्तन्ते
तदानीं श्रोत्रादिव्यवहार इति विज्ञेयम् । अन्तः श्रोत्रादीनामन्तः पदे मन इति
व्यावहारात् । ज्ञानेन्द्रियस्थानीयो लकारो मन एव एवं कर्मेन्द्रियस्थानीयो
रेफो बुद्धिः कर्मेन्द्रियाणामप्यान्तररूपं बुद्धिरित्यवगन्तव्यम् । स्वप्ने
मनस एव प्रमात्रादित्रिपुटीभावपरिग्रहचमत्कारेण संसरणं न तु
तात्विकदेहरूपस्य प्रमातुः तथात्वे स्वप्नानुभूतानामर्थानां जाग्रति
सम्पातप्रसक्तेः । अतो मनस एव महाशक्तेर्विमर्शस्य त्रिपुटीरूपेण स्वप्ने
विलसनं तस्यैव मनसो बहिरपि श्रोत्रादिरूपस्य विषयाकारेण विलसनमिति
जगतो न कुत्रापि बहिरन्तर्वा विमर्शादन्यतः परमाण्वादेः सिद्धिरिति
गुरुकठाक्षनिरस्तमायान्धकाराणां सम्प्रतिपन्नम् । स्वप्न संसारस्य
तत्त्विकदेहप्रमातृकर्तृकत्वे जाग्रति तत्सम्पादौचित्यात्तत्संपातस्यादर्शनात्
स्वप्नो मनोविलास इति लौकिकस्यापि सम्प्रतिपन्नमिति तदपेक्षया स्वप्ने
निर्विवादं मनस एव प्रमातृत्वमिति तथोक्तं
तामेवलौकिकसम्प्रतिपत्तिमुद्घाटयति - स्वप्नो हीति
प्. ६८)
स्वस्यैव शक्तिरवमर्शमयी स्वगर्भे
ग्रस्तस्तयैव मनसा वपुरादिमूर्त्या ।
आत्मास्वरश्मिपटलस्थगितोऽर्यमेव
नाभति किञ्चिदपि कञ्चुकपञ्चकान्तः
इदानीं चित्तत्त्वस्यात्मनः स्वान्तःस्थयैव विमर्शपर्यायया मनः
शक्त्या(क्तौ) देहाद्यन्तःप्रपञ्चस्य
पृथिव्यादिबाह्यप्रपञ्चरूपिण्या(ण्यां) संवरणचमत्कारं
व्युत्यादयति -
स्वस्यैवेत्यादि । अवमर्शमयी विमर्शरूपिणी शक्तिः स्वस्यैव ।
स्वसम्बन्धिन्येव । अस्याः स्थितिरपि स्वगर्भे । धर्मत्वात् मनसा मनोरूपिण्या
तयैव वपुरादिमूर्त्या देदपृथिव्यादिप्रपञ्चभूमिकापरिग्राहिण्या ग्रस्तः
व्याप्तः । अनेन प्रपञ्चेन अहंकवलित इति विमर्श्यैव
विपरीतप्रतीतिचमत्कारभावाद्भ्रसनचमत्क्रियाविषयः न तु परमार्थतो
ग्रस्तः । विद्योदयानन्तरं स्वरूपपर्यालोचनायां स्वस्य प्रपञ्चेन
कबलनं विमर्शचमत्कारमात्रे पर्यवस्यतीति स्वधर्मविलास स्तेन कथं
स्वस्यावरणमित्येतदुपमामुखेन समर्थयतिस्वरश्मीति । स्वरश्मिपटलेन
स्थगितः छन्न अर्यमा सूर्य इव कश्चुकपञ्चकस्य
मनःशक्तिसमुन्मिषितपरिच्छिन्नसङ्कल्परूपवेद्यादिपञ्चाङ्गपदात्मनः
। अतः व्याप्यकक्ष्यायां स्थित इत्यर्थः । नाभाति न प्रभाति । यथा सूर्यः
स्वरश्मिपटलेनैवाच्छादितो न दृग्विषयबिम्बः तथायमप्यात्मा
स्वशक्तिविलासेन । अत एव स्वरश्मिचक्ररूपेण प्रपञ्चेन
च्छन्नोन्तर्हितचिदात्मकमूलरूप इत्युपपन्नमिति भावः
प्. ६९)
आत्मान्वितं वपुरहङ्कृति धीमनांसि
त्रीण्यान्तराणि करणानि पदं प्रमातुः ।
एतन्मनोविलसितं यदि पञ्चरूपं
मायापदं पदमिदं प्रकृतेस्तु साक्षात्
अथ विसर्गव्याप्तिविषयतया सम्भावितपञ्चाङ्गकस्य स्वप्नपदस्य
संस्थानमुपदर्शयन् वक्ष्यमाणप्रकृतेः
संसारपदादन्यभेदमुपपादयति -
आत्मेत्यादि । आत्मान्वितं वपुः आत्मना सह परिगणितं वपुः ।
अहङ्कृतिधीमनांसि अहङ्कारबुद्धिमनोरूपाणि । त्रीण्यान्तराणि करणानि ।
सम्भूय पञ्चाङ्गकम् स्वप्नरूपं प्रमातुः पदं पदमित्यस्मिन्नर्थे
प्रमातुरात्मन एव स्वाम्यमुक्तम् । अस्य
पदस्यात्मशक्तिमनोविलासरूपत्वादात्मविलासरूपत्वमर्थात्सिद्धमिति जाग्रति
मानसिकसंसारूपं प्रकृतिपदं वक्ष्यमाणपवर्गरूपम् । तत्राप्यात्मा
वपुः पर्यायप्रकृतिः अहङ्काराद्यन्तःकरणत्रयमिति पञ्चाङ्गं पदम् ।
तथा च प्रकृतिपदात् स्वप्नपदस्य को भेद - इत्यत्राह एतदित्यादि ।
एतत्पञ्चरूपं पदं मनोविलसितम् । यदि मनस एव तात्त्विकदेहे
प्रमातृनिर्व्यपेक्षस्य यदि विलसितं तदानीं स्वप्नपर्यायं मायापदं
भवति साक्षाच्चेदहमेवं स्मरामीति जाग्रत्प्रकृतिरूप प्रमातृमूलं चेत्
प्रकृतेः - पदं भवतीति भावः
प्. ७०)
मायापदे स्वमन एव शरीरताभा-
गित्यादिशन्त्यणुविदोऽत्र वकारगर्भे ।
तद्बाह्यतोऽपि च लकारमनुस्मरन्तः
पञ्चाङ्गकं पदमिदं चतुरङ्गमेव
ननु स्वप्नपदं विसर्गव्याप्तिविषयतया पञ्चाङ्गकमित्युक्तम् । तत्र
यकारादिवकारान्ताश्चत्वारो वर्णाः
जडाजडेच्छाप्रमाणद्वयाज्जडेच्छास्थानीयविसर्गप्रमातृस्थानं वर्णो
न श्रूयते वहिश्च न दृश्यते । तत्कथमस्य पदस्य पञ्चाङ्गत्वमित्यत्राह
-
मायेत्यादि । अणिविदो मन्त्रविदः । मायापदे स्वप्नपदे । भेदविमर्शो
मायाभेद विमर्शस्य स्वप्न एव प्रथमाभिव्यक्तिस्थलमिति स्वप्नपदे
मायापदमिति च व्यवहारः । तत्र पदे मन एव कालरूपः शरीरताभाक्
देहप्रमातृभावभाक् । मनोव्यतिरेकेण स्वप्ने व्यवहर्ता देहो नास्तीति
प्राक्प्रतिपादितम् । अतो मनस एव देहत्वमित्यादिशन्ति । कुर्वन्तर ?
(अत्र)रवकारगर्भे वकारस्यान्तः यकारानन्तरपद इत्यर्थः ।
तद्बाह्यतोऽपि च वकारात्पूर्वप्दे च लकारमनुस्मरन्तः अनुयोजयन्तः । मनः
स्थानीयस्य वियोजने मन एव देहत्वं प्राप्तमिति प्रतीयते । अतस्तथायोजनेन
सम्प्रदायप्रवर्तनमेवोपदेश इति भावः । वकारात्पूर्वपदे
बाह्यत्वेनाभिमते मनःस्थानीयो लकारोऽनुसन्धेयः । वकारात्परपदे
आन्तरत्वेनाभिमते देहस्थानीयस्य लकारस्य सन्निवेश इति । ननु विसर्गव्याप्तिपदे
विसर्गप्रमातृरूपस्य देहस्य कथमात्मस्थानियस्य वकारस्य गर्भे
सन्निवेश इत्यत्रोच्यते - स्वप्नपदे विसर्गस्य स्थितिर्बिन्दुगर्भ एव तथापि
विन्दोर्विसर्गेणाव्याप्तिप्रतीतिः । अत एव स्वप्नस्य चिदचिद्व्याप्तिप्रदेशे
विसर्गप्रमातृरूपस्य देहस्य कथमात्मस्थानियस्य वकारस्य गर्भे
सन्निवेश इत्यसङ्केतस्थानतया मिश्राद्वयं वक्ष्यति । जाग्रति तु
विसर्गप्रमातुर्बिन्दुबहिर्भागसन्निवेशः । अत एव तस्याशुद्धता वक्ष्यते ।
देहस्यात्मान्तर्गत्वेन अन्तःकरणत्रयस्यात्मान्तर्गतत्वमनुमेयम् ।
तद्बहिर्गतत्वसन्निवेशस्तद्व्याप्तिप्रतिपत्त्यपेक्षयोपपद्यत इति निरवद्यम् ।
नन्वेतत्पदं पञ्चाङ्गकमुक्तम् तथा चेच्चतुरङ्गकेण शवर्गेण सह
अष्टकोणे कथं समसङ्ख्यया सन्निवेशमर्हति । अथास्य चतुरङ्गत्वे
विसर्गव्याप्तिर्न सङ्गच्छत इत्यत्राह - पञ्चाङ्गकमित्यादि । वकारस्य
बहिरेव लकारसन्निवेशे चतुरङ्गमेव सत्साम्प्रदायिकेन वकारगर्भे
लकारगर्भसन्निवेशरहस्येन पञ्चाङ्गकं चेति विशेषज्ञैः सम्प्रतिपद्यते
इति विज्ञेयम्
प्. ७१)
पृथ्वी लकार इह देहमयी स्वधामा
कर्तृज्ञतेस्य मरुदग्निमयौ यरेफौ ।
व्याप्ये तयोः क्षितिजलौ(ले) विकृते लवौ च
स्वात्मस्थितस्य वपुषः करणानि गर्भे
उक्तमर्यादया विसर्गव्याप्याभिमाने पञ्चाङ्गस्य स्वप्नपदस्याङ्गेषु
वर्णेषु पशुपदत्वात्पृथिव्यादीनां व्युत्क्रमेण सन्निवेशं दर्शयति -
पृथ्वीत्यादि । इह स्वप्नपदे लकारः वकारान्तर्वर्तिलकारः
स्वधामाऽन्यस्मिन्पदयाकाशस्थानं प्राप्ता देहरूपिणी पृथ्वी । अस्य
पृथ्वीरूपस्य देहस्य विसर्गप्रमातुः । मरुदग्निमयौ वायवग्निरूपौ यरेफौ
। कर्तृज्ञते क्रिअयज्ञानकरणे विद्याप्तिपदे सलिलजडाग्निरूपे यत्तत्त्वद्वयं
तदिदानीं व्युत्क्रमपदे वायुजडाग्निस्थानं यकाररेफरूपेण उपलक्षितम् ।
पृथिव्यात्मनो देहप्रमातुः चिद्व्याप्तौ साधनभूतं
क्रियाज्ञानकरणद्वयं भवतीति भावः । क्रियात्मनो देहस्य प्रमातृत्वात्
तत्साधनमपि क्रियाप्रधानं भवतीति विज्ञेयम् । वकारात्पूर्वो लकारः
वकार(रात्पर)श्च लकारस्तयोर्यकाररेफरूपवाययग्न्योः व्याप्ये
विकृते विकृतिमापन्ने । प्रकृत्या वायवाकाशरूपयोस्तत्त्वयोः
क्षितिजलभागौ (वि)वकारक्षितिजलौ(ले) । एवं स्वात्मस्थितस्य
वपुषः आत्मस्थानीयवकारगर्भे स्थितस्य देहस्य विसर्गप्रमातुः गर्भे
करणानि । भवन्तीति शेषः । विसर्गस्य स्वव्याप्तिपदे चित्पदावच्छेदनियमात्
आकाशादिरूपस्य विसर्गपदस्य संस्थानविशेषेणैव चिदन(व)च्छेदो
गम्यते । विसर्गप्रमातृसाधनाभ्यां वायवग्निभ्यां
पृथिवीजलयोरुच्छेदो न सिध्यति । वायुना जलस्योच्छेदः अग्निना पृथिव्या
उच्छेदः सम्भवति । वायुना पृथिव्युच्छेदोऽग्निना जलस्योच्छेदो न
सम्भाव्यत इति
प्. ७३)
मग्नः पुमान्वपुषि चित्तमहंक्रियायां
बुद्धौ जडांशजठरेऽप्यजडस्तदंशः ।
इत्थं प्रमातरि जडांशगताऽजडांशे
ज्ञानक्रियान्तरवभाति महानजाण्डः
इदानीमात्मनः स्वगर्भस्थेनैव देहादिना व्याप्तिं निरूपयन्
मनोबुद्धिरूपस्य विमर्शस्य देहाहङ्काररूपान्तर्जगदुद्वमनानन्तरं
बाह्यजगदुद्वमनचमत्कारं दर्शयति -
मग्न इत्यादि । पुमानात्मा वकाररूपः । वपुषि लकाररूपे । मग्नो भवतीति
शेषः । चित्तं पूर्वलकाररूपं मनः । अहं क्रियायां यकाररूपे अहङ्कारे
मग्न इत्यन्वयः । बुद्धौ जडांशजठरे । अजडस्तदंशः मग्न इत्यन्वयः ।
बुद्धेरग्नित्वं जडाऽजडरूपत्वं च प्रतिपादितम् । ननु वायुनाहङ्कारेण
पृथिवीरूपस्य चित्तस्य कबलनम् अग्निरूपया बुद्ध्या जलरूपस्यात्मनः
कबलनं पूर्वसूत्रेणोन्मीलितम् । इदानीमात्मनो देहेन कबलनं कथमिति चेत्
उच्यते । ज्ञानक्रियारूपं करणद्वयं प्रमातुरङ्गमेव । तत्कबलनं
फलतः प्रमातृकबलनमेवेति न विरोधः । इत्थमुक्तनिमज्जनपक्रियया ।
प्रमातरि वकाररूपे प्रमातरि । जडांशगताऽजडांशे
विसर्गतदङ्गनिमग्नस्वात्मस्वकीयाङ्गे सति ज्ञानक्रियान्तः
मनोबुद्धिगर्भात् । मनोबुद्धिरूपविमर्शगर्भादित्यर्थः । महान् अतिविततः ।
अजाण्डो ब्रह्माण्डः । अवभाति निर्गच्छति । विमर्शः स्वगर्भादन्तः
प्रपञ्चोन्मीलनानन्तरं बाह्यप्रपञ्चमुद्वमतीति भावः । स्वप्नपदे
ब्रह्माण्डस्य पिण्डाण्डं कारणमितिलौकिकस्यापि सम्प्रत्ययः । जाग्रति तु
ब्रह्माण्डः पिण्डाण्डस्य कारणमिति दक्षिणमार्गलौकिकप्रतीतिः ।
वाममार्गस्य योगिनस्तु तत्र पिण्डाण्ड एव ब्रह्माण्डकारणमिति निश्चयः
सिद्धदर्शने । यामले तु तयोरन्योन्यकार्यकारणत्वं यौगपद्यसिद्धेरिति
शक्त्यात्मनोः पिण्डाण्डब्रह्माण्डयोरविनाभाव इति । अन्तः पदे
पिण्डाण्डाङ्गं ब्रह्माण्डमिति बहिः पदे ब्रह्माण्डाङ्गं पिण्डाण्डमिति
समविवेकः
प्. ७४)
पिण्डाण्डमूलमपि मूलमिवास्य भाति
ब्रह्माण्डमन्तरमपि बाह्यमिवास्य चित्रम् ।
मायाविमोहितदृशा तदणुर्निरीक्ष्य
स्वाङ्गानि पञ्च कलयत्यणुशक्तिकानि
इदानीं पशोः स्वस्वरूपभूतात् पिण्डाण्डादेवोदितस्य ब्रह्माण्डस्य
दर्शनेन योऽयं विपरीतप्रतीतिरूपविमर्शविलास स्तं विवृणोति -
पिण्डाण्देति । ब्रह्माण्डपिण्डाण्डमूलमपि स्वप्नेऽपि देहाभिमानिनः विवादं
मनोमूलत्वात्पिण्डाण्डमूलकमपि अस्य पिण्डाण्डस्य स्वयं मूलमिव भाति ।
अस्य पिण्डाण्डस्य अन्तरेऽपि मनोनिष्ठत्वादन्तःस्थमपि बाह्यमिव भाति ।
चित्रमद्भुतम् । स्वान्तःस्थस्य स्वव्यापकत्वेन प्रतीतेर्द्भुतत्वात् । अणुः
सङ्कुचितप्रमाता । तत्तदेवंविधं ब्रहाण्डम् । मायाविमोहितदृशा
मायाचमत्कारपरिग्रहेण विमोहितया विकृतिं गतया दृशा ।
दृग्विमर्शेन निरीक्ष्य । पञ्च पिण्डाण्डस्थानानि देहादीनि । स्वाङ्गानि ।
अणुशक्तिकानि ब्रह्माण्डापेक्षया अत्यल्पसाराणि । कलयति । मनुते
प्. ७५)
सङ्कॢप्तवायुशिखिभूजलखापकर्षा
बन्धाः स्युरन्तरणुकस्य कलाप्यविद्या ।
रागश्च कालनियती इति कञ्चुकास्ते
मायात्मनः प्रथमकञ्चुकता सुषुप्तेः
इदानीं पशोः पञ्चमहाभूतात्मकब्रह्माण्डाङ्गदर्शनेन
संकुचितभूतात्मकस्वस्वरूपपिण्डाण्डाङ्गानामपकर्षसङ्कल्पा एव
अन्तर्बन्धाः कलादिशब्दव्यवह्रियमाणाः षट्कञ्चुका भवन्तीत्याह -
सङ्कृप्तेति । सङ्कॢप्तवायुशिखिभूजलखापकर्षाः । सङ्कॢप्ताः
सङ्कल्पिताः वायवाद्यपकर्षाः
यकाररेफलकारवकारलकारस्थानकवायवाग्निक्षितिजलाकाशसङ्कोचाः ।
अणुकस्य परिच्छिन्नप्रमातुः । अन्तर्बन्धाः स्युः । सङ्कल्पानां
पशोरन्तर्हृदयेऽवस्थानात् प्रपञ्चव्याप्तिलक्षणबन्धमूलत्वाच्च
अन्तर्बन्धत्वम् । स्वसङ्कल्पवशाद् बद्ध इति प्रसिद्धेः । तेषां
सङ्कल्परूपबन्धानां यकारस्थानकवायवादिक्रमेण
सिद्धसम्प्रदायप्रसिद्धकलादिषट्कञ्चुकरूपतां क्रमेणानुदिशति -
कलेत्यादि । यकारस्थानकवायुसङ्कोच सङ्कल्पः कला नाम कञ्चुको भवति ।
रेफस्थानकाग्निसङ्कोच सङ्कल्पः अविद्या नाम कञ्चुको भवतीति ।
लकारस्थानकपृथ्वीसङ्कोच सङ्कल्पो राग इति कञ्चुको भवति ।
वकारस्थानकजलसङ्कोचः सङ्कल्पः कालो नाम कञ्चुको भवति ।
लकारस्थानकाऽकाशसङ्कोचः सङ्कल्पो नियतिर्नाम कञ्चुको भवति ।
अपरिच्छिन्नप्रमातृपदे सर्वकर्तृत्वस्य वायोः पशुपदे
सङ्कोचात्कलामात्रकर्तृत्वमिति कला सर्वज्ञत्वस्याग्नेर्विद्यारूपस्य
सङ्कोचाद्वैपरीत्ये अविद्यात्वम् पूर्णत्वशक्तेः पृथिव्याः सङ्कोचे
ममेदमाशास्यमिति स्पृहापर्यायरागोदयाद्रागत्वम् नित्यत्वशक्तेः सलिलस्य
सङ्कोचे अनित्यताकलनात्कालत्वम् व्यापकत्वशक्तेराकाशस्य सङ्कोचे
अत्रैवाहमिति देशनियमान्नियतित्वमिति कलादीनामुपपत्तिः । ननु कञ्चुकाः
षडितिप्रसिद्धिस्तत्र माया प्रथमेति श्रूयते तस्याः कथं नात्र विवेक इत्यत्राह
- मायात्मन इति । योऽयं पञ्चकञ्चुकरूपात्स्वप्नात्पूर्वभाविनी
तत्कारणरूपभूता जडसुषुप्तिः । सैव मायाभेदसंसारस्य मूलरूपत्वात्
तस्या मायात्मनः सुषुप्तेः प्रथमकञ्चुकता क्षकारादि ककारान्तवर्णाः
शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वरूपा इति साम्प्रदायिकी प्रसिद्धिः । ते च वर्णा
द्विरूपेण लकारेण सह पञ्चत्रिंशकेन षकारक्षकारयोरेकवर्णत्वेन
सम्प्रदाये सम्प्रतिपन्नत्वात् । ततः स्वरवर्गस्य
मायातत्त्वरूपस्यान्तःस्थःवर्गमूले सन्निवेशे वर्णेषु षट्त्रिंशत्तत्त्वस्थिति
रविसंवादिनी । स्वर खण्डः खलु व्यापकखण्डस्य मूलम् ।
यवर्गरूपभेदस्वप्नबीजत्वाच्छवर्गरूपा-भेदस्वप्नविश्रान्तिपदत्वाच्च
। उत्पत्त्यपेक्षया ज्ञानस्य प्राधान्यं प्रतीत्यपेक्षया क्रियायाः
प्राधान्यमितिज्ञानक्रियासंसाररूपयोः स्वप्नजाग्रतोर्मध्ये सर्वकारणस्य
सुषुप्तेः स्वरवर्गरूपस्य सन्निवेश इति स्वरवर्गे स्वप्नवासनारूपयकारो
मायातत्त्वस्थानमिति विवेकः
प्. ७६)
कर्तृत्वशक्तिरनिलः सकलज्ञताग्नि-
र्भूः पूर्णताऽविलयताम्बु वियद्विभुत्वम् ।
पञ्चापि शक्तय इमा वितताः स्वरूपं
शम्भोर्भवन्त्यपि च सङ्कुचिताः पशोस्तु
इदानीं यकारादिस्थानानां वायवादीनां भूतानां पूर्णापूर्णतया
जीवशिवस्वरूपकर्तृत्वादिपञ्चशक्तित्त्वं व्युत्पादयति -
कर्तृत्वेति । अनिलः शिवस्य सर्वकर्तृत्वशक्तिः । अग्निः सर्वज्ञताशक्तिः । भूः
- पूर्णताशक्तिः । अम्बु - अविलयता नित्यत्वशक्तिः । वियदाकाशः -
विभुत्वं व्यापकत्वशक्तिः । इमाः पञ्चापि शक्तयः निरताः पूर्णाः
शम्भोः स्वरूपं भवन्ति । सङ्कुचितास्तु पशोः स्वरूपं भवन्ति । सर्वस्याः
क्रियायाः स्पन्दरूपत्वात् स्पन्दस्य वायुधर्मत्वाद्बायोः कर्तृत्वशक्तिता ।
ज्ञानस्य भासनरूपत्वात् भासनस्य तेजोधर्मत्वाद्वह्नेर्ज्ञत्वशक्तिता ।
सम्पन्नतापर्यायस्य पूर्णत्वस्य
सकलभोग्यवस्तुमूलत्वात्सकलभोग्यवस्तूनां पृथिवीमूलत्वात् पृथिव्याः
पूर्णत्वशक्तिता । नित्यत्वस्याऽप्यायनाविच्छेदमूलत्वादाप्यायनस्य
नित्यत्वशक्तित्वम् । विभुत्वस्य व्याप्तिमूलत्वा
द्व्याप्तेराकाशधर्मत्वादाकाशस्य विभुत्वशक्तिरिति विवेकः
प्. ७७)
स्यात्पञ्चशक्तिमयता प्रकृतिः शिवस्य
स्वान्तर्जगत्कलनमप्यथ देहिनस्तु ।
बाह्ये जगत्कलनमेव भवेद्विभेदः
स्वाभ्यन्तरस्थजगतोऽपि विमोहशक्त्या
शिवयोः पञ्चशक्तिमयत्वे सामान्ये भेदकं धर्ममुत्पादयति -
स्यादिति । शिवस्य पञ्चशक्तिमयता प्रकृतिः स्वभावः स्यात् । अष्टौ मूर्तयः
शिवस्येति प्रसिद्धिः । तत्र चन्द्रार्कयोस्तेजसि वह्नावन्तर्भावाद्यजमानस्य
चिदात्मन आकाशे तेजसि शिवान्तर्भावात् ब्रह्माण्डरूपेण परिणताः
पञ्चमहाभूता एव शिवस्य स्वरूपमाकाशप्रभूतिका इत्युपपन्नम् । शिवस्य
जीवाद्भेदकं धर्ममाह - स्वान्तर्जगत्कलनमिति ।
महाभूतपरिणामरूपाणां जगतां भूर्भुवादीनां
महाभूतेष्वेवावस्थानात् तदात्मनः शिवस्य स्वान्तर्जगत्कलनमेतावती
शिवस्य प्रकृतिः । अथ देहिनस्तु । अथ पक्षान्तरे । पञ्चभूतात्मकत्वात्
पञ्चशक्तिमयस्यैव सतः स्वाभ्यन्तरस्थजगतः पिण्डाण्डरूपस्य जीवस्य ।
पिण्डाण्डादेव ब्रह्माण्डोदयात्तत्रैव तस्य संस्थानात्
स्वाभ्यन्तरस्थजगतोऽपीत्युपपन्नम् । विमोहशक्त्या विपरीतप्रतीतिरूपविमर्श
शक्त्या । बाह्ये व्याप्तिपदे । यज्जगत्कलनम् जगतामवस्थानसङ्कल्पः । तदेव
शिवाद्विशेषः । भेदकोधर्मः । यदा निजस्वरूपं पिण्डाण्डं
ब्रह्माण्डस्य मूलतया ब्रह्माण्डादधिकं मन्यते । तदा स्वस्वरूपस्यैव
ब्रहाण्डत्वे तदुत्तीर्णत्वे च प्राप्ते सति विश्वमयविश्वोत्तीर्णस्वभावं
शिवत्वमेव शिवस्य प्राप्नोतीति भावः
प्. ७८)
अन्तःस्थितस्य मनसो न हि पूर्तियोग-
श्चैत्यस्य तत्कबलितत्वविनिश्चयायाः ।
तद्वच्चितेरपि न पूर्तिरतो दशेयं
पक्षद्वये स्फुरदपूर्त्यभिपूर्तियोगा
इदानीं स्वप्नस्य मिश्राध्वताप्रतिपादनाय तत्र चिदचिद्व्यापिसाङ्कर्यं
दर्शयति -
अन्तरित्यादि । मनसः । अन्तःस्थितस्य चैत्यस्य । देहब्रह्माण्डरूपस्य वेद्यस्य ।
पूर्तियोगः पूर्त्युपपत्तिः । न हि । तत्कबलितत्वविनिश्चयायाः -
तेनोभयविधेन चैत्येन कबलितत्वं व्याप्तत्वम् तत्र विनिश्चयः
प्रतिपत्तिदार्ढ्यम् यस्याः सा तथोक्ता । चितेरपि वकारस्थानकस्यात्मनोऽपि तद्वत्
न । यथा चैत्यस्य तथेत्यर्थः । पूर्तिः चैत्यस्य चिदन्तर्गतत्वे परमार्थे
चिद्व्याप्तिरेवास्तु । अन्यथा प्रतिपत्तिदोषेण परमार्थस्य न खलु व्याहतिरिति
नाशङ्कनीयम् । निर्विकल्पपरमार्थो मूलवस्तु निर्विकल्पवशादेव खलु
संसाराध्यवसायः । न हि पारमार्थिकः संसारः ।
अतस्तत्तत्प्रतीतिरूपविमर्शभासिता भावा अतात्त्विकत्वेन नापह्नवनीयाः ।
तथात्वे सर्वस्यापि संसारस्यापह्नवीयत्वप्रसक्तेरित्यलं
रहस्योपदेशान्तरायकथाभिः अतश्चिदचितोर्व्याप्तिनिर्णयानैकान्त्यात् । इयं
दशा । स्वप्नः । पक्षद्वये चिदचिद्रूपे पक्षद्वये । स्फुरदपूर्त्यभिपूर्तियोगा
स्फुरन्त्योरपूर्त्यभिपूर्त्योर्योगः संसृष्टिरस्यामिति सा तथोक्ता
प्. ७९)
अध्वा भवेच्चिदपकर्षवशादशुद्धः
शुद्धस्त्वसौ भवति चैत्यपदापकर्षात् ।
चिच्चैत्ययोरुपचयाऽपचयाऽविशेषान्-
मिश्रो हि मायिकपदं भवतीदमध्वा
स्वप्नस्याशुद्धाध्वताप्रवचनप्रस्थाने सर्वस्याप्यध्वनः स्वरूपं
व्युत्पादयति -
अध्वेति । चिदपकर्षवशाच्चैत्यस्य व्याप्त्या चित्तत्वस्यापकर्षे व्याप्यत्वे प्राप्ते
तद्वशात् । अशुद्धः अध्वा भवति । यत्र यतो व्याप्यत्वादपकर्षः तदेव
पदमशुद्धाध्वेति व्यवह्रियते ।
भेदजाग्रज्जडसुषुप्तिश्चाऽशुद्धाध्वेत्यर्थः । तत्र चैत्यव्याप्तेरैकाधिपत्येन
चितो व्याप्यत्वात् । असावध्व चैत्यपदापकर्षात् शुद्धो भवति । शुद्ध इति
व्यवह्रियते । तुर्यपदं शुद्धाध्वा चिद्व्याप्तिरैकाधिपत्येन चैत्यस्य
व्याप्यत्वात् । इदं मायिकपदं स्वप्नपदम् चिच्चैत्ययोरुपचयापचयाविशेषात् ।
उपचयो व्यापकत्वम् । अपचयो व्याप्यत्वम् । तयोरविशेषः सामान्यभावः ।
चिच्चैत्ययोः प्रत्येकं व्याप्य व्याप्तिसामान्यात् मिश्रो ह्यध्वा भवति ।
मिश्राध्वेति व्यवह्रियते । विश्वस्य चिन्मयत्वपारमार्थ्यात् तद्व्याप्तिप्रतीतिरेव
शुद्धिः । तद्वान शुद्धः । चैत्यव्याप्तेश्चमत्कारमात्रतया
चित्स्वरूपावरकत्वेन मलपर्यायतायां चैतव्याप्तिप्रतीतिरशुद्धिः ।
तद्वानशुद्ध इति वेदितव्यम् । जाग्रदादीनामेव दशानां शिवजीवयोः
सञ्चरणपर्याये पुनःपुनरभ्यावृत्तिविषयतया व्यवहारः
प्. ८०)
आत्मा वकारवपुषाणुरुकार एव
देहात्मनैव खलु संसृतिरस्य जन्तोः ।
देहं च तात्त्विकममुष्य सुषुप्तमेव
स्वप्ने तदत्र मन एव शरीरताभाक्
इति मातृकाचक्रविवेके स्वप्नविवेकस्तृतीयः खण्डः ॥
प्रकरणमुपसंहरन् स्वप्ने मनस एव शरीरत्वमिति विप्रतिपत्तिविषयत्वात्
सविशेषं प्रतिपादयति -
आत्मेति । अकारादिरूपे सुषुप्तिपदे आत्मस्थानीये य उकारः सोऽयमुकाररूप
एवात्मा स्वप्नपदे वकारवपुषा वकाररूपेण । अणुः सङ्कुचितः । अस्य
वकाररूपस्य जन्तोः जीवस्य । देहात्मनैव देहरूपेणैव । संसृतिः
संसरणम् खलु शिववद्देहबन्धं विना निर्मलचिदाकाशरूपेण
संसरणलीलाचमत्कारानुसन्धानं न संभवतीति भावः । अतो जीवस्य
संसरणे देहमवश्यं स्वप्ने मनः - कल्पितम् तात्त्विकं देहं
सुषुप्तमेव निमीलितबहिरिन्द्रियग्रामं सच्छययातलं न जहातीति भावः ।
तस्यैव स्वप्नसंसारिणोऽधिष्ठातृत्वे स्वप्नसम्भाविताङ्गुलिच्छेदादेर्जाग्रति
सम्पातप्रसक्तेः । यद्यपि तात्त्विकस्यापि देहस्य मनोमूलत्वं तथापि
लौकिकप्रतीत्यपेक्षयाऽतात्त्विकं मनःकृतमित्युक्तम् । तत्तस्मात्कारणाद् अत्र
स्वप्ने । मन एव । पारिशेष्यादिति भावः । शरीरताभाक् शरीरत्वं भजतीति
सम्प्रतिपन्नं लौकिकस्यापीत्यर्थः
प्. ८१)
शम्भोर्दक्षिणमक्षिभूतविततेः शोषे यकारः पटु -
र्नेत्रं मध्यममुष्य लोकदहने जागर्तिरेफाक्षरम् ।
विश्वाप्लावककर्मठं पशुपतेर्वामेक्षणे वाक्षरं
त्रैनेत्रं पदमाददाति जपतामेतत्त्रयं देहिनाम् ॥
सुप्त्या मग्नस्य जलधौ विश्वस्योद्धृत्य धारणात् ।
मन्त्रविद्भिर्यवर्गोऽयं धारणाशक्तिरुच्यते
स्थितिरिन्द्रे हि विश्वस्य लकारे मानसे तथा ।
तदिन्द्राख्या लकारस्य मन्त्रवित्साम्प्रदायिनी
वकारं च लकारंच भित्वा बुध्यातितीक्ष्णया ।
(वलभिद्वलभित्प्रोक्तो नवलो नाम राक्षसः )
भेदप्रत्ययघस्मरैर्नवरसैः पेयैर्यकारात्मकै-
?र्लाकारैरुपदंशनैश्च रदनोत्पत्तिक्रियायाः फलैः ।
मायां ये समुपासते कृतधियस्तेषां यवर्गस्थितं
मायास्फूर्तिरहस्यमन्तरचिरादुद्योतते स्वात्मनि
शिवानन्देन मुनिना देशिकादेशवर्तिना ।
तृतीयं मातृकाचक्रविवेके व्याकृतं पदम्
इति तृतीयः खण्डः समाप्तः
अथ चतुर्थः खण्डः ॥
इत्यन्तरीषदिह सङ्कुचिते विमर्शे
सङ्कोचमाश्रयति बाह्यपदे प्रगाढम् ।
प्रत्येकमेव कलयन्त्यथ भावमेवं
भूतानि पञ्च जगतो नियतः कलापः
अथ स्कन्धान्तरमारभमाणः पूर्वोत्तरस्कन्धयोः सम्बन्धदर्शनाय
पूर्वस्कन्धप्रमेयानुवादपूर्वकमुत्तरस्कन्धप्रमेयं प्रस्तौति -
इतीत्यादि । इत्युक्तप्रकारेण । अन्तरन्तःकरणकक्ष्यायाम् । इह स्वप्नदशायाम् ।
ईषत्सङ्कुचिते विमर्शे बाह्यपदे बाह्येन्द्रियकक्ष्यायाम् । जाग्रति ।
प्रगाढमतिमात्रं सङ्कोचमाश्रयति । भूतानि जगतो नियतः कलापः । जगतो
भूतपरिणामरूपत्वात् भूतानां नियमेन जगत्कलापत्वम् । प्रत्येकं
पञ्चभावं कलयन्ति प्राप्नुवन्ति । विमर्शस्यातिसङ्कोचपदे जाग्रति
भूतानामप्यतिसङ्कोचपरिग्रहात् । पृथिव्यादीनामेकैकस्य
पृथिव्यादिपञ्चरूपत्वेनातिसङ्कोचः । पशुप्रमातृपदस्य सलिलस्य
पुरुषप्रकृत्यादिरूपेण पञ्चभूतात्मतयातिसङ्कोचः ।
पशुप्रमातृज्ञानेन्द्रियपदायाः पृथिव्याः श्रोत्रत्वगादिरूपेण
पञ्चभूतात्मतयातिसङ्कोचः ।
पशुप्रमातृकर्मेन्द्रियपदस्याग्नेर्वाक्पाण्यादिरूपेण
पञ्चभूतात्मतयातिसङ्कोचः । पशुप्रमातृज्ञेयवेद्यपदस्य वायोः
शब्दस्पर्शादिरूपेण पञ्चभूतात्मतयातिसङ्कोचः । पशुप्रमातुः
कार्यवेद्यरूपस्याकाशस्याकाशवायवादिरूपेण पञ्चभूतात्मतयाति
सङ्कोचः । अत्रायमर्थो गम्यते - भूतानां प्रत्येकंपञ्चभूतात्मतया
विलसनं स्वभावः सुषुप्तिस्वप्नयोरपि सङ्कोचाविषयत्वान्नोन्मिषति ।
जाग्रत्यतिसङ्कोचपदे तु समुन्मिषतीति । एतेन भूतानामपि सर्वेषां
सर्वभूतैः सहाविनाभावसम्बन्ध नियम इति वेदितव्यम्
प्. ८३)
यद्वर्णपञ्चकमपूर्वकमादिवर्ग्य-
मन्तःस्थतां भजति सङ्कुचिते तदीषत् ।
तत्कादिवर्गतनुसङ्कुचितं नितान्त-
मूष्मात्मकं च दधतेऽङ्कुरिताभिपूर्ति
इदानीं जाग्रत्प्रस्तावे कादिमान्तस्पर्शवर्णानां सङ्कोचाधिक्यदर्शनाय
सर्ववर्णकारणरूपस्याकारादिवर्णपञ्चकस्य स्फुरणे प्रतिपादिप्रक्रियां
व्युत्पादयति -
यद्वर्णेत्यादि । आदिवर्गः - वर्गाणामादित्वादादिवर्गः स्वरवर्गः । तत्र
भवम् आदिवर्ग्यम् । अपूर्वकम् अकारः पूर्वो यस्य वर्णपञ्चकस्य
तदपूर्वकं यद्वर्णपञ्चकम् अकारेकारोकार-ऋकारऌकाररूपम् ।
तदेवं वर्णपञ्चकम् । ईषत्सङ्कुचितं सत् । ईषत्स्पृष्टताप्रयत्नविषयतया
ईषत्सङ्कुचितं सत् । अन्तःस्थतां यकारादिरूपतां भजति । इकारस्येषत्सङ्कोचो
यकारः ऋकारस्य रेफः (ऌ)?इकारस्य लकारः उकारस्य
वकारः सङ्कोचः । मनस एव लकारस्थानकस्य
विसर्गप्रमातृपर्यायदेहरूपत्वादकारसङ्कोचो नास्ति ।
एवमकारादिवर्णपञ्चकस्यैव रूपान्तरमन्तःस्थवर्गः । तदेव
वर्णपञ्चकं नितान्तं सङ्कुचितं स्पृष्टाविषयतयातिसङ्कुचितं सत् ।
कादिवर्गतनु - कवर्गादिवर्गपञ्चकस्वरूपम् । अकारस्य सङ्कोचः
कवर्गः । इकारस्य सङ्कोचश्चवर्गः । ऋकारस्य सङ्कोचष्टवर्गः ।
ऌकारस्य सङ्कोचस्तवर्गः । उकारस्य सङ्कोचः पवर्गः । अथ तदेव
वर्णपञ्चकम् । अङ्कुरिताभिपूर्ति - ईषद्विवृत्तिप्रयत्नविषयतया
अङ्कुरितपूर्णत्वं सत् ऊष्मात्मकं च । (दधते - भजति)
पवर्गपञ्चकरूपेण सङ्कुचितस्याकारादिवर्णपञ्चकस्येषत्पूर्णत्वरूपा
ऊष्माण इत्यर्थः । चवर्गस्येषत्पूर्णत्वं शकारः । टवर्गस्येषत्पूर्णत्वं
षकारः । तवर्गस्येषत्पूर्णत्वं सकारः । कवर्गस्येषत्पूर्णत्वं हकारः ।
एवं कारणरूपस्याकारादिवर्णपञ्चकस्यैव दशाविशेषास्तत्कार्यरूपाः
सर्वे वर्णा इति विवेकः
प्. ८४)
स्थानेन साधितधराप्रभृतिस्वभावे
वर्णोत्करे भवति मातृपदं पवर्गः ।
आत्मा मनस्तदनु बुद्धिरहङ्क्रिया च ।
प्राक् चेतसः प्रकृतिरप्यवरोहभङ्ग्या
अथ स्पर्शकदम्बकस्य स्थानवशात्पृथिव्यादिरूपत्वविवेकं
प्रागुक्तप्रमेयतया सूचयन्निति तत्प्रमातृपदस्य पवर्गस्य वर्णपञ्चके
तत्प्रतिपाद्यं तत्त्वपञ्चकं व्युत्पादयति -
स्थानेति । स्थानेन कण्ठताल्वादीना । साधितधराप्रभृति स्वभावे
प्रागुक्तप्रक्रियया नीचोच्चस्थानेपर्यालोचनया निश्चित पृथिव्यादिस्वभावे ।
वर्णोत्करे स्पर्शवर्णकदम्बके । पवर्गो मातृपदं प्रमातृपदं भवति
। यद्यपि कवर्गस्यैव व्यापकतया प्रमातृपदत्वं तथापि चैत्यस्य
प्रमातृत्वं वैकारिकं चितः प्रमेयत्वं च तथेति चित्पदस्य पवर्गस्य
प्रमातृपदव्यवहारः पूर्व(शा)शसनयेति निरवद्यम् ।
अवरोहभङ्ग्या विलोमक्रमेण । मकारमारभ्य पकारपर्यन्तमित्यर्थः ।
आत्मा मनः बुद्धिः अहङ्क्रिया प्रकृतिरितिपवर्गवर्णानां विलोमक्रमेण
तत्त्वपञ्चकस्वरूपता । तद्भावकत्वे तत्स्वरूपत्वमुपचारतः । मकार आत्मा
पुरुषतत्त्वमित्यर्थः । भकारो मनस्तत्त्वम् । बकारोबुद्धितत्वम्
फकारोऽहङ्कारतत्त्वम् । पकारः प्रकृतितत्त्वमिति विज्ञेयम् ।
पकारादिवर्णपञ्चकस्य पृथिव्याद्याकाशान्तरा(ता)यां सत्यामेव
प्रकृत्यादिव्यवहारः । पृथिव्यंशः प्रकृतिः । जलांशोऽहङ्कारः ।
अग्न्यंशो बुद्धिः । वायवंशो मनः । आकाशांशः पुरुष इति विवेकः ।
एवमितरवर्गचतुष्टयस्यापि प्रथमवर्णादारम्य पृथिव्याद्यंशतत्वे
सत्येव वक्ष्यमाणतत्तत्तत्त्वरूपता विज्ञेया ।
ननु पुरुषतत्त्वानन्तरं प्रकृतितत्त्वमिति प्रवादः तत्कथमत्र क्रमविरोध
इत्यत्राह - प्राक्चेतस इति । चेतसो मनसः प्राक् प्रथमं प्रकृतिरिति
तत्त्वोदयक्रमः । आकाशपृथिवीरूपयोः पुरुषप्रकृत्योर्धर्मिणोरनन्तरं
तद्धर्मभूतानां मनोबुद्ध्यहङ्काराणामुदयस्योपपत्तिः तथापि तेषां
धर्माणां धर्मिद्वयमध्य एवोदयात् मध्यगता परिगणना उदयापेक्षया
धर्माणां धर्मिद्वयानन्तर्य मनवस्थित्यपेक्षया तु
धर्मिद्वयमध्यत्वमिति भावः । मध्यत्वेऽपि मनसः
पुरुषधर्मत्वात्तत्समीप एवावस्थानम् अहङ्कारस्य प्रकृतिधर्मतया
प्रकृतिसमीप एव स्थितिः मनोऽहंकारयोर्मध्ये उभयधर्मस्य बुद्धेः
स्थितिरिति विज्ञेयम् । विसर्गव्याप्तौ प्रकृत्यहङ्कारबुद्धिमनः पुरुषा इति
बिन्दुव्याप्तौ पुरुषमनोबुद्ध्यहङ्कारप्रकृतय इति क्रमः तदत्र
विसर्गव्याप्तेः प्राथम्यात् प्रकृत्यादिकः क्रमोऽङ्गीकर्तव्यः
प्. ८६)
श्रोत्रादिकं खलु तवर्गमयं विलोमा-
द्वागादि पञ्चकमिदं च टवर्गरूपम् ।
शब्दादि खाद्यपि चवर्गकवर्गरूप-
मेतानि वायुदहनाम्बुमहीविलासाः
पवर्गवर्णप्रतिपाद्यानि तत्त्वान्युक्त्वा तवर्गादिवर्णप्रतिपाद्यान्यपि तत्त्वानि
व्युत्पादयति -
श्रोत्रादिकमित्यादि । श्रोत्रादिकं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणरूपं
तत्त्वपञ्चकम् । विलोमात्तवर्गमयम्
विलोमक्रमिकतवर्गरूपनकारादितकारान्तवर्णपञ्चकरूपमित्यर्थः । अत्रापि
नकारप्रतिपाद्यं श्रोत्रतत्त्वमाकाशांशः । धकारप्रतिपाद्या त्वक्
वायवंशः । दकारप्रतिपाद्यं चक्षुस्तेजोऽशः । थकारप्रतिपाद्या जिह्वा
जलांशः । तकारप्रतिपाद्यः प्राणः पृथिव्यंश इति विज्ञेयम् । इदं
प्रत्यक्षनिर्देश्यं वागादिपञ्चकं च
वाक्पादपाण्युपस्थपायुरूपतत्त्वपञ्चकम् । विलोमादि त्यस्यात्रापि सम्बन्धः
। विलोमक्रमिकटवर्गरूपम् । णकार आकाशांशो वाक् । ढकारो वायवंशः
पादौ । डकारस्तेजोंऽशः पाणी । ठकारो जलांशः उपस्थः । टकारः
पृथ्विव्यंशः पायुः । शब्दादिशब्दस्पर्शरूपरसगन्धरुप
तत्त्वपञ्चकमाकाशाद्यपि च आकाशवायवग्निजलपृथिवीरूपं
तत्त्वपञ्चकं च । क्रमेण चवर्गकवर्गरूपम् । अत्रापि
विलोमादित्यस्यानुवृत्तिः । ञकार आकाशांशः शब्दः । झकारो वायवंशः
स्पर्शः । जकारस्तेजोंऽशोरूपम् । छकारः सलिलांशो रसः । चकारः
पृथिव्यंशो गन्धः । ङकार आकाशः । घकारो वायुः । गकारस्तेजः ।
खकारः सलिलम् । ककारः पृथिवीति विवेकः । एतानि
तवर्गादिवर्गचतुष्टयतत्त्वानि । वायुदहनाम्बुमहीविलासाः ।
वायोस्तवर्गाधिष्ठातृत्वात् तवर्गप्रतिपाद्यतत्त्वानि वायुविलासा इति विज्ञेयम् ।
अग्नेष्टवर्गाधिष्ठातृत्वात् टवर्गप्रतिपाद्यतत्त्वानि अग्निविलासाः । जलस्य
चवर्गाधिष्ठातृत्वाच्चावर्गप्रतिपाद्यतत्त्वानि जलस्य विलासाः । पृथिव्याः
कवर्गाधिष्ठातृत्वात् कवर्गप्रतिपाद्यतत्त्वानि पृथिवीविलासा इति विवेकः
प्. ८७)
देहात्मिका प्रकृतिरान्तररूपमुर्व्याः
सूक्ष्मं जलस्य खलु रूपमहङ्क्रिया स्यात् ।
अग्नेस्तु बुद्धिरनिलस्य मनोऽन्तरात्मा
सर्गः खलु प्रकृतिजः क्षितिसर्गबीजम्
इदानींकचटतवर्गतत्वात्मनः स्थूलस्य पृथिव्यण्डस्य पवर्गवर्णरूपं
प्रकृत्यन्तं सूक्ष्मरूपतया कारणमिति प्रतिपादयति - देहात्मिकेति ।
देहात्मिका देहरूपिणी । प्रकृतिः । देहाभिमान एव प्रकृतिरिति व्यवह्रियते । सा
प्रकृतिः । उर्व्याः पृथिव्याः । कवर्गरूपिण्या इति भावः । आन्तरम्
अन्तःकक्ष्यास्थितं रूपं स्वरूपं सूक्ष्मं रूपम् ।
अहंक्रियाऽहङ्कारश्चवर्गरूपस्य सलिलस्याऽन्तरं रूपं स्यात्खलु ।
अग्नेष्टवर्गरूपस्य अन्तरात्मना बुद्धिः । अनिलस्य तवर्गरूपस्य अन्तरात्मना
मनः । एवं प्रकृतिजः सर्गः संसारः । पवर्गवर्णचतुष्टयं भवति ।
रूपप्रकृति संसारः । क्षितिसर्गस्य कवर्गादिवर्गचतुष्टयात्मनः पृथिवी
संसारस्य । बीजं कारणम् । सूक्ष्मस्य प्रकृतिसंसारस्यैव स्थूलभावः
पृथिवी संसार इति प्रकृतिसंसारस्य ब्रह्माण्डपर्यायस्य कार्यत्वं
स्वाभाविकस्य प्रकृत्यन्तस्य पृथिव्यन्त मूलत्वं प्रकृत्यन्तस्तु
मायाविलास इति तात्पर्यम् । अत एव चतुरस्ररूपस्य प्रकृत्यन्तस्य रविबिम्बत्वं
दशारयुग्मरूपस्य पृथिव्यन्तस्य रश्मिचक्रत्वं महायन्त्रं विभाव्यते
प्. ८८)
देहात्मनोः प्रकृतिपूरुषयोः प्रमाता
देहोत्र तस्य निलयोऽपि तदङ्गमात्मा ।
आत्मा यथा भवति मातृपदं वपुश्चेत्
तल्लीनमस्त्यविरहः शिवयोः स्वभावः
इदानीं प्रकृत्यण्डमारभते -
देहात्मनोरित्यादि । देहात्मनोर्देहात्मपर्याययोः प्रकृतिपुरुषयोर्मध्ये ।
अत्रविसर्गप्रकरणे । देहः प्रमाता । तस्य देहस्य । निलयोऽपि आश्रयोऽपि । अपि
शब्देनाङ्गित्वसम्भावना प्रतीयते । देहस्य विमर्शतत्त्वपरिणामरूपस्य
आत्मनः प्रकाशं विना न कुत्रापि स्थितिरुपपद्यते धर्मस्य
धर्मिण्येवाश्रयणमिति नियमात् । आत्मातदङ्गम् तस्य देहस्याङ्गं
तदन्तर्गतत्वेन तदङ्गत्वम् । विसर्गप्रमातृदेहस्य प्रकृतिपर्यायस्य
व्याप्तौ आत्मा तदन्तर्गतः सन् तदङ्गतां भजते । यथा आत्माप्रमातृपदं
प्रमातृस्थानं भजत्यारोहते । तत्र बिन्दुव्याप्तिपदे । तल्लीनम् -
तस्मिन्नात्मनि लीनमेकरसीभूतम् । वपुः । अस्ति सत्तामवलम्बते । न तु
परमोच्छेदं प्राप्नोति । तथात्वे विमर्शपदस्यापुनरुदयप्रसङ्गात् ।
विमर्शस्य पुनः पुनरुदय(दर्शनेन)प्रकाशव्याप्तावपि
विमर्शस्यात्यन्तिकोच्छेदो न सम्भाव्यते इत्यवधारणीयम् ।
प्रकाशविमर्शयोरितरेतरव्याप्तौ उभयोरप्यनुच्छेदं प्रतिपादयति -
अविरह इति । शिवयोः शिवा च शिवश्च शिवौ तयोः शिवयोः । अविरहः
अन्योन्याविनाभावः । स्वभावः नैसर्गिक इत्यर्थः । प्रकाशं विना विमर्शोऽपि
न विमर्शं विना प्रकाशोऽपि न किन्तु प्रकाशव्याप्तौ विमर्शस्य
प्रकाशैकरस्येन स्थितिः विमर्शव्याप्तौ प्रकाशस्य भिन्नरसत्वेनैव स्थितिरिति
विभागः
प्. ८९)
जाड्यादहङ्कृतिरिति प्रथते विमर्शो
बुद्धिर्जडाजडतया मनसस्त्वजाडयात् ।
त्रैगुण्यमेतदबहिः करणत्रयं स्यात्
सौषुप्तजाग्रदवशेषदशानिदानम्
एवं धर्मिणोः देहात्मनोः स्वरूपं विचार्य इदानीं
अहङ्कारबुद्धिमनोरूपेण त्रिविधस्य विमर्शादभिन्नस्य धर्मस्य स्वरूपं
परामृशति -
जाड्यादित्यादि । विमर्शजाड्यात् जडत्वभूमिका परिग्रहात् अहङ्कृतिरितिप्रथते ।
प्रसिद्धो भवति । जडत्वभूमिकापरिग्रहे विमर्श एवाहङ्कारशब्देन
व्यवह्रियते इत्यर्थः । देहे अहमिति योऽयं विमर्शः स एव जडः
विमर्शोऽहंकारः । जडभूतदेहाश्रितत्वेन तद्धर्मत्वात् । अयमेव
जडविमर्शोऽन्तःकक्ष्यायामहङ्कारः सन् देहधर्मबहिःकक्ष्यायां
शब्दादिपञ्चकरूपः सन् भूतचतुष्टयाङ्कायाः पृथिव्या अङ्गिन्या
धर्मः । अथ विमर्श एव जडाजडत्वभूमिकापरिग्रहे बुद्धिरिति व्यवह्रियते
इत्याह - बुद्धिर्जडाजडतयेति । क्रियासाधनमिन्द्रियं स्वयमपि स्थौल्येन
क्रियारूपत्वाज्जडं च स्वत एव स्पन्दमानत्वादजडं च अतः
क्रियासाधनरूपेण जडाजडो विमर्शः अन्तः कक्ष्यायां बुद्धिरित्युच्यते ।
बहिः कक्ष्यायां वागादिपञ्चकमुच्यते ।
अथ विमर्श एव अजडत्वभूमिकापरिग्रहेण मन इत्युच्यते
विमर्शस्त्याजडत्वं ज्ञानसाधनरूपेण । ज्ञानसाधनं खलु
मनश्चक्षुरादिकमन्तर्बहिः कक्ष्याविभक्तं सूक्ष्मरूपतया
बुद्धिवागादिविलक्षणं पदं जडमेव । एवं
विमर्शरूपमहंकाराद्यन्तःकरणत्रयमेव गुणत्रयमित्याह -
त्रैगुण्यमिति । एतद्बहिःकरणत्रयम् अन्तःकरणत्रयत्रैगुण्यं
सत्त्वादित्रिगुणसमाहारः स्यात् । अहंकारो रजोगुणः । उत्पत्तिरूपत्वात् । बुद्धिः
सत्वम् । स्थितिरूपत्वात् । मनसस्तमोगुणः संहाररूपत्वात् । चिदेकाकारता खलु
संहारः प्रकाशविश्रान्तिरूपो लौकिकैस्तम इत्युच्यते । तदस्य मनसो
लौकिकापेक्षयैव तमस्त्वम् । अथवा क्रियायाः संहारपक्षे
क्रियारूपोऽहङ्कारस्तमः ज्ञानरूपं मनोरजः अजडत्वं जगदुत्पत्तिदशा
जडत्वं तत्संहार इति लौकिकः पक्षः । जडत्वं जगदुत्पत्तिदशा अजडत्वं
संहारदशेति योगसिद्धान्तः । अतो यथा विवक्षितं
जडाजडयोरहङ्कारमनसोस्तमोरजोगुणयोर्योजना कर्तव्या ।
अथैतद्देहान्तःकरणत्रयंसुप्त्यादिदशात्रयबीजमित्याह - सौषुप्तेति ।
सुषुप्तिरेव सौषुप्तं सुषुप्तिजाग्रद्भ्यामवशेषदशा स्वप्नः अहङ्कारो
जडत्वात्सुषुप्तिनिदानम् बुद्धिर्जडाजडतया जाग्रन्निदानम् मनस्त्वजडतया
स्वप्ननिदानमिति विवेकः
प्. ९०)
देही गुणत्रयमयप्रकृतिर्दशासु
सुप्त्यादिकासु नियमात्परिबंभ्रमीति ।
तास्वप्यहङ्कृतिपुरःसरणात्त्रिपुट्यां
मेयोन्नतिं कलयति प्रमुखक्रियांशम्
इदानीं देहिनो गुणत्रयमयप्रकृतियोगेन सुप्त्यादिदशात्रये
परिभ्रमणमित्याह ।
देहीति । देही देहाभिमानी प्रमाता गुणत्रयमयप्रकृतिः
गुणत्रयसंसृष्टिरूपिणी प्रकृतिः स्वभावो देहपर्यायो यस्य तयोक्तः । एतेन
गुणत्रयसंसृष्टिरेव प्रकृतिरिति प्रकृतिलक्षणमुक्तम् ।
एवंरूपप्रकृतिर्जीवः सुप्त्यादिकासु दशासु सुषुप्तिजाग्रत्स्वप्नेषु
नियमादव्यभिचारेण परिबंभ्रमीति पुनःपुनर्भ्रमति । तास्वपि दशासु
अहङ्कृतिपुरःसरणात् देहधर्मस्याहङ्कारस्य प्राधान्यात् । त्रिपुट्यां
प्रमातृप्रमाणप्रमेयरूपायां संसारकलापसंपुटिकायाम् । मेयोन्नतिं
प्रमेयव्याप्तिम् । प्रमुखक्रियांशम् - प्रधानःक्रियांशो
यस्यास्मिन्कर्मणि तथा । कलयति विमृशति । देहस्य प्रमातृत्वे तद्धर्मस्य
विमर्शस्य जडत्वाज्जडपक्ष्यस्य प्रेमयस्य व्याप्त्यनुसन्धानं
भवतीत्यर्थः
प्. ९१)
मेयादिका सततयुक्त्रिपुटी मनस्तां
मेयादि भासयति मूढमहङ्क्रियात्म ।
मात्रादि भासयति चाथ निजस्वभावा-
द्बुद्धिश्च मध्यमपदे मन एव बोध्यम्
इदानीं सर्वस्यान्तःकरणस्य मन एव प्रमाणभूतं मनस
एवाहङ्कारादयो भूमिकाः मनसो
विमर्शप्रथमरूपत्वाद्विमर्शवैभवं मनोवैभवमिति व्युत्पादयति ।
मेयादीति । मेयादिका मेयमानमातृरूपा त्रिपुटी त्रयाणां मेयादिपुटानां
समाहारस्त्रिपुटी । सततयुक् । अन्योन्याविनाभावस्वभावा । तां त्रिपुटीम् । मनः
विमर्शस्य मूलरूपम् मूढं जाड्यपर्यायमौढ्यभूमिकापरिग्रहेण ।
अहङ्क्रियात्म - अहङ्कारस्वरूपं सत् । मेयादि भासयति । प्रमेयादिकं
यथा तथा भासयति । मेयव्याप्तिं दर्शयतीत्यर्थः । मनस
एवानुसन्धानमहङ्कार आरोप्यत इत्यर्थः । अथ तदेव मनः
निजस्वभावादजडरूपात् । अजडरूपं निजस्वभावं परिगृह्येत्यर्थः । तां
त्रिपुटीमित्यनुवर्तते । मात्रादि भासयति प्रमात्रादिकं यथा तथा भासयति ।
चित्प्रमातृव्याप्तिं दर्शयतीत्यर्थः । मन एव मध्यमपदे
जडाजडसमानपदे । जडाजडपदपरिग्रहेणेत्यर्थः । बुद्धिश्च
प्रमेयप्रमात्रोः समव्याप्तिप्रदर्शिका बुद्धिश्च मन एवेति बोध्यम्
प्. ९२)
तस्मात्पकारवपुषः प्रकृतेः प्रमातु-
रात्मा मकारवपुरन्तर एव लीनः ।
तन्मध्यतास्थितिरहङ्कृतिधीहृदां स्या-
देतत्यमातृपदमिन्द्रियलग्नविश्वम्
उक्तप्रमेयं कारणीकृत्य पवर्गेप्रकृत्यादितत्त्वसन्निवेशं
दृढीकृत्योपदर्शयति -
तस्मादिति । तस्मात्पूर्वोक्तप्रमेयरूपात्कारणात् । पकारवपुषः
पकारप्रतिपाद्यायाः प्रकृतेः । पकारवपुषः पकारस्वरूपाया इत्युपचारः ।
प्रमातुः देहपर्यायप्रकृतिरूपस्य प्रमातुः । अन्तर एव व्याप्यपद एव ।
मकारवपुर्मकारस्वरूपः । आत्राप्युपचारः । आत्मा पुरुषः । लीनः व्याप्त
इत्यर्थः । तन्मध्यतः तयोः प्रकृतिपुरुषयोर्मध्यभागे ।
अहङ्कृतिधीहृदाम् - अहङ्कारबुद्धिमनसाम् । स्थितिः सन्निवेशः स्यात् ।
यद्यपि मकारस्यात्मनो व्यापकवर्गे प्रमातृपदे सन्निवेशः तथापि
पवर्गव्यापकवर्गयोर्मध्ये सन्निवेशादुभयपक्षप्रक्रियासम्बन्धो
वेदितव्यः । स्पर्शकदम्बकस्य प्रमाणपदत्वान्मकारस्य
प्रमातुस्तत्प्रकाशानुसारेण परिगणना । तथापि
प्रमाणपदक्रियासम्बन्धमात्रं ताटस्थ्यादङ्गीकर्तव्यमेव । अतः
प्रकृतिव्याप्तिः पुरुषपर्यन्तं प्रवहतीति निरवद्यम् । चतुरश्रचक्रसन्निवेशे
तु मनोबुद्ध्योरेवात्मपुरुषरूपयोरहङ्कारप्रकृतिभ्यां व्याप्तिस्ताभ्यां
च तदुभयव्याप्तिरिति विवेकः । अथैतस्मिन्नेव प्रकृत्यन्ते मनोबुद्ध्योः
स्वप्नपद इव ब्रह्माण्डोन्मीलनचमत्कारं दर्शयति - एतदित्यादि ।
एतत्प्रमातृपदं प्रकृत्यन्तरूपम् । इन्द्रियलग्नविश्वं
मनोबुद्धिरूपज्ञानक्रियेन्द्रियसम्बद्धं विश्वम् । भवतीति शेषः
प्. ९३)
एतच्च मातृपदमिन्द्रियसंश्रितं च
तत्संश्रयश्च मन एव तदिन्द्रियं स्यात् ।
तद्ग्रामणीन्द्रियकुलस्य विमर्शशक्ति-
श्चिच्चेत्यमिश्रमखिलं खलु तद्विलासः
अथ यदेतदन्तर्बाह्यजगद्विलसितं तत्सर्वं मनोमूलमेवेति प्रतिपादयति -
एतच्चेति एतच्चमातृपदं प्रकृतन्त रूपं प्रमातृपदम् -
इन्द्रियसंश्रितं च मनोबुद्दिरूपेन्द्रियविलासःत्वात्तत्संश्रितं
तयोर्मनोबुद्ध्योः संश्रितं तत्संश्रयश्च तयोर्मनोबुद्ध्योः संश्रयः
आश्रयश्च । एतद्द्वयं निजसमाश्रयमेव कुर्वन्नित्युक्तत्वात् ।
तद्द्विरूपमिन्द्रियमपि पर्यालोचनायां मन एव स्यात् । मनस एव दशाविशेषो
बुद्धिरित्युक्तत्वात् । इन्द्रियकुलस्य अन्तर्बाह्यकरणजालस्य । ग्रामणि प्रवर्तकम् ।
तत् मनः । विमर्शशक्तिः -
विचित्रविश्वोद्वमनानुचर्वणक्रियाप(स्फुर)णोन्मेषनिमेषसम्भ्रमा
विमर्शशक्तिः । मन एव । चिच्चैत्यमिश्रं
प्रमातृप्रमेयप्रमाणरूपमखिलम् । तद्विलासः तस्य मनसोविलासः खलु ।
तेनेयमिन्द्रियजालश्रीर्जाग्रतिप्रविलसत इति प्रसिद्धिः
प्. ९४)
स्वप्ने च जागरणमातृपदे च वेद्य-
मिच्छात्मनो मनस एव विभाति कुक्षौ ।
पूर्वत्र मातृ मन एव शरीरताभाक्
प्रत्यक्षमुत्तरपदे तु शरीरमेव
एवं स्वप्नप्रकृतिसंसारयोर्विश्वमिच्छात्मनो मनस एव गर्भे विलसतीति
प्रबोधयति -
स्वप्ने चेति । स्वप्ने च जागरणमातृपदे जाग्रदवस्थायां
यन्मातृपदमवैकारिकम् । पवर्गप्रतिपाद्यप्रकृतिसंसाररूपमित्यर्थः
तस्मिंश्च वेद्यम् अन्तर्बहिःप्रपञ्चरूपम् । इच्छात्मन इच्छास्वरूपस्य
मनसः कुक्षावेव गर्भ एव विभाति विलसति ।
स्वप्नप्रकृतिसंसाराविच्छासंसारावित्यर्थः । ज्ञाने
ज्ञानेन्द्रियकर्मेन्द्रियसंसारौ ज्ञानक्रियासंसाराविति भावः । ननु
स्वप्नस्य ज्ञानस्वरूपस्य मनः संसारत्वं जाग्रतः क्रियासंसारत्वं
विश्रान्तिरूपायाः सुषुप्तेरिच्छा संसारत्वमिति प्रागुपदिष्टम् । इदानीं
कथमन्यरूपोपदेश इति न मन्तव्यम् । विश्रान्तेरेव बहिर्मुखतायाम्
इच्छासंसारः स्वप्न एव ज्ञानसंसारः जाग्रदेव क्रियासंसारः
जडविश्रान्तिरजडविश्रान्तिश्चेति सुषुप्ते स्वप्नयोर्जडाजडविश्रान्त्यभिमाने
जाग्रत एव ज्ञानक्रियेन्द्रियव्यापारव्यवस्थाया ज्ञानक्रियासंसारत्वम् ।
अथवा प्रकृतिसंसारस्य ज्ञानसंसारत्वम् पार्थिवसंसारस्य
क्रियासंसारत्वम् जडाजडरूपसुषुप्तिरेव जडाजडेच्छासंसारत्वाभिमाने
स्वप्नोज्ञानसंसारः जाग्रत्क्रियासंसार इति विवेकः । तदत्र
स्वप्नविश्रान्तेरजडेच्छासंसारत्वाभिमाने स्वप्नवन्मानसिकसंसारत्वात्
प्रकृतिसंसारस्यापि इच्छासंसारत्वमुक्तमिति निरवद्यम् । स्वप्न
प्रकृतिसंसारयोरिच्छासंसारत्वेन ऐकरूप्ये प्राक्प्रतिपादितमेव
भेदकमुद्घाटयति - पूर्वत्रेति । पूर्वत्र स्वप्ने । शरीरताभाक् मन एव ।
मातृ प्रमातृ । उत्तरपदे प्रकृतिसंसारे तु
प्रत्यक्षमानसिकत्वेनाभिमतं शरीरमेव प्रमातृ अनयोः
संसारयोरयमेवेत्यर्थः
प्. ९५)
चेतश्चमत्कृतिपदं वमति स्वलीनं
विश्वं बहिः श्रुतिमुखेन्द्रियवर्गभावात् ।
तत्रापि धीन्द्रियगणः पवनोऽपि पृथ्वी
ज्ञेयैर्जलैरपि मरुद्भिरुदीरितोऽन्तः
अथ पार्थिवसंसारप्रक्रियामुपक्रमते -
चेत् इत्यादि । चमत्कृतिपदं चमत्काराणां स्थानम् । चेतः विमर्शस्य
मूलरूपम् मनः कर्तृ । स्वलीनं स्वान्तर्गतम् । प्रकृतिसंसारे
स्वप्नसंसार इव लौकिकैरपि विश्वस्य
मनोविलासमात्रत्वाभ्युपगमान्मनोनिष्ठत्वमिति मनोलीनत्वम् मनः
स्वस्वरूप एव विलसदित्यर्थः । विश्वं बहिर्वमति । विश्वस्य भैर्वमनं च
मनश्चमत्कारविशेषः । मनसः किं रूपेण बहिर्वमनमित्यत्राह -
श्रुतिमुखेन्द्रियवर्गभावात् ।
श्रोत्रादिवागादिज्ञानक्रियेन्द्रियवर्गस्वरूपाङ्गीकारात् ।
श्रोत्रादिभूमिकापरिग्रहेणेत्यर्थः । श्रोत्रादिभ्य एव ज्ञेयरूपस्य विश्वस्य
निर्गमः वागादिभ्य एव कार्यरूपस्य । नियमेन
विश्वस्येन्द्रियप्रकाशान्तर्भासनादिन्द्रियकारणत्वम् तथा
चेन्द्रियरूपान्तर(त्वं)त्वाद्विश्वस्येन्द्रियप्रकाशादेव पर्यवस्यति ।
इन्द्रियप्रकाशोन्मेष एतत्स्फुरणम्
तदनुन्मेषेत्वस्फुरणमित्यन्वयव्यतिरेकाभ्यां
विश्वस्येन्द्रियप्रकाशकारणं न तु
मायाविमोहितकाणादसम्प्रतिपन्नपरमाण्वादय इत्यलमतिप्रसङ्गेन ।
एवं परमार्थादिन्द्रियप्रकाशोद्वान्तस्यविश्वस्य पशुविषये
विपरीतप्रतीतिप्रक्रियामाह - तत्रापीति । तत्र बहिःकक्ष्यायाम् । अपि
शब्दोऽन्तःकक्ष्यासमुच्चयाभिधायकः । यथान्तःकक्ष्यायां
प्रकृतिसंसरे पशोर्विपरीतप्रतीतिः तथा बहिःकक्ष्यायां
पार्थिवाण्डसंसारेऽपीत्यर्थः । इन्द्रियगणो ज्ञानेन्द्रियवर्गः ।
पव(मा)नोऽपि परमार्थरूपे चिद्व्याप्ते संसारे वायुस्थानकोऽपि
पृथ्वीस्थानं सङ्कोचभावात्प्राप्तः । ज्ञेयैर्ज्ञेयरूपैः वेद्यैर्जलैरपि
चिद्व्याप्तौ जलस्थानकैरपि । अत्र विपरीतमरुद्भिः । व्याप्त्या वायुस्थानं
प्राप्तैः । अन्तरुदीरितः स्वभ्यन्तरे क्षिप्तः । व्याप्तः इत्यर्थः । तवर्गरूपाणां
ज्ञानेन्द्रियाणां चवर्गरूपैः शब्दादिभिर्व्याप्तिरित्यर्थः
प्. ९६)
कर्मेन्द्रियाणि कठिनत्वपरान्तभाञ्जि
वह्न्याकृतीनि खपदस्थधराश्रितानि ।
पृथ्वीमयप्रकृतिखग्रहणोन्मुखानि
बोध्यानि भूतविततेरिह वैपरीत्ये
इदानीं कर्मेन्द्रियाणां कार्यरूपवेद्यानां च वैपरीत्यमाह -
कर्मेत्यादि । कर्मेन्द्रियाणि यवर्गप्रतिपाद्यवागादीनि । कठिनत्वपरान्तभाञ्जि
कठिनत्वस्य परान्तः परमावधिस्तं भजन्तीति तथोक्तानि । क्रियायाः
सङ्कोचनिर्बहणपदत्वात्कर्मेन्द्रियाणां कार्यरूपवेद्यानां
चातिसङ्कोचभावादतिकाठिन्यम् । वह्न्याकृतीनि
जडांशप्रधानवह्निमयानि । चिद्व्याप्तौ तु
कर्मेन्द्रियाणामजडांशप्रधानवह्निमयत्वम् । वह्नेर्जडाजडमयत्वं
प्राग्व्याख्यातम् । खपदस्थधराश्रितानि
व्याप्तिलक्षणमाकाशपदमाक्रान्तवतीं पृथिवीमाश्रितानि । वागादीनां
पशुपदेऽपि यद्यपि देहपर्यायप्रकृत्याश्रितत्वं तथापि
कार्यवेद्यप्रधानभूतपृथिवीव्याप्त्यनुसन्धानात् पृथिव्याश्रितत्वं
पृथिवीत्यादिचिद्व्याप्तिपदे पूर्णरूपतया च उपचरितरूपिण्याः महापृथिव्या
एव पार्श्वे पृथिवीमययाः प्रकृतेः ग्रहणे व्याप्तौ उन्मुखानि
भूतविततेरिह वैपरीत्ये बोध्यानि ।
अत्रायभिप्रायः पशोर्ज्ञानेन्द्रियाणि ज्ञेयेषु शब्दादिषु किञ्चिदेव ज्ञातुं
क्षमन्ते न तु सर्वम् । अतस्तानि तैः ज्ञेयैः व्याप्तानि । शब्दादय एव
कार्यावस्थायां वचनादिभावेन स्थूलतां प्राप्याकाशादयो भवन्ति ।
कर्मेन्द्रियाणि च वचनादिमात्रमाकाशादिकं कर्तुं क्षमन्ते न तु
महाभूतरूपमाकाशादि कर्तुम् अतस्तानि च महाभूतैः कार्यैर्व्याप्तानि ।
एवं द्विविधमिन्द्रिवर्गं द्विविधेन वेद्यवर्गेण व्याप्तं सत् आत्मदेहरूपस्य
प्रमातृद्वयस्य ज्ञेयकार्यवर्गाभ्यां व्याप्तिं समर्पयति चिद्व्याप्तौ तु
आत्मा स्वसाधनैर्ज्ञानेन्द्रियैः ज्ञेयवेद्यं व्याप्नुवन् स्वात्मीकरोति
अशेषज्ञेयस्य स्वात्मीकरणात्सर्वज्ञो भवति । देहश्च स्वसाधनैः
कर्मेन्द्रियैः कार्यवेद्यं व्याप्नुवन् तत्स्वात्मीकरोति विशेषकार्यस्य
स्वात्मीकरणात् सर्वकर्ता भवतीति ज्ञानक्रियेन्द्रियाणां
प्रकृतिविकृतिभावप्रक्रिया वेदितव्या
प्. ९७)
मानात्मकस्यतरणेर्द्वयतो हि सिद्धिः
मायाबलात्प्रथमतात्र च मेयकोट्याः ।
ग्राह्यग्रहीतृपदवर्णसमन्वयेन
योज्याः कला बहिरथान्तरपि क्रमज्ञैः
अथ प्रमेयप्रमातृमिश्ररूपस्थ प्रमाणसूर्यस्य कलासंस्थानप्रक्रियां
व्युत्पादयति -
मानेत्यादि । मानात्मकस्य प्रमाणरूपस्य तरणेः सूर्यस्य द्वयतः
प्रमेयप्रमातृभ्यां सिद्धिःस्वरूपलाभो हि । अत्र च मायाबलात्
प्रमेयकोट्या एव प्रथमपदता प्रमातृकोट्या द्वितीयपदता ।
विसर्गव्याप्तिरेव प्रथमेत्यर्थः । अत्र प्रमाणसूर्यस्य
द्विद्विवर्णप्रतिपाद्यानां कलानां योजने
ग्राह्यग्रहीतृत्वपदवर्णसमन्वयेन - ग्राह्यस्थानकानां
वर्णानामनन्तरं ग्राहित्वस्थानकवर्णानां यथायोगं समन्वयेन । बहिः
कवर्गादितवर्गान्तरूपे पृथिव्यन्ते । अन्तरपि पकारादिभकारान्तरूपे
प्रकृत्यन्ते । क्रमज्ञैः ग्राह्यग्राहकवर्णक्रमविद्भिः । कला योज्याः ।
कवर्गटवर्गवर्णानां यथाक्रमं योगः चवर्गतवर्गाणानां च तथा ।
पकारबकारयोर्योगः फकारभकारयोश्च तथा । एवं च दशारयुग्मं
रवेः रश्मिचक्रं चतुरस्रम् विम्बचक्रम् । यत्तु
ककारादिडकारान्तैरनुलोमपठितद्वादशवर्णैः
भकारादिडकारान्तविलोमपठितद्वादशवर्णानां योगेन द्वादशानां
सूर्यकलानां प्रकल्पनापारमपर्यं तत्प्रमेयप्रामात्रात्मनः सूर्यस्य
स्वरूपभूतेषु चतुर्विंशतिस्पर्शाक्षरेषु अर्धं प्रमेयकोटि रर्धं
प्रमातृकोटिरुभयपक्षसमन्वयाद्वादशकलानिर्वृत्तिरिति विद्यमानमपि
चक्रसंस्थानसंवादं न लभत इति
मातृकाचक्रमर्मविद्भिर्महानुभावैरुपेक्षितमित्यलं
महामार्गविसंवादकथया
प्. ९८)
माता दशेन्द्रियमयोदशकं च मेयं
तन्मेलनाद् दशकलात्मदशारयुग्मम् ।
अन्तः कलाद्वयमिह प्रकृतौ निलीन
स्त्रैगुण्यमातरि पुमांश्चतुरस्रविम्बे
बहिरन्तरपि ग्राह्यग्रहीतृपदवर्णसमन्वयेन कला योज्या इति पूर्वसूत्रेण
सूचितम् । कलायोजनप्रकारं चक्रे संस्थाने संवादयन्
मातान्तरव्याक्षेपाभिप्रायेण स्फुटमुपदिशति -
मातेत्यादि । मातृमेयात्मको हि रविः माता च बहिस्तवर्ग
टवर्गप्रतिपाद्यदशेन्द्रियमयः । मेयं च तथा
चवर्गकवर्गप्रतिपाद्यशब्दाद्याकाशादिकदशकमयम् तन्मेलनात्
यथाक्रमं पृथिव्यादिकर्यवेद्यप्रतिपादककवर्गाक्षरपञ्चकेन
वागादिकर्मेन्द्रियप्रतिपादकटवर्गाक्षरपञ्चकस्य मेलनात् । तथा
गन्धादिप्रतिपादकचवर्गाक्षरपञ्चकेन
घ्राणादिप्रतिपादकतवर्गाक्स्ऽरपञ्चकस्य मेलनात् । पञ्चपञ्चकलात्मकं
सम्भूय दशकलात्मकं दशारयुग्मं भवति । अन्तः पवर्गरूपे
प्रमातृपदे कलाद्वयं कार्यवेद्यबीजभूतप्रकृतिप्रतिपादकेन पकारेण
कर्मेन्द्रियबीजभूतबुद्धिप्रतिपादकस्य बवर्णस्य मेलनादेकाकला
ज्ञेयवेद्यबीजभूताहंकारप्रतिपादकेन फकारेण
ज्ञानेन्द्रियबीजभूतमनःप्रतिपादकस्य भकारस्य मेलनादन्याकलेति
कलाद्वयमिह चतुरक्षरनिष्पन्नकलाद्वयात्मके चतुरस्रबिम्बे त्रैगुण्यमातरि
त्रिगुणसवित्र्यां प्रकृतौ पुमान्मकाररूप आत्मा निलीनः ।
अहङ्कारसहितायां प्रकृतौ बुद्धिमनसोर्यन्निलयनं तत्पुरुषस्य निलयने
पर्यवस्यतीति भावः । स्पर्शवर्णचक्रस्य
प्रमाणचक्रत्वान्मनोबुद्धिरूपेणैव पुरुषस्यात्र चक्रे संस्थानं न तु
मकाररूपेण । तथापि मनोबुद्ध्योः पुरुषस्यैव रूपान्तरत्वात्पुरुषस्यापि
मकारस्य प्रमाणप्रमातृचक्रयोर्मध्यवर्तित्वादुभयचक्रसम्बन्ध इति
पुमान्निलीन इत्युक्तम्
प्. १००)
मानात्मनैव चिदचित्स्थितिरत्रचक्रे
भेदात्मके न भवतीह विसर्गबिन्दोः ।
मस्यानुषक्तिरपि मुख्यसमन्वयस्य
बिन्द्वेकभोगपदमातृपुरोचितस्य
पूर्वसूत्रे सूचितं मकारप्रतिपाद्यपुरुषतत्त्वस्यैव
प्रमाणप्रमात्रोरुभयचक्रसम्बन्धं स्फुटीकरोति ।
मानेत्यादि । अत्र भेदात्मकम् चक्रे । प्रमाणचक्रस्य
ग्राह्यग्रहीतृभेदाविनाभावभूमित्वात् दशारयुग्मरूपत्वम् न तु
चतुर्दशाराऽष्टावदेकैकचक्रत्वम् अतो भेदात्मके प्रस्फुटभेदस्वरूपम् । अत्र
प्रमाणचक्रे चिदचितोः प्रमातृप्रमेययोः स्थितिः । मानात्मनैव
इन्द्रियरूपेणैव । इन्द्रियाणां प्रमाणपर्यायाणां
ग्राह्यग्राहकोभयसिद्धरूपत्वात् ग्राह्यग्राहकरूपेणैव
प्रमेयमातृस्थितिरित्यर्थः । अतः कारणादित्यौचित्यादध्याहर्तव्यम् । इह
प्रमाणचक्रे । विसर्गबिन्दोः बिन्दोरपि सतो भेदमयत्वात् विसर्गस्येत्यर्थः ।
मस्य मकारप्रतिपाद्यस्य पुरुषस्य । अनुषक्तिरनुषङ्गो न भवति ।
चतुर्विशत्यक्षरात्मकद्वादशकलारूपे प्रमाणचक्रे पुरुषस्थानकस्य
मकारस्य पञ्चविंशतितमस्य न संनिवेश इत्यर्थः । तर्हि तस्य
मकारपुरुषस्यात्र चक्रे किं सम्बन्धाभाव एवेत्यत्राह - अपि
मुख्यसमन्वयस्येति । प्राधान्येन सम्बन्धवतोऽपि प्रमाणचक्रे
प्रकृतिव्याप्तिविषयत्वेन सम्बन्धवतोऽपि तत्र चक्रे नानुषक्तिर्भवतीत्यन्वयः ।
कुत इत्याह - बिन्द्वेकभोगपदमातृपुरोचितस्य -
बिन्दोरेकभोगस्थानम् - अष्टाररूपं प्रमातृपुरम् तदुचितस्य । द्वौ हि
सङ्ग्रहेण प्रमातारौ । अभेदानुसन्धाता भेदानुसन्धाता च
तत्रमकारप्रतिपाद्यो भेदानुसन्धाता अतः प्रसिद्धप्रमाता
मकारप्रतिपाद्यप्रमातृपुरसन्निवेशमेवार्हति न तु प्रमाणपुरसन्निवेशम्
तत्र तद्रूपान्तरयोर्मनोबुद्ध्योरेव सन्निवेशः । सम्बन्धस्तु प्रमाणचक्रेऽपि
मकारप्रतिपाद्यस्यास्त्वेवेति निष्कर्ः
प्. १०१)
स्वप्ने स्मृतं तदनु जाग्रति सत्यकल्पं
बन्धं प्रपद्य वपुष स्वविमर्शशक्त्या ।
क्षित्या च तत्परवशो हृतमातृभावो
मध्यन्दिनद्युमणिरेषमकारबिन्दुः
विसर्गव्याप्तिप्रकरणमुपसंहरन्नादितश्चिन्निगरणरूपं प्रकरणमेयं
क्रोडीकृत्य दर्शयति -
स्वप्न इत्यादि । स्वप्ने स्मृतं मनसा सङ्कल्पितम् । तदनुजाग्रति सत्यकल्पं
दृढानुभवारूढतया परमार्थवदेव भासनं न तु परमार्थता
अन्तःकक्ष्यापरामर्शनिर्विकल्पचिदात्मनः शिवस्य नित्यनिरावरणत्वेन
भासमानत्वात् बहिरवभासमानस्य प्रवृत्तिरूपविमर्शस्पन्दविप्लवस्य
चमत्कारप्रमातृत्वात् । अन्तः स्वविमर्शशक्त्याविमर्शशक्तेरेव स्वरूपेण
वपुषा प्रकृतिपर्यायेण वहिस्तु क्षित्या च एवं कक्ष्याद्वयेऽपि बन्धं
प्रपद्य तत्परवशः तयोर्देहमहापृथिव्योः परवशः परतन्त्रः ।
हृतमातृभावः ताभ्यामेवापहृतप्रमातृभावः प्रमेयतां प्रापित
इति भावः । मकारबिन्दुः मकारप्रतिपाद्योबिन्दुः चित्तत्त्वं पुरुष इत्यर्थः ।
मध्यन्दिनद्युमणिः मध्याह्नकालसूर्यो जात इति शेषः । यथा
मध्यन्दिनसूर्यः स्वरश्मिपटलेन स्थगितो नावभासते । तथायमपि चिदात्मा
स्वस्या एव विमर्शशक्तेर्विजृम्भणरूपेण अन्तर्बहिः प्रपञ्चेन च
भार्या(आवृत)मूलस्वरूपो जात इत्यर्थः
प्. १०२)
यत्पादिवर्गवमुखार्णचतुष्टयस्य
सङ्कोचवर्जनमिदं खलुतन्त्रनीत्या ।
तुर्यस्थितं हमुखशान्तचतुष्टयात्म-
योज्यं क्रमेण बहिरन्तरभेदसृष्टयोः
इति श्रीमातृकाचक्रविवेक जाग्रद्विवेकश्चतुर्थः खण्ड
इदानीं प्रकरणान्ते चिद्व्याप्तिरुपमुत्तरप्रकरणप्रमेयमवतारयन्
जाग्रच्चक्रे वक्ष्यमाणे स्वप्नचक्रे च विसर्गप्रमातुः प्रतिसिंहासनं
तुर्यजाग्रत्स्वप्नरूपं पदद्वयं तत्र न्यायेन एकैकमातृकया समुन्मीलितं
व्युत्पादयति -
यत्पादीत्यादि । पादिवर्गवमुखार्णचतुष्टयस्य विलोमेन
पवर्गादिवर्गचतुष्टयं पवर्गतवर्गटवर्ग च वर्गरूपं वर्गचतुष्टयं
वकारलकाररेफयकाररूपं वर्णचतुष्टयं तस्योभयस्य । तन्त्ररीत्या एकया
क्रियया । प्रयोजनद्वयसिद्धिरूपया तन्त्रनीत्या तन्त्रन्यायेन । इदं
सङ्कोचवर्जनम् खलु स्पृष्टतेषत्स्पृष्टताप्रयत्नकृतसङ्कोचत्यागः
खलु । यत्तुर्यस्थितं हमुखशान्तचतुष्टयात्मवर्णकदम्बकं पवर्गस्य
वकारस्य च सङ्कोचत्यागरूपो हकारः । तवर्गस्य लकारस्य च
सङ्कोचत्यागरूपः सकारः । टवर्गस्य च रेफस्य च सङ्कोचत्यागरूपः
षकारः । चवर्गस्य यकारस्य सङ्कोचत्यागरूपः शकारः । कवर्गस्य
देहप्रतिपादकलकारस्य च विसर्गप्रमातृरूपत्वात् तस्य च चिद्व्याप्तिपदे
चित्स्वरूप एवान्तर्धानात्पदद्वयेऽपि हकार एव विलयनम् अतो न
तत्सङ्कोचत्यागरूपो वर्णोऽन्वेषणीयः ।
एवं स्पर्शसङ्कोचत्यागरूपमतं तत्सङ्कोचत्यागरूपं
हकारादिशकारान्तवर्णचतुष्टयं पदद्वयरूपं सत् क्रमेण ।
बहिरन्तरभेदसृष्ट्योः । बहिरभेदसृष्ट्यां अन्तरभेदसृष्ट्यां च
भेदजाग्रत्प्रतियोगिन्यभेदजाग्रत्पदे भेदस्वप्नप्रतियोगिन्यभेदस्वप्नपदे
चेत्यर्थः । दशारयुग्मार्धपदे अष्टारार्धपदे चेति वेदितव्यम् । योज्यं
योजनीयम्
सर्वोहि भेदपद एव भवः पुरस्ता-
त्पश्चादभेदमवगच्छति जातबोधः ।
शक्तिः शिवस्य महति प्रकृतिस्तदात्मा
भेदोग्रवन्दनमतोऽर्हति भेदतत्त्वम्
संस्थापितां पुरत एव शिवेन मायां
पश्चात्करोति यजने द्वयतत्परो यः ।
सिद्धं न याति शिवसामयि ? किं समूढ-
स्तस्माद्यखे(जे)तमुखतश्चतुरस्रबिम्बम्
ईकारयोष(ग)जविसर्गकलास्तविन्दुः
प्रत्याहृतं खलु विसर्गपदं कलाभ्याम् ।
सद्यो जगत्सपदि संभृतभेदसिद्धिः
क्लींकारमूर्तिरनिशं मनुरभ्युदीर्यः
येकारेकारगर्भं कलयुगलतमं मायया व्याप्तमौलिं
मन्त्रं मत्तोऽनुतिष्ठेदरुणमणिकृतामक्षमालां वहन्यः ।
भुञ्जानोऽसौ भुजिष्याप्रकृतिकमणिमाद्याख्यया संप्रसिद्धं
सिद्धीनां सिद्धलभ्यं दशकमभवतां प्राप्य दिव्यैरिहैव
शिवानन्देन मुनिना देशिकादेशवर्तिना ।
चतुर्थं मातृकाचक्रविवेके व्याकृतं पदम्
इति चतुर्थः खण्डः समाप्तः ॥
अथ पञ्चमः खण्डः ।
अक्षेषु वेद्यविलयः खलु शुद्धविद्या
देहे तदक्षविलयो भवतीश्वरत्वम् ।
ईशो हि विश्वमयदेहकृताभिमानो
जाग्रच्छिवस्य पशुजागरचक्रलग्नम्
अथ निवृत्तिरूपं तुर्यस्कन्धमारभमाणो
निवृत्तिजाग्रदुपक्रमत्वान्निवृत्तिजाग्रदधिष्ठातारं शिवस्य
सर्वकर्तृत्वभूमिकाभूतमीश्वराख्यं प्रमातारं
तद्बाह्यदशाविशेषेण शुद्धविद्याप्रमात्रा सह लक्षयति -
अक्षेष्वित्यादि । अक्षेष्विन्द्रियेषु श्री(पाण्यादिषु)वागादिषु घ्राणादिषु ।
च । वेद्यविलयः वेद्यानां पृथिव्यादिभूतानां च विलयस्तदेकीकरणम्
शुद्धविद्या खलु शुद्धविद्याश्रयः प्रमाता शुद्धविद्येत्युपचारः ।
पाशवे इन्द्रियप्रकाशाद्बहिस्तत्सार्थक्येनावभासमानानां वेद्यानाम् ।
इन्द्रियप्रकाशकगर्भ
एवावभासननैयत्यविमर्शनेन्द्रियप्रकाशविमर्शरूपताध्यवसायादिन्द्रियै
कात्म्यानुभवरूपा शुद्धविद्या पाशव्यामोहकर्तरि गुर्वनुग्रहमूलेन
समुन्मिषतीति सैषा शुद्धविद्या वेद्येषु पशुदशायामिदम्प्रत्ययैकविषयेषु
पाशवव्यावृत्तौ
स्वात्मेन्द्रियप्रकाशतादात्म्याध्यवसायादहंप्रत्ययविषयताम##-
तदभिधानतामुपचारेण भजतीति तद्विवेकः ॥
एवं प्रमाणपदे प्रमेयनिमज्जनलक्षणं शुद्धविद्याप्रमातृपदं
व्युत्पाद्य तदूर्ध्वतनीमीश्वरदशां व्युत्पादयति - देह इत्यादि । देहे
प्रमातरि । तदक्षविलयः तेषां
शुद्धविद्यादशाभ्यस्तप्रमेयस्वात्मीकरणानामक्षाणां विलयो
निमज्जनमेकरसीकरणमीश्वरत्वं भवति । शुद्धविद्यादशायां
प्रमाणपदनिमज्जितानां प्रमेयानां प्रमाणपदेन सह देहात्मरूपे
प्रमातृपदे यद्देहांशे विनिमज्जनं तदीश्वरत्वमित्यर्थः । अत्र
प्रथमप्रमेयात्मनो विश्वस्य
किञ्चिदिदंप्रत्यायाधिवासिताहन्ताप्रत्ययविषयविषयत्वम् देहपदे निमज्जितस्य
विश्वस्य देहस्येव दृढाहम्प्रत्ययविषयत्वादीश्वरस्य देहाद्विश्वस्मिन्नपि
चेष्टकत्वम् । अत एव सर्वकर्तृत्वमीश्वरस्येत्यवगन्तव्यम् । शुद्धविद्यापदे
त्विदंप्रत्ययाहंप्रत्यययोरिदंप्रत्ययस्यैवौल्वण्यात्
विश्वचेष्टकत्वानुदयः । ईश्वरस्यानयादीशा विश्वशरीरस्य
शिवजाग्रत्पदत्वात्पशुजाग्रत्पदे संश्लेष इति प्रतिपादयति - ईशोहीति । ईशो हि
विश्वमये देहे कृताभिमानः शिवस्य जाग्रत् परिच्छिन्नदेहे
कृताभिमानस्य पशोर्जागरचक्रे दशारद्वयात्मके लग्नं श्लिष्टं
पशुजाग्रत्पदे शिवजाग्रतः श्लेषौचित्यादिति भावः । जडाजडपदयोः
सुप्त्यादिदशात्रयेप्यन्योन्य श्लेषस्वभावता प्राक् प्रीतपादिता
प्. १०५)
यद्बाह्यबाह्यपदमज्जनमन्तरन्त-
स्तच्चित्पदे जडपदे विपरीतमेतत् ।
अक्षात्मवेद्यमिह शः स हि शुद्धविद्या
देहाविभिन्नकरणेन्द्रियमीश्वरः षः
अथ निवृत्तिरूपस्य शुद्धविद्याप्रमातुः
प्रमेयेष्वभ्यस्यमानाहम्भावस्य भेदो न प्रशान्त
इत्यभेदजाग्रत्पदाधिष्ठातृत्वं नाभ्युपगतं चिद्व्याप्तिपदस्य
बहिर्बहिरर्थानामन्तरन्तर्थेषु निमज्जनरूपं स्वभावं व्युत्पादयन्
शवर्गे शुद्धविद्याद्यभेदप्रमातॄणां विषयविभागं दर्शयति -
यद्बाह्येत्यादि । अन्तरन्तःपदे बाह्यवाह्यपदमज्जनं यत् बाह्यबाह्यपदस्य
यन्मज्जनम् प्रमेयाणां प्रमाणपदे मज्जनं प्रमाणां प्रमातृपदे
मज्जनमित्यर्थः । तच्चित्पदे चिद्व्याप्तिपदे । भवतीति शेषः । जडपदे
चैत्यव्याप्तिपदे । एतद्विपरीतम् । अन्तरन्तःपदस्य बहिर्बहिःपदे मज्जनं
विपरीतम् । प्रमातृपदस्य प्रमाणपदे मज्जनम् प्रमाणपदस्य प्रमेयपदे
मज्जनमित्यर्थः । इह शुद्धविद्येश्वरसदाशिवशक्त्याह्वयस्य
प्रमातृचतुष्टयस्य । साधारणपदे शवर्गे । अक्षात्म इन्द्रियप्रकाशैकात्म ।
इन्द्रियप्रकाशे लब्धैकात्म्यमित्यर्थः । वेद्यं प्रमेयजातम् । शः शवर्ण इति
वेदितव्यम् । प्रमाणलब्धैकात्म्यप्रमेयस्थानीयः शवर्ण इत्यर्थः । यद्यपि
चवर्गयकारसङ्कोचत्यागात्मनः शकारस्य शब्दादिमात्रवेद्यस्थानीयत्वं
युक्तं तथापि सर्वप्रमेयोपलक्षणत्वेन चित्पदेऽहङ्कारे
कवर्गलकारयोर्मज्जनाद्बहिरवभासमानश्चवर्गयकारयोग
रूपभेदशकारोऽपि सर्वप्रमेयोपलक्षण इति वेदितव्यम् । स हि शकारः
शुद्धविद्याप्रमाता । प्रमातृप्रमाणप्रमेयरूपेण पदत्रयेण
निष्पाद्यस्वरूपस्य प्रमातुः कथं प्रमेयमात्रप्रतिपादके शकारे
स्वरूपपत्तिरित्यत्रोच्यते । वर्णचतुष्टयात्मकः सर्वोऽपि शवर्गः
शुद्धविद्यादिप्रमातृचतुष्टयस्य साधाणरणपदे प्रत्येकं
स्वरूपं(स्वरूपं) भवति । तथापि शुद्धविद्यादीनां चतुर्णां
(प्रमा)प्रमातॄणां शकारादयश्चत्वारो वर्णा एकैकस्यैकैक एव
स्वरूपसिद्धिहेतुभूतस्य विशेषस्य प्रतिपादक
इत्युपचारात्तत्तदेकैकवर्णरूपता तेषाम् । तथा हि
शुद्धविद्याप्रमातुरिन्द्रियैकात्म्यवेद्यत्वं स्वरूपसिद्धिहेतुविशेषः ।
अतस्तस्येन्द्रियैकात्म्यवेद्यप्रतिपादकशकाररूपत्वम् । ईश्वरस्य
प्रमातुर्देहाविभिन्नकार्यवेद्यैकात्म्यकर्मेन्द्रियत्वं
स्वरूपसिद्धिहेतुर्विशेषः । अतस्तस्य
तादृक्कर्मेन्द्रियप्रतिपादकषकाररूपत्वम् । एतदेवाह
देहाविभिन्नकरणेन्द्रियमीश्वरः ष ति
प्. १०७)
ज्ञानेन्द्रियं स हि सदाशिव आत्मनैक्ये
स्वात्मा खविश्रममयो ह इतीह शक्तिः ।
एतत्तुरीयपदमङ्गचतुष्टयाढ्यं
बाह्यान्तरालपदयोः श्रितरूपसाम्यम्
अथ सदाशिवशक्तिप्रमातृस्वरूपं वर्णद्वयमाह ।
ज्ञानेन्द्रियमित्यादि । सदाशिवस्य
प्रमातुरात्माविभिन्नस्वात्मीकृतज्ञेयवेद्यज्ञानेन्द्रियत्वं
स्वरूपसिद्धिहेतुर्विशेषः । अतस्तस्य
तादृग्ज्ञानेन्द्रियप्रतिपादकसकाररूपत्वं । एतदाह - आत्मनैक्ये
आत्मना तादात्म्ये सति तादृशं ज्ञानेन्द्रियम् । स हि सकारो हि
तादृग्ज्ञानेन्द्रियप्रतिपादकः । सकारो हि सदाशिव इत्यर्थः ।
खविश्रममयः अपरिच्छिन्नचिदचित्सामरस्य रूपाकाशविश्रान्तिमयः ।
स्वात्मा देहात्मोभयलक्षणं स्वरूपम् । ह इति । हकार इति वर्णः । इह शवर्गे ।
शक्तिः शक्तिनाम प्रमाता ।
अपरिच्छिन्नविश्रान्तिमयदेहात्मसामरस्यलक्षणस्वरूपत्वं शक्तेः
स्वरूपसिद्धिहेतुर्विशेषः । अतस्तस्यास्तादृक्स्वरूपप्रतिपादकहकाररूपत्वम् ।
एवं शुद्धविद्यादीनां साधारणपदे शवर्गे
तत्तस्वरूपसिद्धिहेतुविशेषप्रतिपादक वर्णाश्रयणेन विषयविभागं
व्युत्पाद्यास्य शवर्गरूपस्य पदस्य बाह्ये
स्पर्शसङ्कोचत्यागरूपस्यान्तरन्तःस्थ सङ्कोचत्यागरूपस्य उभयत्र
रूपसाम्यम् प्रागुपदिष्टमेव स्फुटप्रत्ययायोद्घाटयति - एतदित्यादि ।
अङ्गचतुष्टयाढ्यम् महाभूतचतुष्टयगर्भिण्या महापृथिव्याः
प्रकृत्याश्च चित्पदे हकारे निमज्जनादुभयत्राङ्गचतुष्टयाढ्यम् ।
एतत्तुरीयपदम् । अभेदजाग्रत्स्वप्नरूपं तुर्यपदम् । बाह्यान्तरालपदयोः
स्पर्शान्तःस्थप्रतिपाद्यजाग्रत्स्वप्नपदयोः । श्रितरूपसाम्यम् । चवर्गस्य
यकारस्यापि सङ्कोचत्यागे शकार एव टवर्गस्य रेफस्य सङ्कोचत्यागे षकार
एव । एवमवशिष्टमुन्नेयम्
प्. १०८)
एत्पदं पदमखण्डितमेव शुद्ध-
विद्यादिकस्य खलु तत्त्वचतुष्टयस्य ।
वेद्याद्युदञ्चितचितिस्फुरणक्रमेण
तत्तद्दशावतरणं विबुधैर्विभाव्यम्
शवर्णशुद्धविद्यादीनां प्रत्येकस्वर एव साधारणं पदमित्युक्तम् ।
तदेवाह -
एतदित्यादि । एतच्छवर्गरूपं पदम् अखण्डितमेव अविभक्तमेव ।
शुद्धविद्यादिकस्य तत्त्वचतुष्टयस्य पदम् । प्रमाणप्रमेयाङ्गस्य
प्रमातुरेकवर्णमात्रेण दुष्प्रतिपादत्वात् । एवमपि
शुद्धविद्यादीनामेकैकवर्णव्यवहारोपचारे प्राक्प्रतिपादितोपपत्तिमासूत्रयति
- वेद्यादिति । वेद्याद्युदञ्चितचितिस्फुरणं चैत्यव्याप्त्यवसाने यदा
तदुन्मेषप्रारम्भः तदायं प्रारम्भो वेद्यादिक एव भवतीत्यनुभवः
प्रमाणम् । तथा हि - पाशवावसाने साधको
गुर्वनुग्रहसमुन्मिषितविवेकदृष्टिर्वेद्यमेव स्वात्मेन्द्रियप्रकाशे
निमज्जयति । प्रमेयस्यैवं
प्रमाणनिमज्जनाभ्यासादारूढशुद्धविद्यास्वभावस्तदनन्तरं
स्वात्मीकृतप्रमेयं प्रमाणं प्रमातृपदे निमज्जयितुमुद्युञ्जानः
शरीररूपे तावत्प्रमातृभागे स्वात्मीक्र्तकार्यप्रमेयं
कर्मेन्द्रियवर्गरूपं प्रमाणं निमज्जयति । अतो विश्वशरीरः सन्
विश्वचेष्टकतयाविर्भूतसर्वकर्तृत्वशक्तिरारूढेश्वरताकक्ष्यस्ततः परं
स्वात्मीकृतज्ञेयप्रमेयं ज्ञानेन्द्रियप्रमाणमात्मरूपे प्रमातरि
निमज्जयति । अतो विश्वात्मकः
सन्नाविर्भूतसर्वज्ञत्वशक्तिरारूढसदाशिवकक्ष्यो ज्ञानस्य प्राग्भावेन
क्रियां क्रियाप्राग्भावेन ज्ञानं चानुसन्दधानस्ततः परं
ज्ञानक्रियासामरस्यभूमिमपरिच्छिन्नविश्रान्तिमयीमिच्छात्मिकां
शक्तिक्रियामारोहतीति प्रक्रियया वेद्याद्युदञ्चिचितिस्फुरणक्रमेण
तत्तदंशवर्ण उक्तमर्यादया । शुद्धविद्यादितत्तद्दशावतरणम् ।
विबुधैर्विद्वद्भिर्विभाव्यम् । उक्तमर्यादया वेद्यादिकं चित्प्रवहणे यं यं
भागमधिकृत्य शुद्धविद्यादीनां स्वरूपलाभः
तत्तद्भावरूपतत्तदावरणस्य तत्तत्प्रमातृपदत्वमापैचारिकमितिभावः
प्. १०९)
सा(स)दाशिवः स खलु विन्दुमयस्तवर्ग-
स्तत्रेश्वराङ्गमयमान्तरधामयोग्यः ।
ज्ञानक्रिये न सुशिवस्य सदाशिवेशा-
वन्तर्बहिश्च नियताङ्गिपदौ क्रमेण
इदानीं बाह्ये ज्ञानेन्द्रियप्रतिपादकतवर्गसङ्कोचत्यागरूपस्य सकारस्य
सदाशिवकलायाः सतोऽपि बहिस्तस्य प्राधान्यानौचित्यादीश्वराङ्गत्वम्
अन्तःपदे रेफाक्स्ऽरत्यागरूपस्य षकारस्येश्वरकलायाः सदाशिवाङ्गत्वमिति
व्युत्पादयति -
सदाशिव इत्यादि । बिन्दुमयस्त्यक्तसङ्कोच इत्यर्थः । तवर्गः । स खलु सकारः
खलु । असौ सकारः सदाशिवस्वभावः । अन्तरधामयोग्यः ।
स्वप्नलक्षणज्ञानकक्ष्यासमुचितोऽयं सकाररूपः सदाशिवस्वभावः । तत्र
बाह्यपदे । क्रियाप्रधाने । ईश्वराङ्गम् । ईश्वरस्याङ्गमेव ।
क्रियापदेज्ञानांशस्य न्यग्भावः । अत्रोपपत्तिमाह - सदाशिवेशौ
शिवस्य ज्ञानक्रिये ।
ननु शिवस्य ज्ञानशक्तिली(वि)लासरूपः सदाशिवः
क्रियाशक्तिविलासरूप ईश्वरः अस्तु प्रकृते का नामोपपत्तिरित्यत्राह - एतौ
सदाशिवेशौ । क्रमेणान्तर्बहिश्च नियताङ्गिपदौ सदाशिवस्यान्तः
कक्ष्यानियतमङ्गिपदं तस्य ज्ञानस्वभावात् । ज्ञानस्य चान्तःपदे
प्राधान्यात् बहिःकक्ष्या त्वङ्गपदम् ईश्वरस्य बहिःकक्ष्याङ्गिपदं तस्य
क्रियास्वभावात् । क्रियायाश्च बाह्यपदे प्राधान्यात् । तस्यान्तःकक्ष्या
त्वङ्गपदम् । अतो रेफसङ्कोचत्यागरूपस्य
षकारस्येश्वरकलायास्तत्राङ्गत्वमेवेति विवेकः
प्. ११०)
इच्छापपञ्चकवबिन्दुमयी हशक्ति-
र्ज्ञानक्रियासमपदं खलु सोभयात्मा ।
बिन्दौ समुन्मिषति सर्गपदे क्रमेण
संसृष्टिरापरिसमाप्तितयोर्विभाव्या
सदाशिवकलाया अन्तःप्राधान्यमीश्वरकलाया बहिःप्राधान्यमित्युक्तम् ।
इदानीं शक्त्याः कलाया इच्छात्मिकायाः साम्येन तदुभयमूलतया
बहिरन्तरपि प्राधान्यमिति प्रतिपादयति -
इच्छेत्यादि । प पञ्चक व बिन्दुमयी । वर्णपञ्चकात्मनः पवर्गस्य वकारस्य
च यो बिन्दुत्वम् । गुणप्रधानोऽयं निर्देशः । सङ्कोचत्याग इत्यर्थः । तन्मयी
तत्स्वरूपा । हशक्तिः हकारप्रतिपाद्या शक्तिदशा । इच्छा इच्छास्वभावा । सा
इच्छाशक्तिः । ज्ञानक्रिया समपदं ज्ञानक्रिययोः साधारण्येन मूलपदम् ।
इच्छां (विना) विज्ञानमपि न प्रवर्तते क्रियापि न प्रवर्तते इति
ज्ञानक्रिययोः इच्छैवान्तरं कूटस्थं रूपम् । अत एव सा उभयात्मा
उभयस्य ज्ञानस्य क्रियायाश्च आत्मा मूलस्वरूपम् । अतस्तस्या ज्ञानपदेऽन्तः
क्रियापदे बहिश्च प्राधान्यमेव नाङ्गत्वमिति भावः ॥
इदानीं विसर्गपदे विद्यादिक्रमेण बिन्दुन्मेषे प्रवृत्ते सत्यसौ बिन्दून्मेषः
क्रमप्रवृत्तिशाली यावत्सर्वमपि पदं व्याप्नोति
तावद्विसर्गगन्धस्यानुवृत्तत्वाद्विन्दुविसर्गयोः संसृष्टिरेव न
बिन्दोरेकाधिपत्यमिति व्युत्पादयति - बिन्दौ इत्यादि । सर्गपदे क्रमेण बिन्दौ
समुन्मिषति सति । आपरिसमाप्ति सर्वत्रपदे बिन्दुव्याप्तिनिष्पत्तिपर्यन्तम् ।
तयोर्बिन्दुविसर्गयोः । संसृष्टिः । त्रिपुटीरूपे पदे क्वचित् बिन्दून्मेषः
क्वचिद्विसर्गस्फुरत्तेति संसृष्टिः । विभाव्या ऊहनीया । अयमर्थः
शुद्धविद्याप्रमातरि वेद्यानामिन्द्रियप्रकाशे निमज्जनेन वेद्यांश एव
चिदुन्मेषः इन्द्रियाणां प्रमातृपदे
निमज्जनाभ्यासपाटवाभावादिन्द्रियादिकेषूत्तरोत्तरपदेषु
भेदस्याप्रशमाद्विसर्गस्य स्फुरत्तेति बिन्दुविसर्गसंसृष्टिः
ईश्वरदशायां शुद्धविद्योत्तरपदत्वात्प्रमेयेषु चिदुन्मेषः सिद्ध एव ।
विशेषस्तु स्वात्मीकृतस्वविषयाणां कर्मेन्द्रियाणां देहात्मकप्रमातृपदे
निमज्जनम् स्वात्मीकृतस्वविषयाणां ज्ञानेन्द्रियाणामात्मरूपे
प्रमातृपदभागे निमज्जनं तत्प्राधान्येन अपाटवमेवाप्रधानम्
अतस्तदाद्युत्तरपदे भेदस्फुरत्तेति विसर्गसंसृष्टिः
सदाशिवदशायामीश्वरदशापर्यन्तचिदभेदोन्मेषः सिद्ध एव । विशेषस्तु
स्वात्मीकृतज्ञेयानां ज्ञानकरणानाम् विश्वमयस्य च
स्वात्मप्रमातृपदे निमज्जनम् तस्या अपि दशाया
निराकुलचिद्विश्रमरूपेच्छाशक्तितत्त्वैकात्म्यं सावशेस्ऽमिति तदंशे
भेदगन्धाद्विसर्गस्पर्शः शक्तिदशायां तु
विश्रमरूपत्वादपरिच्छिन्नायामेवाभेदसाम्राज्यमिति तात्पर्यम् । तं
(तत्) बिन्दून्मेषपदे विसर्गानुवृत्तितारतम्यविवेकः
शुद्धविद्यादितत्त्वानां प्रस्फुटज्ञानकारणमिति तस्य तत्कर्तव्यत्वेन चोदना
प्. ११२)
पुर्वत्र नैवहि परो नियतः परत्र
पूर्वो भवेन्नियत एव शषादिवृन्दे ।
एकत्र संविदुदयेऽप्यपरत्र भास-
स्तस्या इतीदमथवा सम मेव बिन्दुः
शुद्धविद्यादिषु बहिर्बहिदशायामन्तरन्तर्दशा नान्तर्भवन्ति(ति) ।
अन्तरन्तर्दशायां तु बहिर्बहिर्दशान्तर्भवतीति व्युत्पादयति -
पूर्वत्रेत्यादि । शषादिवृन्दे शषादिप्रतिपाद्ये शुद्धविद्यादिवृन्दे । पूर्वत्र
शुद्धविद्यादौ पूर्वदशायाम् । परः परदशा । नैव हि नियतः । न नियता ।
शुद्धविद्यायामीश्वरदशा न नियता । ईश्वरदशायां च सदाशिवदशा
सदाशिवदशायां शक्तिदशा च तथेत्यर्थः । परत्र तु ईश्वरादिदशायां तु ।
पूर्वः । शुद्धविद्यादिदशा नियत एव भवेत् । नियमेन भवेदेव ।
ईश्वरदशायां शुद्धविद्यादशाऽन्तर्भूतास्त्येव सदाशिवदशायां
चेश्वरदशा शक्तिदशायां च सदाशिवदशेति योजना ।
इदानीं वेद्योपक्रमेण संविदुदये क्रमं विना वेद्यादिप्रतिपादकं सर्वमपि
शषादिवृन्दं संविन्मयूखानां निराघाट(निर्वाध)प्रसरणेन
युगपदेव सङ्कोचति त्यजतीति पक्षान्तरमुपक्षिपति - एकत्रेति । एकत्र
वेद्यभागे । संविदुदये सति । अपरत्रापि प्रमाणादिपदे सर्वत्रापि । तस्याः
संविदो भास इति । भासः प्रवहन्तीति (शेषः) । इदं शषादिवृन्दं
शषाद्यक्षरचतुष्टयम् अथवा पक्षान्तरेण । सममेव युगपदेव । बिन्दुः
बिन्दुशब्देन त्यक्तसङ्कोचत्वं लक्ष्यते । त्यक्तसङ्कोचो भवतीति शेषः ।
अयमर्थः । वेद्यपदोपक्रमेण बिन्दून्मेषे शुद्धविद्यादिदशानां
कालविलम्बापेक्षः क्रमो न नियतः । क्वचित्प्रमातरि भाग्याधिके शक्तिपातस्य
तीव्रतया शुद्धविद्यादिदशानां निर्विलम्बेन क्षणादाविर्भावो युगपदेव
सम्भवति क्वचित्तु क्रमापेक्षया शनैः सम्भवतीति
पक्षद्वयमत्रानुसन्धेयम्
प्. ११३)
जाग्रच्छिवस्य पशुजागरयुक्तदैश-
मन्तर्दशारमिह कोणगतं बहुत्वम् ।
भेदोदयोल्लसित मेतदभेदकोट्यां
प्राप्नोति सङ्ग्रहामिति प्रतिपद्रहस्यम्
इदानीं शकाराद्यक्षरचतुष्टयाधिष्ठातुरीश्वरस्य बह्वक्षरसन्निवेशवति
दशारयुग्मरूपे पशुजागरचक्रे कथं सन्निवेशौचित्यमित्याशङ्क्य
तदुपपादयति ।
जाग्रदित्यादि । शिवस्य । जाग्रत् जाग्रदवस्था । पशुजागरयुक् पशुजागरावस्थया
युक् योगिनी । यतः श्लिष्टमित्यर्थः । (तत्) तस्मात्कारणादन्तर्दशारं
दशेन्द्रियसन्निवेशपदं व्याप्य दशारम् । ऐशं ईश्वराधिष्ठातृकम् ।
इहेश्वराधिष्ठातृके दशारचक्रपदे । भेदोदयोल्लसितं भेदविजृम्भणेन
समुदञ्चितम् । यत्कोणगतं बहुत्वं कोणबाहुल्यम् । एतदभेदकोट्याम्
अभेदपक्षाविर्भावे । सङ्ग्रहम् । अभेदपदोचितं बाहुल्यत्यागं प्राप्नोतीति
प्रतिपद्रहस्यं ज्ञानरहस्यम् । अयमर्थः विसर्गव्याप्तौ
सकलभेदसमुज्जृम्भस्थले चतुर्विंशत्यक्षरात्मके स्पर्शकदम्बके
पञ्चवर्गसंविभक्तं यत्पञ्चाङ्गकं पदं चतुरस्रे दशारयुग्मस्य
चतुर्षु कोणपञ्चकेषु व्यवस्थितम् । पशुजागरे शिवजागरे तु भेदसङ्क्षये
सति चतुरश्रपदं पादिवर्णचतुष्टयं हकारत्वेन परिणमते ।
बहिर्दशारकोणपञ्चकगतः कवर्गश्च हकारेऽन्तर्भवति ।
अवशिष्टकोणपञ्चकगतश्चवर्गः शकारत्वेन परिणमति । अन्तर्दशारे
कोणपञ्चकगतष्टवर्गः षकारत्वेन परिणमति ।
अवशिष्टकोणपञ्चकगतस्तवर्गः सकारत्वेन परिणमति । मकारो
हकाररूपेण परिणामिनि पवर्गे च सम्बन्धमुपलभते ।
प्रमातृकक्ष्यायां च वक्ष्यमाणत्रिकोणबिमे सम्बन्धमुपलभत इति ।
विसर्गपदे विन्द्वाविर्भावप्रक्रिया चतुरश्रदशारयुग्मरूपं चक्रत्रयं
कोणचतुष्टयाकारेण परिणमति । विसर्गपदे बिन्दुपदे च वर्णानां कोणानां
चैकरूप्येण भवितव्यमिति ये मन्यन्ते ते भेदाभेददशयोरप्यविशेषं
प्रतिपद्यन्त इत्यलम्
प्. ११४)
यः पार्थिवे चिदुदयः स हि शुद्धविद्या
यः प्राकृते स पुनरीश्वरता किलाऽण्डे ।
यो मायिके स तु सदाशिवतेति शादे
स्त्रैरुप्यधीरिहरहस्यतमं गुरूणाम्
इदानीं पक्षान्तराश्रयणेन इन्द्रियदेहात्मनि मज्जितप्रपञ्चानां
शुद्धविद्येश्वरसदाशिवानां
पृथ्वी(भू)प्रकृतिमायान्ताश्चिन्मयीकृता विषया इत्युपकल्पयति
-
यः पार्थिवेत्यादि । बहिरिन्द्रियविषयरूपे पार्थिवाण्डे यश्चिदुदयः । चिद्व्याप्तिः
। स हि स खलु । बिन्दूदयः शुद्धविद्या ।
शुद्धविद्यायामिन्द्रियप्रकाशैरेकाकारीकृतप्रमेयत्वलक्षणात् ।
पार्थिवाण्डे प्रमातृस्थानीयः पवर्गः सम्बन्धवानेव त्रिपुट्यां नित्यं
तत्सम्बन्धनियमात् । अतस्त्यक्तसङ्कोचे पार्थिवाण्डे चतुर्वर्णरूपस्य
सर्वस्यशवर्गस्य सम्भवः । एवं चास्मिन्पक्षे
शुद्धविद्याप्रमातुर्भेदप्रशमोपक्रमपदत्वात्पशुजाग्रच्च त्रिकोणबाहुल्ये
सत्येव सन्निवेशोपपत्तिरिति च विसर्गस्पर्शाः शवर्गाकारेण परिणमदवस्था
शुद्धविद्या प्रमातरि भेदशिरोदर्शनमुपलभन्त इति मुख्यया वृत्त्या
त्वीश्वरस्यैव शिवजाग्रत्पशुजाग्रच्चक्रसंश्लेषः
शुद्धविद्या(या)स्त्वपरिणतविवेकानामङ्गीकाराय
पाक्षिकस्तत्संश्लेष इत्यलम् । यः प्राकृतेऽण्डे चिदुदयः शवर्गाकारेण
सङ्कोचत्यागः । स पुनरीश्वरता किल । अत्रोपपत्तेः प्रतिभासमात्रगम्यत्वात् ।
किलेति साम्प्रदायिकमैतिह्यम् । अत्र पवर्गस्य शवर्गाकारेण सङ्कोचत्याग
एवमभ्यूह्यः - मकारस्योष्ठ्यवर्णस्य सङ्कोचत्यागः कण्ट्यवर्णो
हकार इति सुगमम् । पकारस्य प्रकृतिवर्णस्य हकारे चित्पदेऽन्तर्भावः ।
फकारादिवर्णत्रयस्य शकारादिवर्णत्रयत्वे युक्तिरुच्यते ।
फकारबकारभकारा जलाग्निवायवः शकारषकारसकाराश्च तथा । अतः
फकारादिसङ्कोचत्यागरूपत्वं शकारादीनाम् समानतत्त्वप्रतिपादकत्वात्
शकारादीनां जलादिप्रतिपादकत्वम् । प्रागुक्तभूतवैपरीत्याभावविमर्शे
स्फुटं फकारादीनां रूपमुच्यते । अल्पप्राणो वर्गप्रथमवर्णः
अल्पवृत्तिश्चेतरभूतापेक्षया पृथिवी अतस्तत्प्रतिपादकः । महाप्राणो
वर्गद्वितीयवर्णः पृथिव्यपेक्षया महावृत्ति च जलम् अतस्तत्प्रतिपादकः ।
नादवान्वर्गतृतीयवर्णः महाप्राणान्नादोऽधिकवृत्तिः
जलादधिकवर्तिवृत्तिश्चाग्निः अतः स तत्प्रतिपादकः । नादवान्घोषवांश्च
वर्गचतुर्थवर्णः केवलनाद(भवः नाद)वतो
घोषवानधिकवृत्तिः अग्नेरधिकवृत्तिश्च वायुः अतस्तत्प्रतिपादकः ।
उक्तसकलधर्मसंसृष्टिरूपपवर्गपञ्चमम् । अतः
पृथिव्यादिभ्यश्चतुर्भ्योऽधिकवृत्तिराकाशः । अतः पञ्चमवर्णः
आकाशप्रतिपादक इति । अतः फकारादिप्रतिपाद्यतत्त्वप्रतिपादकतया
सङ्कोचत्यागरूपत्वाच्च शकारादयः फकारादि परिणतिरूपा इति लभ्यते ।
ईश्वरस्य विश्वमयप्रकृत्यभिमानलक्षणत्वात्त्यक्तसङ्कोचं
प्रकृत्यण्डमीश्वरपदत्वमर्हतीत्यभिप्रायः । योमायिकेऽण्डे चिदुदयः स तु
सदाशिवता । मायिकाण्डस्य स्वप्नस्यात्मप्रकाशपदत्वात्सदाशिवस्य
विश्वात्मत्वलक्षणात्त्यक्तसङ्कोचो मायाण्डः सदाशिवपदमिति । शादेः
शकारादिवर्णचतुष्टयस्य । त्रैरूप्यधीः पृथिव्यण्डे प्रकृत्यण्डे
मायाण्डे च सिद्धस्य त्रैरूप्यस्य ऐकरूप्ये सत्येव स्थानकृतत्रैविध्यस्य या
धी विवेकः । सा धीरिह शुद्धविद्यादिदशाविवेकप्रस्तावे गुरूणां
रहस्यतममति रहस्यम्
प्. ११६)
बिन्दूदये विशति सर्ग इमं तथैव
सर्गोदये तमथ सोऽपि पदे तदन्तः ।
कःस्याद्धकारहृदिलश्च वकारगर्भे
बाह्ये तु चित् प्रकृतिसर्गमुखे विभक्ता
इदानीं शवर्गे कवर्गस्य देहप्रतिपादकलकारस्य
शङ्का(सङ्कोच)त्यागरूपवर्णादर्शनात् तद्दर्शनोपपत्तिमाह ।
बिन्दूदय इत्यादि । बिन्दूदये बिन्दुव्याप्तौ । इमं बिन्दुम् ।
पूर्वमेतद्व्यापकसर्गो विशति । बिन्दावेकीभवतीत्यर्थः । पूर्वं
बिन्दुगर्भादेव बहिर्विश्वस्रष्टा विसर्गः पुनस्तमेव विशतीत्यर्थः । तथैव ।
सर्गोदये विसर्गव्याप्तौ । तं विसर्गम् । अथानन्तरम् । सोऽपि बिन्दुरपि ।
विशतीत्यर्थः । तत्तस्मात्कारणादन्तःपदे बिन्दुव्याप्तिस्थले । कः ।
जलादिभूतचतुष्टयप्रतिपादकेनफादिवर्णचतुष्टयेनात्तगर्भः
पृथिवीप्रतिपादकः ककारो हकारहृदि स्यात् । तत्रान्तर्गतोभवतीत्यर्थः ।
स्वप्नस्याप्यान्तरपदत्वात् । तत्रापि विसर्गप्रमातुर्लकारस्य गर्भे स्थितिमाह ##-
अन्तःस्थसङ्कोचत्यागरूपे शवर्गे च हकारगर्भे लकारान्तर्धानं
भवतीत्यर्थः । विसर्गस्य बिन्दुसमावेशे तदेकरसत्वमेव ।
बिन्दोर्विसर्गसमावेशे विशेषमाह - बाह्येत्विति । बाह्ये विसर्गव्याप्तिस्थले ।
तु । चिद्बिन्दुः । प्रकृतिसर्गमुखे प्रकृतिरूपस्य विसर्गस्य मुखे । संमुखे
तिष्ठन्नपि । विभक्ता । प्रकृतौ नान्तर्भवति । अपि तु विभक्तरूपेण दृश्यते ।
मकारो हि पकाररूपिण्याः प्रकृतेश्च तत्समीपस्थितिसूचितस्याबहिर्मोक्षणस्य
कर्तैव तया नाऽन्तर्धीयते न तत्रैकरस्यात् स्वरूपहानिं लभते ।
पृथिवीरूपस्य विसर्गबिन्दुना बहिर्विसृष्टस्य न बिन्द्वेकरसीकरणं
पवर्गरूपे बिन्दोर्दर्शनात् । अतो विसर्गव्याप्तौ न बिन्दुस्वरूपतो लोप इति भावः
प्. ११७)
अन्तः पदं भवति तच्चतुरङ्गमैक्या-
च्चिच्चैत्ययोः करणसीम्न्यपि भावितैक्यम् ।
पञ्चाङ्गकं भवति बाह्यपदं प्रकृत्यां
चिद्वह्निगर्भकुहरादथ निर्गतायाम्
अथ विसर्गस्य बिन्दुनिलयनान्तःपदस्य चतुरङ्गत्वं विसर्गबिन्दोरनिलयनेन
बाह्यपदस्य पञ्चाङ्गत्वमिति प्रागुक्तमपि प्रमेयं प्रस्फुटप्रतिपत्तये
पुनरुद्भासयति -
अन्तरित्यादि । तत्तस्मात्कारणात् बिन्दौ विसर्गनिलयनरूपाद्धेतोः । अन्तः पदं
चतुरङ्गं भवति । कुत इत्याह चिच्चैत्ययोरैक्यात्
चितश्चैत्यैकरसीकरणसामर्थ्यसम्भवात् । किम्विधमन्तः पदम् ।
करणसीम्न्यपि भवितैक्यं विसर्गप्रमातुः सर्वव्यापि पदस्योपलक्षणेन
चिन्मज्जनेन बहिर्भासमाने करणत्रयपदेऽपि विभावितचिदैक्यम् । विसर्गपदस्य
कवर्गस्य हकारमज्जनेन उपलक्षणे न करणत्रयस्थानीय
चवर्गटवर्गतवर्गसङ्कोचत्यागरूपाणां शषसानां हकारे
निमज्जनमेवेति विभाव्यमित्यर्थः । तेषां यद्बहिः स्फुरणेन
सि(शु)द्धविद्यादिस्वरूपविवेचनं तत् हकारनिमज्जने सत्येवेति
वेदितव्यम् । ततश्चाभेदरूपं चित्पदमेकाङ्गमेव शषसानां
हकारनिमज्जनेनादर्शने शुद्धविद्यास्वरूपं न विज्ञायते इति तद्विज्ञानाय
हकारान्तर्गतानामेव तेषां बहिरवभासनमिति वेदितव्यम् । अथ विसर्गस्पन्दे
चिद्वह्निगर्भकुहरात्प्रकृत्यां विनिर्गतायाम् । करणत्रयेण
सहेत्यध्याहार्यम् । बाह्यपदं पञ्चाङ्गकं भवति । चैत्यस्य चित्पदं
विनास्वरूपासिद्धेस्तत्रालुप्तेन चित्पदेन सहेत्यर्थः
प्. ११८)
ज्ञानक्रियोन्मुखहकारमयाद्वयेच्छा-
विश्रान्तिरन्तरवहिर्मुखविश्रमात्मा ।
कूटाक्षरात्मतनुरेष शिवः सुषुप्ति-
विश्रान्तिरेव सविकल्पकलाल्पगन्धा
इदानीं शक्तिरूपस्य हकारस्य स्वरूपं विविच्यच्युत्पादयन्नेतदुत्तरपदस्य
लकारक्षकाररूपकूटाक्षरप्रतिपाद्यस्य शिवतत्त्वस्य स्वरूपमवबोधयति
-
ज्ञानेत्यादि । ज्ञानक्रियोन्मुखहकारमयाद्वयेच्छाविश्रान्तिः
सदाशिवेश्वरात्मकयोर्ज्ञानक्रिययोर्विषये उन्मुखा ।
तदधिष्ठातृत्वादित्यर्थः । हकारमयाऽद्वयेच्छा हकारस्वरूपाभेदेच्छा ।
हकारप्रतिपाद्यत्वे हकारस्वरूपत्वादभेदेच्छायामाचरितम् ।
सैवेच्छाविश्रान्तिरूपत्वाद्विश्रान्तिः । अयमर्थः -
येयमपरिच्छिन्नज्ञानक्रियात्मकसदाशिवेश्वर
स्वरूपज्ञानक्रियाकरणाधिष्ठात्री ज्ञानक्रिययोः कूटस्थ त्वलक्षणेन
तदधिष्ठातृत्वेनेच्छाव्यपदेशविषया
ज्ञानक्रियाकूटस्थत्वस्यैवेच्छालक्षणत्वादिच्छास्वरूपिणी
शक्तितत्त्वमित्यागमिकैरुद्घोष्यमाणा द्वैतस्पृष्टिरहिताकारप्रतिपाद्या
महाविश्रान्तिः । सैवान्तः पदे अबहिर्मुखविश्रमात्मा प्रपञ्चानभिमुखा
विश्रान्तिरूपा । सविकल्पकलाल्पगन्धा । सुषुप्तिविश्रान्तिरेव
स्वरूपानुभवमात्रविकल्पयुक्ता । सुषुप्तिरेव । कूटाक्षरात्मतनुः
लकारक्षकारोभयैक्यरूपकूटाक्षरात्मकनिजस्वरूपः । तत्प्रतिपाद्य इत्यर्थः
। एष अपरोक्षानुभवगोचरः । शिवः शिवतत्त्वम् । भवतीति शेषः । जाग्रत्येव
सम्भवन्ती सोमादिसाधनताभाग्यवशात् स्वतः प्रवृत्ता वा
काचित्सुषुप्तिविश्रान्तिरन्तर्मुखी चेच्छिवतत्त्वं भवति सैव
बहिर्मुखीचेच्छक्तितत्वं भवतीति विवेकः
प्. ११९)
नास्त्यस्ति वेत्त्युदितसंशयजाग्रतीह
सुप्तौ * * शिवे (भवति)(ज ग्र)जगदभेदरूपम् ।
ज्ञानक्रियात्मकतया प्रतिरूपभिन्न-
मेवं चतुर्विधमधिश्रितबीजमात्रम्
अथान्तर्मुखजाग्रत्सुषुप्तिविश्रान्तिरूपस्य शिवस्य जडसुषुप्तिविश्रान्तिरूपायाः
स्वरप्रतिपाद्यायाः शक्तेरिव जगत्कारणत्वेन तत्त्वजगद्बीजस्थित्यौचित्यमिति
तदवस्थानं कूटाक्षररूपेण विभाव्यमानं व्युत्पादयति -
नास्तीत्यादि । नास्त्यस्तिवेत्युदितसंशयजाग्रति नास्त्यस्तिवेत्युद्भूतसंशयः
जाग्रत्यत्र हीह सुप्तौ अस्ति वा नास्ति वेति संशयगोचरेण निर्देशितायां
सुषुप्तावित्यर्थः । शिवे तादृक्सुषुप्तिस्वरूपे शिवे । अभेदरूपमपि अथेत्येवं
भिन्नम् एवं सम्भूय चतुर्विधं जगत् अधिश्रितबीजमात्रं
बीजमात्रेणाधिश्रितं भवतीति शेषः । अयमर्थः । स्वप्नरूपेऽन्तःपदे
भेदज्ञानरूपम् जाग्रदरूपे बहिःपदे भेदक्रियारूपम् तथैव
स्वप्नरूपेऽन्तःपदे अभेदज्ञानरूपम् जाग्रद्रूपे बहिःपदे भेदक्रियारूपमिति
सङ्ग्रहेण जगच्चतुर्विधम् । तदेव शिवतत्त्वे कूटाक्षररूपेण बीजमात्रं
तिष्ठतीति व्युत्पादितम्
प्. १२०)
ज्ञानं द्वयाद्वयमयं लसकाररूपं
तादृक् च कर्म कषकारमयं विदुस्तत् ।
श्लिष्टं पुरः स्फुरितसद्वयकोटि ल क्ष-
रूपं परस्परगतं च समं च कूटम्
इदानीं लकारसकारककारषकाररूपवर्णचतुष्टये कादिस्पर्शकूटाक्षरस्य
चतुर्विधजगद्बीजसंसृष्टिरूपत्वं व्युत्पादयति -
ज्ञानमित्यादि । द्वयाद्वयमयं भेदाभेदात्मकं ज्ञानं लसकाररूपम् ।
भेदज्ञानपदान्तः स्थवर्गे प्रकृतिप्रतिपादको यो लकारस्तस्यैव
तत्पदाधिष्ठातृत्वात्तत्पदस्य ज्ञानपदत्वात् ज्ञानप्रमातृत्वं
मनःप्रतिपादकस्य लकारस्य तद्व्याप्यत्वाभिमानदोषान्न ज्ञातृतोपपत्तिः
तन्मूलरूपस्य वकारस्य च तथा ज्ञेयस्थानीयस्य यकारस्य च ज्ञातृत्वं
नाशङ्कनीयम् । ज्ञेयवर्गस्य गन्धादेः सर्वत्र पृथिव्याद्यङ्गत्वात्
प्रकृत्याकारपृथिवीरूपस्य लकारस्यान्तःपदे क्रियाप्रमातृशङ्का न
समुचिता । अतो लकारस्य ज्ञातृत्वं निश्चितम् । शवर्गपदे अभेदज्ञानत्वं
सदाशिवात्मनः सकारस्य निर्विवादम् । तादृग्द्वयाद्वयमयं कर्म । च ।
कषकाररूपं ककारषकाररूपम् । भेदप्रक्रियापदे स्पर्शस्थले टवर्गस्य
कवर्गव्याप्यत्वाभिमानदोषान्नकर्तृत्वम् । अपि तु कवर्गाधिष्ठातुः
ककारस्य अभेदक्रियापदे शवर्गे (ट)वर्गे ईश्वरात्मनष्षकारस्य
कर्तृत्वं स्फुटम् । तदेतच्चतुष्कमिदं श्लिष्टं । भेदज्ञानेन
लकारेणाभेदज्ञानं सकारः । भेदक्रियया ककारेणाभेदक्रिया षकारः ।
भेदाभेदयोरन्योन्यश्लिष्टतास्वभावात् । श्लेषे च पुरः
स्फुरितसद्वयकोटिप्रमायाबलादिति भावः । श्लिष्टयोरक्षरद्विकयोः
सद्वयकोटिपुरःस्फुरणे कीदृग्रूपमित्यत आह - ल क्षरूपमिति ।
लकारसकारयोः श्लेषभेदरूपस्य लकारस्य पुरःस्फुरणे ल इति वर्णः स्यात् ।
ज्ञाने ज्ञानमेकरसीभवतीति । सकारस्य लकारे
सामरस्यात्सकारयोगसम्भावितोच्छ्रून भावो लकारो ल इति श्रूयते ।
ककारषकारयोः श्लेषे ककारस्य द्वैतरूपस्य पुरःस्फुरणे क्रियायां क्रिया
न सामरस्यं लभत इति क्षकारः स्यात् । एतत्कूटं परस्परगतं क्रमात्
परस्परेण व्याप्तम् । प्रथमं लकारेण सकारो व्याप्यते । एतत्संस्थानं
भेदसंसारबीजम् । अनन्तरं सकारेण लकारः । आ ?
एतत्सं(स्था)नमभेदसंसारबीजम् । क्रियापदे च प्रथमं
ककारेणषकारो व्याप्यते अनन्तरं षकारेण ककारः ।
(एतत्)संस्थानकृतं भेदाभेदबीजत्वं पूर्ववत् । समं च
मध्यमपदे समव्याप्तिकत्वान्निष्पन्दम् सद्भिदाभेदोभयविमिश्रेण बीजम् ।
भेदसंसारबीजभूतेन संस्थानेन दृश्यमानस्य कूटस्यैवं
संस्थानप्रक्रिया गुरुमुखात्पारम्पर्यागतप्रतिभावद्भिरनुसन्धेया ।
शिवतत्त्वपुञ्जकस्य कूटस्यैकाक्षरत्वमेव व्यङ्ग्यस्य शिवतत्त्वस्यैकत्वात् ।
सास्नादिमत्त्वव्यङ्ग्याया जातेरिव (शिव)
स्थूलरूपकूटाक्षरव्यङ्ग्यस्य शिवतत्त्वस्य न विश्रान्तिस्वरूपताभङ्ग इति
वेदितव्यम्
प्. १२२)
ज्ञानात्मजागरसुषुप्त्यवधी मकार-
कूटात्मकौ पशुशिवौ गुणकोणबिन्द्वोः ।
श्लिष्टौवशादिचतुरस्रयुगान्वयोत्थ-
नागाश्ररश्म्युदरगौ ननु सर्गबिन्दू
इदानीं मकारादिक्षकारान्तदशाक्षररूपस्य
प्रमातृपदस्याष्टारत्रिकोणबिन्दुचक्रेषु सन्निवेशं व्युत्पादयति -
ज्ञानात्मेत्यादि । ज्ञानात्मजागरसुषुप्त्यवधीज्ञानात्मनोर्जागरस्य
सुषुप्तेश्च अवधी । स्थानभूतौ । अवधिस्थाने तिष्ठन्तावित्यर्थः ।
ज्ञानजागरोऽन्तःस्थप्रतिपाद्यः स्वप्नः तस्यावधौ यकारप्रान्ते स्वप्नस्य
प्रवृत्तिः प्रथमपदस्य जाग्रदाभिमुख्येन
प्रवर्तमानत्वाद्वकारमारभ्य यकारे परिसमाप्तिः
तदनन्तरपदत्वान्मकारस्य स्वप्नावधिस्थानत्वम् ज्ञानसुषुप्तिः
शकारवर्ग(र्ण)प्रतिपाद्यनिर्विभेदजाग्रत्स्वप्नरूपं पदद्वयं
तस्यावधौ हकारोत्तरभागे क्षकारः निवृत्तिरूपा या ज्ञानसुषुप्तिः
सुषुप्त्यभिमुखं प्रवर्तमानत्वाच्छकारमारभ्य हकारे परिसमाप्तिः
तदनन्तरपदत्वात् क्षकारस्य ज्ञानसुप्त्यवधिस्थानत्वम् ।
एवं ज्ञानजागरज्ञानसुषुप्त्यवधीमकारकूटात्मकौ
मकारकूटाक्षरस्वरूपौ । पशुशिवौ । गुणकोणबिन्द्वोः त्रिकोणबिन्दुचक्रयोः
श्लिष्टौ । त्रिकोणगर्भे बिन्दुः बिन्दुगर्भे त्रिकोण इति
जीवशिवयोरन्योन्यव्याप्तिस्वभावत्वाच्छ्लेषः । भेदस्त्रैगुण्यरूप इति
त्रिगुणावच्छिन्नस्य भेदप्रमातुर्जीवस्य त्रिकोणरूपता अभेदस्त्वेकरूप
इत्यभेदप्रमातुः शिवस्य निर्गुणत्वोपलक्षणनिष्कोणबिन्दुस्वरूपता ।
ननु भेदप्रमातृत्वं प्रकृतेः पृथिव्या एवेति युज्यते तत्र भेदपदे
जीवस्य प्रमेयत्वमिति प्राक्प्रतिपादितम् । तत्कथमत्र भेदप्रमातृत्वं
जीवस्योच्यते अभेदप्रतिसिंहासनारोहश्चाप्यत्रैवोच्यत इति चेत् उच्यते ।
प्रमातृत्वस्य अनुसन्धातृत्वलक्षणत्वाच्चित्पद एव मुख्यवृत्त्योपपत्तिः
चैत्यपदेनुव्याप्तिमधिकृत्य गौणवृत्योपचार इति चैत्यप्रमातृत्वं
जीवस्यैव फलसमये अभेदपदीये व्यवहारे तु चैत्यस्यैवेति विवेकः ।
अतस्त्रिकोणबिन्द्वोः । श्लिष्टौ जीवशिवौ ।
वशादिचतुरस्रयुगान्वयोत्थनागाश्ररश्म्युदरगौ वकारादयः
शकारादयश्च वर्णा वशादयः वशादिभिर्यच्चतुरश्रयुगम् ।
वादिभिर्यान्तैश्चतुर्भिर्वर्णैरेकं चतुरश्रम्
शादिभिर्हान्तैश्चतुर्भिर्वर्णैरन्यच्चतुरश्रम् । तयोश्चतुरश्रयोरन्वयः
श्लेषः तेनोत्थमुद्भूतं यन्नागाश्रमष्टकोणं तदेव रश्मयः
रश्मिचक्रम् । क्षकारात्मनः शिवस्य शादिवर्णनिष्पन्न चतुरस्रं
रश्मिचक्रम् मकारात्मनो जीवस्य वादिवर्णनिष्पन्नं चतुरश्रं रश्मिचक्रम्
तयोश्चक्रयोर्यथाक्रममन्तरगौ अधिष्ठातृत्वेन मध्यस्थितौ । सर्गबिन्दू ।
ननु । विसर्गबिन्दुस्वरूपौ ननु । त्रिकोणात्मनो जीवस्य विसर्गरूपता ।
बिन्दुचक्रात्मनः शिवस्य बिन्दुरूपतेति विवेकः
प्. १२४)
ज्ञानक्रियात्मकसुषुप्तिविबोधमध्य-
संस्थौ क्षमावुभयपक्षगबिन्दुसर्गौ ।
सव्यापकौ तदुभयस्य तदङ्गिभृतौ
जाग्रत्सुषुप्तिसमवायपदेऽनुषक्तौ
इदानीं क्षकारमकारात्मनोः शिवजीवयोर्ज्ञानक्रियासुषुप्त्योर्मध्यपदे
ज्ञानक्रियाजागरयोर्मध्यपदे च यथाक्रमं सन्निवेशौचित्यं व्युत्पादयति
-
ज्ञानक्रियेत्यादि । ज्ञानक्रियात्मकसुषुप्तिविबोधमध्यसंस्थौ । ज्ञानात्मिका
सुषुप्तिरभेदजाग्रत्स्वप्नरूपा शवर्गप्रतिपाद्या क्रियात्मिका भेदसुषुप्तिः
स्वरेषु बिन्दुभागप्रतिपाद्या । तयोः सुषुप्त्योर्मध्ये क्षकारात्मनः शिवस्य
संस्थानं ज्ञानत्मको विबोधो जागरोऽन्तःस्थप्रतिपाद्यो भेदस्वप्नः
क्रियात्मको विबोधःस्पर्शप्रतिपाद्यो जागरः तयोर्मध्यभागे मकारात्मनः
जीवस्य सन्निवेशः । ज्ञानविभेदोभेदसुषुप्तेरप्युपलक्षणम् ।
अभेदजाग्रत्स्वप्नरूपायाः पूर्वकोटेरभेदसुषुप्तेरुदरकोटिमध्ये यदा
शिवस्य सन्निवेशस्तदाभेदसुस्.उप्तिज्ञानविबोधात्मिकायाः पूर्वकोटेः
क्रियाविबोधरूपाया उत्तरकोटिमध्ये जीवस्य सन्निवेश इति वेदितव्यम् ॥
एवं निरूपितसन्निवेशस्थानौ क्षकारमकारात्मकौ शिवजीवौ ।
उभयपक्षगबिन्दुविसर्गौ
ज्ञानक्रियासुषुप्तिलक्षणोभयपक्षगस्तद्व्यापकस्तदुभयाधिष्ठाता ।
वैन्दवः क्षकारः ।
भेदसुषुप्तिसहितज्ञानजागरकेवलक्रियाजागरलक्षणोभयपक्षव्यापकस्तदद्
हिष्ठाता विसर्गो मकारः । एवं
सुषुप्तिरूपोभयपक्षबैन्दवसुषुप्तिसहितजागररूपोभयपक्षव्यापकौ । अत
एव तदङ्गिभूतौ । निवृत्तिरूपाया द्विविधायाः सुषुप्तेः प्रवृत्तिरूपस्य
भेदसुषुप्तिसहितस्य द्विविधस्य जागरस्याधिष्ठातृत्वसूचकेन
मध्यसन्निवेशेन निवृत्तिप्रवृत्तिरूपयोः अभेदपदयोरङ्गिभूतौ
जाग्रत्स्वप्नसुषुप्ती समवायपदे जाग्रत्सुषुप्त्योर्यः समवायो मिश्रणं तत्पदे
अन्तःस्थोष्मवर्गयोः खलु जाग्रत्सुषुप्त्योः समस्तयोर्न तु व्यस्तयोः समवायः
। अन्तःस्थपदे च जाग्रत्सुषुप्त्योः समवाय-ईषत्स्पृष्टताविषयत्वात्
ऊष्मपदे च जाग्रत्सुषुप्त्योः समवायः तच्छ्लेषात्तस्येषद्विवृतताविषयत्वात् ।
अतो व्यापकवर्गा(र्णा) दशाक्षररुपाः स्वरस्पर्शदशयोर्व्यापकाः ।
अत एव तस्य व्यापकवर्गसंज्ञा । तत्र मध्यपदे पक्षद्वयव्यापकयोः
शिवजीवयोः मध्यपदोचितयोः सन्निवेशः सोपपत्तिक इति विवेकः
प्. १२५)
सङ्कोचपूर्तिपरसीमपदोभयार्था
श्रीचक्रमध्यनिलया त्रिपुरेश्वरी सा ।
त्रेधा विसर्गपदमेकविधं पदं च
बिन्दोस्तुरीयमिति बाहुचतुष्टयाढ्या
इदानीं दशारयुग्मचतुर्दशारव्यापकस्य अष्टारात्मनो मध्य चक्रस्य
अधिष्ठातृत्वेन जीवशिवात्मकमकारक्षकारसामरस्यमेव
सर्वचक्राधिष्ठातृभूताया मध्यचक्रनिलयायास्त्रिपुरेश्वर्याः स्वरूपमिति
व्युत्पादयति -
सङ्कोचेत्यादि । सङ्कोचपूर्तिपरसीमपदोभयार्था सङ्कोचस्य
सङ्कोचभावस्य पूर्तेः पूर्णभावस्य च यत्परसीम पदं
परमावधिस्थानम् जाग्रदात्मकदशारयुग्मरूपं सुषुप्त्यात्मकं
चतुर्दशाररूपं च तदुभयोभयार्धा(र्था) । श्रीचक्रमध्यनिलया
प्रमेयप्रमाणप्रमातृलक्षणपुरत्रयात्मनः श्रीचक्रस्य मध्यं
स्वप्नात्मकमष्टाररूपं प्रमातृपुरम् तदेव निलयः सन्निवेशस्थानं
यस्या सा । त्रिपुरेश्वरी । अनेन
मकारक्षकारयोरष्टाराधिष्ठातृत्वादुभयसामरस्यमेव त्रिपुरेश्वरी
स्वरूपमिति प्रतिबोधितः ।
अथ त्रिपुरेश्वर्याः सुषुप्तिस्वप्नजागरतुर्यलक्षणसकलचक्रार्थस्वरूपिण्या
दशाचतुष्टयमेवाङ्गचतुष्टयमिति तद्विभागमाह - त्रेधेत्यादि । त्रिधा
त्रिविधं विसर्गपदं भेदपदम् भेदस्तु सुषुप्तिभेद स्वप्नभेद जागररूपम्
बिन्दोरेकविधं पदं तुर्यरूपम् । अत्र च यद्यपि
अभेदजाग्रत्स्वप्नसुषुप्तिरूपेणत्रैविध्यं सम्भवति । तथापि तस्य त्रिविध्यस्य
भेदप्रतियोगित्वोपाधिवशात् स्फुरत्ता न तु पारमार्थ्येनेति
तुर्यस्याभेदपदस्यैकविध्यमेवेति । बाहुचतुष्टयाढ्या
इत्युक्तदशाचतुष्टयोपलक्षणेन बाहुचतुष्टयेन आढ्यायाः सम्पन्नायाः
त्रिपुरेश्वर्याः साम्प्रदायिको योऽयं बाहुचतुष्टयसङ्केतः सोऽयं
दशाचतुष्टयाङ्गत्वोपलक्षणं न तु पारमार्थिक इति
सद्गुरुकटाक्षक्षयितसर्वसंशयस्य भाग्यवतो जीवनस्य एकवेद्यं
महारहस्यमिति साम्प्रदायिकप्रवादः
प्. १२६)
सौषुप्तजाग्रदबहिः पदजागरेषु
तोयक्षमानिलमयेष्व क लात्मशक्त्या ।
आत्तेचवर्गयमयस्वगुणेक्षुचाप-
पुष्पेषुपाशनिगृहीतचिता त्रिबाहुः
अथैवमेव बाहुचतुष्टयसङ्केतमायुधचतुष्टयसङ्केतेन सह प्रस्फुटं
व्युत्पादयति -
सौषुप्तेत्यादि । सौषुप्तं सुषुप्तिः । जाग्रज्जागरः । अबहिः पदजागरः स्वप्नः ।
सुषुप्तिजाग्रत्स्वप्नेषु । तोयक्षमाऽनिलमयेषु जलपृथ्वीवायुरूपेषु ।
सुषुप्तिर्जडत्वात् जलरूपा जाग्रत् - सङ्कोचरूपत्वेन
कठिनत्वात्पृथिवीरूपम् स्वप्नो वायुपर्यायमनोविलासत्वाद्वायुरूपः ।
क्रमेणैतासु दशासु । अ क लात्मशक्त्या अकारककारलकाररूपया शक्त्या ।
चैत्यात्मिकया पृथ्वीरूपयेति भावः । पृथिव्या एवात्यन्तकठिनस्वरूपायाः
परमचैत्यत्वात् । किंविधया शक्त्या ।
आत्तेचवर्गयमयस्वगुणेक्षुचापपुष्पेषुपाशनिगृहीतचिता
सुषुप्तिजाग्रत्स्वप्नेषु क्रमेण आत्तैः परिगृहीतैः इकारचवर्गयकारमयैः
स्वगुणैः स्वकीयधर्मैः भूतपञ्चकाधिष्ठातृभूतायाः पृथिव्याः
शब्दादिपञ्चकं खलु धर्मरूपम् नियमेन तदाश्रितत्वात् एतैरेव
शब्दादिभिः सुप्त्यादिदशात्रये प्राप्तौल्वण्यतारतम्यमयैः । अत एव
सुषुप्ताविक्षुचापमिति सङ्केतितैः । जलमयत्वेन मधुरत्वाच्च
जीवस्वरूपावर्जकत्वाच्च । जाग्रति प्रवृद्धभेदे प्रस्फुटपञ्चरूपैः
वशीकरणमात्रव्यापारवत्तया कुसुमबाणा इति सङ्केतितैः । स्वप्ने
किञ्चिदुच्छुनदशायां
वायुरूपत्वाद्वात्यावद्भ्रामणव्यापारेणभेदाभेदभ्रान्तिजननेन पाश इति
सङ्केतितैः । एवं इकारचवर्गयकारमयैः प्रतिपाद्याः शब्दादय एव
इक्षुचापपुष्पबाणपाशत्वेन सङ्केतिताः तैरेवंभूतैः साधनैर्निगृहीता
बद्धा आवृता चित् जीवस्वरूपिणीचितिर्यया तया पृथिव्या शक्त्या । त्रिबाहुः
बाहुत्रयवती । एवं चैत्यात्मिकया शक्त्यैव सुप्त्यादिदशात्रयाधिष्ठात्री
त्रिपुरेश्वर्या बाहुत्रयम् । तदाश्रितंशब्दादिपञ्चकमेव
तत्तद्दशाव्यवस्थितस्वरूपविशेषं सत् इक्षुचापाद्यायुधत्रयमिति
महोपदेशः
प्. १२७)
तुर्येऽग्निधाम्नि हचिता ससृणिप्रणुन्न-
चैत्यातिपश्विभजडत्वरुजैकबाहुः ।
एवं चतुर्भुजविभाव्यचतुर्थदशाङ्गा
क्ष्मात्माङ्गिनी जयति मध्यपदेऽतितुर्या
एवं बन्धकं बाहुत्रयं तदायुधत्रयसहितं व्युत्पाद्य मोचकं चतुर्थं
बाहुं तदायुधेन सह व्युत्पादयति ।
तुर्य इत्यादि । अग्निधाम्नि अग्निस्वरूपे । चिद्व्याप्तिस्थानत्वादिति भावः । तुर्ये
चतुर्दशायाम् पारिशेष्यात्तुर्यमिति । तमा(दा)काशस्वरूपमिति
वेदितव्यम् । हचिता । हकारप्रतिपाद्यया चिता । ससृणीत्यादिसकाररूपेण
सृणिना अङ्कुशेन प्रणुन्नः - चैत्यमेवातिपशुर्महापशुः अत एव
महापशुत्वादिभो गजः तस्य जडत्वम् चिद्व्यतिरेकेण स्फुरणं तदेव रुक्
रोगः यया तयेति हचिद्विशेषणमेतत् । (यथा)महापशुर्गजः
खल्वङ्कुशेन बोध्यते चैत्यमपि तथा सकाररूपेण सदाशिवविमर्शेन
बोध्यते । चिदेकरूपतां प्राप्यत इति सकारस्याङ्कुशसङ्केतोपपत्तिः ।
अभेदविमर्शः सकारो हकारात्मिकायाः संविच्छक्त्या अङ्गत्वाद्धर्म इति
तदायुधत्वं तस्य एवं सकाराङ्कुशभृता हसाकारशक्त्या । एकबाहुः
एकबाहुमती । एवं चतुर्भुजं विभाव्य । चतुर्दशाङ्गा ।
चतुर्भुजैर्विभाव्यानि चतस्रो दशा एवाऽङ्गानि यस्याः साक्ष्मात्माङ्गिनी ।
क्षकारमकारसंसृष्टिरूपा अङ्गिनी । क्षकारमकाराभ्यामेव
दशाचतुष्टयमधिष्ठितमिति । तदुभयसंसृष्टिरङ्गित्वं त्रिपुरेश्वर्याः
प्राणस्वरूपतेति सम्यगुपपत्तिः । निर्विकल्पपदस्य तुरीयस्य
माध्यमिकत्वेनाधिष्ठातृतया क्षकारो बीजभूतः । विकल्पपदस्य
सुषुप्त्यादिदशात्रयात्मनो माध्यामिकत्वेन मकारो बीजभूतः ।
तदुभयसंसृष्टिरेव सर्वमूलत्वात्तुर्यातीतस्वभाव इति समुपदिशति -
मध्यपदेऽतितुर्येति । एतस्यैव पदस्य सर्वोत्कृष्टता जयतीति शब्देनोन्मीलिता
प्. १२९)
सुप्तिप्रभृत्युदितचैत्यविजृम्भितस्य
जाग्रत्पदप्रभृतिचिद्विनिमज्जनं यत् ।
तुर्यं पदंच् अ खलु तत्र सुषुप्तिभागो
यश्चिन्मयः शिववपुस्तदतीव तुर्यम्
ननु पञ्चभूतानि पञ्चाम्नाया देवस्य पञ्चमुखानीति
दशाभिरपिपञ्चभिर्भवितव्यम् । सुषुप्त्यादिभिः
पञ्चभिर्दशाभिरङ्गैरुपलक्षितस्तत्सर्वमयादितदन्यो भवितुमर्हति ।
तत्कथं तुर्यातीतस्याङ्गित्वमुक्तमुत्यत्राह -
सुप्तिप्रभृतीति । सुप्तिदशामारभ्य । उदितस्य चैत्यविजृम्भितस्य ।
जाग्रत्पदप्रभृति जाग्रत्पदमारभ्य यच्चिद्विनिमज्जनं चिन्मयतावभासः ।
तत्खलु तुर्यं पदम् । सुषुप्तिस्वप्नजाग्रत्क्रमेणोन्मीलितस्य भेदावभासस्य
जाग्रत्स्वप्नसुषुप्तिक्रमेण योऽयमभेदावभासः
तत्खल्वभेदावभासस्थानं तुर्यदशा । तस्यां दशायां
यश्चिन्मयसुषुप्तिभागः जाग्रत्स्वप्नयोश्चिन्मयावभासनान्तरं
सम्भाव्यमानश्चिन्मयीभूतसुषुप्तिरूपो विश्रमः । असौ खल्वतीततुर्यं
तुर्यातीतस्वभावम् । शिववपुः शिवस्य शिरोरूपं वपुः । चिन्मयौ
जाग्रत्स्वप्नौ शिवस्य जघन्यं वपुः चिन्मयीसुषुप्तिस्तस्य शिरःपदमिति
वेदितव्यमिति भावः । एतदुक्तं भवति । येषां चतस्र एव दशा इति मतम्
चिन्मयसुषुप्तेरतीततुर्यमत्युत्तीर्णतुरीयमिति व्यपदेशाङ्गीकारेण तुर्य
एवान्तर्भावः । तेषां तुर्यातीतं नाम नान्यापृथग्दशा
चिन्मयसुषुप्तेस्तुर्यातीतत्वसम्भावनाविषयस्य (तुर्य एवान्तर्भावात्##?
सर्वदशाधिष्ठाता । एतन्मतानुसारेण क्षकारमकारसमवायस्य
सर्वदशाधिष्ठातृभूतस्य तुर्यातीतस्वभावत्वमङ्गित्वाभिप्रायेणोक्तम्
दशामात्रपरत्वेननेति पूर्वसूत्राभिप्रायः ।
नन्वेवं चाङ्गिपरत्वेनाभिमतस्य तुर्यातीतस्वभावस्य
सर्वदशाङ्गसमवाय एव युक्तः स (न)
त्वेकदेशनियतक्षकारमकारसंसृष्टिसन्निवेशौचित्यमिति न मन्तव्यम् ।
यथा शरीरेण सर्वशरीरसमवायवतोऽपि शरीरैकदेशे हृदयकमले
सन्निवेशाङ्गीकारस्तथा सर्वदशासमवायवत एव तुर्यातीते(त)
स्वभावस्य क्षकारमकारसंसृष्टिरूपमध्यचक्रसन्निवेशो युज्यत एवेति
निरवद्यम् । येषां पुनर्मते तुर्यातीतं चिन्मयसुषुप्तिपरम् पञ्चमी दशैव
तेषां मते क्षकारमकारसंसृष्टिरूपं पदं सर्वदशासमवेतं
महातत्त्वमेव त्रिपुरेश्वरीप्राणपर्यायमिति (न)व्यत्यययोगः
प्. १३०)
तुर्यं द्विखण्ड मभवस्य जघन्यभागो
मूर्धाऽतितुर्यमनयोरनुभूः क्षमध्यम् ।
जाग्रच्छिराःस्वपनसुप्तिजघन्यभागो
मप्राणकः पशुरसौ विपरतिबोधः
अतीततुर्यं शिववपुरिति पूर्वसूत्रे सामान्योक्तं विशेषेण व्युत्पादयति -
तुर्यमित्यादि । द्विखण्डं खण्डद्वयोपलक्षितम् । अभेदजाग्रत्स्वप्नरूपमिति
भावः । तुर्यम् । अभवस्य शिवस्य । जघन्यभागः । अतितुर्यम् ।
अभेदसुषुप्तिरूपं तुर्यं तुर्यदशाभागः । मूर्धा शिरः । अभवस्येति
सम्बध्यते । शिवस्य निर्विकल्पप्रधानत्वाद्विकल्पाप्राधान्याच्चेति भावः ।
अनयोरप्रधानप्रधानाङ्गयोः । क्षमध्यं क्षकाररूपं मध्यम् ।
अनुभूः प्राणस्थानम् । जघन्यशिरोरूपयोरङ्गयोर्मध्यस्थाने कण्ठे खलु
प्राणस्तितिरिति भावः । उभयाधिष्ठातुरुभयमध्यस्थितिरुपपन्नेति तात्पर्यम् ।
शिवप्रसङ्गेन जीवस्याप्यङ्गविवेकमाह - जाग्रच्छिरो यस्य जाग्रच्छिराः
। स्वपनसुप्तिजघन्यभागः स्वप्नं स्वप्नः । स्वपनसुषुप्तिर्जघन्यभागो
यस्य असौ । विपरीतबोधः शिवाद्विपरीतज्ञानः । पशुः ।
विकल्पप्राधान्यान्निर्विकल्पाप्राधान्याच्च पशोः शिवाद्वैपरीत्यम् ।
एवंविधः । पशुः मप्राणकः । उभयाङ्गमध्यवर्तीयो मकारः स एव
पशोःप्राणस्थानमिति पूर्ववद्विवेकः
प्. १३१)
मात्मा पशुः प्रकृतिरेव तया निगीर्णो
हात्मापि चित्प्रकृतिरेव निवृत्तिरूपा ।
इत्थं द्विधा प्रकृतिविश्रमभूः क्षकारः
शम्भुः परः परत एव भवेत्प्रकृत्याः
भेदसंसारप्रवर्तिन्या प्रकृत्या यथा मकाररूपः पशुर्बदधः
अभेदसंसारप्रवर्तिन्या प्रकृत्या तथा क्षकाररूपस्यापि शिवस्य बन्धः
सम्भाव्यते । तत्कथं नियतबन्धं
मकारक्षकारसामरस्यमुपास्यत्वेनाङ्गीकृतमित्यत्राह -
मात्मेति । मात्मा मकारस्वरूपः । पशुर्जीवः प्रकृतिरेव । तत्रहेतुमाह । तया
निगीर्ण इति । प्रकृत्या ग्रस्तत्वात् । प्रकृत्युत्तीर्ण स्तदुतीर्ण इति भावः । हात्मापि
चित् । हकाररुपिणी चित् । निवृत्तिरूपा प्रकृतिरेव ।
तदनुषङ्गनैयत्यादित्यभिप्रायः । क्षकारस्तु इत्थं द्विधा
प्रकृतिविश्रमभूः । इत्थमुक्तमर्यादया । द्विधा । द्विरूपिण्याः
प्रवृत्तिनिवृत्तिरूपिण्याः । प्रकृतेर्विश्रमभूः - विश्रमस्थानम् ।
शुद्धान्तर्मुखत्वेन संसारद्वयकलास्पृष्टत्वात् प्रकृत्यनावृतः किन्तु
प्रकृतेः स्वयमावरकमित्यभिप्रायः । अत एव । क्षकारः । परः शम्भुः ।
प्रकृत्याः परत एव । न तु तदन्तः पतितः । अतो नित्यमुक्तः क्षकारः । अस्यैव
यद्बहीरूपं हकारः यच्चा(स्या)त्यन्त(र्ब)बहीरूपं
मकारः तयोरेव प्रकृतिपारतन्त्र्येण प्रकृतित्वं न तु क्षकारस्य
अतस्तस्योपास्यत्वं युज्यत एवेति तात्पर्यम्
प्. १३२)
यद्वा शिवः क्ष इह म प्रतियोगिभावात्
सौषुप्तमेव परशम्भुपदं चिदात्मा ।
यच्चक्रमध्यपदता तदधीशता च
शम्भोः(स्तदस्य) सदेश्यगुणगन्धितयार्च्यभावात्
क्षकारस्य मकारप्रतियोगितया विकल्पगन्धो दुर्निवारः अतः शुद्धनिर्विकल्पं
चित्सुषुप्तिपदमेव परम तत्त्वम् । तदेवोपास्यमिति ये मन्यन्ते तदाक्षेपायाह
-
यद्वेति । मप्रतियोगिभावात् मकारस्य जीवप्रतिपादकस्य प्रतियोगिभावात्
अन्योन्यव्याप्यव्यापकभावसंसर्गात् । क्षकारः । शिवः । न तु परमशिवः ।
विकल्पगन्धनैयत्यादिति भावः । चिदात्मा चिन्मयं सौषुप्तपदं सुषुप्तिरेव ।
परशम्भुपदं परमशिवतत्त्वम् । यद्वा । यद्वेति पक्षान्तरे । अस्मिन् पक्षे
चित्सुषुप्तावपि विकल्पात्यन्तोच्छेदो दुष्प्रतिपादः । साधिते विकल्पात्यन्तोच्छेदे
पर्यन्ततो जडत्वं प्रसज्येत । जडस्य च नोपास्यत्वम् । अतो विकल्पपदे वा
गन्धपदे वा तत्त्वमुपास्यमिति क्षकारस्य चक्रमध्यस्थित्या विभाव्येन
चक्राधिष्ठातृत्वेनोपास्यत्वं स्फुटीभूतमिति समाधत्ते -
यच्चक्रमध्यपदतेत्यादि । क्षकारस्य शम्भोश्चक्रमध्यपदता
साम्प्रदायिकी चक्रस्य मध्यप्रतिष्ठा तत्प्रतिबोधिता तदधीशता चक्राधीशता
च तदेतदस्य शम्भोर्गुणगन्धितया हेतुना सिद्धिरेते (सिद्ध्यति)
अर्च्यभावात् अर्चनीयत्वात् । उपपाद्यत इति शेषः । गुणगन्धाधानेनाऽर्चनीयो न
तु निर्गुण इति प्रतिपत्तिरेव क्षकारस्य शम्भोश्चक्रमध्यस्थितिः साम्प्रदायिकीति
समर्थयतीति विवेकः
प्. १३३)
चन्द्राग्निभुक्छशिभुगग्निरथः समस्वं
भानुः पदे पद इदं त्रितयं स्वरादौ ।
खण्डत्रयात्मकमखण्डपदं च तद्वत्
तद्विश्रमः प्रतिदशं समसङ्ख्यतैषाम्
अथ पुनः पुनरावर्तमानाभिर्दशाभिरेव तिथिभिः कालो व्यवस्थाप्यते ।
तिथयश्च शुक्लपक्षे पञ्चदश कृष्णपक्षे च तावत्यः सम्भूय
त्रिंशत्संख्यकाः पुनः पुनरावर्तन्ते । योगिदृष्टौ दशानामेव
तिथिरूपतायां तिथिसमानसङ्ख्यता दशानां साम्प्रदायिकोपदेशगम्येति
तदेव प्रमेयमुपदिशति -
चन्द्रोऽग्निभुगित्यादि । सूत्रद्वयेन दशायां दशायां तथा तथारूपः
संसारः पञ्चभूतात्मनैव कलापेन सम्पद्यते । तान्यपि भूतानि
दशास्वभावान्येव । तथा हि । जलतत्त्वात्मकश्चन्द्रः सुषुप्तिरूपः ।
वायुतत्त्वात्मकः सूर्यो जाग्रद्रूपः । तेजस्तत्त्वात्मको वह्निः स्वप्नस्वरूपः ।
पृथ्वीतत्त्वात्मिका प्रकृतिर्गुणत्रयपर्यायतेजस्त्रयबीजभूता तुर्यम् ।
आकाशतत्त्वात्मकः पुमान् सकलप्रपञ्चबीजरूपिण्याः प्रकृतेः
विश्रान्तिस्थानम् तुर्यातीतम् । यद्यपि सुप्त्यादौ कलानां बाहुल्यं विद्यते ।
तथापि ताः कलाः पञ्चस्वेवतत्त्वेष्वन्तर्भवन्ति । इति प्रतिदशं
पञ्चैवाङ्गदशाः । सुषुप्तिसुषुप्तिर्जलम् सुषुप्तिजाग्रद्वायुः सुषुप्तिस्वप्नो
वह्निः सुषुप्तितुर्यं पृथिवी सुषुप्तितुर्यातीतमाकाशः । इत्येवं
जाग्रदादावप्यङ्गदशापञ्चकविभागोऽवगन्तव्यः । एवं प्रवृत्तिरूपासु
सुषुप्तिजाग्रत्स्वप्नेषु प्रतिदशं पञ्चाङ्गदशागणनायां
प्रवृत्तिरूपसंसारः पञ्चदशाङ्गवान्भवति । तान्येवाङ्गानि
शुक्लपक्ष(स्य)योः पञ्चदशतिथय इति विवेकः । अथ निवृत्तिसंसारे
प्रवृत्तिसंसाराङ्गानां सर्वेषां निवृत्तिरूपतेति तत्र
कृष्णपक्ष(स्य)योस्तिथयः पञ्चदश भवन्ति । प्रवृत्तिसंसारे
वेद्यमयस्य चन्द्रस्याभिवृद्धिरिति तत्संसार(क)स्य शुक्लपक्षता ।
निवृत्तिसंसारे वेद्यस्य चन्द्रस्य क्षय इति कृष्णपक्षता तस्येति विवेकः ।
सूत्रयोरक्षरार्थस्तु अग्निभुगग्निव्यापकश्चन्द्रः । शशिभुक्
चन्द्रव्यापकोऽग्निः । एवं चन्द्राग्न्योःस्वभावोऽग्निः । न तु सर्वासु
दशास्वग्निना चन्द्रकबलनं चन्द्रेणाग्निकबलनं विवक्षितम् तथात्वे
प्रवृत्तिसुषुप्त्यादौ अग्निना चन्द्रकबलने शुक्लपक्षत्व(व्या)हानिरिति ।
अथ । समता । अनयोश्चन्द्राग्न्योः समता । भानुः । स्वरादौ स्वरवर्गादौ पदे
पद इदं त्रितयम् । संसारकलापत्वेन नियताभ्युपेयमिति शेषः ।
तद्वच्चन्द्रादिवत् । खण्डत्रयात्मकं चन्द्राग्निभानुरूपखण्डत्रयात्मकम् ।
चन्द्राद्याकारेण विलसनम् । अखण्डपदं प्रवृत्तिपर्यायपृथिवीरूपम् ।
चन्द्रादयः खलु गुणत्रयमयाः प्रवृत्तिपर्यायपृथिवीविलासरूपा इति
विवेकः । अखण्डपदं गुणत्रयसमष्टिरूपत्वात्प्रकृतेरखण्डपदत्वम् ।
एतच्च पदं पदे चन्द्रादिपदवच्च संस्थानमिति एतद्वच्छब्दार्थः ।
तद्विश्रमश्च तस्य प्रकृतिरूपपदस्य विश्रमः विश्रान्तिस्थानम् ।
आकाशरूपम् । स्वात्मतत्त्वमित्यर्थः । एतदपि पदं प्रतिदशं नियतमिति
अङ्गदशापञ्चकनैयत्यदशानामुक्तम् । एषामङ्गानां दशासु
नियतानां तिथिभिः समसङ्ख्यता वेदितव्येति शेषः
प्. १३५)
भेदाविभेदसमतातनुभिः सुषुप्ति-
स्वप्नप्रजागरपदैस्त्रिगुणीकृताभिः ।
पृथ्वादिस्वान्ततिथिभिर्ननु शुक्लपक्षः
कृष्णस्तुजागरपदादिकतन्निवृत्या
भेदेत्यादि । भेदविभेदसमतातनुभिः । क्रमेण
भेदाभेदतदुभयसाम्यस्वरूपैः सुषुप्तिस्वप्नजागरपदैः ।
त्रिगुणीकृताभिः । पृथिव्यादिखान्ततिथिभिः
पृथिव्याद्याकाशान्ताङ्गदशारूपाभिः । पञ्चभिस्तिथिभिः । त्रिगणनायां
पञ्चदशभिः । शुक्लपक्षो ननु । भवतीति । शेषः ।
जागरपदादिकतन्निवृत्त्या । अथ तुर्यदशायां
जाग्रदादिप्रथममन्त्यात्तुनिवृत्तिरासां तिथीनां निवृत्त्या
निवृत्तिरूपाङ्गीकारेण । कृष्णः पक्षः । तु शब्दो भेदे । एवं
सिद्धसाम्प्रदायिककालविवेकयोगे दृप्तदृष्टेः पुरुषस्य कालपञ्चकत्वं
सिध्यतीति एतत्प्रमेयोपदेशः
देहात्मिका प्रकृतिरेव परा विमर्शः
सैव प्रवृत्तिविनिवृत्त्युभयादिभूता ।
वागर्थमिश्रवपुरिन्द्वनलार्यमत्र
ययेकैक युक्त्रिपुटिका नवमूर्तिरेका
इदानीं महाप्रकृतिरूपपरात्मिकाया
विमर्शशक्तेर्दशाविशेषरूपाणामङ्गानां नवसङ्ख्याकत्वेन तस्याः
प्रतिबिम्बरूपं श्रीचक्रमपि नवचक्रसमयरूपमिति व्युत्पादयन्नाह -
देहात्मिकेत्यादि । देहात्मिका देहरूपिणी अनेन त्रिपुरेश्वर्याः शरीरत्रयमेव
मुख्यं रूपमिति व्युत्पादितम् । प्रकृतिरेव परावाग्रूपिणी
स्वरसप्रहणलक्षणा । एवम् प्रकृतिरिति परावागिति
व्यव(स्थापिता)(स्थिता)धिष्ठा । विमर्शः । विमर्श शक्तिः
सैव(शिव)प्रवृत्तिनिवृत्त्युभयादिभूता । प्रवृत्तिसंसारस्य
निवृत्तिसंसारस्य मिश्रसंसारस्य च कारणभूतः सर्वोऽपि संसारः
प्रकृते मूलः प्रकृतिरेव विलासरूपत्वादित्यर्थः । वागर्थमिश्रवपुः न तु
केवलं परावाग्रूपत्वाच्छब्दरूपा अपि त्वर्थरूपा च मिश्ररूपा च
सर्वव्यापिवस्तुनः शब्दमूलत्वाच्छब्देऽन्तर्भावात् एवं रूपता त्रिपुरेश्वरी ।
इन्द्वनलार्यमादित्रययेकैकयुक्त्रिपुटिका
त्रिपुटिकाप्रमेयप्रमाणप्रमातृसमुदायलक्षणा इन्द्वनलार्यम्णां त्रयया
एकैकयुक् एकैकं प्रत्येकं युज्यते इत्येकैकयुक् । एवं प्रत्येकं
प्रवृत्तिरूपेण चन्द्रेण निवृत्तिरूपेणानलेन उभयसाम्यरूपेणार्यम्णा
सूर्येण युक्ता या त्रिपुटी प्रमेयादिपुरत्रयी तत्स्वरूपा सती तत्त्वत एकरूपापि
विश्रान्तिदशायामद्वितीयापि नवमूर्तिः नवसङ्ख्याकस्वरूपभेदा ।
अयमर्थः । जडत्वात्प्रमेयरूपं चतुर्दशारात्मकं सुषुप्तिपुरं
विसर्गप्राधान्याद्विन्दुप्राधान्यादुभयप्राधान्याच्च त्रिधा भिद्यते ।
प्रमाणरूपं दशारद्वयात्मकं जाग्रत्पुरमपि तथा प्रमातृरूपम्
अष्टारात्मकं स्वप्नपुरमपि तथेति नवचक्रविवेकः । एतच्चक्रं
तत्तद्दशारूपेण नवधाविलासं स्यात्सा त्रिपुरेश्वर्या बिम्बं भवतीति
हृद्गताभिप्रायः
प्. १३६)
चैतन्यता च जडता च विमर्शचित्यो-
स्तुल्या यदिन्द्वनलयोरुभयं तदिच्छा ।
स्यात्कर्म चावगलितं तु मिथो जडत्वात्
ज्ञानं तयोः समपदं च तथा द्विरूपम्
एवं शिवस्य सगुणस्वरूपं प्रकृतिमेवोत्कृष्य उपास्यत्वसम्भावनया
नवचक्रेश्वरीं व्युत्पाद्य तस्याश्चेत्यत्वे प्रसिद्धे
सम्भावितमुपास्यत्वव्याहृतिशङ्काकरण्डत्वं (कारणत्व)
प्रवादमपवदन्नाह -
चैतन्यतेत्यादि । (भी)चितिरजडेति सम्प्रत्ययः विमर्शस्य
चित्साम्यं(?) प्रतिपादयन् जडत्वमपवदति । विमर्शचित्योः
विमर्शप्रकाशयोः चैतन्यता च जडता च तुल्या । उभयोरपि प्रत्येकं
चैतन्यत्वं जडत्वं च भवतीति चमत्कारः । अयं
चमत्कारोऽन्योन्यव्याप्तिनिबन्धनः । व्यापकमेव चैतन्यं व्याप्यमेव जडमिति
द्वयोरपि व्यापकत्वे व्याप्यत्वे च सति चिदचिद्भावचमत्कारो निर्विशेषेण
कर्तव्य इति भावः । उभावेतौ प्रकाशाविमर्शौ इच्छाज्ञानक्रियावन्ताविति
विमर्शस्याजडत्वप्रतिपादने हेतुमाह - यद्यस्मात्कारणात्
इन्द्वनलयोरुभयं द्वयम् । तदिच्छा । तयोःप्रकाशविमर्शयोरिच्छा ।
प्रकाशस्यकदाचिद्व्यापकत्वे अनल इच्छा भवति । कदाचिद्व्याप्यत्वे इन्दुः ।
विमर्शस्यापि तथा । विमर्शस्येन्दुरेवेच्छेति नाशङ्कनीयम् । तस्य विमर्शस्य
व्यापकदशायां तदिच्छाया इन्दोरग्निवैभवप्राप्तिरग्नित्वमेव
प्रकाशेच्छाया अग्नेरपि तद्व्याप्येदन्तायामिन्दुजाड्यप्राप्तेरिन्दुत्वमेव ।
एवं प्रकाशविमर्शयोर्व्यवहारपदे
स्वरूपस्याऽनलेन्दुद्वयस्याऽन्योन्यमेषितव्येच्छारूपेण प्रत्यैकयं
(प्रत्येकं) जडाजडत्वमुक्त्वा मिथः कर्तृकार्यरूपं
जडाऽजडत्वमाह - स्यादित्यादि । मिथः अवगिलितं व्याप्तं कर्त्रा खलु कर्म
व्याप्यते । अतः परस्परमवगिलितं ग्रसितं कर्म च भवति भूतात्कर्ता च
भवतीत्यर्थः । तयोः समपदम् । अन्योन्यविपयत्वात्तुल्यरूपं ज्ञानं च ।
तथा पूर्ववदद्विरूपम् । अन्योन्यं ज्ञाता च भवति ज्ञानं च भवतीत्यर्थः ।
एवमिन्द्वनलयोर्विमर्शप्रकाशयोरेषितव्येच्छाभावे कार्यकर्तृत्वभावे
ज्ञातृज्ञेयभावे मिथो निर्विशेषे सति प्रकाशतत्त्वं जडमितिदुराग्रहे
विवेकहीनतामापादयतीत्यर्थः
प्. १३८)
पक्षद्वयेऽपि परिवृत्तिवशात्त्रयाणा-
मिच्छादिकत्रितयताप्रतिधाम धाम्नाम् ।
षट्स्वत्रवृत्तिषु च कारणकार्यतास्या-
द्बिन्दुक्षयोर्मभवयोः पफवर्ग(र्ण)योश्च
अथ खण्डत्रयात्मनो मातृकामहामन्त्रस्य प्रतिबन्धमुभयपक्षार्थे न
सदावर्तनं भवेत् ।
खण्डानामन्योन्यमादिमध्यान्तत्वनिर्विशेषेऽन्योन्यकार्यकारणभावचमत्क्
आरश्चक्राकारता च भवतीति रहस्यमेतद्व्युत्पादयति -
पक्षद्वय इत्यादि । त्रयाणाम् धाम्नाम् । पदानाम् । मन्त्रखण्डानामित्यर्थः ।
पक्षद्वयेऽपि । दक्षिणतो वामतश्चेत्यर्थः । परिवृत्तिवशात् आवर्तवशात् ।
प्रतिधाम प्रतिपदम् इच्छादिकत्रितयता इच्छात्वं ज्ञानत्वं क्रियात्वं च
भवति । यस्यकस्यचिद्वा खण्डस्याऽदित्वाङ्गीकारे इच्छात्वं
मध्यत्वाङ्गीकारे ज्ञानत्वमन्त्यत्वाङ्गीकारे क्रियात्वमिति विवेकः । अत्र
खण्डत्रये । उक्तमर्यादया षट्सु वृत्तिषु । सर्वासु ।
बिन्दुक्षयोः(बिन्दुः)स्वरवर्गस्तस्य बिन्दोः क्षकारस्य च । तथा
मभबयोः । व्यापकवर्गसन्निवेशवतो मकारस्य स्पर्शवर्गस्य ॥
तयोर्भकारबकारयोर्युगलस्य स्पर्शवर्गस्य तयोरेव(म्)
पकारफकारयोर्युगलस्य । स्वरवर्गस्थितस्य विसर्गस्य चान्योन्यं
कार्यकारणभावो भवति । अयमर्थः ।
प्रतिखण्डंहृदयप्रदेशात्प्राणपदादावर्तोदयः संभाव्यः
प्रतिखण्डं च हृदयप्रदेशे बिन्दुविसर्गौ स्वरवर्गोदरे अन्तः इति
विन्दुविसर्गौ स्वरवर्गोदरे चतुरस्रचक्रसंनिविष्टाः
प्रकृत्यहङ्कारबुद्धिमनःप्रतिपादकाः पकारफकारबकारभकाराः ।
तत्र विसर्गस्थानीयौ पकारफकारौ बिन्दुस्थानीयौ बकारभकारौ
व्यापकवर्गोदरे मकारक्षकारौ (विसर्गबिन्दुस्थानीयौ) विसर्गः
बिन्दुस्थाने । एवं सति (यदा) सर्वेषु बिन्दुमुपक्रम्य प्रतिलोमावर्तेन
व्यापकवर्गावगाहे क्षकारपर्यन्तमावर्तः तदानीं बिन्दुः कारणं
क्षकारः कार्यम् क्षकारमारभ्य अनुलोमावर्तेन बिन्दुपर्यवसाने क्षकारः
कारणं बिन्दुः कार्यम् । अथ स्वरोदरगतं विसर्गमारभ्य
स्पर्शोदरगतपफवर्णरूपविसर्गान्तमनुलोमेनावर्ते विसर्गः कारणं
पफरूपविसर्गः कार्यम् पफरूपविसर्गमुपक्रम्य
स्वरविसर्गान्तप्रतिलोमेनावर्ते पफविसर्गः कारणं स्वरस्थविसर्गः कार्यम् ।
अथ स्पर्शोदरगतं बभवर्णरूपं बिन्दुमुपक्रम्यानुलोमेन
व्यापकवर्गोदरस्थमकाररूपबिन्दुपर्यन्तमावर्ते बभरूपबिन्दुः कारणं
मकारबिन्दुः कार्यम् । मकारबिन्दुमारभ्य प्रतिलोमेन
बभरूपबिन्दुपर्यन्तमावर्ते मकारबिन्दुः कारणं बभरूपबिन्दुः
कार्यमिति तद्विवेकः । अत्र बिन्दुक्षकारयोर्बिन्दुत्वं
शुद्धविसर्गपफवर्णयुगलस्य विसर्गत्वं शुद्धं
बभवर्णयुग्ममकारयोः साङ्कर्येण बिन्दुत्वं विसर्गत्वं चेति
साम्प्रदायिकोपदेशः । प्रमेयप्रमाणप्रमातृखण्डेषु यस्य कस्यचिद्वा
मूलत्वाभ्युपगमसिद्धान्तः सिद्धैरनुभवानुरोधेनापिकृतः ।
अनुभवश्चैवं हि घटादिस्फुरणे चक्षुरादिप्रमाणस्फुरणं
चक्षुष्मत्प्रमातृस्फुरणं चाऽविभाव्य क्रम मनुभूयते । तत्र कश्चित्
घटस्फुरणं प्रधानतया मन्यते कश्चिदिन्द्रियस्फुरणं प्रधानम्
(कश्चित्) प्रमातृस्फुरणमिति तत्पुरुष प्रतिभाव्यवस्थापिते
सिद्धान्तत्रये विप्रतिषेधविषये सति सिद्धसिद्धान्तः
प्रकाशविमर्शचमत्कारभूतेषु घटादि स्फुरणे(षु)
सिद्धान्तत्रयसमष्टिरेव संतिष्ठतीति
प्. १४०)
चन्द्राग्निविश्रमणयोः स्वरयादिधाम्नोः
र्विश्वस्य बीजदशयोः प्रथमे पदे चित् ।
चित्ये निमज्जति परत्र चितौ तु चैत्य-
मेतत्समस्तमुभयोल्लसिते तु भानौ
ननु पूर्वोक्तत्रिखण्डस्वरूपस्य चतुर्दशारविन्यासवतः सुषुप्त्यात्मनः
शाक्तस्य स्वरखण्डस्य प्राधान्येन यजद्भिः शाक्तैः सिद्धन्तीकृतम् ।
चिन्निमग्नचैत्यस्वरूपस्या(सा)ष्टारविन्यासवतः स्वप्नात्मनः
शैवस्य व्यापकखण्डस्य प्राधान्येन यजनं शैवेः सिद्धान्तितम् ।
चतुरस्र(स्र)गर्भितदशारविनयसवतो जाग्रदात्मनः
स्पर्शखण्डस्य पशुदशाशङ्कया प्राधान्येन यजन मविवेकिजनस्य
उपेक्षाविषये वा स्यादिति तस्यैव खण्डस्य
प्रधानयजनौचित्यंसाम्प्रदायिकमिति सूत्रचतुष्टयेन व्युत्पादयति -
चन्द्राग्नीत्यादि । चन्द्राग्निविश्रमणयोः । स्वरयादिधाम्नोः ।
स्वरवर्गव्यापकवर्गात्मनोः पदयोः चन्द्रस्य विसर्गस्य विश्रमणं
विश्रान्तिस्थानत्वम् स्वरवर्गपदे अग्नेर्बिन्दोः विश्रमणं व्यापकवर्गपदे
स्वरवर्गे चिन्निगरणेन चैत्यैकच्छत्रतो (ता)व्यापकवर्गे
चैत्यनिगरणेन चिदेकश्चि(च्छ)त्रतेति भावः । विश्वस्य बीजदशयोः ।
चैत्यविश्रमचिद्विश्रमयोः । प्रत्येकं विश्वबीजत्वं विश्वस्य
विमर्शमयत्वेन प्रकाशमयत्वेन चानुभवात् । प्रथमे पदे स्वरपदे । चित् ।
चित्ये चैत्यं चिता निमज्जति । चैत्यस्य दर्शनं नास्तीत्यर्थः । उभयोल्लसिते ।
चिच्चैत्ययोरुल्लसिते । उल्लासरूपे । भानौ । तु । स्पर्शखण्डे तु एवं (एतत्)
चिच्चैत्ययुगलम् । समस्तम् अन्योन्यनिगीर्णस्वरूपम् चिचैत्यरूपमुभ्यमपि
तत्त्वं संभूय दर्शनपदे भवति । शिवशक्त्यो रुभयोरपि
दर्शनस्थानत्वाद्भानुरूपं जाग्रच्चक्रमेव प्राधान्येन यजनीयमिति
विवेकः
प्. १४१)
इन्दौ च हव्यभुजिचोदरसीम्नि यत्स्या-
च्चक्रद्वयं चिदचिदभ्यवमर्दरूपम् ।
बिम्बद्वयीयुगलमेतदशीत(ति)भानो-
र्बिम्बस्थले हि चतुरश्र(स्र)तया समस्तम्
चतुर्दशारचक्रे गर्भितचित्स्वरूपं यच्चैत्यम् अष्टारगर्भितचैत्यस्वरूपा या
चित् एवमेतच्चक्रद्वयाधिष्ठातृभूतं
देवतायुगलंदशारद्वयाधिष्ठातृभूते
चतुरश्र(स्र)चक्रेसंमिलितम् । अत एवास्य चक्रस्य
चतुरश्र(स्र)भाव इति व्युत्पादयति -
इन्दौ चेत्यादि । इन्दौ । च । चतुर्दशारचक्रे । हव्यभुजि । च । अष्टारचक्रे ।
प्रतिचक्रम् । उदरसीम्नि । बिम्बस्थरश्मिचक्रमध्ये बिम्बचक्रस्यौचित्यात् । यच्
चक्रद्वयं स्यात्प्रतिचक्रं म(न्दि)न्दरे चक्रद्वयं भवतीत्यर्थः ।
च्चतुर्दशारोदरे अष्टदलषोडशदलरूपं चिच्चैत्यरूपं चक्रद्वयम् ।
अष्टारोदरे त्रिकोणबिन्दुरूपं चैत्यचिदात्मकं चक्रद्वयम् । कीदृशं
चक्रद्वयम् चिदचिदभ्यवमर्दरूपम् । चिदचितोश्चिच्चैत्ययोरभ्यवमर्दः
अन्योन्यक्रमणं तद्रूपं तदवस्थम् । चतुर्दशारे षोडशदलात्मना
चैत्यचक्रेण अष्टदलात्मकचिच्चक्रक्रमणम् । अत एवाऽष्टदलस्य
षोडशदलरश्मिरूपेण तद्बहिरवस्थानम् । अष्टारे बिन्द्वात्मना चिच्चक्रेण
त्रिकोणात्मना ? चैत्यचक्रक्रमणम् । अत एव त्रिकोणस्य बिन्दुरश्मिरूपेण
बहिरवस्थानम् । एवं व्यवस्थितमेतद्बिम्बद्वयीयुमलम् ।
अष्टदलषोडशदलात्मकं त्रिकोणबिन्द्वात्मकं च युगलं संभूय
चतुरूपम् । अशीत(ति) भानोः सूर्यबिम्बस्थले दशारद्वयोदरे
चतुरश्र(स्र)तया चतुरश्र(स्र) रूपेण । समस्तं
संभूयस्थितम् । अष्टदलषोडशदलत्रिकोणबिन्दुरूपं चक्रचतुष्टयं
चतुरश्रचतुष्कोणरूपेण स्थितम् । अतश्चतुरश्रं प्राधान्येन यष्टव्यमिति
निष्कर्षः
प्. १४२)
तस्माच्चतुष्पदमिदं चतुरस्रविम्बं
चिच्चैत्यनिर्जरसरिद्यमुनाप्रयागः ।
अर्च्यं भवेत्प्रथमतोऽथतदङ्गभूत-
चिच्चैत्यचक्रयजनं त्वितिपूर्वतस्तत्
चतुरश्रचक्रस्य उक्तोपपत्त्या प्रथमतो यष्टव्यतां निगमयति -
तस्मादित्यादि । तत्तस्मात्पूर्वसूत्रप्रतिपादितोपपत्तिरूपात्कारणात् । चतुष्पदम् ।
अङ्गाङ्गिरूपेण स्थितस्य देवताचतुष्टयस्य समवायस्थलम् । इदं
चतुरस्रबिम्बम् । चिच्चैत्यनिर्जरसरिद्यमुनयोः । भागीरथीयमुनयोः । चितः
स्वच्छत्वात्तथावर्णभूतभागीरथीसाम्यम् चैत्यस्य संसाररूपतया
कलङ्कितत्वान्नैल्येन यमुनासाम्यम् । प्रयागो नाम यमुनाभागीरथ्योः
सङ्गमरूपः पुण्यतमस्तीर्थविशेषः ।
देवताचतुरश्र(स्र)विम्बमिति(मपि) तथा पुण्यतमः । तत्र
निमज्जने सद्यो (देवता) भावश्चेति तथा निरूपितम् । (इति ।
प्रथमतः) प्रमेयतः । अर्च्यमर्चनीयं भवेत् ।
अथ चतुरश्र(स्र)यजनानन्तरं
तदङ्गभूतयोश्चिच्चैत्यचक्रयोरष्टारचतुर्दशाररूपयोर्यजनमिति ।
तच्चतुरश्रचक्रम् । पूर्वतः प्रमुखे कृतमिति शेषः । पुरत्रयात्मके
श्रीचक्रे चतुरश्र(स्र)मेव प्रथमतो
यष्टव्यमित्येतदुपदेशायप्रमुखे देव्याः पदे(दम्)
सर्वचक्रव्यापकस्थले कृतम् चतुरश्र(स्र)स्य नैसर्गिकस्थितिषु
(अष्टार)चतुर्दशाररूपयोर्यजनमिति तच्चतुरश्रचक्रं पूर्वतः
चतुर्दशाराष्टारमध्यदेश एव प्रथमयष्टव्यताव्युत्पादनाय
तयोश्चक्रयोर्व्यापकत्वेनाभिमते बाह्यस्थले सन्निवेशः काल्पनिक इति भावः ।
चतुरश्र(स्र)चक्रं दशारद्वयस्याप्युपलक्षणम् । तस्य
रश्मिचक्रमन्तरेण बिम्बचक्रावस्थानस्यानुपपन्नत्वात्
प्. १४३)
अन्तःस्थमेव चतुरस्रमुषर्बुधेन्द्वो-
रर्कात्मकं चिदचिदुद्भवमेतदङ्गम् ।
एवं च सत्यपि जडाजडसारमेतत्
प्रागेव पूज्यमिति पूर्णपदे कृतं तत्
इति परमरहस्यं मातृकार्थस्वरूपं
स्फुटतरमुपदिष्टं चक्रराजाभिनीतम् ।
लगति यदयमर्थः शक्तिविद्धेऽन्तरङ्गे
न तु तुनरपरत्र प्रत्यवायो(ऽस्ति) न तन्मे
[अत्रायंश्लोको मूलश्लोकानुपूर्वीसमानप्रायः आदर्श पुस्तके
टीकायामधिकमुपलभ्यते ।
इति परमरहस्यं मातृकार्थस्वरूपं
स्फुटतरमुपदिष्टं चक्रराजाभिनीतम् ।
लगति यदयमर्थः शक्तिविद्धेऽन्तरङ्गे
न तु पुनरपरत्र प्रत्यवायोऽस्ति तस्मै ॥ १ ॥ ]
इति मातृकाचक्रविवेके तुर्यविवेकः पञ्चमः खण्डः
मातृकाचक्रविवेकमूलं सम्पूर्णम् ॥
चतुरश्रो(स्रो)पलक्षितस्य जाग्रच्चक्रस्य बहिःसन्निवेशः
शिष्यव्युत्पादनायैव व्युत्पन्नापेक्षया त्वियं कल्पना(ना)नुसरणीया
अपि तु मध्यस्थितस्यैव चतुरश्र(स्र)स्य प्राधान्यदृष्ट्या
प्रथमयष्टव्यता सिद्धेति चक्रस्यान्यथासन्निवेशकल्पनाप्रत्यवायं
परिहरति -
अन्तःस्थमित्यादि । उषर्बुधेन्द्वोः । अष्टारचतुर्दशारोपलक्षितयोः । अर्कात्मकं
चतुरश्रं(स्रम्) दशारद्वयोदरनियतसन्निवेशमन्तः स्थमेव ।
एवकारेण नैयत्यमुक्तम् । न तु बहिर्देशे तस्य सन्निवेशः शङ्कनीय##-
भानुरूपं खलु भानुश्चाग्निचन्द्रयोरङ्गम् । तदुभयाधीनसिद्धिकत्वात् ।
एवं चतुरश्र(स्र)स्य अङ्गत्वे सत्यपि । जडाजडसारं
चन्द्राग्नितत्त्वयोः सारभूतमेतच्चतुरश्रचक्ररूपमङ्गसारत्वात्प्रागेव
पूज्यमिति व्युपादनायैव । तच्चतुरश्र(स्र)चक्रम् । पूर्णपदे
व्याप्तिस्थले । वाह्यदेशे कृतम् । आदिसिद्धेन शिवेनेति शेषः । मध्यचक्रस्य
चतुरश्रोपलक्षितस्य । मूलाङ्कुरापेक्षया मध्यस्थितस्य बीजस्यैव
यैरुपासकैः प्राधान्यमवगतं ते मध्यस्थितमपि
चतुरश्रं(स्रम्) बीजवत्प्राधान्यदृष्ट्या प्रथमतो यजन्ते । ये
तत्राव्युत्पन्नाः तदपेक्षयेयं चतुरश्रस्य बहिः सन्निवेशरूपकल्पना
चक्रस्थितस्यैवार्थस्य व्याख्यानरूपता । तदप्रत्यवायविषय इति तात्पर्यम् ।
अष्टालषोडशदलयोश्चतुर्दशारमध्य एव सन्निवेशः ।
तयोश्चतुर(स्र)श्रस्योदरभागे यः
सन्निवेशश्चतुरश्र(स्र)स्य
दशारद्वयस्याप्युपलक्षकस्यसमनन्तरं चतुर्दशाराष्टारयोर्यजनं
कर्तव्यमिति चतुर्दशारोपलक्षकत्वेन
षोडशदलमष्टारोपलक्षकत्वेनाष्टदलं च शिष्यव्युत्पादनायैव बहिः
सन्निवेशितमिति वेदितव्यम् । अयमर्थः । सुषुप्तिजाग्रत्स्वप्नात्मकं
चक्रत्रयमपि प्रत्येकं प्रधान्येन यष्टव्यम् । तत्र सुषुप्तिचक्रस्य
चतुर्दशारस्य व्याप्तिस्थले बहिर्देशे स्थित्या प्राधान्यमवगम्यते ।
साम्प्रदायिकेन विलोमेन स्वप्नचक्रव्यापारस्यापि प्राधान्यमवगम्यते ।
तदुभयमध्यपतितस्य जाग्रच्चक्रस्य बीजसन्निवेशन्यायेन यैः
प्रधान्यमवगम्यते तदपेक्षया
चतुरश्र(स्र)षोडशदलाष्टदलानां
जाग्रत्सुषुप्तिस्वप्नचक्रोपलक्षकाणां बहिः सन्निवेशकल्पनानुसरणीया । ये तु
पुनरत्राव्युत्पन्नाः तदपेक्षया जाग्रच्चक्रस्य प्रधान्यं
बहिश्चतुरस्रादिचक्रस्य (रेखा) त्रयसंन्निवेशेनव्युत्पादितम् ।
तदीयाकल्पना (शिष्य)व्युत्पादनमात्रपरा सन्निवेशकल्पना विवेकेन
व्युत्पत्तिमता च साधकजनेन चतुर्दशारपर्यन्त एव श्रीचक्रे
सुषुप्त्यादिचक्रत्रयस्य प्रत्येकं (प्राधान्यमव)गन्तव्यमिति ?
शिवम् ॥ ३२ ॥ ३३ ॥ (१)
॥ इति मातृकाचक्रव्याख्यानं सम्पूर्णम् ॥
स्रोतः
मूल पाठ: mātṛkācakravivekaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0