भाषा

ENहिગુ
ग्रंथ पाठ

मातृकाभेदतन्त्र · भाग 2130

न भक्षेद् यदि मोहेन न यज्ञफलभाग् भवेत् ॥ म्भ्त्_10.18
त्याज्यं द्रव्यं कथं देवि महादेव्यै निवेदयेत् ।
ब्रह्मरूपं महातन्त्रं मम वक्त्राद् विनिर्गतम् ॥ म्भ्त्_10.19
स पूतः सर्वपापेभ्यो यदि चैकाक्षरं श्रुतम् ।
महाभक्तियुतो भूत्वा शृणोति पटलं यदि ॥ म्भ्त्_10.20
किं तस्य ध्यानपूजायां तीर्थस्नानेन तस्य किम् ।
शब्दब्रह्ममयं ज्ञात्वा समस्तं यदि चण्डिके ॥ म्भ्त्_10.21
केवलं श्रवणेनैव स सिद्धो नात्र संशयः ।
अष्टादशपुराणानां श्रवणेनैव यत् फलम् ॥ म्भ्त्_10.22
चतुर्वेदेन साङ्गेन श्रवणेनैव यतः फलम् ।
अस्य तन्त्रस्य देवेशि कलां नार्हन्ति षोडशीम् ॥ म्भ्त्_10.23
ब्रह्मरूपम् इदं तन्त्रं सारात् सारं परात् परम् ॥ म्भ्त्_10.24
मातृकाभेदतन्त्र, एकादशः पटलः
श्रीचण्डिकोवाच ।
प्रासादं मण्डपं वापि यदि देव्यै निवेदयेत् ।
विधानं तस्य माहात्म्यं वद मे परमेश्वर ॥ म्भ्त्_11.1
कूपादिकं महादेव यदि देव्यै निवेदयेत् ।
विधानं तस्य माहात्म्यं वद मे परमेश्वर ॥ म्भ्त्_11.2
श्रीशङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि येन प्रासादम् उत्सृजेत् ।
तस्यैव पश्चिमे भागे वेदिकां चतुरस्रकाम् ॥ म्भ्त्_11.3
प्रकुर्याद् बहुयत्नेन वस्त्रेण वेष्टनं चरेत ।
तदभावे महेशानि तृणेनैनं च वेष्टयेत् ॥ म्भ्त्_11.4
कुम्भयुग्मं स्थापयित्वा क्षौमवस्त्रेण वेष्टयेत् ।
युग्मं युग्मं क्षौमवस्त्रं कुम्भयुग्मे नियोजयेत् ॥ म्भ्त्_11.5
ईशकुम्भे यजेद् देवीम् आग्नेयाम् अग्निदैवतम् ।
चतुःषष्ट्युपचारेण पूजयेद् इष्टदेवताम् ॥ म्भ्त्_11.6
अभावे पूजयेद् देवीं तदर्धेन प्रयत्नतः ।
अथवा परमेशानि यथाशक्त्युपचारतः ॥ म्भ्त्_11.7
पूजयेद् बहुयत्नेन ततो होमादिकं चरेत् ।
आगमोक्तेन विधिना कुर्यात् तत्र कुशण्डिकाम् ॥ म्भ्त्_11.8
त्रिमध्वक्तेन देवेशि बिल्वपत्रेण होमयेत् ।
सहस्रं होमयेन् मन्त्री शतन्यूनं न कारयेत् ॥ म्भ्त्_11.9
पूर्णाहुतिं ततो दत्त्वा ततो वाक्यं समाचरेत् ।
अद्येत्यादि समुच्चार्यं सौरमासं समुच्चरेत् ॥ म्भ्त्_11.10
तिथिगोत्रं चामुको ऽहं धर्मार्थकामम् एव वा ।
प्राप्तये परमेशानि ततो मूलं समुच्चरेत् ॥ म्भ्त्_11.11
देवतायै नमः पश्चाद् दक्षिणां दापयेद् गुरौ ।
कुम्भतोयेन देवेशि स्नापयेद् यजमानकम् ॥ म्भ्त्_11.12
सुरास् त्व् आदीन् समुच्चार्य शान्तिं कुर्यात् ततो गुरुः ।

सर्वादौ गुरुदेवस्य वरणं कारयेत् सुधीः ॥ म्भ्त्_11.13
सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् ।
चतुष्कोणयुतं स्वर्णं ग्रीवायां परियोजयेत् ॥ म्भ्त्_11.14
उष्णीषं च ततो दद्यात् कण्ठे मालां नियोजयेत् ।
ताडयुग्मं ततो बाहौ वलयं मणिबन्धके ॥ म्भ्त्_11.15
अङ्गुल्याम् अङ्गुरी देया दिव्यवस्त्रं नियोजयेत् ।
एवं हि वरणं कृत्वा कर्मयोग्यं विचिन्तयेत् ॥ म्भ्त्_11.16
गुरुं वा गुरुपुत्रं वा वरयेद् यत्नतः सुधीः ।
सदस्यं न हि कर्तव्यं तन्त्रधारं न तत्र वै ॥ म्भ्त्_11.17
ब्रह्माणं न हि कर्तव्यं केवलं वरयेद् गुरुम् ।
गुरोर् भृत्यो महेशानि भैरवो नात्र संशयः ॥ म्भ्त्_11.18
स्वीयेन परिधानेन वाससा तोषयेत् स्वयम् ।
स्वयं होता भवेद् विप्रो गुरोर् आज्ञानुसारतः ॥ म्भ्त्_11.19
मायाबीजं समुच्चार्य आधारशक्तये नमः ।
अनेन मनुना देवि वेदिसंस्कारम् आचरेत् ॥ म्भ्त्_11.20
भूरसीत्यादिमन्त्रेण घटयुग्माभिमन्त्रितम् ।
अस्त्रान्तेनैव मूलेन उष्णीषं परियोजयेत् ॥ म्भ्त्_11.21
वेदोक्तं चैव स्मृत्युक्तं मन्त्रं न योजयेत् सुधीः ।
एवं कूपादिदानेषु कर्तव्यं परमेश्वरि ॥ म्भ्त्_11.22
अन्यत् सर्वं समानं हि प्रासादादिस्थले पुनः ।
कूपादियोजनं कुर्यात् यष्टिप्रोतनम् आचरेत् ॥ म्भ्त्_11.23
चतुर्हस्तप्रमाणं च मध्यभागे तु प्रोतनम् ।
मूलमन्त्रं समुच्चार्य ततो वह्निवधूं न्यसेत् ॥ म्भ्त्_11.24
ततो यष्टिं समुच्चार्य पोतयामि वदेत् सुधीः ।
तत्र संतरणं धेनुं नैव कुर्याद् विचक्षणः ॥ म्भ्त्_11.25
धेनुसंतरणेनैव फलहानिः प्रजायते ।
स्वर्णं रूप्यं प्रवालं च दक्षिणां परियोजयेत ॥ म्भ्त्_11.26
स्नापयित्वा कुम्भतोयैः शान्तिं कुर्यात् ततो गुरुः ॥ म्भ्त्_11.27
अनेनैव विधानेन कूपाद्युत्सर्गम् आचरेत् ।
वापीकूपतडागादि ह्य् अनेनोत्सर्गम् आचरेत् ॥ म्भ्त्_11.28
दीर्घिकां च पुष्करिणीं ह्य् अनेनैव जलाशयम् ।
उत्सृज्य परया भक्त्या महादेव्यै प्रयत्नतः ॥ म्भ्त्_11.29
पुरुषं सप्तमं कान्ते पितृवंशे च मातरि ।
सप्तमं पुरुषं कान्ते मातृवंशे समं प्रिये ॥ म्भ्त्_11.30
कैलासे निवसेन् नित्यं देव्या वरप्रसादतः ।
स्वयं देवस्वरूपश् च जीवन्मुक्तो न संशयः ॥ म्भ्त्_11.31
अश्वमेधसहस्रेण वाजपेयशतेन च ।
यत् फलं लभते देवि तस्माल् लक्षगुणं भवेत् ॥ म्भ्त्_11.32
मेरुतुल्यं सुवर्णं तु ब्राह्मणे वेदपारगे ।
दत्त्वा यत् फलम् आप्नोति तस्माल् लक्षगुणं भवेत् ॥ म्भ्त्_11.33

पूर्णशस्येन देवेशि सप्तद्वीपां वसुंधराम् ।
प्रदद्याद् बहुयत्नेन ब्राह्मणे वेदपारगे ॥ म्भ्त्_11.34
तस्माल् लक्षगुणं पुण्यम् अनेन परमेश्वरि ॥ म्भ्त्_11.35
सदक्षिणं व्रतं सर्वं दानं यद् वेदसंमतम् ।
तस्माल् लक्षगुणं पुण्यम् अनेन परमेश्वरि ॥ म्भ्त्_11.36
श्रीचण्डिकोवाच ।
यज्ञसूत्रधारणेन भूपूज्यो नात्र संशयः ।
इदानीं यज्ञसूत्रस्य विधानं मयि कथ्यताम् ॥ म्भ्त्_11.37
श्रीशंकर उवाच ।
यज्ञसूत्रस्य यन् मानं तच् छृणुष्व वरानने ।
ऋग्वेदी धारयेत् सूत्रं नाभेर् ऊर्ध्वं स्तनाद् अधः ॥ म्भ्त्_11.38
यजुषां सूत्रमानं हि आश्चर्यं शैलजे परम् ।
बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः ।
धारणीयं प्रयत्नेन नान्यद् दैर्घ्यं कदाचन ॥ म्भ्त्_11.39
सामगस्य यज्ञसूत्रं त्रिविधं वरवर्णिनि ।
ब्रह्मरन्ध्रान् नाभिदेशपर्यन्तं यज्ञसूत्रकम् ॥ म्भ्त्_11.40
अथवापि च ग्रीवायाम् आरोप्य नाभिं संस्पृशेत् ।
तस्मात् पृष्ठान् मेरुदण्डपर्यन्तं यज्ञसूत्रकम् ॥ म्भ्त्_11.41
अथवा परमेशानि प्रकारान्तरकं शृणु ।
ग्रीवाया दक्षिणाङ्गुष्ठपर्यन्तं यज्ञसूत्रकम् ॥ म्भ्त्_11.42
अथवा धारयेत् सूत्रं यत्नेन यजुषां मतम् ।
अथवा धारयेत् सूत्रं सामगस्य प्रमाणतः ॥ म्भ्त्_11.43
अथर्वी धारयेद् यज्ञसूत्रं परममोहनम् ।
आज्ञाचक्रान् नाभिदेशपर्यन्तं यज्ञसूत्रकम् ॥ म्भ्त्_11.44
एतत् संकेतम् अज्ञात्वा यः कुर्यात् सूत्रधारणम् ।
स चण्डालसमो देवि यदि व्याससमो भवेत् ॥ म्भ्त्_11.45
मातृकाभेदतन्त्र, द्वादशः पटलः
श्रीशंकर उवाच ।
अथातः सम्प्रवक्ष्यामि पूजाधारं सुदुर्लभम् ॥ म्भ्त्_12.1
शालग्रामे मणौ यन्त्रे प्रतिमायां घटे जले ॥ म्भ्त्_12.2
पुस्तिकायां च गङ्गायां शिवलिङ्गे प्रसूनके ।
शालग्रामे शतगुणं मणौ तद्वत् फलं लभेत् ॥ म्भ्त्_12.3
यन्त्रे लक्षगुणं पुण्यं मूर्तौ लक्षं सुलोचने ।
घटे चैकगुणं पुण्यं जले चैकगुणं प्रिये ॥ म्भ्त्_12.4
पुस्तिकायां सहस्रं तु गङ्गायां तत्समं फलम् ।
शिवलिङ्गे ह्य् अनन्तं हि विना पार्थिवलिङ्गके ॥ म्भ्त्_12.5
पुष्पयन्त्रे महेशानि पूजनात् सर्वसिद्धिभाक् ।
शालग्रामे च पूजायां न लिखेद् यन्त्रम् उत्तमम् ॥ म्भ्त्_12.6
मणौ स्थिते महेशानि न लिखेद् यन्त्रम् उत्तमम् ।
प्रतिमायां च पूजायां न लिखेद् यन्त्रम् उत्तमम् ॥ म्भ्त्_12.7

प्रतिमायाश् च पुरतो घटं संस्थाप्य यत्नतः ।
परिवारान् यजेत् तत्र घटे तु परमेश्वरि ॥ म्भ्त्_12.8
यन्त्राधिष्ठातृदेवांश् च घटे यन्त्रे प्रपूजयेत् ।
समस्तदेवतारूपं घटं तु परिचिन्तयेत् ।
सुरद्रुमस्वरूपो ऽयं घटो हि परमेश्वरि ॥ म्भ्त्_12.9
जन्मस्थानं महायन्त्रं यदि कुर्यात् तु साधकः ।
तत्र मूर्तिं न कुर्यात् तु कदाचिद् अपि मोहतः ॥ म्भ्त्_12.10
यदि मूर्तिं प्रकुर्यात् तु तत्र यन्त्रं न कारयेत् ।
यदि कुर्यात् तु मोहेन यजेद् वारद्वयं प्रिये ॥ म्भ्त्_12.11
द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् ।
द्विगुणं प्रजपेन् मन्त्रं द्विगुणं होमयेत् सुधीः ॥ म्भ्त्_12.12
अन्यथा विफला पूजा विफलं बलिदानकम् ।
सर्वं हि विफलं यस्मात् तस्माद् यन्त्रं न कारयेत् ॥ म्भ्त्_12.13
इति ते कथितं कान्ते पूजाधारं सुदुर्लभम् ॥ म्भ्त्_12.14
अथातः सम्प्रवक्ष्यामि शिवलिङ्गस्य लक्षणम् ।
पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत् ॥ म्भ्त्_12.15
पाषाणे शिवपूजायां द्विगुणं फलम् ईरितम् ।
स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् ॥ म्भ्त्_12.16
सर्वसिद्धीश्वरो रौप्ये फलं तस्माच् चतुर्गुणम् ।
ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंचयम् ॥ म्भ्त्_12.17
पारदस्य च माहात्म्यं पुरैव कथितं मया ।
गङ्गायां च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥ म्भ्त्_12.18
स्फाटिके सर्वसिद्धिः स्यात् तथा मारकते प्रिये ।
लौहलिङ्गे रिपोर् नाशं कामदं भस्मलिङ्गके ॥ म्भ्त्_12.19
वालुकायां काम्यसिद्धिर् गोमये ऋतुहिंसनम् ।
सर्वलिङ्गस्य माहात्म्यं धर्मार्थकाममोक्षदम् ॥ म्भ्त्_12.20
आधारभेदे यत् पुण्यं चाधिकं कथितं तु ते ।
अतिरिक्तफलान्य् एतद्धारस्य सुलोचने ॥ म्भ्त्_12.21
शिवस्य पूजनाद् देवि चतुर्वर्गाधिपो भवेत् ।
अष्टैश्वर्ययुतो मर्त्यः शम्भुनाथस्य पूजनात् ॥ म्भ्त्_12.22
स्वयं नारायणः प्रोक्तो यदि शम्भुं प्रपूजयेत् ।
स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा ।
तेषां पूजा भवेद् देवि शम्भुनाथस्य पूजनात् ॥ म्भ्त्_12.23
स्वर्णपुष्पसहस्रेण यत् फलं लभते नरः ।
तस्माल् लक्षगुणं पुण्यं भग्नैकबिल्वपत्त्रके ॥ म्भ्त्_12.24
भग्नैकबिल्वपत्त्रस्य सहस्रकेन भागतः ।
मेरुतुल्यसुवर्णेन तत्फलं न हि लभ्यते ॥ म्भ्त्_12.25
शुद्धाशुद्धविचारो ऽपि नास्ति तच् छिवपूजने ।
येन तेन प्रकारेण बिल्वपत्त्रैः प्रपूजनात् ।
सर्वसिद्धियुतो भूत्वा स नरः सिद्धो हि ॥ म्भ्त्_12.26

ब्रह्माण्डमध्ये ये देवास् तद्बाह्ये याश् च देवताः ।
ते सर्वे तृप्तिम् आयान्ति केवलं शिवपूजनात् ॥ म्भ्त्_12.27
पुष्पं गन्धं जलं द्रव्यं लिङ्गोपरि नियोजयेत् ।
लिङ्गमध्ये महावह्निः सैव रुद्रः प्रकीर्तितः ॥ म्भ्त्_12.28
रुद्रोपरि क्षिपेद् यत् तु तद् एव भस्मतां गतः ॥ म्भ्त्_12.29
साक्षाद् धोमो महेशानि शिवस्य पूजनाद् भवेत् ।
महायज्ञेश्वरो मर्त्यः शिवस्य पूजनाद् भवेत् ॥ म्भ्त्_12.30
कुशाग्रमानं यत् तोयं तत् तोयेन यजेद् यदि ।
सत्यं सत्यं हि गिरिजे तज् जलं सागरोपमम् ॥ म्भ्त्_12.31
पुष्पं च मेरुसदृशं लिङ्गोपरि नियोजनात् ।
लिङ्गस्य मस्तके देवि यद् अन्नं परितिष्ठति ॥ म्भ्त्_12.32
तदन्नस्य च दानेन क्षितिदानफलं लभेत् ॥ म्भ्त्_12.33
एकेन तण्डुलेनैव यदि लिङ्गं प्रपूजयेत् ।
ब्रह्माण्डपात्रसम्पूर्णम् अन्नदानफलं लभेत् ॥ म्भ्त्_12.34
एकया दूर्वया वापि यो ऽर्चयेच् छिवलिङ्गकम् ।
सर्वदेवस्य शीर्षे तु चार्धदानफलं लभेत् ॥ म्भ्त्_12.35
सामान्यतोयम् आनीय यदि स्नायान् महेश्वरम् ।
सार्धत्रिकोटितीर्थस्य स्नानस्य फलभाग् भवेत् ॥ म्भ्त्_12.36
श्रीचण्डिकोवाच ।
तारिणी ब्रह्मणः शक्तिस् त्रिपुरा वैष्णवी परा ।
कथं शाकम्भरी तारा त्रिपुरा शाम्भवी कथम् ॥ म्भ्त्_12.37
श्रीशंकर उवाच ।
काली देहाद् यदा जाता सावित्री वेदमातृका ।
त्रिवर्गदात्री सा देवी ब्रह्मणः शक्तिर् एव च ॥ म्भ्त्_12.38
गुप्तरूपा महाविद्या शैवी सैकजटा परा ।
तस्माल् लक्ष्मीर् वैष्णवी या त्रिवर्गदायिनी शिवा ॥ म्भ्त्_12.39
गुप्तरूपा महाविद्या श्रीमत्त्रिपुरसुन्दरी ।
शाम्भवी परमा माया त्रिपुरा मोक्षदायिनी ॥ म्भ्त्_12.40
एकैव हि महाविद्या नाममात्रं पृथक् पृथक् ।
तथैव पुरुषश् चैको नाममात्रविभेदकः ॥ म्भ्त्_12.41
श्रीचण्डिकोवाच ।
मन्त्रधारणमात्रेण तदात्मा तन्मयो भवेत् ।
कथं वा वातुलः सो ऽपि कथं वा रोगवान् भवेत् ॥ म्भ्त्_12.42
श्रीशंकर उवाच ।
मन्त्रच्छन्नाद् वातुलत्वं रोगो देहे न जायते ।
मन्त्रच्छन्नं प्रवक्ष्यामि शृणु देवि समाहिता ॥ म्भ्त्_12.43
अभक्तिश् चाक्षरे भ्रान्तिर् लुप्तिश् छन्नस् तथैव च ।
ह्रस्वो दीर्घश् च कथनं स्वप्ने तु चाष्टधा स्मृतः ॥ म्भ्त्_12.44
अभक्त्या नैव सिद्धिः स्यात् कल्पकोटिशतैर् अपि ।
एवं मन्त्रश् चान्यथा वा चेति भ्रान्त्या च वातुलः ॥ म्भ्त्_12.45

लुप्तवर्णे बुद्धिनाशश् छिन्ने नाशो भवेत् किल ।
ह्रस्वोच्चारे व्याधियुक्तो दीर्घजापे वसुक्षयः ॥ म्भ्त्_12.46
कथने मृत्युम् आप्नोति स्वप्ने ऽपि शृणु शैलजे ।
कालिकायाश् च ताराया मन्त्रो ऽपि ज्वलदग्निवत् ॥ म्भ्त्_12.47
विप्ररूपेण देवेन प्रेमभावेन चेतसा ।
यदि मन्त्रं हरेद् देवि शृणु साधकलक्षणम् ॥ म्भ्त्_12.48
सर्वाङ्गे वै भवेज् ज्वाला देहमध्ये विशेषतः ।
तोये शैत्यं न जायेत तथैवौषधसेवने ॥ म्भ्त्_12.49
सदा वातुलवत् सर्वं प्रत्यक्षे स्वप्नवद् भवेत् ।
वर्षमध्ये त्रिवर्षे वा मृत्युस् तस्य न संशयः ॥ म्भ्त्_12.50
श्रीचण्डिकोवाच ।
मन्त्रच्छन्नं चाष्टविधं तव वक्त्राच् छ्रुतं मया ।
यदि दैवाद् भवेद् देव तस्योपायं वदस्व मे ॥ म्भ्त्_12.51
श्रीशंकर उवाच ।
बहुजापात् तथा होमात् कायक्लेशादिविस्तरात् ।
यदि भक्तिर् भवेद् देवि तस्य सिद्धिर् अदूरतः ॥ म्भ्त्_12.52
गुरुणा तत्सुतेनैव साधकेन वरानने ।
अक्षरे दूषणं हित्वा पुनर् मन्त्रं प्रकाशयेत् ॥ म्भ्त्_12.53
गुरुणा तत्सुतेनैव साधकेन समाहितः ।
लुप्तवर्णं समुत्थाप्य पुनर् मन्त्रं प्रकाशयेत् ॥ म्भ्त्_12.54
चक्रभेदेन षट्कोणं तथैव योनिमुद्रया ।
एकोच्चारे जपेन् मन्त्रं लक्षम् एकं वरानने ।
गुर्वादिना महेशानि छिन्नदोषनिकृन्तनम् ॥ म्भ्त्_12.55
गुरुणा लक्षजापेन तन् मन्त्रं श्रावयेत् त्रिधा ।
दूषणं ह्रस्वदीर्घस्य शान्तिश् चात्र न संशयः ॥ म्भ्त्_12.56
गुरुणा तत्सुतेनैव साधकेनैव शैलजे ।
उक्तमार्गेण देवेशि जपेल् लक्षचतुष्टयम् ॥ म्भ्त्_12.57
तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् ॥ म्भ्त्_12.58
ततो ऽपि यदि नैवाभूत् साधकः स्थिरमानसः ।
चतुर्गुणं हि कर्तव्यं शिष्यस्य मुक्तिहेतवे ॥ म्भ्त्_12.59
यदि मृत्युर् भवेत् तस्य तथापि मुक्तिभाग् भवेत् ।
कथनस्य दोषशान्तिर् भवत्य् एव न संशयः ॥ म्भ्त्_12.60
स्वप्ने ऽपि मन्त्रकथने श्मशाने चैव शैलजे ।
उक्तमार्गेण देवेशि जपेल् लक्षं चतुष्टयम् ॥ म्भ्त्_12.61
तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् ।
ततो ऽपि यदि नैवाभूत् साधकः स्थिरमानसः ॥ म्भ्त्_12.62
चतुर्गुणं हि कर्तव्यं पूर्वोक्तं पूजनं चरेत् ।
कुजे वा शनिवारे वा प्रथमे गमनं चरेत् ।
सप्ताहं वा यजेद् देवीं तुरीयं वादिनं यजेत् ॥ म्भ्त्_12.63
श्मशानसाधनं वक्ष्ये शृणु चैकाग्रचेतसा ।

स्वर्णं रौप्यं तथा वस्त्रं दत्त्वा वरणम् आचरेत् ॥ म्भ्त्_12.64
स्वर्णपीठं प्रदातव्यं चतुरङ्गुलिविस्तृतम् ।
भोगयोग्यं प्रदातव्यं मधुपर्कं यथोदितम् ॥ म्भ्त्_12.65
राजपत्नी येन तुष्टा तोषयेत् तेन वाससा ।
अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् ॥ म्भ्त्_12.66
नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् ।
सामिषान्नं गुडं छागं सुरापिष्टकपायसम् ॥ म्भ्त्_12.67
भोग्यद्रव्यं जले दद्याद् यदि भोक्ता न तिष्ठति ।
एवं पूजां समाप्यादौ शिवपूजां समाचरेत् ॥ म्भ्त्_12.68
षोडशैर् उपचारैश् च लिङ्गानां चैकविंशतिम् ।
अष्टोत्तरशतेनैव बिल्वपत्त्रैः सचन्दनैः ॥ म्भ्त्_12.69
प्रत्येकं पूजयेन् मन्त्रं गजान्तकसहस्रकम् ।
सहस्रं होमयेत् पश्चाद् बिल्वपत्त्रैर् वरानने ॥ म्भ्त्_12.70
एवं कृते लभेच् छान्तिं दीर्घायुर् नात्र संशयः ॥ म्भ्त्_12.71
मातृकाभेदतन्त्र, त्रयोदशः पटलः
श्रीचण्डिकोवाच ।
शृणु नाथ परानन्द परापरजगत्पते ।
इदानीं श्रोतुम् इच्छामि मालायाः कीदृशो जपः ।
का माला कस्य देवस्य तद् वदस्व समाहितः ॥ म्भ्त्_13.1
श्रीशंकर उवाच ।
वैष्णवे तुलसीमाला गजदन्तैर् गणेश्वरे ।
कालिकाया महामन्त्रं जपेद् रुद्राक्षमालया ॥ म्भ्त्_13.2
तारायाश् च जपेन् मन्त्री महाशङ्खाख्यमालया ।
महाशङ्खाख्यमालायां सर्वां विद्यां जपेत् सुधीः ॥ म्भ्त्_13.3
अकस्माद् वै महासिद्धिर् महाशङ्खाख्यमालया ।
तथैव सकला विद्या महाशङ्खे वसेत् सदा ॥ म्भ्त्_13.4
स्फाटिकी सर्वदेवस्य प्रवालैः सकलां जपेत् ।
स्वर्णरौप्यसमुद्भूतां सर्वदेवेषु योजिताम् ॥ म्भ्त्_13.5
कालिकायाश् च सुन्दर्या रुद्राक्षैः प्रजपेत् सदा ।
भैरव्याः प्रजपेन् मन्त्री शङ्खपद्माख्यया प्रिये ॥ म्भ्त्_13.6
श्मशाने धुस्तुरैर् माला जपेद् धूमावतीविधौ ।
इति ते कथितं कान्ते महामालाविनिर्णयम् ॥ म्भ्त्_13.7
अथ ग्रन्थिं प्रवक्ष्यामि शृणु कान्ते समाहिता ।
येन माला सुसिद्धा च न्णां सर्वफलप्रदा ॥ म्भ्त्_13.8
मालायाश् चाधिका कान्ते ग्रन्थिश् चैका फलप्रदा ।
एकपञ्चाशिकायां च मालायां परमेश्वरि ॥ म्भ्त्_13.9
ब्रह्मग्रन्थियुतां मालां सार्धद्वितयवेष्टिताम् ।
सपादवेष्टनं देवि नागपाशं मनोहरम् ॥ म्भ्त्_13.10
सर्वदेवस्य मालायां सर्वत्र परमेश्वरि ।
ब्रह्मग्रन्थिं विधायेत्थं नागपाशम् अथापि वा ॥ म्भ्त्_13.11

मालायां त्व् अधिकां देवि चैकां ग्रन्थिं प्रदापयेत् ।
मूलेन ग्रथितं कुर्यात् प्रणवेनाथवा प्रिये ॥ म्भ्त्_13.12
ग्रन्थिमध्ये च गुटिकां कुर्याद् अतिमनोहराम् ।
सूत्रद्वयं महेशानि मिलनं कारयेत् ततः ॥ म्भ्त्_13.13
मेरुं च ग्रथनं कुर्यात् तदूर्ध्वे ग्रन्थिसंयुतम् ।
एवं मालां विनिर्माय गोपयेद् बहुयत्नतः ॥ म्भ्त्_13.14
कम्पनं धूननं शब्दं नैव तत्र प्रकाशयेत् ।
करभ्रष्टं तथा छिन्नं महाविघ्नस्य कारणम् ॥ म्भ्त्_13.15
कम्पने सिद्धिहानिः स्याद् धूननं बहुदुःखदम् ।
शब्दे जाते भवेद् रोगः करभ्रष्टाद् विनाशकृत् ॥ म्भ्त्_13.16
छिन्नसूत्रे भवेन् मृत्युस् तस्माद् यत्नपरो भवेत् ।
एवं ज्ञात्वा महेशानि शान्तिस्वस्त्ययनं चरेत् ॥ म्भ्त्_13.17
कम्पने यो जपेन् मन्त्रं यदि सिद्धिं प्रयच्छति ।
यत्नेन गुरुम् आनीय द्वाविंशदुपचारतः ॥ म्भ्त्_13.18
कुम्भस्थापनकं कृत्वा पूजयेद् इष्टदेवताम् ।
ततो हुनेद् बिल्वपत्त्रैर् अष्टोत्तरशताहुतिम् ॥ म्भ्त्_13.19
त्रिमध्वक्तेन विधिना धूनने ऽपि च सुन्दरि ।
सशब्दे जपने चण्डि ह्य् एवं कुर्याद् विचक्षणः ॥ म्भ्त्_13.20
करभ्रष्टे तथा छिन्ने पुरश्चरणम् आचरेत् ।
जपाद्यन्ते यजेद् देवीं षोडशैर् उपचारकैः ॥ म्भ्त्_13.21
प्रत्यहं प्रजपेन् मन्त्रं प्रत्यहं बलिदानकम् ।
पञ्चाङ्गस्य प्रमाणेन सर्वकर्म समापयेत् ॥ म्भ्त्_13.22
दरिद्रः परमेशानि यदि विघ्नपरायणः ।
आद्यन्ते महतीं पूजां दिक्सहस्रं जपेन् मनुम् ॥ म्भ्त्_13.23
सहस्रैकं हुनेत् पश्चात् सर्वविघ्नस्य शान्तये ।
कुम्भतोयैः स्नापयित्वा पुनर् मालां प्रदापयेत् ॥ म्भ्त्_13.24
अनेनैव विधानेन विघ्नजालैर् न लिप्यते ॥ म्भ्त्_13.25
मातृकाभेदतन्त्र, चतुर्दशः पटलः
श्रीचण्डिकोवाच ।
मन्त्रधारणमात्रेण तत्क्षणे तन्मयो भवेत् ।
जीवात्मा कुण्डलीमध्ये प्रदीपकलिका यथा ॥ म्भ्त्_14.1
निजेष्टदेवतारूपा देहसंस्था च कुण्डली ।
भुज्यते सैव देहस्था का चिन्ता साधकस्य च ।
तन् मे ब्रूहि महादेव यद्य् अहं तव वल्लभा ॥ म्भ्त्_14.2
श्रीशंकर उवाच ।
भोगस् तु त्रिविधो देवि दिव्यवीरपशुक्रमात् ।
निर्लिप्तो दिव्यभावस्थः कुण्डली भुज्यते यदि ॥ म्भ्त्_14.3
अजिह्वान्ता कुण्डलिनी वीरस्य वीरवन्दिते ।
महादेव्याः प्रीतये च प्रसादं भुज्यते पशुः ॥ म्भ्त्_14.4
द्विजातेर् दिव्यभावश् च सदा निर्वाणदायकः ।

विप्रो वीरश् च निर्वाणी भवत्य् एव न संशयः ॥ म्भ्त्_14.5
सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु ।
पशुना भक्तियुक्तेन प्रसादं भुज्यते यदि ॥ म्भ्त्_14.6
स्वर्गभोगी भवत्य् एव मरणे नाधिकारिता ।
जन्मान्तरम् अवाप्नोति महादेव्याः प्रसादतः ॥ म्भ्त्_14.7
दिव्यवीरमते दृष्टिर् जायते नात्र संशयः ।
दिव्यवीरप्रसादेन निर्वाणी नात्र संशयः ॥ म्भ्त्_14.8
प्रसादभोगी यो देवि स पशुर् नात्र संशयः ।
मरणे नाधिकारो ऽस्ति पशुभावस्थितस्य च ॥ म्भ्त्_14.9
नैव मुक्तिर् भवेत् तस्य जन्म चाप्नोति निश्चितम् ॥ म्भ्त्_14.10
श्रीचण्डिकोवाच ।
वद मे परमेशान दिव्यवीरस्य लक्षणम् ।
यत् कृते दिव्यवीरस्य महामुक्तिर् भविष्यति ॥ म्भ्त्_14.11
श्रीशंकर उवाच ।
साक्षाद् ब्रह्ममयी देवी चाभिशप्ता च वारुणी ।
शापमोचनमात्रेण ब्रह्मरूपा सुधा परा ॥ म्भ्त्_14.12
निवेदनान् महादेव्यै तत् तद् देवी भवेत् किल ।
मूलाधारात् कुण्डलिनीम् आजिह्वान्तां विभावयेत् ॥ म्भ्त्_14.13
तन्मुखे दानमात्रेण ज्ञानवान् साधको भवेत् ।
यथैव कुण्डली देवी देहमध्ये व्यवस्थिता ॥ म्भ्त्_14.14
तथैव वारुणीं ध्यायेत् कलाङ्गे स्वेष्टदेवताम् ।
कुण्डल्या समभावेन शक्तिवक्त्रे प्रदापयेत् ॥ म्भ्त्_14.15
आत्मोच्छिष्टं महापूतं तन्मुखात् परमामृतम् ।
अवश्यम् एव गृह्णीयात् तादात्म्येन वरानने ॥ म्भ्त्_14.16
उत्सृष्टादिविचारो ऽपि कदाचिन् नास्ति ब्रह्मणि ।
गङ्गातोयं परं ब्रह्म प्रसादं कस्य तद् वद ॥ म्भ्त्_14.17
गङ्गासागरतोयं वा प्रसादं कस्य वा भवेत् ।
शृणु देवि प्रवक्ष्यामि तज्जले स्नानमात्रतः ॥ म्भ्त्_14.18
मुक्तिभागी भवेन् मर्त्यः स्नानावगाहनात् किल ।
पादादिमस्तकान्तं वै स्नानकाले प्रमज्जति ॥ म्भ्त्_14.19
पादस्पर्शो न दोषाय परब्रह्मणि शैलजे ।
परमात्मनि लीने च तथैव परमेश्वरि ॥ म्भ्त्_14.20
इति ते कथितं देवि दिव्यवीरस्य लक्षणम् ।
वीरतन्त्रे च कथितं माहात्म्यं प्राणवल्लभे ॥ म्भ्त्_14.21
शृणु देवि प्रवक्ष्यामि साधिकायाश् च लक्षणम् ।
दिव्यशक्तिर् वीरशक्तिर् गुरुशक्तिस् तथा परा ॥ म्भ्त्_14.22
कुलशक्तिः कामिनी च नवशक्तिः कुमारिका ।
श्रीगुरुं पूजयेद् भक्त्या स्वदेहदानपूर्वकम् ॥ म्भ्त्_14.23
अन्यथा तु स्वदेहस्य निग्रहो जायते ध्रुवम् ।
सप्तजन्मनि सा देवी पुक्कसी पतिवर्जिता ॥ म्भ्त्_14.24

शिवं मत्वा स्वकान्तं च पूजासाधनम् आचरेत् ।
कदाचिन् न यजेच् चान्यं पुरुषं परमेश्वरि ॥ म्भ्त्_14.25
अन्यस्य यजनाच् चण्डि सर्वनाशो भवेद् ध्रुवम् ।
कान्तस्यायुर्विहीनत्वं विपतिं च पदे पदे ॥ म्भ्त्_14.26
धननाशो भवेन् नित्यं देव्याः क्रोधश् च जायते ।
अवश्यं पूजयेन् नित्यं गुरुदेवं सनातनम् ॥ म्भ्त्_14.27
भद्राभद्रविचारं च या करोति गुरुस्थले ।
तस्या मन्त्रं क्रोधयुक्तं विपत्तिश् च पदे पदे ॥ म्भ्त्_14.28
वरं जनमुखान् निन्दा वरं प्राणान् परित्यजेत् ।
तथापि पूजयेद् देवं साक्षान् निर्वाणदायकम् ॥ म्भ्त्_14.29
सदा भयं च कापट्यं वर्जयेद् गुरुपूजने ॥ म्भ्त्_14.30
श्रीगुरोस् तेजसं भक्त्या यदि धारणम् आचरेत् ।
सत्यं सत्यं पुनः सत्यं काशी सा नात्र संशयः ॥ म्भ्त्_14.31
अभक्त्या परमेशानि यदि धारणम् आचरेत् ।
जपपूजादिकं तस्याः संदहेत् तेन तेजसा ॥ म्भ्त्_14.32
श्रीचण्डिकोवाच ।
सपत्नीकं यजेद् देवं गुरुं निर्वाणदायकम् ।
तस्य सङ्गं परित्यज्य कथम् आत्मनियोजनम् ॥ म्भ्त्_14.33
श्रीशंकर उवाच ।
शृणु देवि प्रवक्ष्यामि गुरोर् आज्ञानुसारतः ।
धारयेत् तेजसं भक्त्या स्वयं लिप्साविवर्जिता ॥ म्भ्त्_14.34
गुरुपत्न्याश् चात्मजश् च श्रीगुरोर् आत्मजो यतः ।
गुरुपत्नी गुरुः साक्षाद् गुरुपुत्रो न संशयः ॥ म्भ्त्_14.35
एकस्य पूजनात् कान्त उभयोः पूजनं भवेत् ।
गुरुपुत्रो गणेशश् च गुरुपुत्रः षडाननः ॥ म्भ्त्_14.36
एकं गुरुसुतं कान्ते पूजने या सदा रता ।
अन्यं गुरुसुतं कान्ते पूजयेन् न कदाचन ॥ म्भ्त्_14.37
वीरं वा दिव्यमूर्तिं वा कदाचिन् न हि पूजयेत् ।
एकस्य पूजनाद् देवि महासिद्धीश्वरो भवेत् ॥ म्भ्त्_14.38
उभयोस् त्रीणि चत्वारि या नारी पूजनं चरेत् ।
तस्याः समस्तं विफलं ध्यानादिजपपूजनम् ॥ म्भ्त्_14.39
यदि भाग्यवशाद् देवि एकं गुरुसुतं लभेत् ।
मनोज्ञं शास्त्रवेत्तारं निग्रहानुग्रहे रतम् ॥ म्भ्त्_14.40
सुन्दरं यौवनोन्मत्तं गुरुतुल्यं जितेन्द्रियम् ।
प्राणान्ते ऽपि च कर्तव्यं पूजनं मोक्षदायकम् ॥ म्भ्त्_14.41
नो यजेद् यदि मोहेन सैव पापमयी भवेत् ॥ म्भ्त्_14.42

मूल पाठ: Mātṛkābhedatantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc