मातृकाभेदतन्त्र · भाग 120
मातृकाभेदतन्त्र
मातृकाभेदतन्त्र, प्रथमः पटलः
कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
पप्रच्छ परया भक्त्या भैरवं परमेश्वरम् ॥ म्भ्त्_1.1
श्रीचण्डिकोवाच ।
त्रिपुरापूजनं नाथ स्वर्णरत्नैर् विशेषतः ।
कलिकाले स्वर्णरूप्यं गुप्तभावं तथा मणिम् ॥ म्भ्त्_1.2
केनोपायेन देवेश स्वर्णरूप्यादि लभ्यते ।
तद् वदस्व विशेषेण यथा रत्नादिकं भवेत् ॥ म्भ्त्_1.3
यन् नोक्तं सर्वतन्त्रेषु तद् वदस्व दयानिधे ॥ म्भ्त्_1.4
श्रीशङ्कर उवाच ।
शृणु देवि प्रवक्ष्यामि यथा रत्नादिकं भवेत् ।
मत्तेजसा पारदेन किं रत्नं न हि लभ्यते ॥ म्भ्त्_1.5
तथा सामुद्रकेणैव सुशुभ्रलवणेन च ।
सम्बलस्य प्रकारं हि शृणु देवि प्रयत्नतः ॥ म्भ्त्_1.6
चीनतन्त्रानुसारेण पूजयेत् सिद्धकालिकाम् ।
अथवा पूजयेद् देवीं दक्षिणां कालिकां पराम् ।
कालीतन्त्रोक्तविधिना सप्ताहं जपपूजनम् ॥ म्भ्त्_1.7
सत्ये चैकं तु त्रेतायां द्विगुणं द्वापरे त्रयम् ।
एवं सर्वत्र जानीयाच् चतुर्गुणजपः कलौ ॥ म्भ्त्_1.8
आनीय बहुयत्नेन सम्बलं तोलद्वयम् ।
वसुर् आद्यं शिवं चाद्यं मायाबिन्दुविभूषितम् ।
बीजत्रयं चाष्टशतं प्रजपेत् सम्बलोपरि ॥ म्भ्त्_1.9
अशीतितोलकं मानं कृष्णधेनुसमुद्भवम् ।
दुग्धम् आनीय यत्नेन चाष्टोत्तरशतं जपेत् ॥ म्भ्त्_1.10
वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् ।
उत्तापं जनयेद् धीमान् मन्दमन्देन वह्निना ॥ म्भ्त्_1.11
बिन्दु वेदान्तपर्यन्तम् अर्धशोषं भवेद् यदा ।
तदैवोत्तोल्य तद् द्रव्यं तोयमध्ये विनिक्षिपेत् ॥ म्भ्त्_1.12
ततः परीक्षा कर्तव्या प्रदद्यात् पावकोपरि ।
निर्धूमं वावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः ॥ म्भ्त्_1.13
तत्रैव प्रजपेन् मन्त्रं सर्ववन्द्यनवात्मकम् ।
आनीय बहुयत्नेन शुद्धं ताम्रं मनोहरम् ॥ म्भ्त्_1.14
सार्धेन तोलकं ताम्रं वह्निमध्ये विनिक्षिपेत् ।
यथा वह्निस् तथा ताम्रं दृष्ट्वा उत्थाप्य यत्नतः ॥ म्भ्त्_1.15
गुञ्जाप्रमाणं तद् द्रव्यं तत्क्षणाद् यदि योजयेत् ।
सत्यं सत्यं हि गिरिजे रौप्यं भवति निश्चितम् ॥ म्भ्त्_1.16
श्रीचण्डिकोवाच ।
कारणं दुग्धरूपं वा केन रूपेण शङ्करः ।
तत्प्रकारं महादेव कृपया वद शङ्कर ॥ म्भ्त्_1.17
श्रीशङ्कर उवाच ।
टङ्कनम् आनयेद् धीमान् तोलकं तु चतुष्टयम् ।
वह्नियोगेन गिरिजे लाजरूपं चकार ह ॥ म्भ्त्_1.18
आम्रपुष्पं तद् द्विगुणं पिष्ट्वा मिलनम् आचरेत् ।
तस्योपरि जपेन् मन्त्रं महामायां हि चण्डिके ॥ म्भ्त्_1.19
एतत् तु गुटिकां कृत्वा मेलनं कारयेद् यदि ।
तदैव दुग्धरूपं स्यात् सत्यं सत्यं हि शैलजे ॥ म्भ्त्_1.20
श्रीचण्डिकोवाच ।
गन्धहीनं भवेन् मद्यं केनोपायेन शङ्कर ।
तत् सर्वं श्रोतुम् इच्छामि यदि स्नेहो ऽस्ति मा प्रति ॥ म्भ्त्_1.21
श्रीशङ्कर उवाच ।
शिवं वह्निसमारूढं वामनेत्रविभूषितम् ।
बिन्दुनादसमायुक्तं गन्धम् आदाय संलिखेत् ॥ म्भ्त्_1.22
उह्यतां पदम् उच्चार्यं चाष्टोत्तरशतं यदि ।
प्रजपेत् साधकश्रेष्ठो दुर्गन्धादिविनाशनम् ॥ म्भ्त्_1.23
मातृकाभेदतन्त्र, द्वितीयः पटलः
श्रीदेव्य् उवाच ।
वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर ।
यत् त्वया कथितं नाथ मम सङ्गे विहारतः ॥ म्भ्त्_2.1
कथं वा जायते पुत्रः शुक्रस्य कत्र संस्थितिः ।
वर्धमानं सदा लिङ्गं प्रवेशो वा कथं भवेत् ॥ म्भ्त्_2.2
भीतियुक्ता ह्य् अहं नाथ त्राहि मां दुःखसङ्कटात् ॥ म्भ्त्_2.3
श्रीशङ्कर उवाच ।
मणिपूरं महापद्मं सुषुम्णामध्यसंस्थितम् ।
तस्य नालेन देवेशि नाभिपद्मं मनोहरम् ॥ म्भ्त्_2.4
वक्रत्रयसमायुक्तं सदा शुक्रविभूषितम् ।
ऊर्ध्वं नालं सहस्रारे अतः शुक्रविभूषितम् ॥ म्भ्त्_2.5
तस्माद् एव स्तनद्वन्द्वं वर्धमानं दिने दिने ॥ म्भ्त्_2.6
मध्यनालं सुषुम्णान्तं वृन्ताकारं सुशीतलम् ।
आयोन्यग्रम् अधोनालं सदानन्दमयि शिवे ॥ म्भ्त्_2.7
शृणु चार्वङ्गि सुभगे तन्मध्ये लिङ्गताडनात् ।
यद् रूपं परमानन्दं तन् नास्ति भुवनत्रये ॥ म्भ्त्_2.8
नाभिपद्मं तु यद् रूपं तच् छृणुष्व समाहितः ।
बिन्दुस्थानं मध्यदेशे सदा पद्मविराजितम् ॥ म्भ्त्_2.9
बाह्यदेशे चाष्टपत्रं चतुरस्रं तु तद्बहिः ।
चतुर्द्वारसमायुक्तं सुवर्णाभं सवृत्तकम् ॥ म्भ्त्_2.10
तत्पत्रेण भवेत् पुष्पं वृन्तयुक्तं त्रिपत्त्रकम् ।
प्रफुल्ले तु त्रिपत्रारे बाह्ये रुधिरदर्शनम् ॥ म्भ्त्_2.11
एतन्मध्ये महेशानि यदि स्याल् लिङ्गताडनम् ।
पद्ममध्ये गते शुक्रे संततिस् तेन जायते ॥ म्भ्त्_2.12
पुरुषस्य तु यच् छुक्रं शक्तेरक्ताधिको भवेत् ।
तदा कन्या भवेद् देवि विपरीतः पुमान् भवेत् ॥ म्भ्त्_2.13
उभयोस् तुल्यशुक्रेण क्लीबं भवति निश्चितम् ॥ म्भ्त्_2.14
शृणु चार्वङ्गि सुभगे पुष्पमाहात्म्यम् उत्तमम् ।
मध्ये तच्छुक्रसंयोगे वर्धते तद् दिने दिने ।
एवं दिङ्माससम्प्राप्ते तत्पुष्पं वृन्तसंयुतम् ॥ म्भ्त्_2.15
गलिते परमेशानि व्यक्तो भवति संततिः ॥ म्भ्त्_2.16
श्रीदेव्य् उवाच ।
किंचिद् रोगादिसम्भूते कृमिकीटादिसम्भवे ।
तस्मज्जीवं प्रणश्यन्ति सा नारी जीव्यते कथम् ॥ म्भ्त्_2.17
श्रीशङ्कर उवाच ।
अस्य पुष्पस्य माहात्म्यं किं वक्तुं शक्यते मया ।
बिन्दुस्थानं सहस्रं तु पुष्पमध्ये प्रियंवदे ॥ म्भ्त्_2.18
बुद्बुदा यत्र तिष्ठन्ति तत्रैव संततिर् भवेत् ।
एवं क्रमेण देवेशि सहस्रं संततिर् यदि ।
वर्धमानं महापुष्पं पीडा किंचिन् न जायते ॥ म्भ्त्_2.19
मया सार्धं महेशानि विहारं कुरु यत्नतः ।
विहारे यो भवेत् पुत्रो गणेशः स च कीर्तितः ॥ म्भ्त्_2.20
अपरे परमेशानि तव पुत्रप्रसादतः ।
पृथिव्यां जायते सृष्टिर् निर्विघ्नेन यथोचितम् ॥ म्भ्त्_2.21
एतच् छ्रुत्वा ततो देवि मदनानलविह्वला ।
शिवेनालिङ्गिता देवी शिवाकारेण वै तदा ॥ म्भ्त्_2.22
मातृकाभेदतन्त्र, तृतीयः पटलः
श्रीदेव्य् उवाच ।
सर्वत्राहं श्रुता नाथ भोगं चेन्द्रियपुष्टिदम् ।
भोगेन मोक्षम् आप्नोति कथं वदसि योगभृत् ॥ म्भ्त्_3.1
श्रीशङ्कर उवाच ।
भोगेन लभते योगं भोगेन कुलसाधनम् ।
भोगेन सिद्धिम् आप्नोति भोगेन मोक्षम् आप्नुयात् ॥ म्भ्त्_3.2
तस्माद् भोगं सदा कार्यं बाह्यपूजा यथेच्छया ।
भोजनस्य विधानं यत् तच् छृणुष्व प्रियंवदे ॥ म्भ्त्_3.3
आधारे तु या शक्तिर् भुजगाकाररूपिणी ।
आत्मा परमेशानि तन्मध्ये वर्तते सदा ॥ म्भ्त्_3.4
भोजनेच्छा भवेत् तस्मान् निर्लिप्तो जीवसंज्ञकः ।
सैव साक्षाद् गुणमयो निर्गुणो जीव उच्यते ॥ म्भ्त्_3.5
जीवस्य भोजनं देवि भ्रान्तिर् एव न संशयः ।
गुणयुक्ता कुण्डलिनी चन्द्रसूर्याग्निरूपिणी ॥ म्भ्त्_3.6
मूलाधाराच् च तां देवीम् आजिह्वान्तां विभावयेत् ।
शोधितान् मत्स्यमांसादीन् संमुखे स्थापयेद् बुधः ॥ म्भ्त्_3.7
मूलमन्त्रं समुच्चार्य जुहोमि कुण्डलीमुखे ।
अनेन मनुना देवि प्रतिग्रासं समाहरेत् ॥ म्भ्त्_3.8
प्रतिग्रासे परेशानि एवं कुर्याद् विचक्षणः ।
तदैव ब्रह्मरूपो ऽसौ सत्यं सत्यं सुरेश्वरि ॥ म्भ्त्_3.9
भुज्यते कुण्डली देवी इति चिन्तापरो हि यः ।
मन्त्रसिद्धिर् भवेत् तस्य ज्ञानसिद्धिर् न चान्यथा ॥ म्भ्त्_3.10
एवं कृते ब्रह्मरूपः शिवरूपः स्वयं हरिः ।
योगसिद्धिर् भवेत् तस्य चाष्टसिद्धिर् भविष्यति ॥ म्भ्त्_3.11
शत्रुभिर् दीयते यत् तु कृत्रिमं दारुणं विषम् ।
भक्षणात् तत् क्षणे देवि ह्य् अमृतं नात्र संशयः ॥ म्भ्त्_3.12
मन्त्रेण शोधितं द्रव्यं भक्षणाद् अमृतं भवेत् ।
यदैव कालकूटं तु समुद्रमथने प्रिये ॥ म्भ्त्_3.13
तदा चानेन मनुना तत्क्षणात् खादितं मया ॥ म्भ्त्_3.14
सर्पाकारा कुण्डलिनी या देवी परमा कला ।
भुज्यते सर्परूपेण तत्रैव दारुणं विषम् ॥ म्भ्त्_3.15
इति ते कथितं कान्ते भोजनस्य विधानकम् ।
एतत् सर्वं महेशानि गोप्तव्यं पशुसंकटे ॥ म्भ्त्_3.16
श्रीदेव्य् उवाच ।
शृणु नाथ परानन्द परापरकुलात्मक ।
वद मे परमेशान होमकुण्डं तु कीदृशम् ॥ म्भ्त्_3.17
श्रीशिव उवाच ।
मणिपूरस्य बाह्ये तु नाभिपद्मं मनोहरम् ।
अष्टपत्रं तथा वृत्तं तन्मध्ये कुण्डदुर्लभम् ॥ म्भ्त्_3.18
चतुरस्रादिकं देवि तत् कुण्डं कामरूपकम् ।
सर्वकुण्डस्य देवेशि विप्रः कर्ता विधीयते ॥ म्भ्त्_3.19
वर्तुलं बाहुजातस्य वैश्यस्य चार्धचन्द्रकम् ॥ म्भ्त्_3.20
त्रिकोणं पादजातस्य होमकुण्डं सुरेश्वरि ।
एवं कुण्डं महेशानि नालत्रयविभूषितम् ॥ म्भ्त्_3.21
ऊर्ध्वनालं सहस्रारे परामृतविभूषितम् ।
मध्यनालं नाभिपद्मे मूलाधारे च सुन्दरि ॥ म्भ्त्_3.22
आलिङ्गाग्रम् अधोनालं सदानन्दमयं शिवे ।
होमकुण्डम् इदं देवि सर्वतन्त्रे परिष्कृतम् ॥ म्भ्त्_3.23
येन होमप्रसादेन साक्षाद् ब्रह्ममयो भवेत् ।
विप्रस्य चाहुतिहोमं विज्ञातव्यं चतुष्टयम् ॥ म्भ्त्_3.24
क्षत्रियस्य त्रयं देवि वैश्यस्य चाहुतिद्वयम् ।
शूद्रस्यैकाहुतिर् देवि मुक्तिश् चापि चतुर्विधा ॥ म्भ्त्_3.25
महामोक्षं ब्राह्मणस्य सायुज्यं क्षत्रियस्य च ।
सारूप्यं चोरुजातस्य सालोक्यं शूद्रजातिषु ॥ म्भ्त्_3.26
बाह्यकुण्डं बाह्यहोमे एव हि सुरवन्दिते ।
जातिभेदे कुण्डभेदं कुर्यात् साधकसत्तमः ॥ म्भ्त्_3.27
बाह्यहोमे काम्यसिद्धिर् भविष्यति न संशयः ।
ज्ञानहोमे मोक्षसिद्धिर् लभते नात्र संशयः ॥ म्भ्त्_3.28
इति ते कथितं कान्ते तन्त्राणां सारम् उत्तमम् ।
न वक्तव्यं पशोर् अग्रे शपथो मे त्वयि प्रिये ॥ म्भ्त्_3.29
श्रीदेव्य् उवाच ।
मद्यपाने महापुण्यं सर्वतन्त्रे श्रुतं मया ।
जातिभेदं न कथितम् इदानीं तत् प्रकाशय ॥ म्भ्त्_3.30
श्रीशङ्कर उवाच ।
सर्वयज्ञाधिपो विप्रः संशयो नास्ति पार्वति ।
सौत्रामण्यां कुलाचारे चत्वारो ब्राह्मणादयः ॥ म्भ्त्_3.31
ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे ।
ब्राह्मणः परमेशानि यदि पानादिकं चरेत् ॥ म्भ्त्_3.32
तत्क्षणाच् छिवरूपो ऽसौ सत्यं सत्यं हि शैलजे ॥ म्भ्त्_3.33
तोये तोयं यथा लीनं यथा तेजसि तेजसम् ।
घटे भग्ने यथाकाशं वायौ वायुर् यथा प्रिये ॥ म्भ्त्_3.34
तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये ।
लीयते नात्र संदेहः परमात्मनि शैलजे ॥ म्भ्त्_3.35
सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु ।
सा नारी मानवी मद्यपाने देवि न संशयः ॥ म्भ्त्_3.36
सूक्ष्मसूत्रे यथा वह्निर् देहमध्ये तथा शिवा ।
तपोरूपं बृहत्सूत्रं पूजारूपं तथा हरिः ॥ म्भ्त्_3.37
संयुक्तं कुरुते यत्र वर्धमानो महाङ्कुशः ।
मद्यपानं विना देवि तज्ज्ञानं न हि लभ्यते ।
अत एव हि विप्रेण मद्यपानं सदा चरेत् ॥ म्भ्त्_3.38
वेदमाताजपेनैव ब्राह्मणो न हि शैलजे ।
ब्रह्मज्ञानं यदा देवि तदा ब्राह्मण उच्यते ॥ म्भ्त्_3.39
देवानाम् अमृतं ब्रह्म तद् इयं लौकिकी सुरा ।
सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्तिता ॥ म्भ्त्_3.40
मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादि मोचनम् ।
प्रकुर्यात् तु द्विजेनैव तदा ब्रह्ममयी सुरा ॥ म्भ्त्_3.41
हविर् आरोपमात्रेण वह्निर् दीप्तो यथा भवेत् ।
शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी ॥ म्भ्त्_3.42
अत एव हि देवेशि ब्राह्मणः पानम् आचरेत् ।
स ब्राह्मणः स वेदज्ञः सो ऽग्निहोत्री स दीक्षितः ॥ म्भ्त्_3.43
बहु किं कथ्यते देवि स एव त्रिगुणात्मकः ॥ म्भ्त्_3.44
मुक्तिमार्गम् इदं देवि गोप्तव्यं पशुसंकटे ।
प्रकाशात् कायहानिः स्यान् निन्दनीयो न चान्यथा ॥ म्भ्त्_3.45
मातृकाभेदतन्त्र, चतुर्थः पटलः
श्रीचण्डिकोवाच ।
कारणेन महामोक्षं निर्माल्येन शिवस्य च ।
श्रुतं वेदे पुराणे च तव वक्त्रे सुरेश्वर ॥ म्भ्त्_4.1
अग्राह्यं तव निर्माल्यम् अग्राह्यं कारणं विभो ।
मृषा वाक्यं महादेव कथं वदसि योगभृत् ॥ म्भ्त्_4.2
कारणेन विना देवि मोक्षज्ञानादिकं न हि ।
महाशङ्खं विना देवि न मन्त्रः सिद्धिदायकः ॥ म्भ्त्_4.3
साक्षाद् ब्रह्ममयी माला महाशङ्खाख्यया पुनः ।
शिलायन्त्रे च वृन्दायां गङ्गायां सुरपूजिते ।
नैव स्पृशेन् महाशङ्खं स्पर्शनात् काष्ठवद् भवेत् ॥ म्भ्त्_4.4
श्रीचण्डिकोवाच ।
गङ्गा तु कारणं वारि मद्यं परमकारणम् ।
कारणस्पर्शमात्रेण मालाः शुद्धा भवन्ति हि ॥ म्भ्त्_4.5
गङ्गास्पर्शेन देवेश काष्ठवन् मालिका कथम् ।
वद मे परमेशान इति मे संशयो हृदि ॥ म्भ्त्_4.6
श्रीशंकर उवाच ।
कारणं देवदेवेशि मोक्षदं सर्वजातिषु ।
तथा स्वर्गादिजनकं गङ्गातोयं न संशयः ॥ म्भ्त्_4.7
कारणे निवसेद् देवि महाकाली परा कला ।
महाविद्या वसेन् नित्यं सुरायां परमेश्वरि ॥ म्भ्त्_4.8
महाशङ्खे वसेन् नित्यं पञ्चाशद्वर्णरूपिणी ।
महाविद्या वसेन् नित्यं महाशङ्खे च सर्वदा ॥ म्भ्त्_4.9
गङ्गास्पर्शनमात्रेण गङ्गायां लीयते प्रिये ।
काष्ठस्पर्शनमात्रेण काष्ठे वह्निस् तृणे यथा ॥ म्भ्त्_4.10
गङ्गास्पर्शे तथा देवि गङ्गायां लीयते प्रिये ।
तत्क्षणे च महाशङ्खः काष्ठवन् नात्र संशयः ॥ म्भ्त्_4.11
शिलायन्त्रे तुलस्यादौ तथैव परमेश्वरि ॥ म्भ्त्_4.12
महाशङ्खाख्यमालायां यो जपेत् साधकोत्तमः ।
अष्टसिद्धिः करे तस्य स एव शम्भुर् अव्ययः ।
मौलौ गङ्गा स्थिता यस्य गङ्गास्नानेन तस्य किम् ॥ म्भ्त्_4.13
वाराणसी कामरूपं हरिद्वारं प्रयागकम् ।
गण्डकी बदरिका देवि गङ्गासागरसंगमम् ॥ म्भ्त्_4.14
यस्य भक्तिर् महाशङ्खे तस्य दर्शनमात्रतः ।
तीर्थस्नानफलं सर्वं लभते नात्र संशयः ॥ म्भ्त्_4.15
इति ते कथितं कान्ते सर्वं परमदुर्लभम् ।
न वक्तव्यं पशोर् अग्रे प्राणान्ते परमेश्वरि ॥ म्भ्त्_4.16
मातृकाभेदतन्त्र, पञ्चमः पटलः
श्रीचण्डिकोवाच ।
पारदं भस्मनिर्माणं केनोपायेन शंकर ।
तद् अहं श्रोतुम् इच्छामि यदि ते ऽस्ति कृपा मयि ॥ म्भ्त्_5.1
श्रीशंकर उवाच ।
पारदे भस्मनिर्माणे नानाविघ्नानि पार्वति ।
अत एव हि तत्रादौ शान्तिं कुर्याद् द्विजोत्तमः ॥ म्भ्त्_5.2
वरयेत् कर्मकर्तारं वक्ष्यमाणविधानतः ।
पूजयेत् षोडशलिङ्गं पार्थिवं पर्वतात्मजे ॥ म्भ्त्_5.3
षोडशेनोपचारेण तोडलोक्तविधानतः ।
भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ म्भ्त्_5.4
पञ्चामृतेन देवेशं स्नापयेच् छुद्धवारिणा ।
पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ॥ म्भ्त्_5.5
चतुरङ्गुलिविस्तारं रौप्यनिर्माणपीठकम् ।
अलंकारं यथायोग्यं पुरुषस्य निवेदयेत् ॥ म्भ्त्_5.6
अलक्तकयुतं वापि दद्यान् मलयजं शिवे ।
षडङ्गधूपं देवेशि प्रदद्याच् च पुनः पुनः ॥ म्भ्त्_5.7
घृतयुक्तं तथा दीपं दद्यात् कल्याणहेतवे ।
नैवेद्यं विविधं रम्यं नानाफलसमन्वितम् ॥ म्भ्त्_5.8
शर्करासंयुतं कृत्वा पायसं विनिवेदयेत् ।
दद्यात् तोयं महेशानि विजयासंयुतं प्रिये ॥ म्भ्त्_5.9
षडक्षरं महामन्त्रं गजान्तकसहस्रकम् ।
प्रजपेत् साधकश्रेष्ठस् ततः सिद्धो भवेद् ध्रुवम् ॥ म्भ्त्_5.10
अथवा परमेशानि धनदां धनदायिनीम् ।
पूजयेद् बहुयत्नेन षोडशेनोपचारतः ॥ म्भ्त्_5.11
द्वादशाह्वं यजेद् धीमान् दिक्सहस्रं ततो जपेत् ।
तद्दशांशं महेशानि होमं कुर्याद् विचक्षणः ॥ म्भ्त्_5.12
होमकर्माद्यशक्तश् चेद् द्विगुणं जपम् आचरेत् ।
यदि प्रीता भवेत् सा हि तदा किं वा न सिध्यति ॥ म्भ्त्_5.13
प्रत्यहं परमेशानि कुबेरो दीयते वसु ।
भस्मनिर्माणकं देवि विचित्रं तस्य किं शिवे ॥ म्भ्त्_5.14
गुरवे दक्षिणां दद्याद् यथाविभवविस्तरैः ।
ततः सिद्धो भवेन् मन्त्री नात्र कार्या विचारणा ॥ म्भ्त्_5.15
श्रीचण्डिकोवाच ।
विधानं देवदेवेश भस्मनिर्माणकर्मणि ।
सकृत् कृते येन रूपे भस्मसाज् जायते विभो ॥ म्भ्त्_5.16
श्रीशंकर उवाच ।
आनीय पारदं देवि स्थापयेत् प्रस्तरोपरि ।
तस्योपरि जपेन् मन्त्रं सर्ववन्द्यनवात्मकम् ॥ म्भ्त्_5.17
साष्टसहस्रं देवेशि प्रजपेत् साधकाग्रणीः ।
स्ययम्भुपुष्पसंयुक्ते वस्त्रे चारुणसंनिभे ॥ म्भ्त्_5.18
संस्थाप्य पारदं देवि मृत्पात्रयुगले शिवे ।
पुष्पयुक्तेन सूत्रेण बध्नीयाद् बहुयत्नतः ॥ म्भ्त्_5.19
मुक्तिधाराजलेनैव धान्यस्य परमेश्वरि ।
लेपयेद् बहुयत्नेन रौद्रे शुष्कं च कारयेत् ॥ म्भ्त्_5.20
पुनश् च लेपयेद् धीमान् ततो वह्नौ विनिक्षिपेत् ।
अष्टमीनवमीरात्रौ क्षिपेन् नैव सुरेश्वरि ॥ म्भ्त्_5.21
अथवा परमेशानि मृत्पात्रे स्थापयेद् रसम् ।
वल्लीरसेन तद्द्रव्यं शोधयेद् बहुयत्नतः ॥ म्भ्त्_5.22
घृतनारीरसेनैव तथैव शोधनं चरेत् ।
एवं कृते तु गुटिका यदि स्याद् दृढबन्धनम् ॥ म्भ्त्_5.23
धुस्तुरं च समानीय मध्ये शून्यं च कारयेत् ।
कृष्णाख्यतुलसीयोगे तथा घृतकुमारिका ॥ म्भ्त्_5.24
एवं कृते वह्नियोगे भस्मसाज् जायते किल ।
भस्मयोगे भवेत् स्वर्णं धनदायाः प्रसादतः ॥ म्भ्त्_5.25
विवर्णं जायते द्रव्यं यदि पूजां न चाचरेत् ॥ म्भ्त्_5.26
श्रीचण्डिकोवाच ।
स्वयम्भु कीदृशं नाथ कुण्डगोलं तु कीदृशम् ।
स्वपुष्पं कीदृशं नाथ वज्रपुष्पं तु कीदृशम् ।
सर्वकालोद्भवं नाथ कीदृशं वद शंकर ॥ म्भ्त्_5.27
श्रीशंकर उवाच ।
विवाहरहिता कन्या प्रथमं पुष्पसंयुता ।
तच्छोणितं महेशानि स्वयम्भु नात्र संशयः ॥ म्भ्त्_5.28
भर्तरि विद्यमाने तु या कन्या चान्यजा शिवे ।
तदुद्भवं कुण्डपुष्पं सर्वकार्यार्थसाधकम् ॥ म्भ्त्_5.29
मृते भर्तरि देवेशि या कन्या अन्यजा शिवे ।
तदुद्भवं गोलपुष्पं देववश्यकरं परम् ॥ म्भ्त्_5.30
विवाहितायाः कन्यायाः प्रथमे ऋतुसम्भवे ।
तच्छोणितं महेशानि स्वपुष्पं सर्वमोहनम् ॥ म्भ्त्_5.31
विवाहितायाः कन्यायाः पुरुषस्य च ताडनात् ।
यदि पुष्पं समुद्भूतं वज्रं तत् परिकीर्तितम् ॥ म्भ्त्_5.32
विवाहितायाः कन्यायाः प्रतिमासे च यद् भवेत् ।
सर्वकालोद्भवं पुष्पं कथितं वीरवन्दिते ॥ म्भ्त्_5.33
समक्रोशं वह्निमध्ये स्थापयेद् बहुयत्नतः ।
तत उत्थाय तद् द्रव्यं स्वर्णपात्रे निधाय च ॥ म्भ्त्_5.34
प्रजपेत् परमेशानि प्रासादाख्यं महामनुम् ।
ततः सिद्धो भवेन् मन्त्री नान्यथा मम भाषितम् ॥ म्भ्त्_5.35
एतन् मन्त्रं महेशानि गजान्तकसहस्रकम् ।
जपित्वा पूजयेत् पश्चात् पार्थिवं शिवलिङ्गकम् ॥ म्भ्त्_5.36
ततः परीक्षा कर्तव्या शृणु मत्प्राणवल्लभे ।
शुद्धताम्रं वह्निमध्ये मृत्पात्रे तोलकं मितम् ॥ म्भ्त्_5.37
द्रवीभूते च ताम्रे च गुञ्जामानं क्षिपेद् यदि ।
तत्क्षणे परमेशानि स्वर्णं भवति निश्चितम् ॥ म्भ्त्_5.38
गुञ्जाप्रमाणं तद् द्रव्यं भोजनं कुरुते यदि ।
सर्वरोगपरित्यक्तो जायते मदनोपमः ।
मन्त्रसिद्धिर् भवेत् तस्य जायते चिरजीविता ॥ म्भ्त्_5.39
प्रत्यहं परमेशानि शतनारीं रमेद् यदि ।
वीर्यादिरहितं न स्यात् तेजोवृद्धिकरं परम् ॥ म्भ्त्_5.40
मरणं नैव पश्यामि यदि ध्यानयुतो भवेत् ।
तस्य वित्तं विलोक्यैव कुबेरो ऽपि तिरस्कृतः ॥ म्भ्त्_5.41
गानेन तुम्बुरुः साक्षाद् दानेन वासवो यथा ।
महेश इव योगीन्द्रो निरृतिर् इव दुर्धरः ॥ म्भ्त्_5.42
महाबलो महावीर्यो महासाहसिकः शुचिः ।
महास्वच्छो दयावांश् च सर्वप्राणिहिते रतः ।
बहु किं कथ्यते देवि स एव गणनायकः ॥ म्भ्त्_5.43
मातृकाभेदतन्त्र, षष्टः पटलः
श्रीचण्डिकोवाच ।
वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर ।
महारोगे महादुःखे महादारिद्र्यसंकटे ॥ म्भ्त्_6.1
नाना व्याधिगते वापि नानापीडादिसंकटे ।
राज्यनाशे राजभये कारागारगते पुनः ॥ म्भ्त्_6.2
रायदण्डे च देवेश तथा च ग्रहपीडिते ।
केनोपायेन देवेश मुच्यते वद शंकर ॥ म्भ्त्_6.3
श्रीशंकर उवाच ।
शृणु चार्वङ्गि सुभगे यन् मां त्वं परिपृच्छसि ।
तत् तत् सर्वं प्रवक्ष्यामि सावधानावधारय ॥ म्भ्त्_6.4
या चाद्या परमा विद्या चामुण्डा कालिका परा ।
तस्याः प्रयोगमात्रेण किं न सिध्यति भूतले ॥ म्भ्त्_6.5
श्रीचण्डिकोवाच ।
राहुश् चण्डालो विख्यातः सर्वत्र परमेश्वर ।
पुण्यकालः कथं देव तस्य स्पर्शे दिवाकरे ॥ म्भ्त्_6.6
निशाकरे तथा नाथ इति मे संशयो हृदि ।
कथयस्व परानन्द पश्चाद् अन्यत् प्रकाशय ॥ म्भ्त्_6.7
श्रीशंकर उवाच ।
शृणु चार्वङ्गि सुभगे ग्रहणं चोत्तमोत्तमम् ।
ग्रहणं त्रिविधं देवि चन्द्रसूर्याग्निसंयुतम् ॥ म्भ्त्_6.8
शक्तेर् ललाटके नेत्रे वह्निस् तिष्ठति सर्वदा ।
वामनेत्रे तथा चन्द्रो दक्षे सूर्यः प्रतिष्ठितः ॥ म्भ्त्_6.9
शम्भुनाथेन देवेशि रमणं क्रियते यदा ।
तदैव ग्रहणं देवि शक्तियुक्तो यदा शिवः ॥ म्भ्त्_6.10
वामनेत्रे चुम्बने तु शशाङ्कग्रहणं तदा ।
दक्षनेत्रे चुम्बने च भास्करग्रहणं तदा ॥ म्भ्त्_6.11
ललाटे चुम्बने चाग्निग्रहणं परमेश्वरि ।
शिववीर्यं यतो वह्निरतो ऽदृश्यः सुरेश्वरि ॥ म्भ्त्_6.12
राहुः शिवः समाख्यातस् त्रिगुणा शक्तिर् ईरिता ।
शिवशक्त्योः समायोगो ग्रहणं परमेश्वरि ॥ म्भ्त्_6.13
शिवशक्तिसमायोगः कालं ब्रह्ममयं प्रिये ।
अत एव महेशानि राश्यादीन् न विचारयेत् ॥ म्भ्त्_6.14
तिथिनक्षत्रयोगेन यद् योगं परमेश्वरि ।
तदैव परमेशानि राश्यादिगणनं चरेत् ॥ म्भ्त्_6.15
शिवशक्तिसमायोगात् सर्वं ब्रह्ममयं जगत् ।
मासपक्षतिथीनां च नोच्चार्यं परमेश्वरि ॥ म्भ्त्_6.16
दृष्टिमात्रेण जप्तव्यं तदा सिद्धिर् भवेद् ध्रुवम् ।
तत्कालं परमं कालं विज्ञेयं वीरवन्दिते ॥ म्भ्त्_6.17
तत्र यद् यत् कृतं सर्वम् अनन्तफलम् ईरितम् ।
पुरैव कथितं सर्वं बहु किं कथ्यते ऽधुना ॥ म्भ्त्_6.18
एतत् सुगुप्तभेदं हि तव स्नेहात् प्रकाशितम् ।
न वक्तव्यं पशोर् अग्रे न वक्तव्यं सुरेश्वरि ॥ म्भ्त्_6.19
एतत् तत्त्वं प्रयत्नेन ब्रह्मा जानाति माधवः ।
प्रगोप्तव्यं प्रयत्नेन स्वयोनिर् इव शैलजे ॥ म्भ्त्_6.20
श्रीचण्डिकोवाच ।
चामुण्डाया महामन्त्रं कीदृशं परमेश्वर ।
आराधनं कीदृशं वा तद् वदस्व दयानिधे ॥ म्भ्त्_6.21
श्रीशंकर उवाच ।
शृणु चार्वङ्गि सुभगे चामुण्डामन्त्रम् उत्तमम् ।
यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ म्भ्त्_6.22
कालीबीजयुगं देवि कूर्चबीजं ततः परम् ।
त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्वयम् ॥ म्भ्त्_6.23
सप्ताहं पूजयेद् देवीम् उपचारैश् च षोडशैः ।
पूजान्ते प्रजपेन् मन्त्रं त्रिसहस्रं वरानने ॥ म्भ्त्_6.24
रात्रौ तु पञ्चतत्त्वेन पूजयेत् परमेश्वरीम् ।
तथा रात्रौ जपेन् मन्त्रं कुलशक्तिसमन्वितम् ॥ म्भ्त्_6.25
यन्त्रनिर्माणयोग्यं हि पीठं दद्यात् सुविस्तरम् ।
भोगयोग्यं प्रदातव्यं मधुपर्कं यथोचितम् ॥ म्भ्त्_6.26
शक्तेर् यथा विधेयं स्याद् युवत्याः परमेश्वरि ।
तथा वस्त्रं प्रदातव्यं सर्वकल्याणहेतवे ॥ म्भ्त्_6.27
अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् ।
नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् ॥ म्भ्त्_6.28
सामिषान्नं प्रदातव्यं परमान्नं सशर्करम् ।
पूजयेत् परया भक्त्या बलिदानं ततः परम् ॥ म्भ्त्_6.29
प्रत्यहं परमेशानि चाद्यन्ते वा बलिं हरेत् ।
साङ्गे जाते महेशानि चाथवा बलिम् आहरेत् ॥ म्भ्त्_6.30
एवं कृते महासिद्धिं लभते नात्र संशयः ।
धनार्थी धनम् आप्नोति पुत्रार्थी पुत्रवान् भवेत् ॥ म्भ्त्_6.31
विवादे जयम् आप्नोति राजद्वारे जयी भवेत् ।
सर्वत्र विजयी भूत्वा देवीपुत्र इव क्षितौ ॥ म्भ्त्_6.32
रोगेभ्यो घोररूपेभ्यः पूजयित्वा प्रमुच्यते ।
इच्छासिद्धिर् भवेत् तस्य सर्वसिद्धिर् न चान्यथा ॥ म्भ्त्_6.33
कारागारगते देवि मुच्यते नात्र संशयः ।
प्रयोगं परमेशानि सारं परमदुर्लभम् ॥ म्भ्त्_6.34
अतिस्नेहेन देवेशि तव स्थाने प्रकाशितम् ।
अथवा परमेशानि पठेच् चण्डीं सनातनीम् ॥ म्भ्त्_6.35
पूजयेच् चण्डिकां देवीं सुगन्धिपुष्पसंयुतैः ।
धूपदीपेन गन्धेन नैवेद्येन सुरेश्वरि ॥ म्भ्त्_6.36
अवश्यं पञ्चतत्त्वेन पूजयेच् चण्डिकां पराम् ॥ म्भ्त्_6.37
आदाव् ऋष्यादिसूक्तेन चार्घ्यान्ते परमेश्वरि ।
पञ्चतत्त्वं समानीय शोधयेच् छास्त्रवित्तमः ॥ म्भ्त्_6.38
तर्पणं च ततः कृत्वा चार्घ्यपात्रे विनिक्षिपेत् ।
अर्घ्योदकेन संप्रोक्ष्य पूजयेत् पीठदेवताम् ॥ म्भ्त्_6.39
प्रणवं च समुद्धृत्य मायाबीजं ततः परम् ।
प्रभां मायां जयां सूक्ष्मां विशुद्धां नन्दिनीं तथा ॥ म्भ्त्_6.40
सुप्रभां विजयां सर्वसिद्धिदां परिपूजयेत् ।
वज्रनखदंष्ट्रायुधाय हूं फड् इत्यन्ततस् ततः ॥ म्भ्त्_6.41
नमो ऽन्तेन तु देवेशि आसनं च समर्चयेत् ।
गुरुपङ्क्तिं पूजयित्वा पुनर् ध्यानं समाचरेत् ॥ म्भ्त्_6.42
आवाहनं ततो मुद्रां जीवन्यासं प्रपूजनम् ।
षडङ्गेन तु सम्पूज्य परिवारान् प्रपूजयेत् ॥ म्भ्त्_6.43
शङ्खनिधिं पद्मनिधिं तथा ब्राह्म्यादिकं यजेत् ।
इन्द्रादींश् चैव वज्रादीन् पूजयेत् साधकोत्तमः ॥ म्भ्त्_6.44
प्रणवादिनमो ऽन्तेन पूजयेत् साधकोत्तमः ।
पुनर् देवीं महेशानि पञ्चतत्त्वेन पूजयेत् ॥ म्भ्त्_6.45
प्राणायामं ततः कृत्वा गुरुमन्त्रेष्टदेवताम् ।
ऐक्यं विभाव्य देवेशि मूलमन्त्रं जपेच् छतम् ॥ म्भ्त्_6.46
प्राणायामं ततः कृत्वा कारणादीन् समाहरेत् ।
तस्यै दत्त्वा स्वयं पीत्वा पठेच् चण्डीं सुरेश्वरि ॥ म्भ्त्_6.47
साङ्गे जाते तु माहात्म्ये पुनः पानं समाचरेत् ।
ततस् तु प्रपठेद् धीमान् क्रमेण पानम् आचरेत् ॥ म्भ्त्_6.48
समाप्ते तु विलोमेन पुनर् मन्त्रं शतं जपेत् ।
यदि भाग्यवशाद् देवि शक्तियोगं लभेन् नरः ॥ म्भ्त्_6.49
तत्क्षणे हि विजानीयात् सर्वसिद्धिः करे स्थिता ।
एवं कृत्वा महेशानि यदि पाठं समाचरेत् ॥ म्भ्त्_6.50
माहात्म्यं तस्य पाठस्य किं वक्तुं शक्यते मया ।
शतवक्त्रं यदि भवेत् तदा वक्तुं न शक्यते ॥ म्भ्त्_6.51
पञ्चवक्त्रेण देवेशि किं वक्तुं शक्यते ऽधुना ।
सकृत् पाठेन देवेशि किं पुनर् ब्रह्म केवलम् ॥ म्भ्त्_6.52
अवश्यं लभते शान्तिं सर्वत्र परमेश्वरि ।
यदि शान्तिं न लभते मम वाक्यं मृषा तदा ॥ म्भ्त्_6.53
षोडशेनोपचारेण प्रथमं पूजनं चरेत् ।
द्वितीये पञ्चतत्त्वेन पूजयेच् चण्डिकां प्रिये ॥ म्भ्त्_6.54
सहस्रावृत्तिपाठेन यत् फलं लभते नरः ।
सकृत् पाठस्य देवेशि कलां नार्हति षोडशीम् ॥ म्भ्त्_6.55
ध्यानम् अस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन् नरः ॥ म्भ्त्_6.56
ओं या चण्डी मधुकैटभादिदैत्यदलनी माहिषोन्मादिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिलक्ष्मीः परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥ म्भ्त्_6.57
ध्यानम् एतच् चण्डिकायाः शृणुष्व वीरवन्दिते ॥ म्भ्त्_6.58
शृणु मन्त्रं प्रवक्ष्यामि त्रैलोक्येषु च दुर्लभम् ।
वेदाद्यं वाग्भवं मायां कामबीजं ततः परम् ॥ म्भ्त्_6.59
स्थिरमायां महामायां कामबीजं ततो नमः ।
नवाक्षरं महामन्त्रं जपेद् आदौ शतं प्रिये ॥ म्भ्त्_6.60
विपरीतं महामन्त्रं पाठान्ते तु शतं जपेत् ।
शृणु देवि प्रवक्ष्यामि ऋषिच्छन्दः सुदुर्लभम् ॥ म्भ्त्_6.61
ओं सप्तशतीमहास्तोत्रस्य मेधातिथिऋषिर् गायत्र्यनुष्टुब्बृहतीपंक्तित्रिष्तुब्जगत्यश् छन्दांसि महाकालीमहालक्ष्मीमहासरस्वीदेवतास्तवकं ऐं ह्रीं क्लीं बीजानि क्ष्रौं शक्तिः ममामुककामसिद्ध्यर्थे विनियोगः ॥ म्भ्त्_6.62
प्रणवेन महेशानि षडङ्गन्यासम् आचरेत् ।
इति ते कथितं कान्ते चण्डीपाठस्य लक्षणम् ॥ म्भ्त्_6.63
सार्वणिः सूर्य इत्यादि सार्वणिर् भविता मनुः एतन्मात्रं पठेद् देवि किंचिन् न्यूनाधिकं न हि ॥ म्भ्त्_6.64
वारत्रयं पठेद् देवि संजप्य तु दिनत्रयम् ॥ म्भ्त्_6.65
महारोगे सहादुःखे राजपीडादिदारुणे ।
नाना व्याधिगते वापि राज्यनाशे तथा भये ॥ म्भ्त्_6.66
ग्रहपीडादिसंजाते ब्रह्महत्यादिपातके ।
एवं पाठेन देवेशि मुच्यते नात्र संशयः ॥ म्भ्त्_6.67
बहु किं कथ्यते देवि सर्वशान्तिं लभेन् नरः ।
सर्वशङ्काविनिर्मुक्तो जायते मदनोपमः ॥ म्भ्त्_6.68
एवं कृते महेशानि यदि सिद्धिर् न जायते ।
पुनस् तेनैव कर्तव्यं ततः सिद्धो भवेद् ध्रुवम् ॥ म्भ्त्_6.69
मातृकाभेदतन्त्र, सप्तमः पटलः
श्रीशिव उवाच ।
अथातः सम्प्रवक्ष्यामि त्रिपुरामन्त्रम् उत्तमम् ।
यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ म्भ्त्_7.1
त्रिपुरा त्रिविधा देवि बाला प्रोक्ता पुरा शिवे ।
तथैव भैरवी देवी नित्यातन्त्रे मयोदिता ।
इदानीं सुन्दरीं देवी शृणु पार्वति सादरम् ॥ म्भ्त्_7.2
श्रीदेव्य् उवाच ।
महामन्त्रं श्रुतं नाथ वामकेश्वरयामले ।
प्रातःकृत्यादि देवेश आराधनक्रमं वद ॥ म्भ्त्_7.3
श्रीशिव उवाच ।
प्रातर् उत्थाय मन्त्रज्ञः सहस्रारे निजं गुरुम् ।
पूर्वोक्तध्यानम् उच्चार्य पूजयेद् बहुयत्नतः ॥ म्भ्त्_7.4
तथा च श्रीगुरोर् ध्यानं गुप्तसाधनतन्त्रके ।
कथितं च मया पूर्वं मन्त्रं शृणु वरानने ॥ म्भ्त्_7.5
वाग्बीजं च महामायां विष्णुशक्तिं समुच्चरेत् ।
हसखफ्रें तथानन्दभैरवस्य मनुं ततः ॥ म्भ्त्_7.6
तस्य शक्तेर् मनुं पश्चात् ततश् चैवं हसौः स्मृतः ।
श्रीगुरोश् च तथा शक्तेर् मन्त्रम् एतत् सुरेश्वरि ॥ म्भ्त्_7.7
श्रीगुरोर् आनन्दनाथान्ते अथातः शक्तिर् ईरिता ।
वाग्बीजादीन् समुच्चार्य अमुकानन्दनाथ च ॥ म्भ्त्_7.8
श्रीपादुकां समुच्चार्य पूजयामि नमस् ततः ।
वाग्बीजं च शम्भुपत्नीं तदुत्तरे हरिप्रियाम् ॥ म्भ्त्_7.9
भूतबीजं समुच्चार्य प्रवदेच् च तदात्मकम् ।
समर्पयामि देवेशि पूजाविधिर् इति प्रिये ॥ म्भ्त्_7.10
ततश् चाष्टाक्षरं मन्त्रम् अष्टोत्तरशतं जपेत् ।
जपं समर्पयित्वा तु नमेद् अञ्जलिना प्रिये ॥ म्भ्त्_7.11
श्रीदेव्य् उवाच ।
स्तुतिं च कवचं नाथ श्रोतुम् इच्छामि साम्प्रतम् ।
श्रीगुरोः कवचं स्तोत्रं त्वया प्रोक्तं पुरा प्रभो ॥ म्भ्त्_7.12
इदानीं स्त्रीगुरोः स्तोत्रं कवचं मयि कथ्यताम् ।
यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ म्भ्त्_7.13
श्रीशिव उवाच ।
शृणु देवि प्रवक्ष्यामि स्तोत्रं परमगोपनम् ।
यस्य श्रवणमात्रेण संसारान् मुच्यते नरः ॥ म्भ्त्_7.14
नमस् ते देवदेवेशि नमस् ते हरपूजिते ।
ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ म्भ्त्_7.15
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
यया चक्षुर् उन्मीलितं तस्यै नित्यं नमो नमः ॥ म्भ्त्_7.16
भवबन्धनपारस्य तारिणी जननी परा ।
ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः ॥ म्भ्त्_7.17
श्रीनाथवामभागस्था सदा या सुरपूजिता ।
सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ म्भ्त्_7.18
सहस्रारे महापद्मे सदानन्दस्वरूपिणी ।
महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ म्भ्त्_7.19
ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी ।
त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ म्भ्त्_7.20
चन्द्रसूर्याग्निरूपा च सदाघूर्णितलोचना ।
स्वनाथं च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ म्भ्त्_7.21
ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी ।
ज्ञानविज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ म्भ्त्_7.22
इदं स्तोत्रं महेशानि यः पठेद् भक्तिसंयुतः ।
स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ म्भ्त्_7.23
प्रातःकाले पठेद् यस् तु गुरुपूजापुरःसरम् ।
स एव धन्यो लोके ऽस्मिन् देवीपुत्र इव क्षितौ ॥ म्भ्त्_7.24
श्रीशङ्कर उवाच ।
स्तोत्रं समाप्तं देवेशि कवचं शृणु सादरम् ।
यस्य श्रवणमात्रेण वागीशसमतां व्रजेत् ॥ म्भ्त्_7.25
स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः ।
तदाख्या देवता प्रोक्ता चतुर्वर्गफलप्रदा ॥ म्भ्त्_7.26
क्लीं बीजं मे शिरः पातु तद् आख्यातं ललाटकम् ।
क्लीं बीजं चक्षुषोः पातु सर्वाङ्गं मे सदावतु ॥ म्भ्त्_7.27
ऐं बीजं मे मुखं पातु ह्रीं जङ्घां परिरक्षतु ।
श्रीं बीजं स्कन्धदेशं मे वाग्भवं मे भुजद्वयम् ॥ म्भ्त्_7.28
हकारं मे दक्षभुजं क्षकारं वामहस्तकम् ।
क्षमणौ तदधः पातु लकारं हृदयं मम ॥ म्भ्त्_7.29
रकारं पृष्ठदेशं च रकारं दक्षपार्श्वकम् ।
जूङ्कारं वामपार्श्वे तु सकारं मेरुम् एव तु ॥ म्भ्त्_7.30
मकारं चाङ्गुलीः पातु लकारं मे नखोपरि ।
वकारं मे नितम्बं च रकारं जानुयुग्मकम् ॥ म्भ्त्_7.31
यीःकारं पादयुगलं हसौः सर्वाङ्गम् एव तु ।
हसौर् लिङ्गं च लोमं च केशं च परिरक्षतु ॥ म्भ्त्_7.32
ऐं बीजं पातु पूर्वे तु ह्रीं बीजं दक्षिणे ऽवतु ।
श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ म्भ्त्_7.33
श्रीं पातु चाग्निकोणे च तदाख्यां नैरृते ऽवतु ।
देव्य् अम्बा पातु वायव्यां शम्भोः श्रीपादुकां तथा ॥ म्भ्त्_7.34
पूजयामि तथा चोर्ध्वं नमश् चाधः सदावतु ।
इति ते कथितं कान्ते कवचं परमाद्भुतम् ॥ म्भ्त्_7.35
गुरुमन्त्रं जपित्वा तु कवचं प्रपठेद् यदि ।
स सिद्धः सगणः सो ऽपि शिवः साक्षान् न संशयः ॥ म्भ्त्_7.36
पूजाकाले पठेद् यस् तु कवचं मन्त्रविग्रहम् ।
पूजाफलं भवेत् तस्य सत्यं सत्यं सुरेश्वरि ॥ म्भ्त्_7.37
त्रिसंध्यं यः पठेद् देवि स सिद्धो नात्र संशयः ॥ म्भ्त्_7.38
भूर्जे विलिख्य गुटिकां स्वर्णस्था धारयेद् यदि ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ म्भ्त्_7.39
विवादे जयम् आप्नोति रणे च निरृतिर् इव ।
सभायां जयम् आप्नोति मम तुल्यो न संशयः ॥ म्भ्त्_7.40
सहस्रारे भावयं स्तां त्रिसन्ध्यं प्रपठेद् यदि ।
स एव सिद्धो लोकेशो निर्वाणपदम् ईहते ॥ म्भ्त्_7.41
समस्तमङ्गलं नाम कवचं परमाद्भुतम् ।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ म्भ्त्_7.42
देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् ।
अभक्तेभ्यो ऽपि देवेशि पुत्रेभ्यो ऽपि न दर्शयेत् ॥ म्भ्त्_7.43
इदं कवचम् अज्ञात्वा दशविद्यां च यो जपेत् ।
स नाप्नोति फलं तस्य परे च नरकं व्रजेत् ॥ म्भ्त्_7.44
समाप्तं कवचं देवि किम् अन्यच् छ्रोतुम् इच्छसि ।
तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ म्भ्त्_7.45
कूर्चबीजं समुच्चार्य प्राणमन्त्रं ततः प्रिये ।
अनेन वायुयोगेन कुण्डलीचक्रं संचरेत् ॥ म्भ्त्_7.46
अष्टोत्तरशतं मूलमन्त्रं जप्त्वा नमेत् सुधीः ।
स्नानकर्म ततः कृत्वा संध्यां कुर्यात् पुरोदिताम् ॥ म्भ्त्_7.47
श्रीदेव्य् उवाच ।
संध्यायाः कीदृशं ध्यानं वद मे परमेश्वर ।
श्रीविद्याविषये नाथ विशेषो मयि कथ्यताम् ॥ म्भ्त्_7.48
श्रीशिव उवाच ।
ध्यायेच् च सुन्दरीं देवीं त्रिविधां बीजरूपिणीम् ।
प्रभाते वाग्भवां देवी मध्याह्ने मदनात्मिकाम् ॥ म्भ्त्_7.49
सायाह्ने शक्तिरूपां च त्रिविधां बिन्दुरूपिणीम् ।
पूजाकाले महादेवीं ध्यानानुरूपिणीं शिवाम् ॥ म्भ्त्_7.50
वाग्भवेनेन्दुसदृशां शुक्लवर्णां विचिन्तयेत् ।
शक्तिबीजं स्वर्णवर्णं रक्तवर्णां विभावयेत् ॥ म्भ्त्_7.51
प्रभाते शुक्लवर्णाभां मध्याह्ने नीलसंनिभाम् ।
सायाह्ने रक्तवर्णाभां भावयेत् साधकोत्तमः ॥ म्भ्त्_7.52
एवं ध्यात्वा महेशानि संध्यां कुर्याद् विचक्षणः ।
शिवपूजां ततः कृत्वा पूजयेत् परदेवताम् ॥ म्भ्त्_7.53
ततस् तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् ।
त्रिपुरा परमा विद्या महाविद्या पतिव्रता ॥ म्भ्त्_7.54
पतिपूजां विना पूजां न गृह्णाति कदाचन ।
अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् ॥ म्भ्त्_7.55
पञ्चाक्षरं पञ्चवक्त्रं पूजयेद् बहुयत्नतः ।
ततस् तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् ॥ म्भ्त्_7.56
श्रीदेव्य् उवाच ।
किमाधारे यजेच् छम्भुं कृपया वद शंकर ।
आधारभेदे देवेश साधकः फलभाग् भवेत् ॥ म्भ्त्_7.57
श्रीशंकर उवाच ।
पूजयेत् पार्थिवे लिङ्गे पाषाणे लिङ्गके तथा ।
स्वर्णलिङ्गे ऽथवा देवि रौप्ये ताम्रे च कांस्यके ॥ म्भ्त्_7.58
पारदे वाथ गङ्गायां स्फाटिके मारकते ऽपि वा ।
कार्यभेदे लौहलिङ्गे भस्मनिर्माणलिङ्गके ॥ म्भ्त्_7.59
वालुकानिर्मिते लिङ्गे गोमये वाथ पूजयेत् ।
पार्थिवे पूजनं देवि तोडलाख्ये मयोदितम् ॥ म्भ्त्_7.60
संस्कारेण विना देवि पाषाणादौ न पूजयेत् ।
संस्कारं च प्रवक्ष्यामि विशेष इह यद् भवेत् ॥ म्भ्त्_7.61
रौप्यं च स्वर्णलिङ्गं च स्वर्णपात्रे निधाय च ।
तस्माद् उत्तोल्य तं लिङ्गं दुग्धमध्ये दिनत्रयम् ॥ म्भ्त्_7.62
त्र्यम्बकेण स्थापयित्वा कालरुद्रं प्रपूजयेत् ।
षोडशेनोपचारेण वेद्यान् तु पार्वतीं यजेत् ॥ म्भ्त्_7.63
तस्माद् उत्तोल्य तं लिङ्गं गङ्गातोये दिनत्रयम् ।
ततो वेदोक्तविधिना संस्कारम् आचरेत् सुधीः ॥ म्भ्त्_7.64
श्रीचण्डिकोवाच ।
लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो ।
पार्थिवे च शिलादौ च विशेषो यदि वा भवेत् ॥ म्भ्त्_7.65
श्रीशिव उवाच ।
मृत्तिकातोलकं ग्राह्यम् अथवा तोलकद्वयम् ।
एतदन्यं न कर्तव्यं कदाचिद् अपि पार्वति ॥ म्भ्त्_7.66
शिलादौ परमेशानि स्थूलं च फलदायकम् ।
अङ्गुष्ठमानं देवेशि यद् वा हेमाद्रिमानकम् ॥ म्भ्त्_7.67
एवं क्रमेण देवेशि फलं बहुविधं लभेत् ।
स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ॥ म्भ्त्_7.68
पूजनाद् धारणाद् देवि फलं बहुविधं स्मृतम् ॥ म्भ्त्_7.69
मातृकाभेदतन्त्र, अष्टमः पटलः
श्रीदेव्य् उवाच ।
शृणु नाथ परानन्द परापरकुलात्मक ।
त्वां विना त्राणकर्ता च मम ज्ञाने न वर्तते ॥ म्भ्त्_8.1
पूर्णलिङ्गं महेशान शिवबीजं न चान्यथा ।
शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ म्भ्त्_8.2
पारदस्य शतांशैकं मम ज्ञाने न वर्तते ।
शिवबीजं महादेव शिवरूपं न चान्यथा ।
लिङ्गरूपं कथं देव तद् वदस्व मयि प्रभो ॥ म्भ्त्_8.3
श्रीशिव उवाच ।
यथा ज्योतिर्मयं लिङ्गं कैलासशिखरे मम ।
तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः ॥ म्भ्त्_8.4
पूर्णलिङ्गं महेशानि शिवबीजं न चान्यथा ।
शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ म्भ्त्_8.5
पारदस्य शतांशैकं लक्ष्मीनारायणं न हि ।
पकारं विष्णुरूपं च आकारं कालिका तथा ॥ म्भ्त्_8.6
रेफं शिवं दकारं च ब्रह्मरूपं न चान्यथा ।
पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ॥ म्भ्त्_8.7
यो यजेत् पारदं लिङ्गं स एव शम्भुर् अव्ययः ।
स एव धन्यो देवेशि स ज्ञानी स तु तत्त्ववित् ॥ म्भ्त्_8.8
स ब्रह्मवेत्ता स धनी स राजा भुवि पूजितः ।
अणिमादिविभूतीनाम् ईश्वरः साधकोत्तमः ॥ म्भ्त्_8.9
स्त्रियः स्वभावचपला गोपितुं न हि शक्यते ।
अत एव हि देवेशि विरता भव पार्वति ॥ म्भ्त्_8.10
श्रीदेव्य् उवाच ।
कथयस्व कृपानाथ करुणा यदि वर्तते ।
तव वाक्यं विना देव क्व मुक्तिः क्व च साधुता ॥ म्भ्त्_8.11
श्रीशिव उवाच ।
पारदं शिवबीजं हि ताडनं न हि कारयेत् ।
ताडनाद् वित्तनाशः स्यात् ताडनात् सुतहीनता ।
ताडनाद् रोगयुक्तः स्यात् ताडनान् मरणं भवेत् ॥ म्भ्त्_8.12
श्रीदेव्य् उवाच ।
एतद् विघ्नादिकं नाथ सत्यम् एव न संशयः ।
विघ्नादिरहितं नाथ कथयस्व दयानिधे ॥ म्भ्त्_8.13
श्रीशिव उवाच ।
पारदे शिवनिर्माणे नानाविघ्नं यतः शिवे ।
अत एव हि तत्रादौ शान्तिस्वस्त्ययनं चरेत् ॥ म्भ्त्_8.14
द्वादशं पार्थिवं लिङ्गम् उपचारैश् च षोडशैः ।
पट्टादिसूत्रनिर्माणं रचितं शुक्लम् एव वा ॥ म्भ्त्_8.15
पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ।
भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ म्भ्त्_8.16
अलंकारं यथाशक्ति दद्यात् कल्याणहेतवे ।
पूजयेद् बहुयत्नेन बिल्वपत्त्रेण पार्वति ॥ म्भ्त्_8.17
तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् ।
आदौ पञ्चाक्षरं मन्त्रम् अष्टोत्तरशतं जपेत् ॥ म्भ्त्_8.18
पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् ।
दक्षिणान्तं समाचर्य हविष्याशी जितेन्द्रियः ॥ म्भ्त्_8.19
ताम्बूलं च तथा मत्स्यं वर्जयेन् न कदाचन ।
अस्मिंस् तन्त्रे हविष्यान्नं ताम्बूलं मीनम् उत्तमम् ॥ म्भ्त्_8.20
होमयेत् परमेशानि दशांशं वा शतांशम् ।
होमस्य दक्षिणा कार्या तदा विघ्नैर् न लिप्यते ॥ म्भ्त्_8.21
ततः परस्मिन् दिवसे पारदम् आनयेद् बुधः ।
तस्योपरि जपेन् मन्त्रं सर्ववन्द्यनवात्मकम् ॥ म्भ्त्_8.22
व्योमबीजं शिवान्तं च वर्गाद्यं बिन्दुमस्तकम् ।
वायुबीजं च त्रितयं त्रितयं त्र्यम्बकं प्रिये ॥ म्भ्त्_8.23
इमं मन्त्रं महेशानि प्रजपेद् औषधोपरि ।
पारदे प्रजपेन् मन्त्रम् अष्टोत्तरशतं यदि ॥ म्भ्त्_8.24
तद् एवौषधयोगेन बद्धो भवति नान्यथा ॥ म्भ्त्_8.25
ततः परस्मिन् दिवसे शृणु मत्प्राणवल्लभे ।
वरयेत् कर्मकर्तारं यथोक्तविभवावधि ॥ म्भ्त्_8.26
सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् ।
चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥ म्भ्त्_8.27
हस्तद्वये महेशानि दद्याद् वलययुग्मकम् ।
वलयं शुक्लवर्णं च अङ्गरीयं तथैव च ॥ म्भ्त्_8.28
ऊर्मिं दद्यात् पीतवस्त्रं क्षौमवस्त्रयुगं शिवे ।
एवं कृत्वा महेशानि शिवरूपं विचिन्तयेत् ॥ म्भ्त्_8.29
अथातः सम्प्रवक्ष्यामि विधानं शृणु पार्वति ।
प्रस्तरे चैव संस्थाप्य झिण्टीपत्त्ररसेन च ।
प्रस्तरेण समालोड्य कुर्यात् कर्दमवत् प्रिये ॥ म्भ्त्_8.30
निर्माणयोग्यं तत्रैव यदि स्यात् सुरसुन्दरि ।
तदा निर्माय तं लिङ्गं पुनर् दृढतरं चरेत् ॥ म्भ्त्_8.31
स्वपुष्पसंयुते वस्त्रे अङ्गारे च करीषके ।
किंचिद् उष्णं प्रकर्तव्यं यतो दृढतरो भवेत् ॥ म्भ्त्_8.32
ततो निर्माय तं लिङ्गं पुनर् दृढतरं चरेत् ।
स्वपुष्पसंयुते वस्त्रे स्थापयेत् पार्थिवे पुनः ॥ म्भ्त्_8.33
किंचिद् उष्णं प्रकर्तव्यं यावद् दृढतरो भवेत् ।
विना ह्य् औषधयोगेन भस्म भवति नान्यथा ॥ म्भ्त्_8.34
मातृकाभेदतन्त्र, नवमः पटलः
श्रीशिव उवाच ।
भस्मप्रकारं देवेशि शृणु मत्प्राणवल्लभे ।
कर्तारं वरयेद् आदौ यथोक्तविभवावधि ॥ म्भ्त्_9.1
सुवर्णं मौक्तिकयुतं कर्णयुग्मे निवेदयेत् ।
हस्तयुग्मे च वलयम् अङ्गुरीयं तथैव च ॥ म्भ्त्_9.2
तोढद्वयं बाहुयुग्मे शुद्धकाञ्चननिर्मितम् ।
ग्रीवायां दापयेत् स्वर्णं चतुष्कोणं मनोरमम् ॥ म्भ्त्_9.3
वस्त्रयुग्मं पट्टसूत्रनिर्मितं च सुशोभनम् ।
उष्णीषं शुक्लवर्णं च उष्णीषं पीतवाससम् ॥ म्भ्त्_9.4
एवं हि वरयेद् देवि कर्मयोग्यं विचिन्तयेत् ।
चिन्तयेच् छिवरूपं च चिन्तयेत् त्रिगुणात्मकम् ॥ म्भ्त्_9.5
ततः परस्मिन् दिवसे शान्तिस्वस्त्ययनं चरेत् ।
निर्मितं शुद्धस्वर्णेन बिल्वपत्त्रेण सुन्दरि ॥ म्भ्त्_9.6
सहस्रसङ्ख्यया देवि पार्थिवं द्वादशं यजेत् ।
षोडशेनोपचारेण पट्टवस्त्रयुगेन च ॥ म्भ्त्_9.7
अलंकारविचित्रैश् च पूजयेत् परमेश्वरम् ।
भोगयोग्यं प्रदातव्यं मधुपर्कं निवेदयेत् ॥ म्भ्त्_9.8
स्वर्णासनेन संस्थाप्य प्रत्येकं पूजनं चरेत् ।
पूजान्ते प्रजपेन् मन्त्रम् अष्टोत्तरशतं सुधीः ॥ म्भ्त्_9.9
षडक्षरं महामन्त्रं प्रासादाख्यं मनुं ततः ।
दिक्सहस्रं जपेन् मन्त्रं तद्दशांशं हुनेत् प्रिये ॥ म्भ्त्_9.10
होमस्य द्रव्यं देवेशि शृणु मत्प्राणवल्लभे ।
वालुकानिर्मिते वापि कुण्डे वा परमेश्वरि ॥ म्भ्त्_9.11
द्वात्रिंशदङ्गुलिमानं विस्तृतं तत्समं प्रिये ।
षोडशाङ्गुलिमानं हि कुण्डं कुर्यात् सुलक्षणम् ॥ म्भ्त्_9.12
तदूर्ध्वे परमेशानि वेदनेत्राङ्गुलिं शिवे ।
एव हि स्वर्णकुम्भं च ताम्रकुम्भासमर्थिना ॥ म्भ्त्_9.13
एतद् अन्यतरं कुम्भं स्थापयेद् वेदिकोपरि ।
पट्टवस्त्रेण युग्मेन संवेष्ट्य बहुयत्नतः ॥ म्भ्त्_9.14
होमयेद् बिल्वपत्त्रेण यथोक्तेन सुरेश्वरि ।
त्रिमध्वक्तेन विधिना ततः सिद्धो भवेद् ध्रुवम् ॥ म्भ्त्_9.15
ततस् तु दक्षिणा कार्या यथोक्तविभवावधि ।
सर्वद्रव्यमयं मूल्यं द्विगुणं वा प्रदापयेत् ॥ म्भ्त्_9.16
दक्षिणाविहीना यज्ञाः सिद्धिदा न च मोक्षदाः ।
अत एव महेशानि दक्षिणा विभवावधि ॥ म्भ्त्_9.17
वराहवत् समानीय जन्ममात्रे ऽपि सुन्दरि ।
पारदं तोलकं मानं भक्षयेद् बहुयत्नतः ॥ म्भ्त्_9.18
पुनस् तोलकमानं हि मातृदुग्धं ततः परम् ।
पुनश् च भक्षयेद् धीमांस् ततो दुग्धं तु भक्षयेत् ॥ म्भ्त्_9.19
ततश् च वत्सम् आनीय नवद्वारं प्रयत्नतः ।
सूत्रयोगेण देवेशि बद्धं कुर्यात् प्रयत्नतः ॥ म्भ्त्_9.20
ततश् च हेलकीमन्त्रम् अष्टोत्तरशतं जपेत् ।
गजप्रमाणं देवेशि दीर्घप्रस्थं तु खातकम् ॥ म्भ्त्_9.21
करीषकेण देवेशि पूर्णं कुर्याद् विचक्षणः ।
तन्मध्ये स्थापयेद् वत्सं संदहेद् बहुयत्नतः ॥ म्भ्त्_9.22
वह्निस्थिते महेशानि न स्पृशेत् कुण्डम् उत्तमम् ।
कुण्डे सुशीतले जात उत्थाप्य बहुयत्नतः ॥ म्भ्त्_9.23
सर्वप्रकाशकं मन्त्रम् अष्टोत्तरशतं जपेत् ।
विश्वेश्वरं प्रवक्ष्यामि शृणु पार्वति सादरम् ॥ म्भ्त्_9.24
पारदं तोलकं मानं ताम्रपात्रे तु लेपयेत् ।
चूर्णं कुर्यान् महेशानि गन्धकं सार्धं तोलकम् ॥ म्भ्त्_9.25
समाच्छाद्य प्रयत्नेन चूर्णेन परमेश्वरि ।
संदहेद् बहुयत्नेन मन्दमन्देन वह्निना ॥ म्भ्त्_9.26
कृष्णवर्णं रेणुयुतं दृष्ट्वा उत्थाप्य सुन्दरि ।
रत्तिप्रमाणं तद् द्रव्यं भक्षयेद् यदि सुन्दरि ॥ म्भ्त्_9.27
सत्यं सत्यं सर्वकुष्ठं भक्षणान् नाशम् आप्नुयात् ।
अनुपानम् उष्णतोयं मत्स्यादीन् परिवर्जयेत् ॥ म्भ्त्_9.28
एवं प्रयोगं देवेशि न कुर्यात् पुत्रवान् गृही ।
प्रथमे दिवसे पुत्रान् द्वितीये दिवसे धनम् ॥ म्भ्त्_9.29
तृतीये दिवसे शक्तिं चतुर्थे दिवसे गृहम् ।
पञ्चमे दिवसे रोगं नाशं तु जायते ध्रुवम् ॥ म्भ्त्_9.30
अत एव महेशानि आत्मस्वस्त्ययनं चरेत् ।
पूर्वोक्तविधिना मन्त्री चतुर्गुणं समाचरेत् ॥ म्भ्त्_9.31
मातृकाभेदतन्त्र, दशमः पटलः
श्रीदेव्य् उवाच ।
नराकृतिं गुरुं नाथ मन्त्रं वर्णात्मकं तथा ।
ध्यानानुरूपिणं देवम् एकत्वं वा कथं वद ॥ म्भ्त्_10.1
श्रीशिव उवाच ।
गुरुवक्त्रान् महामन्त्रो लभ्यते साधकोत्तमैः ।
यद्य् एको जायते वीर्यस् तस्य मूर्तिर् भवेद् ध्रुवम् ॥ म्भ्त्_10.2
देवतायाः शरीरं च बीजाद् उत्पद्यते प्रिये ।
गुरोर् आज्ञानुसारेण चान्यमूर्तिस् तु जायते ॥ म्भ्त्_10.3
गुर्वादिभावनाद् देवि भावसिद्धिः प्रजायते ।
अत एव महेशानि चैकत्वं परिकथ्यते ॥ म्भ्त्_10.4
श्रीदेव्य् उवाच ।
यच् चाक्षुषं महादेव तदाकरं विचिन्तयेत् ।
अचाक्षुषे महादेव ध्यानं वा कीदृशं भवेत् ॥ म्भ्त्_10.5
श्रीशिव उवाच ।
शब्दब्रह्ममयं देवि मम वक्त्राद् विनिर्गतम् ।
आकाररहिते देवि यथा ध्यानादिकं भवेत् ॥ म्भ्त्_10.6
तथैवोच्चारणेनैव भक्तियुक्तेन चेतसा ।
सत्यं सत्यं महेशानि प्रत्यक्षं नात्र संशयः ॥ म्भ्त्_10.7
श्रीदेव्य् उवाच ।
पशुप्रदाने वाक्यं तु कीदृशं वद शंकर ।
येन वाक्येन देवेश देवी तुष्टा भवत्य् अपि ॥ म्भ्त्_10.8
श्रीशिव उवाच ।
मृगे महिषे चोष्ट्रे च पशुशब्दं न योजयेत् ।
छागले च तथा सिंहे व्याघ्रे च परमेश्वरि ॥ म्भ्त्_10.9
पशुशब्दं योजयित्वा महादेव्यै निवेदयेत् ।
पशुभावस्थितो मन्त्री महिषो दीयते यदि ॥ म्भ्त्_10.10
बलिदानं प्रकर्तव्यं न मांसं भक्षयेन् नरः ।
सम्यक् फलं न लभते दशांशं लभते प्रिये ॥ म्भ्त्_10.11
महिषादि प्रदातव्यं दिव्यवीरमते स्थितः ।
स एव सिद्धिम् आप्नोति फलं सम्यक् प्रियंवदे ॥ म्भ्त्_10.12
पशुदानं विना देवि पूजयेन् न कदाचन ।
तथा च नित्यपूजायां यदि शक्तो भवेन् नरः ॥ म्भ्त्_10.13
केवलं बलिदानेन सिद्धो भवति नान्यथा ।
निर्धनः परमेशानि यदि पूजादिकं चरेत् ॥ म्भ्त्_10.14
वत्सरान्ते प्रदातव्यं बलिम् एकं सुरेश्वरि ।
अन्यथा नैव सिद्धिः स्याद् आजन्म पूजनाद् अपि ॥ म्भ्त्_10.15
बलिदानं महायज्ञं कलिकाले च चण्डिके ।
अश्वमेधादिकं यज्ञं कलौ नास्ति सुरेश्वरि ॥ म्भ्त्_10.16
केवलं बलिदानेन चाश्वमेधफलं भवेत् ।
यज्ञावशेषं यद् द्रव्यं भोजनीयं न चान्यथा ॥ म्भ्त्_10.17
यज्ञावशेषभोगेन स यज्ञी नात्र संशयः ।
मूल पाठ: Mātṛkābhedatantra · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0