भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 76

76.1

इति श्रीमार्कण्डेयपुराणे रैवतमन्वन्तरे पञ्चसप्ततितमो ऽध्यायः
षट्सप्ततितमो ऽध्यायः- 76
मार्कण्डेय उवाच
इत्येतत् कथितं तुभ्यं पञ्च मन्वन्तरं तव ।
चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम्

76.2

अन्यजन्मनि जातो ऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज

76.3

जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः ।
परिष्वजति हार्देन पुनरुल्लापयत्यथ

76.4

जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः ।
जहास तं तदा माता संक्रुद्धा वाक्यमब्रवीत्

76.5

भीतास्मि किमिदं वत्स ! हासो यद्वदने तव ।
अकालबोधः सञ्जातः कच्चित् पश्यसि शोभनम्

76.6

पुत्र उवाच
मामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि ।
अन्तर्धानगता चेयं द्वितीया जातहारिणी

76.7

पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती ।
उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः

76.8

उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा ।
ततो ममागतो हासः शृणु चाप्यत्र कारणम्

76.9

स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते ।
तथान्तर्धानगा चैव द्वितीया जातहारिणी

76.10

स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि ।
प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे

76.11

किन्तु मदुपभोगाय मार्जारी जातहारिणी ।
त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि

76.12

न मां जानासि को ऽप्येष न चैवापकृतं मया ।
सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम्

76.13

तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति ।
तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम्

76.14

मातोवाच
न त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे ।
न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया

76.15

स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ।
इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात्

76.16

जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् ।
जहार तं परित्यक्तं सा तदा जातहारिणी

76.17

सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः ।
प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम्

76.18

तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् ।
तृतीयं भक्षयामास सा क्रमाज्जातहारिणी

76.19

हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा ।
करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः

76.20

विक्रान्तो ऽपि ततस्तस्य सुतस्यैव महीपतिः ।
कारयामास संस्कारान् राजन्यस्य भवन्ति ये

76.21

आनन्देति च नामास्य पिता चक्रे विधानतः ।
मुदा परमया युक्तो विक्रान्तः स नराधिपः

76.22

कृतोपनयनं तन्तु गुरुराह कुमारकम् ।
जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम्

76.23

स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् ।
वन्द्या मे कतमा माता जननी पालनी नु किम्

76.24

गुरुरुवाच
न त्वियं ते महाभाग ! जनयित्री रुथात्मजा ।
विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः

76.25

आनन्द उवाच
इयं जनित्री चैत्रस्य विशालग्रमवासिनः ।
विप्राग्र्यबोधपुत्रस्य यो ऽस्यां जातो ऽन्यतो वचम्

76.26

गुरुरुवाच
कुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते ।
सङ्कटं महदाभाति क्व जातो ऽत्र ब्रवीषि किम्

76.27

आनन्द उवाच
जातो ऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज ।
तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी

76.28

तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।
बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः

76.29

भक्षयामास च सुतं तस्य बोधद्विजन्मनः ।
स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः

76.30

वयमत्र महाभाग ! संस्कृता गुरुणा त्वया ।
मया तव वचः कार्यमुपैमि कतमां गुरो

76.31

गुरुरुवाच
अतीव गहनं वत्स ! सङ्कटं महदागतम् ।
न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः

76.32

आनन्द उवाच
मोहस्यावसरः को ऽत्र जगत्येवं व्यवस्थिते ।
कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः

76.33

आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः ।
अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः

76.34

अत्रापि जातस्य सतः सम्बन्धोयो ऽस्य बान्धवैः ।
सो ऽप्यस्तङ्गते देहे प्रयात्येषो ऽखिलक्रमः

76.35

अतो ब्रवीमि संसारे वसतः को न बान्धवः ।
को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः

76.36

पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ।
मातृद्वयञ्च किञ्चित्रं यदन्यद् देहसम्भवे

76.37

सो ऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः ।
विशालग्रामतः पुत्रश्चैत्र आनीयतामिह

76.38

मार्कण्डेय उवाच
ततः स विस्मितो राजा सभार्यः सह बन्धुभिः ।
तस्मान्निवर्त्य ममतामनुमेने वनाय तम्

76.39

चैत्रमानीय तनयं राज्ययोग्यं चकार सः ।
संमान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः

76.40

सो ऽप्यानन्दस्तपस्तेपे बाल एव महावने ।
कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम्

76.41

तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः ।
किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत्

76.42

आनन्द उवाच
आत्मनः शुद्धिकामो ऽहं करोमि भगवंस्तपः ।
बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः

76.43

ब्रह्मोवाच
क्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् ।
सत्त्वाधिकारवान् मुक्तिमवाप्स्यति ततो भवान्

76.44

भवता मनुना भाव्यं षष्ठेन व्रज तत् कुरु ।
अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि

76.45

मार्कण्डेय उवाच
इत्युक्तो ब्रह्मणा सो ऽपि तथेत्युक्त्वा महामतिः ।
तत्कर्माभिमुखो यातस्तपसो विरराम ह

76.46

चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः

76.47

उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः ।
तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान्

76.48

तस्य मन्वन्तरेशस्य ये ऽन्तरे त्रिदशा द्विज ।
ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु

76.49

आप्या नाम सुरास्तत्र तेषामेको ऽष्टको गणः ।
प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम्

76.50

प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् ।
द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः

76.51

तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।
चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः

76.52

लेखसंज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज ।
पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः

76.53

शतं क्रतूनामाहृत्य यस्तेषामधिपो ऽभवत् ।
मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक्

76.54

सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः

76.55

ऊरु-पुरु-शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयो ऽभवन्

76.56

एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज ।
चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः

76.57

साम्प्रतं वर्तते यो ऽयं नाम्ना वैवस्वतो मनुः ।
सप्तमीये ऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे

76.58

य इदं कीर्तयेद् धीमान् चाक्षुषस्यान्तरं भुवि ।
शृणुते च लभेत् पुत्रानारोग्यसुखसम्पदम्

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc