भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 65

65.1

इति श्रीमार्कण्जडेयपुराणेठस्वारोचिषे मन्वन्तरेऽ चतुः षष्टितमो ऽध्यायः
पञ्चषष्टितमो ऽध्यायः- 65
मार्कण्डेय उवाच
ततः स ताभिः सहितः पत्नीभिरमरद्युतिः ।
रराम तस्मिन् शैलेन्द्रे रम्यकानननिर्झरे

65.2

सर्वोपभोगरत्नानि मधूनि मधुराणि च ।
निधयः समुपाजह्रुः पद्मिन्या वशवर्तिनः

65.3

स्त्रजो वस्त्राण्यलङ्कारान् गन्धाढ्यमनुलेपनम् ।
आसनान्यतिशुभ्राणि काञ्चनानि यथेच्छया

65.4

सौवर्णानि महाभाग ! करकान् भाजनानि च ।
तथा शय्याश्च विविधा दिव्यैरास्तरणैर्युताः

65.5

एवं स ताभिः सहितो दिव्यगन्धाधिवासिते ।
रराम स्वरुचिर्भाभिर्भासिते वरपर्वते

65.6

ताश्चापि सह तेनेति लेभिरे मुदमुत्तमाम् ।
रममाणा यथा स्वर्गे तथा तत्र शिलोच्चये

65.7

कलहंसी जगादैकां चक्रवाकीं जले सतीम् ।
तस्य तासाञ्च ललिते सम्बन्धे च स्पृहावती

65.8

धन्यो ऽयमतिपुण्यो ऽयं यो ऽय यौवनगोचरः ।
दयिताभिः सहैताभिर्भुङ्क्ते भोगानभीप्सितान्

65.9

सन्ति यौवनिनः श्लाघ्यास्तत्पत्न्यो नातिशोभनाः ।
जगत्यामल्पकाः पत्न्यः पतयश्चातिशोभनाः

65.10

अभीष्टा कस्यचित् कान्ता कान्तः कस्याश्चिदीप्सितः ।
परस्परानुरागाढ्यं दाम्पत्यमतिदुर्लभम्

65.11

धन्यो ऽयं दयिताभीष्टो ह्येताश्चास्यातिवल्लभाः ।
परस्परानुरागो हि धन्यानामेव जायते

65.12

एतन्निशम्यवचनं कलहंसीसमीरितम् ।
उवाच चक्रवाकी तां नातिविस्मितमानसा

65.13

नायं धन्यो यतो लज्जा नान्यस्त्रीसन्निकर्षतः ।
अन्यां स्त्रियमयं भुङ्क्ते न सर्वास्वस्य मानसम्

65.14

चित्तानुराग एकस्मिन्नधिष्ठाने यतः सखि ।
ततो हि प्रीतिमानेष भार्यासु भविता कथम्

65.15

एता न दयिताः पत्युर्नैतासां दयितः पतिः ।
विनोदमात्रमेवैता यथा परिजनो ऽपरः

65.16

एतासाञ्च यदिष्टो ऽयं तत् किं प्राणान्न मुञ्चति ।
आलिङ्गत्यपरां कान्तां ध्यातो वै कान्तयान्यया

65.17

विद्याप्रदानमूल्येन विक्रीतो ह्येष भृत्यवत् ।
प्रवर्तते न हि प्रेम समं बह्वीषु तिष्ठति

65.18

कलहंसि ! पतिर्धन्यो मम धन्याहमेव च ।
यस्यैकस्याञ्चिरं चित्तं यस्याश्चैकत्र संस्थितम्

65.19

सर्वसत्त्वरुतज्ञो ऽसौ स्वरोचिरपराजितः ।
निशम्य लज्जितो दध्यौ सत्यमेव हि नानृतम्

65.20

ततो वर्षशते याते रममाणो महागिरौ ।
रममाणः समं ताभिर्ददर्श पुरतो मृगम्

65.21

सुस्निग्धपीनावयवं मृगयूथविहारिणम् ।
वासिताभिः सुरूपाभिर्मृगीभिः परिवारितम्

65.22

आकृष्टघ्राणपुटका जिघ्रन्तीस्तास्ततो मृगीः ।
उवाच स मृगो रामा लज्जात्यागेन गम्यताम्

65.23

नाहं स्वरोचिस्तच्छीलो न चैवाहं सुलोचनाः ।
निर्लज्जा बहवः सन्ति तादृशास्तत्र गच्छतः

65.24

एका त्वनेकानुगता यथा हासास्पदं जने ।
अनेकाभिस्तथैवैको बोगदृष्ट्या निरीक्षितः

65.25

तस्य धर्मक्रियाहानिरहन्यहनि जायते ।
सक्तो ऽन्यभार्यया चान्यकामासक्तः सदैव सः

65.26

यस्तादृशो ऽन्यस्तच्छीलः परलोकपराङ्मुखः ।
तं कामयत भद्रं वो नाहं तुल्यः स्वरोचिषा

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc