भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 57

57.1

इति श्रीमार्कण्डेयपुराणे गङ्गावतारो नाम षट्पञ्चाशो ऽध्यायः
सप्तपञ्चाशो ऽध्यायः- 57
क्रौष्टुकिरुवाच
भगवन् ! कथितन्त्वेतज्जम्बूद्वीपं समासतः ।
यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम्

57.2

पापाय वा महाभाग ! वर्जयित्वा तु भारतम् ।
इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तञ्च गम्यते

57.3

न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ।
तस्माद्विस्तरशो ब्रह्मन् ! ममैतद्भारतं वद

57.4

ये चास्य भेदा यावन्तो यथावत् स्थितिरेव च ।
वर्षो ऽयं द्विजशार्दूल ! ये चास्मिन् देशपर्वताः

57.5

मार्कण्डेय उवाच
भारतस्यास्य वर्षस्य नव भेदान्निबोध मे ।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम्

57.6

इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा

57.7

अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां हसस्त्रं वै द्वीपो ऽयं दक्षिणोत्तरात्

57.8

पूर्वे किराता यस्यान्ते पश्चिमे यवनास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्तः स्थिता द्विज

57.9

इज्याध्यायवणिज्याद्यैः कर्मभिः कृतपावनाः ।
तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते

57.10

स्वर्गापवर्गप्राप्तिश्च पुण्यं पापञ्च वै तदा ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः

57.11

विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः ।
तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः

57.12

विस्तारोच्छ्रयिणो रम्या विपुलाश्चात्र सानवः ।
कोलाहलः सवैभ्राजो मन्दरो दर्दुराचलः

57.13

वातस्वनो वैद्युतश्च मैनाकः स्वरसस्तथा ।
तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः

57.14

पुष्पो गिरिर्दुर्जयन्तो रैवतोर्ऽबुद एव च ।
ऋष्यमूकः सगोमन्तः कूटशैलः कृतस्मरः

57.15

श्रीपर्वतश्चकोरश्च शतशो ऽन्ये च पर्वताः ।
तैर्विमिश्रा जनपदा म्लेच्छाश्चार्याश्च भागशः

57.16

तैः पीयन्ते सरित्श्रेष्ठा यास्ताः सम्यङ्निबोध मे ।
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा

57.17

यमुना च शतद्रुश्च वितस्तेरावती कुहुः ।
गोमती धूतपापा च बाहुदा सदृशद्वती

57.18

विपाशा देविका रङ्क्षुर्निश्चीरा गण्डकी तथा ।
कौशिकी चापगा विप्र ! हिमवत्पादनिः सृताः

57.19

वेदस्मृतिर्वेदवती वृत्रघ्री सिन्धुरेव च ।
वेण्वा सानन्दनी चैव सदानीरा मही तथा

57.20

पारा चर्मण्वती नूपी विदिशा वेत्रवत्यपि ।
शिप्रा ह्यवर्णो च तथा पारियात्राश्रयाः स्मृताः

57.21

शोणो महानदश्चैव नर्मदा सुरथाद्रिजा ।
मन्दाकिनी दशार्णा च चित्रकूटा तथापरा

57.22

चित्रोत्पला सतमसा करमोदा पिशाचिका ।
तथान्या पिप्पलिश्रोणिर्विपाशा वञ्जुला नदी

57.23

सुमेरुजा शुक्तिमती शकुली त्रिदिवाक्रमुः ।
(विन्ध्य) (स्कन्ध) पादप्रसूता वै तथान्या वेगवाहिनी

57.24

शिप्रा पयोष्णी निर्विन्ध्या तापी सनिषधावती ।
वेण्या वैतरणी चैव सिनीवाली कुमुद्वती

57.25

करतोया महागौरी दुर्गा चान्तः शिरा तथा ।
(ऋक्ष) (विन्ध्य) पादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः

57.26

गोदावरी भीमरथा कृष्णा वेण्या तथापरा ।
तुङ्गभद्रा सुप्रयोगा वाह्या कावेर्यथापगा

57.27

(सह्य) (विन्ध्य) पादविनिष्क्रान्ता इत्येताः सरिदुत्तमाः ।
कृतमाला ताम्रपर्णो पुष्पजा सूत्पलावती

57.28

मलयाद्रिसमुद्भूता नद्यः शीतजलास्त्विमाः ।
पितृसोमर्षिकुल्या च इक्षुका त्रिदिवा च या

57.29

लाङ्गूलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्या कुमारी च मन्दगा मन्दवाहिनी

57.30

कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ।
सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः

57.32

विश्वस्य मातरः सर्वाः सर्वपापहराः स्मृताः ।
अन्याः सहस्रशश्चोक्ताः क्षुद्रनद्यो द्विजोत्तम ॥ मर्क्प्_57. 31 ॥
प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः ।
मत्स्याश्वकूटाः कुल्याश्च कुन्तलाः काशिकोशलाः

57.33

अथर्वाश्चार्कलिङ्गाश्च मलकाश्च वृकैः सह ।
मध्यदेश्या जनपदाः प्रायशो ऽमी प्रकीर्तिताः

57.34

सह्यस्य चोत्तरे या तु यत्र गोदावरी नदी ।
पृथिव्यामपि कृतस्त्रायां स प्रदेशो मनोरमः

57.35

गोवर्धनं पुरं रम्यं भार्गवस्य महात्मनः ।
वाह्लीका वाटधानाश्च आभीराः कालतोयकाः

57.36

अपरान्ताश्च शूद्राश्च पल्लवाश्चर्मखण्डिकाः ।
गान्धारा गबलाश्चैव सिन्धुसौवीरमद्रकाः

57.37

शतद्रुजाः कलिङ्गाश्च पारदा हालमूषिकाः ।
माठरा बहुभद्राश्च कैकेया दशमालिकाः

57.38

क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।
काम्बोजा दरदाश्चैव वर्वरा हर्षवर्धनाः

57.39

चीनाश्चैव तुखाराश्च बहुला बाह्यतोनराः ।
आत्रेयाश्च भरद्वाजाः पुष्कलाश्च कशेरुकाः

57.40

लम्पाकाः शूलकाराश्च चूलिका जागुडैः सह ।
औषधाश्चानिमद्राश्च किरातानाञ्च जातयः

57.41

तामसा हंसमार्गाश्च काश्मीरास्तुङ्गनास्तथा ।
शूलिकाः कुहकाश्चैव ऊर्णा दर्वास्तथैव च

57.42

एते देशा ह्युदीच्यास्तु प्राच्यान्देशान्निबोध मे ।
अध्रारका मुदकरा अन्तर्गिर्या बहिर्गिराः

57.43

यथा प्रवङ्गा रङ्गेया मानदा मानवर्तिकाः ।
ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः

57.44

प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।
मल्ला मगधगोमन्ताः प्राच्या जनपदाः स्मृताः

57.45

अथापरे जनपदा दक्षिणापथवासिनः ।
पुण्ड्राश्च केवलाश्चैव गोलाङ्गूलास्तथैव च

57.46

शैलूषा मूषिकाश्चैव कुसुमा नामवासकाः ।
महाराष्ट्रा माहिषका कलिङ्गाश्चैव सर्वशः

57.47

आभीराः सह वैशिक्या आढक्याः शबराश्च ये ।
पुलिन्दा विन्ध्यमौलेया वैदर्भा दण्डकैः सह

57.48

पौरिका मौलिकाश्चैव अश्मका भोगवर्धनाः ।
नैषिकाः कुन्तला अन्धा उदिभदा वनदारकाः

57.49

दाक्षिणात्यास्त्वमी देशा अपरान्तान् निबोध मे ।
सूर्पारकाः कालिबला दुर्गाश्चानीकटैः सह

57.50

पुलिन्दाश्च सुमीनाश्च रूपपाः स्वापदैः सह ।
तथा कुरुमिनश्चैव सर्वे चैव कठाक्षराः

57.51

नासिक्यावाश्च ये चान्ये ये चैवोत्तरनर्मदाः ।
भीरुकच्छाः समाहेयाः सह सारस्वतैरपि

57.52

काश्मीराश्च सुराष्ट्राश्च अवन्त्याश्चार्बुदैः सह ।
इत्येते ह्यपरान्ताश्च शृणु विन्ध्यनिवासिनः

57.53

सरजाश्च करूषाश्च केरलाश्चोत्कलैः सह ।
उत्तमर्णा दशार्णाश्च भोज्याः किष्किन्धकैः सह

57.54

तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ।
तुम्बुरास्तुम्बुलाश्चैव पटवो नैषधेः सह

57.55

अन्नजास्तुष्टिकाराश्च वीरहोत्रा ह्यवन्तयः ।
एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः

57.56

अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये ।
नीहारा हंसमार्गाश्च कुरवो गुर्गणाः खसाः

57.57

कुन्तप्रावरणाश्चैव ऊर्णा दार्वाः सकृत्रकाः ।
त्रिगर्ता गालवाश्चैव किरातास्तामसैः सह

57.58

कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ।
एतत्तु भारतं वर्षं चतुः संस्थानसंस्थितम्

57.59

दक्षिणापरतो ह्यस्य पूर्वेण च महोदधिः ।
हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः

57.60

तदेतद् भारतं वर्षं सर्वबीजं द्विजोत्तम ।
ब्रह्मत्वममरेशत्वं देवत्वं मरुतस्तथा

57.61

मृगपश्वप्सरोयोनिस्तद्वत् सर्वे सरीसृपाः ।
स्थावराणाञ्च सर्वेषामितो ब्रह्मन् ! शुभाशुभैः

57.62

प्रयाति कर्मभूर्ब्रह्मन् ! नान्या लोकेषु विद्यते ।
देवानामपि विप्रर्षे ! सदा एष मनोरथः

57.63

अपि मानुष्यमाप्स्यामो देवत्वात् प्रच्युताः क्षितौ ।
मनुष्यः कुरुते तत्तु यन्न शक्यं सुरासुरैः

57.64

तत्कर्मनिगडग्रस्तैः स्वकर्मख्यापनोत्सुकः ।
न किञ्चित् क्रियते कर्म सुखलेशोपबृंहितैः

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc