भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 55

55.1

इति श्रीमार्कण्डेयपुराणे भुवनकोशठजम्बूद्वीपवर्णनंऽ नाम चतुः पञ्चाशो ऽध्याय
पञ्चपञ्चाशो ऽध्यायः- 55
मार्कण्डेय उवाच
शैलेषु मन्दाराद्येषु चतुर्ष्वपि द्विजोत्तम ।
वाननि यानि चत्वारि सरांसि च निबोध मे

55.2

पूर्वं चैत्ररथं नाम दक्षिणे नन्दनं वनम् ।
वैभ्राजं पश्चिमे शैले सावित्रं चोत्तराचले

55.3

अरुणोदं सरः पूर्वं मानसं दक्षिणे तथा ।
शीतोदं पश्चिमे मेरोर्महाभद्रं तथोत्तरे

55.4

शीतार्तश्चक्रमुञ्जश्च कुलीरो ऽथ सुकङ्कवान् ।
मणिशैलो ऽथ वृषवान् महानीलो भवाचलः

55.5

सूबिन्दुर्मन्दरो वेणुस्तामसो निषधस्तथा ।
देवशैलश्च पूर्वेण मन्दरस्य महाचलः

55.6

त्रिकटशिखराद्रिश्च कलिङ्गो ऽथ पतङ्गकः ।
रुचकः सानुमांश्चाद्रिस्ताम्रको ऽथ विशाखवान्

55.7

श्वेतोदरः समूलश्च वसुधारश्च रत्नवान् ।
एकशृङ्गो महाशैलो राजशालः पिपाठकः

55.8

पञ्चशैलो ऽथ कैलासो हिमवांश्चाचलोत्तमः ।
इत्येते दक्षिणे पार्श्वे मेरोः प्रोक्ता महाचलाः

55.9

सुरक्षः शिशिराक्षश्च वैदुर्यः कपिलस्तथा ।
पिञ्जरो ऽथ महाभद्रः सुरसः पिङ्गलो मधुः

55.10

अञ्जनः कुक्कुटः कृष्णः पाण्डरश्चालोत्तमः ।
सहस्रशिखरश्चाद्रिः पारियात्रः सशृङ्गवान्

55.11

पश्चिमेन तथा मेरोर्विस्कम्भात् पश्चिमाद्वहिः ।
एते ऽचलाः समाख्याताः शृणुष्वन्यांस्तथोत्तरान्

55.12

शङ्खकूटो ऽथ वृषभो हंसनाभस्तथाचलः ।
कपिलेन्द्रस्तथा शैलः सानुमान् नील एव च

55.13

स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्वतः ।
विरजाक्षो वराहाद्रिर्मयूरो जारुधिस्तथा

55.14

इत्येते कथिता ब्रह्मन् ! मेरोरुत्तरतो नगाः ।
एतेषां पर्वतानान्तु द्रौण्यो ऽतीव मनोहराः

55.15

वनैरमलपानीयैः सरोभिरुपशोभिताः ।
तासु पुण्यकृतां जन्म मनुष्याणां द्विजोत्तम

55.16

एते भौमा द्विजश्रेष्ठ ! स्वर्गाः स्वर्गगुणाधिकाः ।
न तासु पुण्यपापानामपूर्वाणामुपार्जनम्

55.17

पुण्योपभोगा एवोक्ता देवानामपि तास्वपि ।
शीतान्ताद्येषु चैतषु शैलेषु द्विजसत्तम

55.18

विद्याधराणां यक्षाणां किन्नरोरगरक्षसाम् ।
देवानाञ्च महावासा गन्धर्वाणां च शोभनाः

55.19

महापुण्या मनोज्ञैश्च सदैवोपवनैर्युताः ।
सरांसि च मनोज्ञानि सर्वर्तुसुखदो ऽनिलः

55.20

न चैतेषु मनुष्याणां वैमनस्यानि कुत्रचित् ।
तदेवं पार्थिवं पद्मं चतुष्पत्रं मयोदितम्

55.21

भद्राश्चभारताद्यानि पत्राण्यस्य चतुर्दिशम् ।
भारतं नाम यद्वर्षं दक्षिणेन मयोदितम्

55.22

तत् कर्मभूमिर्नान्यत्र संप्राप्तिः पुण्यपापयोः ।
एतत् प्रधानं विज्ञेयं यत्र सर्वं प्रतिष्ठितम्

55.23

तस्मात् स्वर्गापवर्गौ च मानुष्यनारकावपि ।
तिर्यक्त्वमथवाप्यन्यत् नरः प्राप्नोति वै द्विज

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc