मार्कण्डेय पुराण · अध्याय 5
इति श्रीमार्कण्डेयपुराणे चतुर्व्यूहावतारो नाम द्वितीयो ऽध्यायः
पञ्चमो ऽध्यायः
पक्षिण ऊचुः
त्वष्टृपुत्रे हते पूर्वं ब्रह्मन्निन्द्रस्य तेजसः ।
ब्रह्महत्याभिभूतस्य परा हानिरजायत
तद्धमं प्रविवेशाथ शाक्रतेजो ऽपचारतः ।
निस्तेजाश्चाभवच्छक्रो धर्मे तेजसि निर्गते
ततः पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः ।
अवलुञ्च्य जटामेकामिदं वचनमब्रवीत्
अद्य पश्यन्तु मे वीर्यं त्रयो लोकाः सदेवताः ।
स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः
स्वकर्माभिरतो येन मत्सुतो विनपातितः ।
इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम्
ततो वृत्रः समुत्तस्थौ ज्वालामाली महासुरः ।
महाकायो महादंष्ट्रो भिन्नाञ्जनचयप्रभः
इन्द्रशत्रुरमेयात्मा त्वष्टृतेजोपबृंहितः ।
अहन्यहनि सो ऽवर्धदिषुपातं महाबलः
वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम् ।
प्रेषयामास सप्तर्षोन् सन्धिमिच्छन् भयातुरः
सख्यञ्चक्रुस्ततस्तस्य वृत्रेण समयांस्तथा ।
ऋषयः प्रीतमनसः सर्वभूतहिते रताः
समयस्थितिमुल्लङ्घ्य यदा शक्रेण घातितः ।
वृत्रो हत्याभिभूतस्य तदा बलमशीर्यत
तच्छक्रदेहविभ्रष्टं बलं मारुतमाविशत् ।
सर्वव्यापिनमव्यक्तं बलस्यैवाधिदैवतम्
अहल्याञ्च यदा शक्रो गौतमं रूपमास्थितः ।
धर्षयामास देवेन्द्रस्तदा रूपमहीयत
अङ्गप्रत्यङ्गलावण्यं यदतीव मनोरम् ।
विहाय दुष्टं देवेन्द्रं नासत्यावगमत् ततः
धर्मेण तेजसा त्यक्तं बलहीनमरूपिणम् ।
ज्ञात्वा सुरेशं दैतेयास्तज्जये चक्रुरुद्यमम्
राज्ञामुद्रिक्तवीर्याणां देवेन्द्रं विजिगीषवः ।
कुलेष्वतिबला दैत्या अजायन्त महामुने
कस्यचित्त्वथ कालस्य धरणी भारपीडिता ।
जगाम मेरुशिखरं सदो यत्र दिवौकसाम्
तेषां सा कथयामास भूरिभारावपीडिता ।
दनुजात्मजदैत्योत्थं खेदकारणमात्मनः
एते भवद्भिरसुरा निहताः पृथुलौजसः ।
ते सर्वे मानुषे लोके जाता गेहेषु भूभृताम्
अक्षौहिण्यो हि बहुलास्तद्भारार्ता व्रजाम्यधः ।
तथा कुरुध्वं त्रिदशा यथा शान्तिर्भवेन्मम
पक्षिण ऊचुः
तेजोभागैस्ततो देवा अवतेरुर्दिवो महीम् ।
प्रजानामुपकारार्थं भूभारहरणाय च
यदिन्द्रदेहजं तेजस्तन्मुमोच स्वयं वृषः ।
कुन्त्या जातो महातेजास्ततो राजा युधिष्ठिरः
बलं मुमोच पवनस्ततो भीमो व्यजायत ।
शक्रवीर्यार्धतश्चैव जज्ञे पार्थो धनञ्जयः
उत्पन्नौ यमजौ माद्रयां शक्ररूपौ महाद्युती ।
पञ्चधा भगवानित्थमवतीर्णः शतक्रतुः
तस्योत्पन्ना महाभागा पत्नी कृष्णा हुताशनात्
शक्रस्यैकस्य सा पत्नी कृष्णा नान्यस्य कस्यचित् ।
योगीश्वराः शरीराणि कुर्वन्ति बहुलान्यपि
पञ्चानामेकपत्नीत्वमित्येतत् कथितं तव ।
श्रूयतां बलदेवो ऽपि यथा यातः सरस्वतीम्
मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0