मार्कण्डेय पुराण · अध्याय 44
इति श्रीमार्कण्डेयपुराणे अरिष्टकथनं नाम त्रिचत्वारिंशो ऽध्यायः
चतुश्चत्वारिंशो ऽध्यायः
सुबाहुरुवाच
यदर्थं नृपशार्दूल ! त्वामहं शरणं गतः ।
तन्मया सकलं प्राप्तं यास्यामि त्वं सुखी भव
काखिराज उवाच
किं निमित्तं भवान् प्राप्तो निष्पन्नोर्ऽथश्च कस्तव ।
सुबाहो ! तन्ममाचक्ष्व परं कौतूहलं हि मे
समाक्रान्तमलर्केण पितृपैतामहं महत् ।
राज्यं देहीति निर्जित्य त्वयाहमभिचोदितः
ततो मया समाक्रम्य राज्यमस्यानुजस्य ते ।
एतत्ते बलमानीतं तद्भुङ्क्ष्वस्वकुलोचितम्
सुबाहुरुवाच
काशिराज ! निबोध त्वं यदर्थमयमुद्यमः ।
कृतो मया भवांश्चैव कारितो ऽत्यन्तमुद्यमम्
भ्राता ममायं ग्राम्येषु सक्तो भोगेषु तत्त्ववित् ।
विमूढौ बोधवन्तौ च भ्रातरावग्रजौ मम
तयोर्मम च यन्मात्रा बाल्ये स्तन्यं यथा मुखे ।
तथावबोधो विन्यस्तः कर्णयोरवनीपते
तयोर्मम च विज्ञेयाः पदार्था ये मता नृभिः ।
प्राकाश्यं मनसो नीतास्ते मात्रा नास्य पार्थिव
यथैकमर्थे यातानामेकस्मिन्नवसीदति ।
दुः खं भवति साधूनां ततास्माकं महीपते
गार्हस्थ्यमोहमापन्ने सीदत्यस्मिन्नरेश्वर ।
सम्बन्धिन्यस्य देहस्य बिभ्रति भ्रातृकल्पनाम्
ततो मया विनिश्चित्य दुः खाद्वैराग्यभावना ।
भविष्यतीत्यस्य भवानित्युद्योगाय संश्रितः
तदस्य दुः खाद्वैराग्यं संबोधादवनीपते ।
समुद्भूतं कृतं कार्यं भद्रं ते ऽस्तु व्रजाम्यहम्
उष्ट्वा मदालसागर्भे पीत्वा सत्सास्तथा स्तनम् ।
नान्यनारीसुतैर्यातं वर्त्म यात्विति पार्थिव
विचार्य तन्मया सर्वं युष्मत्संश्रयपूर्वकम् ।
कृतं तच्चापि निष्पन्नं प्रयास्ये सिद्धये पुनः
उपेक्ष्यते सीदमानः स्वजनो बान्धवः सुहृत् ।
यैर्नरेन्द्र ! न तान् मन्ये सेन्द्रिया विकला हि ते
सुहृदि स्वजने बन्धौ समर्थे यो ऽवसीदति ।
धर्मार्थकाममोक्षेभ्यो वाच्यास्ते तत्र न त्वसौ
एतत् त्वत्सङ्गमाद् भूप ! मया कार्यं महत् कृतम् ।
स्वस्ति ते ऽस्तु गमिष्यामि ज्ञानभाग्भव सत्तम
काशिराज उवाच
उपकारस्त्वया साधोरलर्कस्य कृतो महान् ।
ममोपकाराय कथं न करोषि स्वमानसम्
फलदायी सतां सदिभः सङ्गमो नाफलो यतः ।
तस्मात्तवत्संश्रयाद्युक्ता मया प्राप्ता समुन्नतिः
सुबाहुरुवाच
धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् ।
तत्र धर्मार्थकामास्ते सकला हीयते ऽपरः
तत्ते संक्षेपतो वक्ष्ये तदिहैकमनाः शृणु ।
श्रुत्वा च सम्यगालोच्य यतेथाः श्रेयसे नृप
ममेतिप्रत्ययो भूप ! न कार्यो ऽहमिति त्वया ।
सम्यगालोच्य धर्मो हि धर्माभावे निराश्रयः
कस्याहमिति संज्ञेयमित्यालोच्य त्वयात्मना ।
बाह्यन्तर्गतमालोच्यमालोच्यापररात्रिषु
अव्यक्तादिविशेषन्तमविकारमचेतनम् ।
व्यक्ताव्यक्तं त्वया ज्ञेयं ज्ञाता कश्चाहमित्युत
एतस्मिन्नेव विज्ञाने विज्ञातमखिलं त्वया ।
अनात्मन्यात्मविज्ञानमखे खमिति मूढता
सो ऽहं सर्वगतो भूप ! लोकसंव्यवहारतः ।
मयेदमुच्यते सर्वं त्वया पृष्टो व्रजाम्यहम्
एवमुक्त्वा ययौ धीमान् ! सुबाहुः काशिभूमिपम् ।
काशिराजो ऽपि संपूज्य सो ऽलर्कं स्वपुरं ययौ
अलर्को ऽपि सुतं ज्येष्ठमभिषिच्य नराधिपम् ।
वनं जगाम सन्त्यक्तसर्वसङ्गः स्वसिद्धये
ततः कालेन महाता निर्द्वन्द्वो निष्परिग्रहः ।
प्राप्य योगर्धिमतुलां परं निर्वाणमाप्तवान्
पश्यन् जगदिदं सर्वं सदेवासुरमानुषम् ।
पाशैर्गुणमयैर्बद्धं बध्यमानञ्च नित्यशः
पुत्रादिभ्रातृपुत्रादि-स्वपारक्यादिभावितैः ।
आकृष्यमाणं करणैर्दुःखार्तं भिन्नदर्शनम्
अज्ञानपङ्कगर्भस्थमनुद्धारं महामतिः ।
आत्मानञ्च समुत्तीर्णं गाथामेतामगायत
अहो कष्टं यदस्माभैः पूर्वं राज्यमनुष्ठितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्
जड उवाच
तातैनं त्वं समातिष्ठ मुक्तये योगमुत्तमम् ।
प्राप्स्यसे येन तद् ब्रह्म यत्र गत्वा न शोचसि
ततो ऽहमपि यास्यामि किं यज्ञैः किं जपेन मे ।
कृतकृत्यस्य करणं ब्रह्मभावाय कल्पते
त्वत्तो ऽनुज्ञामवाप्याहं निर्द्वन्द्वो निष्परिग्रहः ।
प्रयतिष्ये तथा मुक्तौ यथा यास्यामि निर्वृतिम्
पक्षिण ऊचुः
एवमुक्त्वा स पितरं प्राप्यानुज्ञां ततश्च सः ।
ब्रह्मन् ! जगाम मेधावी परित्यक्तपरिग्रहः
सो ऽपि तस्य पिता तद्वत् क्रमेण सुमहामतिः ।
वानप्रस्थं समास्थाय चतुर्थाश्रममभ्यगात्
तत्रात्मजं समासाद्य हित्वा बन्धं गुणादिकम् ।
प्राप सिद्धिं परां प्राज्ञस्तत्कालोपात्तसंमतिः
एतत्ते कथितं ब्रह्मन् ! यत्पृष्टा भवता वयम् ।
सुविस्तरं यथावच्च किमन्यच्छ्रोतुमिच्छसि
मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0