मार्कण्डेय पुराण · अध्याय 39
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे प्रश्नाध्यायो नामाष्टत्रिंशो ऽध्यायः
éééåßञ्।
युञ्जतश्च सदा योगं यादृग्विहितमासनम्
पद्ममर्धासनञ्चापि तथा स्वस्तिकमासनम् ।
आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि
समः समासनो भूत्वा संहृत्य चरणावुभौ ।
संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः
पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः ।
किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत्
सम्पश्यन् नासिकाग्रं स्वं दिशश्चानवलोकयन् ।
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा
सञ्छाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च
निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ।
यस्तु प्रत्याहरेत्कामान सर्वाङ्गानीव कच्छपः
सदात्मरतिरेकस्थः वश्यत्यात्मानमात्मनि ।
स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः
पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ।
प्राणायामा दश द्वौ च धारणा साभिधीयते
द्वे धारणे स्मृते योगे योगिभिस्तत्त्वदृष्टिभिः ।
तथा वै योगयुक्तस्य योगिनो नियतात्मनः
सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ।
वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान् पृथक्
व्योमादिपरमाणूंश्च तथात्मानमकल्मषम् ।
इत्थं योगी यताहारः प्राणायामपरायणः
जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ।
दोषान् व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता
विवर्धयति नारोहेत्तस्माद् भूमिमनिर्जिताम् ।
प्राणानामुपसंरोधात् प्राणायाम इति स्मृतः
धारणेत्युच्यते चेयं धार्यते यन्मनो यथा ।
शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः
प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ।
उपायश्चात्र कथितो योगिभिः परमर्षिभिः
येन व्याध्यादयो दोषा न जायन्ते हि योगिनः ।
यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः
आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः ।
प्राङ्नाभ्यां हृदये चात्र तृतीये च तथोरसि
कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्धसु ।
किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता
दशैता धारणा प्राप्य प्राप्रोत्यक्षरसाम्यताम् ।
नाध्मातः क्षुधितः श्रान्तो न च व्याकुलचेतनः
युञ्जीत योगं राजेन्द्र ! योगी सिद्ध्यर्थमादृतः ।
नातिशीते न चोष्णे वै न द्वन्द्वे नानिलात्मके
कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः ।
सशब्दाग्निजालभ्यासे जीर्णगोष्ठे चतुष्पथे
शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ।
सभये कूपतीरे वा चैत्यवल्मीकसञ्चये
देशेष्वेतेषु तत्त्वज्ञो योगाभ्यासं विवर्जयेत् ।
सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत्
नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् ।
देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै
विघ्राय तस्य वै दोषा जायन्ते तन्निबोध मे ।
बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता
ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः ।
प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम्
तेषां नाशाय कर्तव्यं योगिनां तन्निबोध मे ।
स्त्रिग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत्
वात-गुल्मप्रशान्त्यर्थमुदावर्ते तथोदरे ।
यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत्
तद्वत्कम्पे महाशैलं स्थिरं मनसि धारयेत् ।
विघाते वचसो वाचं बाधिर्ये श्रवणेन्द्रियम्
यथैवाम्रफलं ध्यायेत् तृष्णार्तो रसनेन्द्रिये ।
यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम्
धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् ।
कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताडयेत्
लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ।
द्यावापृथिव्यौ वाय्वग्री व्यापिनावपि धारयेत्
अमानुषात् सत्त्वजाद्वा बाधास्त्वेताश्चिकित्सिताः ।
अमानुषं सत्त्वमन्तर्योगिनं प्रविशेद्यदि
वाय्वग्रीधारणेनैनं देहसंस्थं विनिर्दहेत् ।
एवं सर्वात्मना रक्षा कार्या योगविदा नृप !
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।
प्रवृत्तिलक्षणाख्यानाद्योगिनो विस्मयात्तथा ।
विज्ञानं विलयं याति तस्माद् गोप्याः प्रवृत्तयः
आलोल्यमारोग्यमनिष्ठुरत्वं
गन्धः शुभो मूत्रपुरीषमल्पम् ।
कान्तिः प्रसादः स्वरसौम्यता च
योगप्रवृत्तेः प्रथमं हि चिह्नम्
अनुरागी जनो याति परोक्षे गुणकीर्तनम् ।
न बभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम्
शीतोष्णादिभिरत्युग्रैर्यस्य बाधा न विद्यते ।
न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता
मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0