भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 20

20.1

इति श्रीमार्कण्डेयपुराणे दत्तात्रेयीये ऊनविंशो ऽध्यायः
विंशो ऽध्यायः
जड उवाच
प्राग्बभूव महावीर्यः शत्रुजिन्नाम पार्थिवः ।
तुतोष यस्य यज्ञेषु सोमावाप्त्या पुरन्दरः

20.2

तस्यात्मजो महावीर्यो बभूवारिविदारणः ।
बुद्धि-विक्रम-लावण्यैर्गुरुशक्राश्विभिः समः

20.3

स समानवयो-बुद्धि-सत्त्व-विक्रम-चेष्टितैः ।
नृपपुत्रो नृपसुतैर्नित्यमास्ते समावृतः

20.4

कदाचिच्छास्त्रसम्भार-विवेककृतनिश्चयः ।
कदाचित् काव्यसंलाप-गीत-नाटकसम्भवैः

20.5

तथैवाक्षविनोदैश्च शस्त्रास्त्रविनयेषु च ।
योग्यानि युद्धनागाश्व-स्यन्दनाभ्यासतत्परः

20.6

रेमे नरेन्द्रपुत्रो ऽसौ नरेन्द्रतनयैः सह ।
यथैव हि दिवा तद्वद्रात्रवपि मुदा युतः

20.7

तेषां तु क्रीडतां तत्र द्विज-भूप-विशां सुताः ।
समानवयसः प्रीत्या रन्तुमायान्त्यनेकशः

20.8

कस्यचित्त्वथ कालस्य नागलोकान्महीतलम् ।
कुमारावागतौ नागौ पुत्रावश्वतरस्य तु

20.9

ब्रह्मरूपप्रतिच्छन्नौ तरुणौ प्रियदर्शनौ ।
तौ तैर्नृपसुतैः सार्धं तथैवान्यैर्द्विजन्मभिः

20.10

विनोदैर्विविधैस्तत्र तस्थतुः प्रीतिसंयुतौ ।
सर्व च ते नृपसुतास्ते च ब्रह्मविशां सुताः

20.11

नागराजात्मजौ तौ च स्त्रानसंवाहनादिकम् ।
वस्त्रगन्धानुसयुक्तां चक्रुर्भागभुजिक्रियाम्

20.12

अहन्यहन्यनुप्राप्ते तौ च नागकुमारकौ ।
आजग्मतुर्मुदा युक्तौ प्रीत्या सूनोर्महीपतेः

20.13

स च ताभ्यां नृपसुतः परं निर्वाणमाप्तवान् ।
विनोदैर्विविधैर्हास्य-संलापादिभिरेव च

20.14

विना ताभ्यां न बुभुजे न सस्त्रौ न पपौ मधु ।
न रराम न जग्राह शास्त्राण्यात्मगुणर्धये

20.15

रसातले च तौ रात्रिं विना तेन महात्मना ।
निश्वासपरमौ नीत्वा जग्मतुस्तं दिने दिने

20.16

मर्त्यलोके परा प्रीतिर्भवतोः केन पुत्रकौ ।
सहेति पप्रच्छ पिता तावुभौ नागदारकौ

20.17

दृष्टयोरत्र पाताले बहूनि दिवसानि मे ।
दिवा रजन्यामेवोभौ पश्यामि प्रियदर्शनौ

20.18

जड उवाच
इति पित्रा स्वयं पृष्टौ प्रणिपत्य कृताञ्जली ।
प्रत्यूचतुर्महाभागावुरगाधिपतेः सुतौ

20.19

पुत्रावूचतुः
पुत्रः शत्रुजितस्तात नाम्ना ख्यात ऋतध्वजः ।
रूपवानार्जवोपेतः शूरो मानी प्रियंवदः

20.20

अनापृष्टकथो वाग्ग्मी विद्वान् मैत्रो गुणाकरः ।
मान्यमानयिता धीमान् ह्रीमान् विनयभूषणः

20.21

तस्योपचारसम्प्रीति-सम्बोगापहृतं मनः ।
नागलोके भुवर्लोके न रतिं विन्दते पितः

20.22

तद्वियोगेन नस्तात ! न पातालञ्च शीतलम् ।
परितापाय तत्सङ्गादाह्लादाय रविर्दिवा

20.23

पितोवाच
पुत्रः पुण्यवतो धन्यः स यस्यैवं भविद्विधैः ।
परोक्षस्यापि गुणिभैः क्रियते गुणकीर्तनम्

20.24

सन्ति शास्त्रविदो ऽशीलाः सन्ति मूर्खाः सुशीलिनः ।
शास्त्रशीले समं मन्ये पुत्रौ धन्यतरन्तु तम्

20.25

तस्य मित्रगुणान् मित्राण्यमित्राश्च पराक्रमम् ।
कथयन्ति सदा सत्सु पुत्रवांस्तेन वै पिता

20.26

तस्योपकारिणः कच्चिद् भवद्भ्यामभिवाञ्छितम् ।
किञ्चिन्निष्पादितं वत्सौ परितोषाय चेतसः

20.27

स धन्यो जीवितं तस्य तस्य जन्म सुजन्मनः ।
यस्यार्थिनो न विमुखा मित्रार्थो न च दुर्बलः

20.28

मद्गृहे यद् सुवर्णादि रत्नं वाहनमासनम् ।
यच्चान्यत् प्रीतये तस्य तद्देयमविशङ्कया

20.29

धिक् तस्य जीवितं पुंसो मित्राणामुपकारिणाम् ।
प्रतिरूपमकुर्वन् यो जीवामीत्यवगच्छति

20.30

उपकारं सुहृद्वर्गे यो ऽपकारञ्च शत्रुषु ।
नृमेघो वर्षति प्राज्ञास्तस्येच्छन्ति सदोन्नतिम्

20.31

पुत्रावूचतुः
किं तस्य कृतकृत्यस्य कर्तुं शक्येत केनचित् ।
यस्य सर्वार्थिनो गेहे सर्वकामैः सदार्च्चिताः

20.32

यानि रत्नानि तद्गेहे पाताले तानि नः कुतः ।
वाहनासनयानानि भूषणान्यम्बराणि च

20.33

विज्ञानं तत्र यच्चास्ति तदन्यत्र न विद्यते ।
प्राज्ञानामप्यसौ तात सर्वसन्देहहृत्तमः

20.34

एकं तस्यास्ति कर्तव्यमसाध्यं तच्च नौ मतम् ।
हिरण्यगर्भ-गोविन्द-शर्वादीनीश्वरादृते

20.35

पितोवाच
पथापि श्रोतुमिच्छामि तस्य यद् कार्यमुत्तमम् ।
असाध्यमथवा साध्यं किं वासाध्यं विपश्चिताम्

20.36

देवत्वममरेशत्वं तत्पूज्यत्वञ्च मानवाः ।
प्रयान्ति वाञ्छितं वान्यद् दृढं ये व्यवसायिनः

20.37

नाविज्ञातं न चागम्यं नाप्राप्यं दिवि चेह वा ।
उद्यतानां मनुष्याणां यतचित्तेन्द्रियात्मनाम्

20.38

योजनानां सहस्राणि व्रजन् याति पितीलिकः ।
अगच्छन् वैनतेयो ऽपि पादमेकं न गच्छति

20.39

क्व भूतलं क्व च ध्रौव्यं स्थानं यत् प्राप्तवान् ध्रुवः ।
उत्तानपादनृपतेः पुत्रः सन् भूमिगोचरः

20.40

तत् कथ्यतां महाभाग कार्यवान् येन पुत्रकौ ।
स भूपालसुतः साधुर्येनानृण्यं भवेत वाम्

20.41

पुत्रावूचतुः
तेनाख्यातमिदं तात पूर्ववृतं महात्मना ।
कौमारके यथा तस्य वृतं सद्वृत्तशालिनः

20.42

तन्तु शत्रुजितं तात पूर्वं कश्चिदिद्वजोत्तमः ।
गालवो ऽभ्यागमद्धीमान् गृहीत्वा तुरगोत्तमम्

20.43

प्रत्युवाच च राजानं समुपेत्याश्रमं मम ।
को ऽपि दैत्याधमो राजन् विध्वंसयति पापकृत्

20.44

तत्तद्रूपं समास्थाय सिंहेभ-वनचारिणाम् ।
अन्येषाञ्चाल्पकायानामहर्निशमकारणात्

20.45

समाधिध्यानयुक्तस्य मौनव्रतरतस्य च ।
तथा करोति विघ्रानि यथा चलति मे मनः

20.46

दग्धं कोपाग्निना सद्यः समर्थस्त्वं वयं न तु ।
दुः खार्जितस्य तपसो व्ययमिच्छामि पार्थिव

20.47

एकदा तु मया राजन्नतिनिर्विण्णचेतसा ।
तत् क्लेशितेन निश्वासो निरीक्ष्यासुरमुज्झितः

20.48

ततो ऽम्बरतलात् सद्यः पतितो ऽयं तुरङ्गमः ।
वाक् चाशरीरिणी प्राह नरनाथ शृणुष्व ताम्

20.49

अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः ।
समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः

20.50

पातालाम्बरतोयेषु न चास्य विहता गतिः ।
समस्तदिक्षु व्रजतो न भङ्गः पर्वतेष्वपि

20.51

यतो भूवलयं सर्वमश्रान्तो ऽयं चरिष्यति ।
अतः कुवलयो नाम्ना ख्यातिं लोके प्रयास्यति

20.52

क्लिश्यत्यहर्निशं पापो यश्च त्वां दानवाधमः ।
तमप्येनं समारुह्य द्विजश्रेष्ठ हनिष्यति

20.53

शत्रुजिन्नाम भूपालस्तस्य पुत्र ऋतध्वजः ।
प्राप्यैतदश्वरत्नञ्च ख्यातिमेतेन यास्यति

20.54

सो ऽहं त्वां समनुप्राप्तस्तपसो विघ्रकारिणम् ।
तं निवारय भूपाल भागभाङ्नृपतिर्यतः

20.55

तदेतश्वरत्नं ते मया भूप निवेदितम् ।
पुत्रमाज्ञापय तथा यथा धर्मो न लुप्यते

20.56

स तस्य वचनाद्राजा तं वै पुत्रमृतध्वजम् ।
तमश्वरत्नमारोप्य कृतकौतुकमङ्गलम्

20.57

अप्रेषयत धर्मात्मा गालवेन समं तदा ।
स्वमाश्रमपदं सो ऽपि तमादाय ययौ मुनिः

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc